राजसूयानुब्राह्मणम्
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता व॑रुणप्रघा॒सैर् व॑रुणपा॒शाद॑मुञ्चत् ।
सा॒क॒मे॒धैᳶ प्रत्य॑स्थापयत् ।
त्र्य॑म्बकै रु॒द्रन् नि॒रवा॑दयत ।
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कम॑गमयत् ।
मूलम्
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता व॑रुणप्रघा॒सैर् व॑रुणपा॒शाद॑मुञ्चत् ।
सा॒क॒मे॒धैᳶ प्रत्य॑स्थापयत् ।
त्र्य॑म्बकै रु॒द्रन् नि॒रवा॑दयत ।
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कम॑गमयत् ।
मूलम्
यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्यज॑मानस्सृजते ।
विश्वास-प्रस्तुतिः
यद्वै॑श्वदे॒वेन॒ यज॑ते प्र॒जा ए॒व तद्यज॑मानस् सृजते ।
ता व॑रुणप्रघा॒सैर् व॑रुणपा॒शान् मु॑ञ्चति ।
सा॒क॒मे॒धैᳶ प्रति॑ष्ठापयति ।
त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ॥52॥
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
मूलम्
यद्वै॑श्वदे॒वेन॒ यज॑ते प्र॒जा ए॒व तद्यज॑मानस् सृजते ।
ता व॑रुणप्रघा॒सैर् व॑रुणपा॒शान् मु॑ञ्चति ।
सा॒क॒मे॒धैᳶ प्रति॑ष्ठापयति ।
त्र्य॑म्बकै रु॒द्रन्नि॒रव॑दयते ॥52॥
पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।
भट्टभास्कर-टीका
1 वैश्वदेवेनेत्यादि ॥
विश्वास-प्रस्तुतिः
द॒क्षि॒ण॒तᳶ प्रा॑चीनावी॒ती निर्व॑पति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
मूलम्
द॒क्षि॒ण॒तᳶ प्रा॑चीनावी॒ती निर्व॑पति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
2 दक्षिणत इति ॥ वेद्यादक्षिणतः प्राचीनावीतिनानिर्वापः कार्यः । हेतुं च तत्राह- हि यस्मात्पितृणां कर्तव्यं दक्षिणावृत्क्रियारम्भः दक्षिणा आवृत्यस्य तादृग्भवति ।
मूलम्
अना॑दृत्य॒ तत् ।
उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् ।
विश्वास-प्रस्तुतिः
अना॑दृत्य॒ तत् उ॑त्तर॒त ए॒वोप॒वीय॒ निर्व॑पेत् ।
मूलम्
अना॑दृत्य॒ तत् उ॑त्तर॒त ए॒वोप॒वीय॒ निर्व॑पेत् ।
भट्टभास्कर-टीका
दूषयति- अनादृत्येत्यादि । गार्हपत्यस्यउत्तरतः उपवीतं कृत्वानिर्वपेत् ।
विश्वास-प्रस्तुतिः
उ॒भये॒ हि दे॒वाश् च॑ पि॒तर॑श् चे॒ज्यन्ते॑ ।
मूलम्
उ॒भये॒ हि दे॒वाश् च॑ पि॒तर॑श् चे॒ज्यन्ते॑ ।
भट्टभास्कर-टीका
हेतुं चाह- उभयेहीत्यादि । नकेवलं पितर एवात्रेज्यन्ते अपितुउभयेऽपि देवाश्चपितरश्च ।
विश्वास-प्रस्तुतिः
अथो॒ यद् ए॒व द॑क्षिणा॒र्धे॑ऽधि॒-श्रय॑ति ।
तेन॑ दक्षि॒णावृ॑त् ।
मूलम्
अथो॒ यद् ए॒व द॑क्षिणा॒र्धे॑ऽधि॒-श्रय॑ति ।
तेन॑ दक्षि॒णावृ॑त् ।
भट्टभास्कर-टीका
तत्र पित्रर्थदक्षिणावृत्त्वमादरणीयमेवेतिमन्यमानस्तदपिअस्त्येवेतिदर्शयति- अथो यदेवेत्यादि । गार्हपत्यस्य दक्षिणार्थे हविरधिश्रयणाद्दक्षिणावृत्त्वमप्यनुगृहीतमिति । ‘उदात्तादनुदात्तस्यस्वरितः ’ इत्येकारः स्वर्यते ॥
विश्वास-प्रस्तुतिः
सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर्व॑पति ।
सव्ँ्॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् ॥53॥
सव्ँ्॒व॒त्स॒रम् ए॒व प्री॑णाति ।
मूलम्
सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पाल॒न्निर्व॑पति ।
सव्ँ्॒व॒त्स॒रो वै सोम॑ᳶ पितृ॒मान् ॥53॥
सव्ँ्॒व॒त्स॒रम् ए॒व प्री॑णाति ।
भट्टभास्कर-टीका
3 सोमायपितृमत इत्यादि ॥ गतम् । धानास्तण्डुलप्रभवालाजाः ।
विश्वास-प्रस्तुतिः
पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः ।
मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ ।
मासा॑ने॒व प्री॑णाति ।
मूलम्
पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः ।
मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ ।
मासा॑ने॒व प्री॑णाति ।
मूलम्
यस्मि॒न्वा ऋ॒तौ पुरु॑षᳶ प्र॒मीय॑ते ।
सो॑ऽस्या॒मुष्मिल्ँ॑ लो॒के भ॑वति ।
विश्वास-प्रस्तुतिः
यस्मि॒न्वा ऋ॒तौ पुरु॑षᳶ प्र॒मीय॑ते सो॑ऽस्या॒मुष्मिल्ँ॑ लो॒के भ॑वति ।
मूलम्
यस्मि॒न्वा ऋ॒तौ पुरु॑षᳶ प्र॒मीय॑ते सो॑ऽस्या॒मुष्मिल्ँ॑ लो॒के भ॑वति ।
भट्टभास्कर-टीका
यस्मिन्वा इत्यादि । यस्मिनृतौ चातुर्मास्ययाजी पुरुषः प्रमीयते म्रियते स एव अस्य अनेनाविभक्तः अमुष्मिन्जन्मान्तर भवति संवत्सरस्यमासानां च प्रीणनात् । उक्तं च- ‘यदिवसन्ताप्रमीयते’ इत्यादि ।
मूलम्
ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
विश्वास-प्रस्तुतिः
ब॒हु॒रू॒पा धा॒ना भ॑वन्त्य् अहोरा॒त्राणा॑म् अ॒भि-जि॑त्यै ।
मूलम्
ब॒हु॒रू॒पा धा॒ना भ॑वन्त्य् अहोरा॒त्राणा॑म् अ॒भि-जि॑त्यै ।
भट्टभास्कर-टीका
बहुरूपत्वं शुक्लकृष्णमिश्रत्वम् । बहुरूपाणामहोरात्राणां अभिजयाय भवति ॥
विश्वास-प्रस्तुतिः
पि॒तृभ्यो॑ ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् ।
अ॒र्ध॒मा॒सा वै पि॒तरो॑ ऽग्निष्वा॒त्ताः ॥54॥
अ॒र्ध॒मा॒साने॒व प्री॑णाति ।
अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति ।
मूलम्
पि॒तृभ्यो॑ ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् ।
अ॒र्ध॒मा॒सा वै पि॒तरो॑ ऽग्निष्वा॒त्ताः ॥54॥
अ॒र्ध॒मा॒साने॒व प्री॑णाति ।
अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति ।
भट्टभास्कर-टीका
4 मन्थस्सक्तवो द्रवद्रव्यावलोडिताः इह तु अभिवान्यायामृतवत्सायादुग्धे भवति ।
विश्वास-प्रस्तुतिः
सा हि पि॑तृदेव॒त्य॑न् दु॒हे ।
मूलम्
सा हि पि॑तृदेव॒त्य॑न् दु॒हे ।
भट्टभास्कर-टीका
साखलुपितृदेवत्यं क्षीरं दुहेदग्धे । ‘लोपस्तआत्मनेपदेषु’ इति तलोपः ॥
मूलम्
यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णाम् ।
विश्वास-प्रस्तुतिः
यत्पू॒र्णन् तन् म॑नु॒ष्या॑णाम् ।
मूलम्
यत्पू॒र्णन् तन् म॑नु॒ष्या॑णाम् ।
भट्टभास्कर-टीका
5 यदित्यादि ॥ पूर्णं मनुष्याणां संबन्धि, तेषां पूर्णत्वार्थित्वान्न्यूनत्वं नसहते ।
विश्वास-प्रस्तुतिः
उ॒प॒र्य॒र्धो दे॒वाना॑म् ।
मूलम्
उ॒प॒र्य॒र्धो दे॒वाना॑म् ।
भट्टभास्कर-टीका
अर्धादुपरिउपर्यर्धः । उपरितनोवा अर्धउपर्यर्धः । तत्देवानां सम्बन्धि, उपरितनलोकवर्तित्वाद्देवानाम् ।
विश्वास-प्रस्तुतिः
अ॒र्धᳶ पि॑तृ॒णाम् ।
मूलम्
अ॒र्धᳶ पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
पितृणां सम्बन्धीअर्धः , अपुष्कलत्वेनामङ्गळ्यत्वात् । तेहिछिन्नादिकामाः ख्यायन्ते ।
विश्वास-प्रस्तुतिः
अ॒र्ध उप॑मन्थति ।
मूलम्
अ॒र्ध उप॑मन्थति ।
मूलम्
अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् ।
विश्वास-प्रस्तुतिः
अ॒र्धो हि पि॑तृ॒णाम् एक॒योप॑मन्थति ॥55॥
मूलम्
अ॒र्धो हि पि॑तृ॒णाम् एक॒योप॑मन्थति ॥55॥
भट्टभास्कर-टीका
अर् धउपमन्थतीति अर्धेदुग्धं अर्धे सक्तव इत्येवार्धद्वयमवस्थाप्यउपमन्थति ।
मूलम्
एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति ।
विश्वास-प्रस्तुतिः
एका॒ हि पि॑तृ॒णान् द॒क्षि॒णोप॑-मन्थति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
मूलम्
एका॒ हि पि॑तृ॒णान् द॒क्षि॒णोप॑-मन्थति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
दक्षिणादक्षिणामुखोवा । दक्षिणावृत्त्वं व्याख्यातम् ।
विश्वास-प्रस्तुतिः
अना॑र॒भ्योप॑मन्थति ।
तद्धि पि॒तॄन् गच्छ॑ति ।
मूलम्
अना॑र॒भ्योप॑मन्थति ।
तद्धि पि॒तॄन् गच्छ॑ति ।
भट्टभास्कर-टीका
अनारभ्येति । अनारभ्यस्थूणादिष्वनाबद्ध्यहस्ताभ्यामेव उपमन्थति । पितॄणां हृदयंगमम् ॥
विश्वास-प्रस्तुतिः
इ॒मान्दिशव्ँ॒ वेदि॒मुद्ध॑न्ति ।
उ॒भये॒ हि दे॒वाश् च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
मूलम्
इ॒मान्दिशव्ँ॒ वेदि॒मुद्ध॑न्ति ।
उ॒भये॒ हि दे॒वाश् च॑ पि॒तर॑श्चे॒ज्यन्ते॑ ।
भट्टभास्कर-टीका
6 इमामिति ॥ दक्षिणपूर्वां दिशं दक्षिणपूर्वदिगनुसारेणवेदिमुद्धन्तिउत्पादयन्ति ।
विश्वास-प्रस्तुतिः
चतु॑स् स्रक्तिर् भवति ।
मूलम्
चतु॑स् स्रक्तिर् भवति ।
भट्टभास्कर-टीका
देवानां पितॄणां चसंबन्धित्वाद्दिग्द्वयस्यचतुस्स्रक्तिः चतुरश्राः प्रतिदिशं स्रक्तवः ।
विश्वास-प्रस्तुतिः
सर्वा॒ ह्यनु॒ दिश॑ᳶ पि॒तरः॑ ।
मूलम्
सर्वा॒ ह्यनु॒ दिश॑ᳶ पि॒तरः॑ ।
भट्टभास्कर-टीका
सर्वाः खलुदिशोऽनुव्याप्यपितरोवर्तन्ते ।
तस्मात् सर्वप्रीणनीभवति ।
विश्वास-प्रस्तुतिः
अखा॑ता भवति ॥56॥
खा॒ता हि दे॒वाना॑म् ।
मूलम्
अखा॑ता भवति ॥56॥
खा॒ता हि दे॒वाना॑म् ।
भट्टभास्कर-टीका
अखातेति चतुरङ्गुलादिनिवृत्तिः । समीकरणं तुभवत्येव । देवानां हिखाताप्रियानपितॄणां अहिंसारुचित्वात् ॥
विश्वास-प्रस्तुतिः
म॒ध्य॒तो॑ ऽग्निराधी॑यते ।
मूलम्
म॒ध्य॒तो॑ ऽग्निराधी॑यते ।
भट्टभास्कर-टीका
7 मध्यत इति ॥ वेदेर्मध्येअग्निराधीयते ।
विश्वास-प्रस्तुतिः
अ॒न्त॒तो हि दे॒वाना॑माधी॒यते॑ ।
मूलम्
अ॒न्त॒तो हि दे॒वाना॑माधी॒यते॑ ।
भट्टभास्कर-टीका
देवानां खलुअन्ततः पर्यन्तेषु आधीयते ।
विश्वास-प्रस्तुतिः
वर्षी॑यानि॒ध्म इ॒ध्माद् भ॑वति॒ व्यावृ॑त्त्यै ।
मूलम्
वर्षी॑यानि॒ध्म इ॒ध्माद् भ॑वति॒ व्यावृ॑त्त्यै ।
भट्टभास्कर-टीका
वर्षीयानिति । इध्मात्प्रकृतात्द्विप्रादेशाच्चवर्षीयान्वृद्धतर इध्मोभवति व्यावृत्त्यर्थं दैव्यात् ।
मूलम्
परि॑श्रयति । अ॒न्तर्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् ।
विश्वास-प्रस्तुतिः
परि॑श्रयत्य् अ॒न्तर्हि॑तो हि पि॑तृलो॒को म॑नुष्यलो॒कात् ।
मूलम्
परि॑श्रयत्य् अ॒न्तर्हि॑तो हि पि॑तृलो॒को म॑नुष्यलो॒कात् ।
भट्टभास्कर-टीका
परिश्रयतीति । परितोवेदिं छादयति । मनुष्यलोकात् अन्तर्धत्तेपितृलोकः तद्धिसदृशत्वात्तत्र त्यानामनुपलम्भाद्वा ॥
मूलम्
यत्परु॑षि दि॒नम् । तद्दे॒वाना॑म् ।
विश्वास-प्रस्तुतिः
यत्परु॑षि दि॒नन् तद् दे॒वाना॑म् ।
मूलम्
यत्परु॑षि दि॒नन् तद् दे॒वाना॑म् ।
भट्टभास्कर-टीका
8 यदित्यादि ॥ परुषिपर्वणियद्दिनं भिन्नं तद्देवानां प्रियम् । द्यतेर्निष्ठानत्वं छान्दसम् ।
मूलम्
यद॑न्त॒रा । तन्म॑नु॒ष्या॑णाम् ॥57॥
विश्वास-प्रस्तुतिः
यद॑न्त॒रा तन् म॑नु॒ष्या॑णाम् ॥57॥
मूलम्
यद॑न्त॒रा तन् म॑नु॒ष्या॑णाम् ॥57॥
भट्टभास्कर-टीका
यदन्तरापर्वणोर्मध्येदिनं तन्मनुष्याणां प्रियम् ।
मूलम्
यत्समू॑लम् । तत्पि॑तृ॒णाम् ।
विश्वास-प्रस्तुतिः
यत् समू॑ल॒न् तत् पि॑तृ॒णाम् ।
मूलम्
यत् समू॑ल॒न् तत् पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
तस्मान्यत्समूलं तत्पितृणां प्रियम् ।
विश्वास-प्रस्तुतिः
समू॑लम् ब॒र्हिर् भ॑वति॒ व्यावृ॑त्त्यै ।
मूलम्
समू॑लम् ब॒र्हिर् भ॑वति॒ व्यावृ॑त्त्यै ।
भट्टभास्कर-टीका
तस्मात् समूलं बर्हिर्भवति इतरव्यावृत्तये ।
विश्वास-प्रस्तुतिः
द॒क्षि॒णा स्तृ॑णाति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
मूलम्
द॒क्षि॒णा स्तृ॑णाति ।
द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
दक्षिणेति । दक्षिणतआरभ्यदक्षिणाग्रान्वास्तृणाति ।
विश्वास-प्रस्तुतिः
त्रिᳶ पर्ये॑ति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
मूलम्
त्रिᳶ पर्ये॑ति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
भट्टभास्कर-टीका
त्रिः पर्येतीत्यादि । गतम् । बर्हिषावेदिं स्तृणन्पर्येति । देवलोकस्यैवएकदेशः पितृलोकः । तस्मात् इतोमनुष्यलोकात्तृतीयेलोकेपितरोवर्तन्ते ।
मूलम्
त्रिᳶ पुन॒ᳶ पर्ये॑ति । षट्त्सम्प॑द्यन्ते ॥ 58॥
विश्वास-प्रस्तुतिः
त्रिᳶ पुन॒ᳶ पर्ये॑ति॒, षट्त्सम्प॑द्यन्ते ॥ 58॥
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ।
मूलम्
त्रिᳶ पुन॒ᳶ पर्ये॑ति॒, षट्त्सम्प॑द्यन्ते ॥ 58॥
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ।
भट्टभास्कर-टीका
त्रिः पुनः पर्येतिआस्तृणन् ॥
मूलम्
यत्प्र॑स्त॒रय्ँयजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मानस्स्यात् ।
विश्वास-प्रस्तुतिः
यत्प्र॑स्त॒रय्ँ यजु॑षा गृह्णी॒यात् प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
मूलम्
यत्प्र॑स्त॒रय्ँ यजु॑षा गृह्णी॒यात् प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
मूलम्
यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒नस्स्या॑त् ।
विश्वास-प्रस्तुतिः
यन्न गृ॑ह्णी॒याद् अनायत॒नस् स्या॑त् ।
मूलम्
यन्न गृ॑ह्णी॒याद् अनायत॒नस् स्या॑त् ।
भट्टभास्कर-टीका
9 यदित्यादि ॥ इन्द्रस्ययजमानस्य पितृषु कीर्तनात्यजमानात्मत्वाच्च प्रस्तरस्ययजुषेग्रहणे यजमानः प्रमायुकः मरणशीलः स्यात् । तूष्णीं ग्रहणेतुनायं दोषः , अकृतप्रायत्वात्तस्य । तर्ह्यग्रहणमेवास्त्वितिचेत्- अग्रहणे अनायतनोयजमानः स्यात् । हविषामायतनस्य अगृहीतत्वात् । तस्मात् ग्रहीतव्य एव ।
मूलम्
तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति ।
विश्वास-प्रस्तुतिः
तू॒ष्णीम् ए॒व न्य॑स्ये॒न् न प्र॒मायु॑को॒ भव॑ति ।
नाना॑यत॒नः ।
मूलम्
तू॒ष्णीम् ए॒व न्य॑स्ये॒न् न प्र॒मायु॑को॒ भव॑ति ।
नाना॑यत॒नः ।
भट्टभास्कर-टीका
तूष्णीं ग्रहणस्याग्रहणतुल्यत्वात् अनायतनत्वदोषस्तदवस्थ एवेति यजुषैवगृहीत्वा तूष्णीमेवन्यस्येत्सादयेत् । एवं ग्रहणात्तूष्णीमुपचाराच्चदोषद्वयाभावः । यद्वा- अग्रहणस्ययजुषाग्रहणस्यचतुल्यत्वात्तूष्णीमेवगृह्णीयादिति स्थितेसादनवत्तूष्णीमेवकुर्यात् । ‘अदित्यास्त्वा’ इति यजुषासादनेग्रहणोक्तदोषप्रसङ्गात् ॥
विश्वास-प्रस्तुतिः
यत् त्रीन् प॑रि॒धीन् प॑रि-द॒ध्यात् ॥59॥
मृ॒त्युना॒ यज॑मान॒म् परि॑-गृह्णीयात् ।
मूलम्
यत् त्रीन् प॑रि॒धीन् प॑रि-द॒ध्यात् ॥59॥
मृ॒त्युना॒ यज॑मान॒म् परि॑-गृह्णीयात् ।
मूलम्
यन्न प॑रिद॒ध्यात् । रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
विश्वास-प्रस्तुतिः
यन् न प॑रिद॒ध्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
मूलम्
यन् न प॑रिद॒ध्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
भट्टभास्कर-टीका
10 यत्त्रीनिति ॥ मृत्युनायजमानं परिग्राहयेत् । परिधिरिति त्रिषु तत्कीर्तनात् । अग्रहणेरक्षांसिअप्रतिबन्धेनयज्ञमनुप्रविश्यहन्युः ।
मूलम्
द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒मप॑हत्यै ।
विश्वास-प्रस्तुतिः
द्वौ प॑रि॒धी परि॑दधाति॒ रक्ष॑सा॒मप॑हत्यै ।
अथो॑ मृ॒त्योर् ए॒व यज॑मान॒मुत्सृ॑जति ।
मूलम्
द्वौ प॑रि॒धी परि॑दधाति॒ रक्ष॑सा॒मप॑हत्यै ।
अथो॑ मृ॒त्योर् ए॒व यज॑मान॒मुत्सृ॑जति ।
भट्टभास्कर-टीका
तस्मात् द्वौपाश्चात्योत्तरौपरिदधाति । एवं हि कृतं चाकृतं चपरिधानमितिदोषद्वयाप्रसङ्गः ॥
मूलम्
यत्त्रीणि॑ त्रीणि ह॒वीँष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय एषाँ सा॒कम्प्रमी॑येरन् ।
विश्वास-प्रस्तुतिः
यत् त्रीणि॑ त्रीणि ह॒वीँष्यु॑दा॒हरे॑यु॒स् त्रय॑स्-त्रय एषाँ सा॒कम् प्रमी॑येरन् ।
मूलम्
यत् त्रीणि॑ त्रीणि ह॒वीँष्यु॑दा॒हरे॑यु॒स् त्रय॑स्-त्रय एषाँ सा॒कम् प्रमी॑येरन् ।
भट्टभास्कर-टीका
11 यत्त्रीणीत्यादि ॥ यदित्रीणिहवीं षि’सोमायपितृमते’ इत्यादि विहितानिसहवेद्यां उदाहरेयुः सादयेयुः अध्वर्य्वादयः तदाएषां यजमानानामध्वर्यूणां वासंबन्धिनः पुरुषाः त्रयस्त्रयः साकं सहप्रमीयेरन्म्रियेरन् । ननु त्रीण्येव हवींषि सोमबर्हिषदग्निष्वात्तेभ्योविहितानि तत्कथं वीप्सा, उच्यते- अध्वर्युसमुदायविषयमिदम् । तत एवोदाहरेयुरिति बहुवचनम् । प्रत्यध्वर्युत्रीणिभवन्तीतिवीप्सोपपत्तिः ।
विश्वास-प्रस्तुतिः
एकै॑कमनू॒चीना॑न्यु॒दाह॑रन्ति ।
मूलम्
एकै॑कमनू॒चीना॑न्यु॒दाह॑रन्ति ।
भट्टभास्कर-टीका
एकैकमिति । अनूचीनानिअनुक्रमेणस्थितानिएकैकं सादयन्त्वध्वर्यवः । द्विर्वचनेनबहुत्वस्यगतत्वात् एकवचनम् । ‘एकं बहुव्रीहिवत्’ इति विभक्तिलोपः । अन्वक्छब्दात् ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः ।
विश्वास-प्रस्तुतिः
एकै॑क ए॒वैषा॑म॒न्वञ्च॒ᳶ प्रमी॑यते ।
मूलम्
एकै॑क ए॒वैषा॑म॒न्वञ्च॒ᳶ प्रमी॑यते ।
भट्टभास्कर-टीका
एषां संबन्धीपुरुषएकैक एवप्रमीयतेम्रियते । पूर्ववदेकवचनम् । अन्वञ्चः अनुक्रमेणस्थिताः अनुक्रमेणस्वकालेम्रियन्तेसर्वेपुरुषा इत्यर्थः ॥
मूलम्
क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बर्ह॑णमुपबर्ह॒ण्या॑य । आञ्ज॑नमाञ्ज॒न्या॑य । अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैना॑न्प्रीणाति ॥ 60॥
विश्वास-प्रस्तुतिः
क॒शिपु॑ कशिप॒व्या॑योपबर्ह॑णम् उपबर्ह॒ण्या॑याञ्ज॑नम् आञ्ज॒न्या॑या॒भ्यञ्ज॑नम् अभ्यञ्ज॒न्या॑य यथाभा॒गम् ए॒वैना॑न् प्रीणाति ॥ 60॥
मूलम्
क॒शिपु॑ कशिप॒व्या॑योपबर्ह॑णम् उपबर्ह॒ण्या॑याञ्ज॑नम् आञ्ज॒न्या॑या॒भ्यञ्ज॑नम् अभ्यञ्ज॒न्या॑य यथाभा॒गम् ए॒वैना॑न् प्रीणाति ॥ 60॥
भट्टभास्कर-टीका
12 कशिपुआस्तरणादि । उपबर्हणमुपधानादि । आञ्जनाभ्यञ्जनेगते । एतान्यपिएकैकमुदाहरन्तीत्येव । यत्तदर्हइत्यर्थः । कशिप्वादिभ्यः । यथाभागमिति । योयस्यभागः इष्टः तेनतेनएनान्कशिपव्यादीन्प्रीणातितर्पयति । ‘नाव्ययीभावादतोम्त्वपञ्चम्याः ’ इति तृतीयायाः अम्भावः ॥
इति षष्ठेअष्टमोऽनुवाकः ॥