राजसूयानुब्राह्मणम्
मूलम्
यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒यात् । गृ॒ह॒मे॒ध्ये॑व स्या॑त् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत ।
विश्वास-प्रस्तुतिः
यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒याद् गृहमे॒ध्ये॑व स्या॒द् , वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत ।
मूलम्
यत्पत्नी॑ गृहमे॒धीय॑स्याश्ञी॒याद् गृहमे॒ध्ये॑व स्या॒द् , वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत ।
भट्टभास्कर-टीका
1 यत्पत्नीत्यादि ॥ गृहमेधीयस्य पत्न्या अशने यजमानो गृहमेधी भवत्येव, किन्तु अस्य यज्ञो व्यृद्ध्येत ऋद्धिहीनस्स्यात् ।
मूलम्
यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् ।
विश्वास-प्रस्तुतिः
यन्नाश्ञी॒याद् अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत ।
मूलम्
यन्नाश्ञी॒याद् अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत ।
भट्टभास्कर-टीका
अथ, यदिपत्नीनाश्नीयात् अगृहमेधीस्यात्गृहमेधीयजमानोनस्यात् । नित्ययोगेमतुप्, ततोनञ्समासः । यज्ञव्यृद्धिस्तुनभवत्येव ।
विश्वास-प्रस्तुतिः
प्रति॑वेशम् पचेयुः । तस्या॑श्ञीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥46॥
मूलम्
प्रति॑वेशम् पचेयुः । तस्या॑श्ञीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥46॥
भट्टभास्कर-टीका
तस्माद्दोषद्वयनिवृत्तयेप्रतिवेशं पचेयुः तत्संयुक्तं पाकान्तरं सर्वात्थं कुर्युः । गतमन्यत् ॥
मूलम्
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् ।
विश्वास-प्रस्तुतिः
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒त्सान॑वासयन् ।
मूलम्
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒त्सान॑वासयन् ।
भट्टभास्कर-टीका
2 तेदेवा इत्यादि ॥ गृहमेधीयेनेष्ट्वा अञ्जनाभ्यञ्जनेकृत्वा अनन्तरं तत्र वत्सानन्ववासयन्नित्येके । मातृभिस्सहवत्सान्वासयन्तीत्यन्ये । ‘तृतीयार्थे’ इत्यहोकर्मप्रवचनयित्वम् ।
विश्वास-प्रस्तुतिः
तेभ्योऽसु॑रा॒ᳵ क्षुध॒म् प्राहि॑ण्वन् ।
मूलम्
तेभ्योऽसु॑रा॒ᳵ क्षुध॒म् प्राहि॑ण्वन् ।
भट्टभास्कर-टीका
तेभ्य इत्यादि । अत्रान्तरे असुरादेवेभ्यः क्षुधं प्राहिण्वन्प्रेषितवन्तः ।
मूलम्
सा दे॒वेषु॑ लो॒कमवि॑त्वा । असु॑रा॒न्पुन॑रगच्छत् ।
विश्वास-प्रस्तुतिः
सा दे॒वेषु॑ लो॒कमवि॑त्वा असु॑रा॒न् पुन॑रगच्छत् ।
मूलम्
सा दे॒वेषु॑ लो॒कमवि॑त्वा असु॑रा॒न् पुन॑रगच्छत् ।
भट्टभास्कर-टीका
साक्षुत्देवेषु लोकं अवकाशं अवित्वा अलब्ध्वापनरपि असुरानेव अगच्छत्गृहमेधीयानुभावेन ।
मूलम्
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति ।
विश्वास-प्रस्तुतिः
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ॥47॥ अनु॑ व॒त्सान् वा॑सयन्ति ।
भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ क्षुध॒म् प्रहि॑णोति ।
मूलम्
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ॥47॥ अनु॑ व॒त्सान् वा॑सयन्ति ।
भ्रातृ॑व्यायै॒व तद्यज॑मानः॒ क्षुध॒म् प्रहि॑णोति ।
भट्टभास्कर-टीका
तस्माद्गृहमेधीयेनेत्यादिविधिः । एवमनेन कर्मणा भ्रातृव्यायैव यजमानेन क्षुत्प्रहिताभवति॥
मूलम्
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्न्य॑दधुः ।
विश्वास-प्रस्तुतिः
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वेन्द्रा॑य निष्का॒सन् न्य॑दधुः ।
मूलम्
ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वेन्द्रा॑य निष्का॒सन् न्य॑दधुः ।
भट्टभास्कर-टीका
3 तेदेवा इत्यादि ॥ निष्कासं पचनस्थालीलग्नं क्षामकार्षं तमुद्धृत्यइन्द्रायन्यदधुः ।
विश्वास-प्रस्तुतिः
अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ ।
मूलम्
अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ ।
भट्टभास्कर-टीका
केनाभिप्रायेणेत्याह- निहितभागत्वात् अस्मानैव श्व इन्द्र उपावर्तिता अवश्यमेवश्वआगन्ताईति । अनेनाभिप्रायेण निष्कासं इन्द्रार्थं न्यदधुः ।
विश्वास-प्रस्तुतिः
तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत ।
मूलम्
तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत ।
मूलम्
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सन्निद॑ध्यात् ।
विश्वास-प्रस्तुतिः
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वेन्द्रा॑य निष्का॒सन् निद॑ध्यात् । इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते ।
मूलम्
गृ॒ह॒मे॒धीये॑ने॒ष्ट्वेन्द्रा॑य निष्का॒सन् निद॑ध्यात् । इन्द्र॑ ए॒वैन॒न्निहि॑तभाग उ॒पाव॑र्तते ।
भट्टभास्कर-टीका
इन्द्रोपि निहितभागत्वादेव उत्तरेद्युः उपावर्तत । तस्मात् - गृहमेधीयेनेत्यादिविधिः ॥
विश्वास-प्रस्तुतिः
गार्ह॑पत्ये जुहोति ॥48॥ भा॒ग॒धेये॑न+ ए॒वैनँ॒ सम॑र्धयति ।
मूलम्
गार्ह॑पत्ये जुहोति ॥48॥ भा॒ग॒धेये॑न+ ए॒वैनँ॒ सम॑र्धयति ।
भट्टभास्कर-टीका
4 गार्हपत्येजुहोतिनिष्कासम् ।
मूलम्
ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भमाह्व॑यति वषट्का॒र ए॒वास्य॒ सः ।
मूलम्
ऋ॒ष॒भमाह्व॑यति वषट्का॒र ए॒वास्य॒ सः ।
भट्टभास्कर-टीका
ऋषभमित्यादि ॥ ‘ऋषभ एहि’ इति । अथ आहूतस्य अस्य स एवास्यहोमस्य वषट्कारः ।
तस्मात् तस्मिन्नुदिते जुहोतीति गम्यते ।
विश्वास-प्रस्तुतिः
अथो॑ इन्द्रि॒यम् ए॒व तद्वी॒र्यय्ँ यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते ।
मूलम्
अथो॑ इन्द्रि॒यम् ए॒व तद्वी॒र्यय्ँ यज॑मानो॒ भ्रातृव्य॑स्य वृङ्क्ते ।
भट्टभास्कर-टीका
अथो अपिच भ्रातृव्यस्यइन्द्रियं वीर्यं च यजमानो वृङ्क्ते वर्जयति । इन्द्रवीर्यवृषभरवाश्रयात् ॥
मूलम्
इन्द्रो॑ वृ॒त्रँ ह॒त्वा । परा॑म्परा॒वत॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः ।
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑म् अगच्छ॒द् अपा॑राध॒मिति॒ मन्य॑मानः ।
मूलम्
इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑म् अगच्छ॒द् अपा॑राध॒मिति॒ मन्य॑मानः ।
भट्टभास्कर-टीका
5 इन्द्रोवृत्रमित्यादि ॥ परां परावतं परागतं दूरतरं देशं अगच्छत्अपारधमहं वाया इति अपाराधमिति मन्यमानः पुनरपि वृत्रभयात्दूरतरं गतइति ।
मूलम्
सो॑ऽब्रवीत् । क इ॒दव्ँवे॑दिष्य॒तीति॑।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् - “क इ॒दव्ँ वे॑दिष्य॒ती"ति॑ ।
मूलम्
सो॑ऽब्रवीत् - “क इ॒दव्ँ वे॑दिष्य॒ती"ति॑ ।
भट्टभास्कर-टीका
अथेन्द्रो मरुतां सन्निधौ अब्रवीत्बिभीमो वयं अथइदानीं वृत्रो जीवति उत मृत इति ।
इदमित्थं कोवेदिष्यतिज्ञास्यतिवेदितुं समर्थः कइति ।
विश्वास-प्रस्तुतिः
ते॑ऽब्रुवन् - “म॒रुतो॒ वरव्ँ॑ वृणामहै॥49॥ अथ॑ व॒यव्ँ वे॑दाम । अ॒स्मभ्य॑म् ए॒व प्र॑थ॒मँ ह॒विर् निरु॑प्याता॒” इति॑ ।
मूलम्
ते॑ऽब्रुवन् - “म॒रुतो॒ वरव्ँ॑ वृणामहै॥49॥ अथ॑ व॒यव्ँ वे॑दाम । अ॒स्मभ्य॑म् ए॒व प्र॑थ॒मँ ह॒विर् निरु॑प्याता॒” इति॑ ।
भट्टभास्कर-टीका
अथमरुतोऽब्रुवन्वयं वरं कंचित्वृणामहे तं यदिलभेमहि । अथवयमेवइदं वेदामज्ञातुं समर्थाइति । लोटि’आडुत्तमस्य’ इत्याडागमः । कः पुनः सइति चेत् अस्मभ्यमेवप्रथमं प्रधानहविर्भ्यः प्रागेव अस्मदीयं हविर्निरुप्यातै निरूप्येत इति अयमस्माकं वर इति । ‘उपसं वादाशङ्कयोश्च’ इति लेटि’वैतोऽन्यत्र’ इत्यैकारः ।
विश्वास-प्रस्तुतिः
त ए॑न॒म् अध्य॑क्रीडन् । तत् क्री॒डिना॑ङ् क्रीडि॒त्वम् ।
मूलम्
त ए॑न॒म् अध्य॑क्रीडन् । तत् क्री॒डिना॑ङ् क्रीडि॒त्वम् ।
भट्टभास्कर-टीका
अथेन्द्रेणतथाऽभ्यनुज्ञातेमरुतएनमध्यक्रीडन्एनमधिष्ठायक्रीडितवन्तः । ततोमृतइत्यजानन्निति ।
विश्वास-प्रस्तुतिः
यन्म॒रुद्भ्य॑ᳵ क्री॒डिभ्य॑ᳶ प्रथ॒मँ ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै ।
मूलम्
यन्म॒रुद्भ्य॑ᳵ क्री॒डिभ्य॑ᳶ प्रथ॒मँ ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै ।
भट्टभास्कर-टीका
तस्मात् क्रीडिभ्योमरुद्भ्यः प्रथमं हविर्निर्वापोविजयायभवति ॥
विश्वास-प्रस्तुतिः
सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्त् समृ॑द्ध्यै ।
मूलम्
सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्त् समृ॑द्ध्यै ।
भट्टभास्कर-टीका
6 साकमित्यादि ॥ गतम् ॥ लोकेअवकाशेयदुदयकालेइन्द्रोवृत्रं हतवान् । तस्मात् तत्र निर्वापोऽस्यसमृद्ध्यैभवति ॥
विश्वास-प्रस्तुतिः
ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।
मूलम्
ए॒तद्ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।
भट्टभास्कर-टीका
7 एतत्ब्राह्मणान्येवेत्यादि ॥ अनन्तरोदितवैश्वदेवादि ब्राह्मणोत्पन्नान्येव पञ्च हवींषि आग्नेयादीनि पौष्णान्तानि अत्रापि कर्तव्यानि ।
विश्वास-प्रस्तुतिः
ए॒तद्ब्रा॑ह्मण ऐन्द्रा॒ग्नः ।
मूलम्
ए॒तद्ब्रा॑ह्मण ऐन्द्रा॒ग्नः ।
भट्टभास्कर-टीका
अथतदनन्तरवरुणप्रघासब्राह्मणविहितोयऐन्द्राग्नः स एवात्रापिषष्ठं हविः ।
विश्वास-प्रस्तुतिः
अथै॒ष ऐ॒न्द्रश् च॒रुर् भ॑वति ॥50॥
मूलम्
अथै॒ष ऐ॒न्द्रश् च॒रुर् भ॑वति ॥50॥
भट्टभास्कर-टीका
अथसप्तमादिविधीयतेएन्द्रश्चरुः सप्तमः ॥
विश्वास-प्रस्तुतिः
उ॒द्धारव्ँ वा ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्रँ ह॒त्वा अ॒न्यासु॑ दे॒वता॒स्वधि॑ ।
मूलम्
उ॒द्धारव्ँ वा ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्रँ ह॒त्वा अ॒न्यासु॑ दे॒वता॒स्वधि॑ ।
भट्टभास्कर-टीका
8 उद्धारं वा इत्यादि ॥ इन्द्रोवृत्रं हत्वा अन्यासुदेवतास्वधि । उपरिऐश्वर्येवा अधिशब्दः । यथा- अधिपञ्चालेषु ब्रह्मदत्तइति । तद्विषयैश्वर्यनिमित्तोयउद्धारः आत्मनउच्छ्रायः तं एतं अनेनचरुणाउदहरत ।
मूलम्
यदे॒ष ऐ॒न्द्रश् च॒रुर्भव॑ति । उ॒द्धा॒रमे॒व तय्ँयज॑मान॒ उद्ध॑रते ।
विश्वास-प्रस्तुतिः
यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑त्य् उद्धा॒रम् ए॒व तय्ँ यज॑मान॒ उद्ध॑रते ।
अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ॥51॥
मूलम्
यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑त्य् उद्धा॒रम् ए॒व तय्ँ यज॑मान॒ उद्ध॑रते ।
अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ॥51॥
भट्टभास्कर-टीका
यदेष इत्यादि । गतम् । वैश्वकर्मणएककपालोऽष्टमः ॥
इति षष्ठे सप्तमः ॥