राजसूयानुब्राह्मणम्
विश्वास-प्रस्तुतिः
“अ॒ग्नये॑ दे॒वेभ्य॑ᳶ पि॒तृभ्य॑स् समि॒ध्यमा॑ना॒यानु॑ ब्रू॒ही"त्य् आ॑ह ।
मूलम्
“अ॒ग्नये॑ दे॒वेभ्य॑ᳶ पि॒तृभ्य॑स् समि॒ध्यमा॑ना॒यानु॑ ब्रू॒ही"त्य् आ॑ह ।
भट्टभास्कर-टीका
1 अग्नयेदेवेभ्य इत्यादि ॥ सामिधेनीसंप्रैषोऽयम् । देवार्थं पित्रर्थं च अग्नयेसमिध्यमानायानुब्रूहिसामिधेनीरनुब्रूहीति ।
विश्वास-प्रस्तुतिः
उ॒भये॒ हि दै॒वाश् च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
मूलम्
उ॒भये॒ हि दै॒वाश् च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
भट्टभास्कर-टीका
अत्रयत्देवेभ्यः पितृभ्यः इति उभयमुच्यतेतत्राभिप्रायमाह- उभयेहीति । ‘अग्नयेसमिध्यमानायानुब्रूहि’ इति प्राकृतः । वैकृतः - ‘देवेभ्यः पितृभ्यः ’ इति प्रक्षिप्यते, उभयोरत्रेज्यमानत्वात् । उपलक्षणं चेदं अन्यत्रापिसहकीर्तनं ‘देवबर्हिश्शतवल्शम्’ इत्यादि ॥
विश्वास-प्रस्तुतिः
एका॒मन्वा॑ह ।
एका॒ हि पि॑तृ॒णाम् ।
मूलम्
एका॒मन्वा॑ह ।
एका॒ हि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
2 एकामिति ॥ ‘उशन्तस्त्वा’ इति एकामेवऋचं अन्वाह । एकत्वसं ख्याहिपितृणां प्रिया ‘सकृदिवहिपितरः ’ इति ।
विश्वास-प्रस्तुतिः
त्रिरन्वा॑ह ।
त्रिर्हि दे॒वाना॑म् ।
मूलम्
त्रिरन्वा॑ह ।
त्रिर्हि दे॒वाना॑म् ।
भट्टभास्कर-टीका
तामेकामृचं त्रिरन्वाह । त्रिर्हिदेवानां संबन्धिक्रियते ‘त्रिषत्या हि देवाः ’ इति ॥
मूलम्
आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै ।
विश्वास-प्रस्तुतिः
आ॒घा॒रावाघा॑रयति॒ यज्ञप॒रुषो॒रन॑न्तरित्यै ।
मूलम्
आ॒घा॒रावाघा॑रयति॒ यज्ञप॒रुषो॒रन॑न्तरित्यै ।
भट्टभास्कर-टीका
3 आघारावाघारयतीति । प्राप्तस्यैववचनं फलविशेषवत्तया अवश्यकर्तव्यत्वख्यापनार्थम् । तदाह-यज्ञपरुषोः यज्ञस्यपर्वणोरन्तरिति र्विलोपोमाभूदिति तयोस्सर्वाहुतिव्यवस्थानात् ॥
विश्वास-प्रस्तुतिः
नार्षे॒यव्ँ वृ॑णीते ।
न होता॑रम् +++(वृणीते)+++॥61॥
मूलम्
नार्षे॒यव्ँ वृ॑णीते ।
न होता॑रम् +++(वृणीते)+++॥61॥
मूलम्
यदा॑र्षे॒यव्ँवृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
विश्वास-प्रस्तुतिः
यदा॑र्षे॒यव्ँ वृ॑णी॒त , यद् धोता॑रम् प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
प्र॒मायु॑को॒ होता॑ +++(स्यात्)+++ ।
मूलम्
यदा॑र्षे॒यव्ँ वृ॑णी॒त , यद् धोता॑रम् प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
प्र॒मायु॑को॒ होता॑ +++(स्यात्)+++ ।
मूलम्
तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ ।
विश्वास-प्रस्तुतिः
तस्मा॒न् न वृ॑णीते॒ यज॑मानस्य॒ होतु॑र् गोपी॒थाय॑ ।
मूलम्
तस्मा॒न् न वृ॑णीते॒ यज॑मानस्य॒ होतु॑र् गोपी॒थाय॑ ।
भट्टभास्कर-टीका
4 नार्षेयमित्यादिभिः प्राप्तस्यप्रतिषेधः - नार्षेयं वृणीतेहोता ‘अग्नेमहां असि’ इत्यदि । नचहोतारमध्वर्युः वृणीते ‘अग्निर्देवोहोता’ इत्यादि । पूर्ववद्धोतृयजमानयोः त्रिषु कीर्तनात् ॥
विश्वास-प्रस्तुतिः
अप॑ बर्हिषᳶ प्रया॒जान् य॑जति ।
मूलम्
अप॑ बर्हिषᳶ प्रया॒जान् य॑जति ।
भट्टभास्कर-टीका
5 अपबर्हिष इत्यादि ॥ गतम् । चतुर्थवर्जितं इत्यर्थः ।
मूलम्
प्र॒जा वै ब॒र्हिः । प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति ।
विश्वास-प्रस्तुतिः
प्र॒जा वै ब॒र्हिᳶ प्र॒जा ए॒व मृ॒त्योरुत् सृ॑जति ।
आज्य॑भागौ यजति ॥62॥
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
मूलम्
प्र॒जा वै ब॒र्हिᳶ प्र॒जा ए॒व मृ॒त्योरुत् सृ॑जति ।
आज्य॑भागौ यजति ॥62॥
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
भट्टभास्कर-टीका
आज्यभागयोः प्राग्वत्फलविशेषवत्तया आवश्यकत्वख्यापनाय पुनर्विधानम् ।
विश्वास-प्रस्तुतिः
प्रा॒ची॒ना॒वी॒ती सोमय्ँ॑यजति ।
मूलम्
प्रा॒ची॒ना॒वी॒ती सोमय्ँ॑यजति ।
मूलम्
पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षाऽऽहु॑तिः ।
विश्वास-प्रस्तुतिः
पि॒तृ॒दे॒व॒त्या॑ ह्ये॒षा ऽऽहु॑तिः ।
मूलम्
पि॒तृ॒दे॒व॒त्या॑ ह्ये॒षा ऽऽहु॑तिः ।
भट्टभास्कर-टीका
प्राचीनावीतीत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
पञ्च॒कृत्वो ऽव॑द्यति ।
मूलम्
पञ्च॒कृत्वो ऽव॑द्यति ।
भट्टभास्कर-टीका
6 पञ्चकृत्व इति ॥ आदावुपस्तरणं , हविषां पुरोडाशधानामन्थानां सकृत्सकृत् अवदानं तूष्णीं भवति । अभिघारणं पञ्चममिति । एतैः पञ्चभिः पञ्चदेवताः प्रीणयति ।
विश्वास-प्रस्तुतिः
पञ्च॒ ह्ये॑ता दे॒वताः॑ ।
द्वे पु॑रो ऽनुवा॒क्ये॑ ।
मूलम्
पञ्च॒ ह्ये॑ता दे॒वताः॑ ।
द्वे पु॑रो ऽनुवा॒क्ये॑ ।
भट्टभास्कर-टीका
ताश्च दर्शयति- पञ्च ह्येता इति ॥ द्वे पुरोऽनुवाक्ये प्रत्येकं हविषां द्वेद्वेपुरोऽनुवाक्ये’त्वं सोमप्रचिकितः ’ इत्यादिके ।
विश्वास-प्रस्तुतिः
या॒ज्या॑ दे॒वता॑ वषट्का॒रः ।
ता ए॒व प्री॑णाति ।
मूलम्
या॒ज्या॑ दे॒वता॑ वषट्का॒रः ।
ता ए॒व प्री॑णाति ।
भट्टभास्कर-टीका
याज्येति । ‘अग्निष्वात्ताः पितरः ‘26 इत्यादिका एका ।
विश्वास-प्रस्तुतिः
सन्त॑त॒म् अव॑द्यति ॥63॥
ऋ॒तू॒नाँ सन्त॑त्यै ।
मूलम्
सन्त॑त॒म् अव॑द्यति ॥63॥
ऋ॒तू॒नाँ सन्त॑त्यै ।
भट्टभास्कर-टीका
संततमिति । एकैका देवतात्रिष्वपि हविष्षु यथा अविच्छिन्ना भवति तथा सन्ततमवद्यति । ऋतूनां अविच्छेदाय तद्भवति ॥
विश्वास-प्रस्तुतिः
प्रैवैभ्य॒ᳶ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह ।
मूलम्
प्रैवैभ्य॒ᳶ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह ।
मूलम्
प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या ।
विश्वास-प्रस्तुतिः
प्रण॑यति द्वि॒तीय॑या , ग॒मय॑ति या॒ज्य॑या ।
मूलम्
प्रण॑यति द्वि॒तीय॑या , ग॒मय॑ति या॒ज्य॑या ।
मूलम्
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न्पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति ।
विश्वास-प्रस्तुतिः
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तर॒ो ऽह्न॑ ए॒वैना॒न् पूर्व॑या पुरोऽनुवा॒क्य॑या॒ ऽत्यान॑यति ।
मूलम्
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तर॒ो ऽह्न॑ ए॒वैना॒न् पूर्व॑या पुरोऽनुवा॒क्य॑या॒ ऽत्यान॑यति ।
भट्टभास्कर-टीका
7 प्रैवैभ्य इत्यादि ॥ किञ्चेत्याह- इत इति । इतोमनुष्यलोकात्तृतीयेलोकेपितरः । तत्र स्थितान्एनान्पितॄन्पूर्वयापुरोऽनुवाक्यया अह्नः प्रकाशमानान्द्युलोकात्अत्यानयति ।
विश्वास-प्रस्तुतिः
रात्रि॑यै द्वि॒तीय॑या +++(अत्यानुयति)+++।
मूलम्
रात्रि॑यै द्वि॒तीय॑या +++(अत्यानुयति)+++।
भट्टभास्कर-टीका
ततोद्वितीययारात्रियै । पञ्चम्यर्थेचतुर्थी । रात्रियारात्रितुल्यात्अन्तरिक्षात्अत्यानयति ।
विश्वास-प्रस्तुतिः
एवैना॑न्या॒ज्य॑या गमयति ।
मूलम्
एवैना॑न्या॒ज्य॑या गमयति ।
भट्टभास्कर-टीका
तत एनान् भूलोकप्राप्तान् याज्यया हविः आगमयति प्रापयति ॥
मूलम्
द॒क्षि॒ण॒तो॑ ऽव॒दाय॑ । उद॒ङ्ङति॑क्रामति॒ व्यावृ॑त्त्यै ॥64॥
विश्वास-प्रस्तुतिः
द॒क्षि॒ण॒तो॑ऽव॒दायोद॒ङ्ङ् अति॑-क्रामति॒ व्यावृ॑त्त्यै ॥64॥
मूलम्
द॒क्षि॒ण॒तो॑ऽव॒दायोद॒ङ्ङ् अति॑-क्रामति॒ व्यावृ॑त्त्यै ॥64॥
भट्टभास्कर-टीका
8 दक्षिणत इत्यादि ॥ वेदेः दक्षिणतोहवींषि अवदायउदङ् अतिक्रामतिवेदिं व्याकृत्यैव्यावृत्त्यर्थं देवयज्ञात् । प्रदर्शनार्थमिदम् । परिक्रामन्तिऋत्विजोविपरिहरन्तिस्रुचोहवीं षिपरिश्रयणानीति ॥
विश्वास-प्रस्तुतिः
“आ स्व॒धे"त्याश्रा॑वयति ।
मूलम्
“आ स्व॒धे"त्याश्रा॑वयति ।
भट्टभास्कर-टीका
9 आस्वधेति ॥ ‘आश्रावयं ’ पदमपोह्यआस्वधेतिअध्वर्युः आश्रावयति ।
आश्रावयस्वधां पितृभ्यइत्यर्थः । अथाग्नीध्रोपि’ अस्तु श्रौषट्’ इत्यत्र श्रौषट्पदमपोह्य अस्तुस्वधेतिप्रत्याश्रावयति ।
विश्वास-प्रस्तुतिः
“अस्तु॑ स्व॒धे"ति॑ प्र॒त्याश्रा॑वयति ।
मूलम्
“अस्तु॑ स्व॒धे"ति॑ प्र॒त्याश्रा॑वयति ।
भट्टभास्कर-टीका
पितॄणां स्वधासिद्धयेआश्रावणमस्त्विति । उपलक्षणत्वात्स्वधेतियाज्यां संप्रेष्यति । अथ’येयजामहे'27 इत्यतो येयजामह इति पदमपास्ययेस्वधामहइति याज्यां ब्रूयात् ।
विश्वास-प्रस्तुतिः
“स्व॒धा नम॒” इति॒ वष॑ट्करोति ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।
मूलम्
“स्व॒धा नम॒” इति॒ वष॑ट्करोति ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
अथस्वधानमइति वषट्करोति । स्वधाकारः पितृणां प्रियइति उक्तसमर्थनार्थोहेतुः ॥
विश्वास-प्रस्तुतिः
सोम॒मग्रे॑ यजति ।
मूलम्
सोम॒मग्रे॑ यजति ।
मूलम्
सोम॑प्रयाजा॒ हि पि॒तरः॑ । सोम॑म्पितृ॒मन्तय्ँ॑यजति ।
विश्वास-प्रस्तुतिः
सोम॑प्रयाजा॒ हि पि॒तर॒स् सोम॑म् पितृ॒मन्तय्ँ॑ यजति ।
मूलम्
सोम॑प्रयाजा॒ हि पि॒तर॒स् सोम॑म् पितृ॒मन्तय्ँ॑ यजति ।
भट्टभास्कर-टीका
10 सोमप्रयाजाइति ॥ सोमः प्रयष्टव्यो येषां तादृशाः । पितृमन्तं पितृगणसहितम् ।
मूलम्
सव्ँ॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् । सव्ँ॒व॒त्स॒रमे॒व तद्य॑जति ।
विश्वास-प्रस्तुतिः
सव्ँ्॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान्त् सव्ँ॑वत्स॒रम् ए॒व तद् य॑जति ।
मूलम्
सव्ँ्॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान्त् सव्ँ॑वत्स॒रम् ए॒व तद् य॑जति ।
भट्टभास्कर-टीका
संवत्सरः पितृमान्सोमः ‘मासावैपितरोबर्हिषदः । अर्धमासावैपितरोऽग्निष्वात्ताः ’ इति ।
विश्वास-प्रस्तुतिः
पि॒तॄन्ब॑र्हि॒षदो॑ यजति ॥65॥
मूलम्
पि॒तॄन्ब॑र्हि॒षदो॑ यजति ॥65॥
मूलम्
ये वै यज्वा॑नः । ते पि॒तरो॑ बर्हि॒षदः॑ । ताने॒व तद्य॑जति ।
विश्वास-प्रस्तुतिः
ये वै यज्वा॑न॒स् ते पि॒तरो॑ बर्हि॒षद॒स् ताने॒व तद् य॑जति ।
पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति ।
मूलम्
ये वै यज्वा॑न॒स् ते पि॒तरो॑ बर्हि॒षद॒स् ताने॒व तद् य॑जति ।
पि॒तॄन॑ग्निष्वा॒त्तान् य॑जति ।
भट्टभास्कर-टीका
यज्वानः श्रौताग्न्यनुप्रविष्टावर्हिषदोनाम ।
मूलम्
ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरो॑ऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति ।
विश्वास-प्रस्तुतिः
ये वा अय॑ज्वानो गृहमे॒धिन॒स् ते पि॒तरो॑ ऽग्निष्वा॒त्तास् ताने॒व तद् य॑जति ।
मूलम्
ये वा अय॑ज्वानो गृहमे॒धिन॒स् ते पि॒तरो॑ ऽग्निष्वा॒त्तास् ताने॒व तद् य॑जति ।
भट्टभास्कर-टीका
अयज्वानो गृहमेधिनः गृहस्थाः लौकिकाग्न्यधीनाः ते अग्निष्वात्ता नाम पितरः ।
विश्वास-प्रस्तुतिः
अ॒ग्निङ्क॑व्य॒वाह॑नय्ँ यजति ।
य ए॒व पि॑तृ॒णाम॒ग्निः ।
तमे॒व तद् य॑जति ॥66॥
अथो॒ यथा॒ ऽग्निँ स्वि॑ष्ट॒कृतय्ँ॒ यज॑ति ।
ता॒दृगे॒व तत् ।
मूलम्
अ॒ग्निङ्क॑व्य॒वाह॑नय्ँ यजति ।
य ए॒व पि॑तृ॒णाम॒ग्निः ।
तमे॒व तद् य॑जति ॥66॥
अथो॒ यथा॒ ऽग्निँ स्वि॑ष्ट॒कृतय्ँ॒ यज॑ति ।
ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
ये अपिच अयं स्विष्टकृत्स्थानीयोवेदितव्यः यथादेवानां स्विष्टकृन्नाम एवमयं पितृणामिति ॥
विश्वास-प्रस्तुतिः
“ए॒तत् ते॑ तत॒ ये च॒ त्वामन्वि"ति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति ।
मूलम्
“ए॒तत् ते॑ तत॒ ये च॒ त्वामन्वि"ति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति ।
भट्टभास्कर-टीका
11 एतत्तेततेत्यादि ॥ तिसृषु स्रक्तीषु दक्षिणायां श्रोण्यां दक्षिणोत्तरयोरं सयोरिति पिण्डान्निदधाति ।
विश्वास-प्रस्तुतिः
तस्मा॒दा तृ॒तीया॒त् पुरु॑षा॒न् नाम॒ न गृ॑ह्णन्ति ।
मूलम्
तस्मा॒दा तृ॒तीया॒त् पुरु॑षा॒न् नाम॒ न गृ॑ह्णन्ति ।
भट्टभास्कर-टीका
त्रय एवयष्टव्याः । पितापितामहः प्रपितामह इति । आतृतीयादिति चाभिव्याप्तावाकारः । चतुर्थः संप्रदार्तेषमिति ।
विश्वास-प्रस्तुतिः
ए॒ताव॑न्तो॒ हीज्यन्ते॑ ।
मूलम्
ए॒ताव॑न्तो॒ हीज्यन्ते॑ ।
भट्टभास्कर-टीका
तस्मात् त्रयः पिण्डा दीयन्ते इति ।
विश्वास-प्रस्तुतिः
“अत्र॑ पितरो यथाभा॒गम् म॑न्दध्व॒मि"त्य् आ॑ह ।
ह्लीका॒ हि पि॒तरः॑ ।
मूलम्
“अत्र॑ पितरो यथाभा॒गम् म॑न्दध्व॒मि"त्य् आ॑ह ।
ह्लीका॒ हि पि॒तरः॑ ।
भट्टभास्कर-टीका
‘अत्रपितरः ’ इत्युक्त्वानिष्क्रामन्ति । हेतुमाह- ह्लीकाः लज्जाशीलाः पितरः । कर्तरिक्विबन्तात्सं ज्ञायां कन् । कपिलकादित्वाल्लत्वविकल्पः ।
विश्वास-प्रस्तुतिः
उद॑ञ्चो॒ निष्क्रा॑मन्ति ।
मूलम्
उद॑ञ्चो॒ निष्क्रा॑मन्ति ।
मूलम्
ए॒षा वै म॑नु॒ष्या॑णा॒न् दिक् । स्वामे॒व तद् दिश॒म् अनु॒ निष्क्रा॑मन्ति ॥67॥
विश्वास-प्रस्तुतिः
ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् स्वाम् ए॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ॥67॥
मूलम्
ए॒षा वै म॑नु॒ष्या॑णा॒न्दिक् स्वाम् ए॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ॥67॥
भट्टभास्कर-टीका
उदञ्च इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते ।
न्ये॑वास्मै॒ तद् ध्नु॑वते ।
मूलम्
आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते ।
न्ये॑वास्मै॒ तद् ध्नु॑वते ।
भट्टभास्कर-टीका
12 आहवनीयमिति ॥ तेनोपस्थानात् अस्मा आहवनीयाय निह्नुवते व्यलीकं कुर्वन्ति छादयन्ति ।
मूलम्
यत्स॒त्या॑हव॒नीये॑ । अथा॒न्यत्र॒ चर॑न्ति ।
विश्वास-प्रस्तुतिः
यत् स॒त्य् आ॑हव॒नीये॒ ऽथा॒न्यत्र॒ चर॑न्ति ।
मूलम्
यत् स॒त्य् आ॑हव॒नीये॒ ऽथा॒न्यत्र॒ चर॑न्ति ।
भट्टभास्कर-टीका
केचिदाहुः - नमस्यन्ति प्रसादनार्थमिति । किं पुनस्तद्व्यलीकमित्याह- यदिति ॥ यस्मादिमेसत्येवआहवनीयेअन्यत्रदक्षिणाग्नौचरन्ति एतं ह्नुवतेतस्मादेवमर्थमेव ।
विश्वास-प्रस्तुतिः
आतमि॑तो॒रुप॑तिष्ठन्ते ।
मूलम्
आतमि॑तो॒रुप॑तिष्ठन्ते ।
भट्टभास्कर-टीका
आतमितोः आउच्छ्वासात्उपतिष्ठन्ते । ‘भावलक्षणे’ इति तोसुन् ।
मूलम्
अ॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वा । पि॒तॄन्नि॒रव॑दयन्ते ।
विश्वास-प्रस्तुतिः
अ॒ग्निम् ए॒वोप॑द्र॒ष्टार॑ङ् कृ॒त्वा पि॒तॄन् नि॒रव॑दयन्ते ।
मूलम्
अ॒ग्निम् ए॒वोप॑द्र॒ष्टार॑ङ् कृ॒त्वा पि॒तॄन् नि॒रव॑दयन्ते ।
भट्टभास्कर-टीका
आहवनीयमेव अग्निमुपद्रष्टारंसाक्षिणमनुज्ञातारं कृत्वापितॄन्निरवदयन्तेबहिर्निष्कृष्य दक्षिणाग्नौ चरणेन तर्पयन्ति ।
विश्वास-प्रस्तुतिः
अन्तव्ँ॒ वा ए॒ते प्रा॒णाना॑ङ् गच्छन्ति ।
य आतमि॑तोरुप॒तिष्ठ॑न्ते ।
मूलम्
अन्तव्ँ॒ वा ए॒ते प्रा॒णाना॑ङ् गच्छन्ति ।
य आतमि॑तोरुप॒तिष्ठ॑न्ते ।
भट्टभास्कर-टीका
अन्तं वा इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
“सु॒स॒न्दृश॑न्त्वा व॒यमि"त्य् आ॑ह॥68॥
प्रा॒णो वै सु॑स॒न्दृक् ।
प्रा॒णम् ए॒वात्मन् द॑धते ।
“योजा॒ न्वि॑न्द्र ते॒ हरी॒” इत्य् आ॑ह ।
मूलम्
“सु॒स॒न्दृश॑न्त्वा व॒यमि"त्य् आ॑ह॥68॥
प्रा॒णो वै सु॑स॒न्दृक् ।
प्रा॒णम् ए॒वात्मन् द॑धते ।
“योजा॒ न्वि॑न्द्र ते॒ हरी॒” इत्य् आ॑ह ।
भट्टभास्कर-टीका
13 सुसंदृशंत्वा’ इत्याहवनयोपस्थानमन्त्रः ॥ अयुक्त अयुज्यत इन्द्र ते हरी योजायोजय इति येषां प्राणानामन्तं गतं पुनर्योजयति वचनव्यत्ययो वा ।
विश्वास-प्रस्तुतिः
प्रा॒णम् ए॒व पुन॑र् अयुक्त ।
मूलम्
प्रा॒णम् ए॒व पुन॑र् अयुक्त ।
भट्टभास्कर-टीका
पुनः प्राणमयुजन्त इति ॥
विश्वास-प्रस्तुतिः
“अक्ष॒न्न् अमी॑मदन्त॒ ही"ति॒ गार्ह॑पत्य॒म् उप॑तिष्ठन्ते ।
मूलम्
“अक्ष॒न्न् अमी॑मदन्त॒ ही"ति॒ गार्ह॑पत्य॒म् उप॑तिष्ठन्ते ।
भट्टभास्कर-टीका
14 अक्षन्नित्यादि ॥ गार्हपत्योपस्थानमन्त्रः । ननुपितृणां साहित्यमनेनप्रीतिकरं क्रियतेतत्किमुपस्थानमनेनगार्हपत्यस्येतिचोद्यावसरेमन्त्राभिप्रायमाह- एतेपितरोअक्षन्भुक्तवन्तः अमीमदन्तअमोदन्त । वयं तदर्थं त्वां हित्वा अन्यत्र चराम ।
विश्वास-प्रस्तुतिः
“अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒” इति॒ वावैतदा॑ह ।
मूलम्
“अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒” इति॒ वावैतदा॑ह ।
भट्टभास्कर-टीका
अथइदानीं त्वात्वामेव उपतिष्ठामह इति एतदर्थरूपं खल्वयं मन्त्र आह न तु पितृसाहित्यमात्रमित्यर्थः ।
विश्वास-प्रस्तुतिः
“अमी॑मदन्त पि॒तर॑स् सो॒म्या” इत्य् अ॒भिप्रप॑द्यन्ते ।
मूलम्
“अमी॑मदन्त पि॒तर॑स् सो॒म्या” इत्य् अ॒भिप्रप॑द्यन्ते ।
भट्टभास्कर-टीका
अमीमदन्त अमोदन्त पितरः सोम्यास्सोमार्हा इति अन्वाहार्यपचनं अभिप्रपद्यन्ते ।
विश्वास-प्रस्तुतिः
“अमी॑मदन्त पि॒तरो ऽथ॑ त्वा॒ ऽभिप्रप॑द्यामह॒” इति॒ वावैतदा॑ह ।
मूलम्
“अमी॑मदन्त पि॒तरो ऽथ॑ त्वा॒ ऽभिप्रप॑द्यामह॒” इति॒ वावैतदा॑ह ।
भट्टभास्कर-टीका
अस्यापि मन्त्रस्याभिप्रपतौ तात्पर्यमिति व्याचष्टे - अमीमदन्तेति ॥
विश्वास-प्रस्तुतिः
अ॒पᳶ परि॑षिञ्चति मा॒र्जय॑त्ये॒वैना॑न् ॥69॥
मूलम्
अ॒पᳶ परि॑षिञ्चति मा॒र्जय॑त्ये॒वैना॑न् ॥69॥
मूलम्
अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्ँ वेद॑ ।
विश्वास-प्रस्तुतिः
अथो॑ त॒र्पय॑त्ये॒व , तृप्य॑ति प्र॒जया॑ प॒शुभि॒र् य ए॒वव्ँ वेद॑ ।
अप॑ बर्हिषावनूया॒जौ य॑जति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति ।
च॒तुर॑ᳶ प्रया॒जान् य॑जति ।
मूलम्
अथो॑ त॒र्पय॑त्ये॒व , तृप्य॑ति प्र॒जया॑ प॒शुभि॒र् य ए॒वव्ँ वेद॑ ।
अप॑ बर्हिषावनूया॒जौ य॑जति ।
प्र॒जा वै ब॒र्हिः ।
प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति ।
च॒तुर॑ᳶ प्रया॒जान् य॑जति ।
मूलम्
द्वाव॑नूया॒जौ । षट्त्सम्प॑द्यन्ते ।
विश्वास-प्रस्तुतिः
द्वाव॑नूया॒जौ , षट्त् सम्प॑द्यन्ते ।
मूलम्
द्वाव॑नूया॒जौ , षट्त् सम्प॑द्यन्ते ।
मूलम्
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ।
विश्वास-प्रस्तुतिः
षड्वा ऋ॒तव॑ , ऋ॒तूने॒व प्री॑णाति ।
मूलम्
षड्वा ऋ॒तव॑ , ऋ॒तूने॒व प्री॑णाति ।
भट्टभास्कर-टीका
15 अपः परिषिञ्चतीत्यादि ॥ गतम् । वेदिं परितः सिञ्चति ॥
विश्वास-प्रस्तुतिः
न पत्न्यन्वा॑स्ते, न सय्ँ या॑जयन्ति ।
मूलम्
न पत्न्यन्वा॑स्ते, न सय्ँ या॑जयन्ति ।
मूलम्
यत्पत्न्य॒न्वासी॑त । यत्सय्ँ॑या॒जये॑युः ।
विश्वास-प्रस्तुतिः
यत्पत्न्य॒न्वासी॑त॒ यत् सय्ँ॑ या॒जये॑युः ।
मूलम्
यत्पत्न्य॒न्वासी॑त॒ यत् सय्ँ॑ या॒जये॑युः ।
मूलम्
प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वा॑स्ते ।
विश्वास-प्रस्तुतिः
प्र॒मायु॑का स्या॒त् ,तस्मा॒न्नान्वा॑स्ते ।
मूलम्
प्र॒मायु॑का स्या॒त् ,तस्मा॒न्नान्वा॑स्ते ।
मूलम्
न सय्ँ या॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ॥70॥
विश्वास-प्रस्तुतिः
न सय्ँया॑जयन्ति॒ पत्नि॑यै गोपी॒थाय॑ ॥70॥
मूलम्
न सय्ँया॑जयन्ति॒ पत्नि॑यै गोपी॒थाय॑ ॥70॥
भट्टभास्कर-टीका
16 नपत्नीत्यादि ॥ संपत्नीयहोमः पत्नीसंयाजाश्चनकर्तव्याः । पत्नियैपत्न्याः पत्न्या एवरक्षणार्थम् ॥
इति षष्ठेनवमोऽनुवाकः ॥