०६ साकमेधाः

राजसूयानुब्राह्मणम्‌

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

भट्टभास्कर-टीका

1 देवासुरा इत्यादि ॥ संयत्ताः संघातस्थाः ।

विश्वास-प्रस्तुतिः

सो॑ ऽग्निर॑ब्रवीत् ।

मूलम्

सो॑ ऽग्निर॑ब्रवीत् ।

मूलम्

ममे॒यमनी॑कवती त॒नूः । ताम्प्री॑णीत । अथासु॑रान॒भिभ॑विष्य॒थेति॑ ।

विश्वास-प्रस्तुतिः

“ममे॒यमनी॑कवती त॒नूस् ताम् प्री॑णीत ,+अथासु॑रान॒भिभ॑विष्य॒थे"ति॑ ।

ते दे॒वा अ॒ग्नये ऽनी॑कवते पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपन् ।

मूलम्

“ममे॒यमनी॑कवती त॒नूस् ताम् प्री॑णीत ,+अथासु॑रान॒भिभ॑विष्य॒थे"ति॑ ।

ते दे॒वा अ॒ग्नये ऽनी॑कवते पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपन् ।

भट्टभास्कर-टीका

अग्निरनीकवान्देवान् अब्रवीत् । गतमन्यत् ।

मूलम्

सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कान्यजनयत ।

विश्वास-प्रस्तुतिः

सो॑ ऽग्निर् अनी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तश्चतु॒र्धाऽनी॑कान्य् अजनयत । ततो॑ दे॒वा अभ॑वन्न् पराऽसु॑राः ॥40॥

मूलम्

सो॑ ऽग्निर् अनी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तश्चतु॒र्धाऽनी॑कान्य् अजनयत । ततो॑ दे॒वा अभ॑वन्न् पराऽसु॑राः ॥40॥

मूलम्

यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्तँ॒ स्वेन॑ भाग॒धेये॑न प्रीणाति ।

विश्वास-प्रस्तुतिः

यद् अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑त्य् अ॒ग्निम् ए॒वानी॑कवन्तँ॒ स्वेन॑ भाग॒धेये॑न प्रीणाति ।

मूलम्

यद् अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑त्य् अ॒ग्निम् ए॒वानी॑कवन्तँ॒ स्वेन॑ भाग॒धेये॑न प्रीणाति ।

मूलम्

सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कानि जनयते ।

विश्वास-प्रस्तुतिः

सो॑ऽग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तश् चतु॒र्धा ऽनी॑कानि जनयते ।
अ॒सौ वा आ॑दि॒त्यो॑ ऽग्निर् अनी॑कवान् ।
तस्य॑ र॒श्मयो ऽनी॑कानि ।
सा॒कँ सूर्ये॑णोद्य॒ता निर्व॑पति ।
सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति ।

तेऽसु॑रा॒ᳶ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा॑श्रयन्न् ॥41॥

विश्वास-प्रस्तुतिः

ते ऽसु॑रा॒ᳶ परा॑जिता॒ यन्तो॒ द्यावा॑पृथि॒वी उपा॑श्रयन्न् ॥41॥

मूलम्

ते ऽसु॑रा॒ᳶ परा॑जिता॒ यन्तो॒ द्यावा॑पृथि॒वी उपा॑श्रयन्न् ॥41॥

भट्टभास्कर-टीका

चतुर्धेति । सान्तपनादिभेदेन चतुर्धा सेना उत्पादितवान् । सर्वतोसुराणामपनोदनायतैरनीकैः तद्वानग्निनीकवान् ॥

विश्वास-प्रस्तुतिः

ते दे॒वा म॒रुद्भ्य॑स ्सान्तप॒नेभ्य॑श् च॒रुन् निर॑वपन् ।

मूलम्

ते दे॒वा म॒रुद्भ्य॑स ्सान्तप॒नेभ्य॑श् च॒रुन् निर॑वपन् ।

मूलम्

यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्त्सन्त॑पति ।

विश्वास-प्रस्तुतिः

यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति॒ द्यावा॑पृथि॒वीभ्या॑म् ए॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्त् सन्त॑पति ।

मूलम्

यन्म॒रुद्भ्य॑स्सान्तप॒नेभ्य॑श्च॒रुन्नि॒र्वप॑ति॒ द्यावा॑पृथि॒वीभ्या॑म् ए॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्त् सन्त॑पति ।

भट्टभास्कर-टीका

2 द्यावापृथिवी इति ॥ द्यावापृथिव्यौ दुर्गत्वेनगूढं प्रविष्टाः । उभयत इति । उपर्यधश्च सन्तपनात्सान्तपनाः ।

मूलम्

म॒ध्यन्दि॑ने॒ निर्व॑पति । तर्हि॒ हि तेक्ष्णि॑ष्ठ॒न्तप॑ति ।

विश्वास-प्रस्तुतिः

म॒ध्यन्दि॑ने॒ निर्व॑पति॒ तर्हि॒ हि तेक्ष्णि॑ष्ठ॒न्तप॑ति ।

मूलम्

म॒ध्यन्दि॑ने॒ निर्व॑पति॒ तर्हि॒ हि तेक्ष्णि॑ष्ठ॒न्तप॑ति ।

भट्टभास्कर-टीका

तेक्ष्णिष्ठमिति । तदानीं तीक्ष्णतरं तपतीति । छान्दसमेत्वम् ।

विश्वास-प्रस्तुतिः

च॒रुर्भ॑वति ।
स॒र्वत॑ ए॒वैना॒न्त्सन्त॑पति ।

मूलम्

च॒रुर्भ॑वति ।
स॒र्वत॑ ए॒वैना॒न्त्सन्त॑पति ।

भट्टभास्कर-टीका

सर्वत इति । चरोः सर्वतः तप्तवान् ॥

मूलम्

ते दे॒वाश्श्वो॑विज॒यिन॒स्सन्तः॑ । सर्वा॑सान्दु॒ग्धे गृ॑हमे॒धीय॑ञ्च॒रुन्निर॑वपन्न् ॥42॥

विश्वास-प्रस्तुतिः

ते दे॒वाश् श्वो॑ विज॒यिन॒स् सन्त॒स् सर्वा॑सान् दु॒ग्धे गृ॑हमे॒धीय॑ञ् च॒रुन् निर॑वपन्न् ॥42॥

मूलम्

ते दे॒वाश् श्वो॑ विज॒यिन॒स् सन्त॒स् सर्वा॑सान् दु॒ग्धे गृ॑हमे॒धीय॑ञ् च॒रुन् निर॑वपन्न् ॥42॥

भट्टभास्कर-टीका

3 गृहमेधीयमिति ॥ गृहमेवपाकयज्ञः । इध्माहरणाद्यभावेनतुल्यश्चरुः । तद्वन्तोगृहमेधिनः । तद्देवत्यं गृहमेधीयम् । ‘द्यावापृथिवी’ इत्यादिनाछः ।

विश्वास-प्रस्तुतिः

“आशि॑ता ए॒वाद्योप॑वसाम,

मूलम्

“आशि॑ता ए॒वाद्योप॑वसाम,

भट्टभास्कर-टीका

आशिता एवेति । अशनेनतृप्ता एव अस्मिन्उपवसामअग्निसमीपेवर्तेमहि ।

मूलम्

कस्य॒ वाऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ ।

विश्वास-प्रस्तुतिः

कस्य॒ वाऽहे॒दम् ,कस्य॑ वा॒ श्वो भ॑वि॒ते"ति॑ ।

मूलम्

कस्य॒ वाऽहे॒दम् ,कस्य॑ वा॒ श्वो भ॑वि॒ते"ति॑ ।

भट्टभास्कर-टीका

किं कारणमितिचेत्- उच्यते- कस्यवा इति । इदं वर्तमानं अस्मिन्नेवाह्निकस्यभविष्यतिकस्यवाश्वोभवितेतिनज्ञायते । तस्मादाशिता एवोपवसामेति । अहेतिनिपातः प्रसिद्धौ, विषादेवा ।

विश्वास-प्रस्तुतिः

स शृ॒तो॑ ऽभवत् ।
तस्याहु॑तस्य॒ नाश्ञ॑न् ।

मूलम्

स शृ॒तो॑ ऽभवत् ।
तस्याहु॑तस्य॒ नाश्ञ॑न् ।

भट्टभास्कर-टीका

अथचरुं श्रपयित्वा अहुतस्यानशनात्गृहमेधिभ्योऽजुहवुः ।

विश्वास-प्रस्तुतिः

न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ ।
ते॑ऽब्रुवन् ।
“कस्मा॑ इ॒मँ हो॑ष्याम॒” इति॑ ।
“म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒” इत्य् अ॑ब्रुवन् ।
तम् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ ऽजुहवुः ॥43॥

मूलम्

न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ ।
ते॑ऽब्रुवन् ।
“कस्मा॑ इ॒मँ हो॑ष्याम॒” इति॑ ।
“म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒” इत्य् अ॑ब्रुवन् ।
तम् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ ऽजुहवुः ॥43॥

मूलम्

ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ।

विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑व॒न्न् पराऽसु॑राः ।

मूलम्

ततो॑ दे॒वा अभ॑व॒न्न् पराऽसु॑राः ।

मूलम्

यस्यै॒वव्ँ वि॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना॑ । परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वि॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति॒ भव॑त्या॒त्मना॒ , परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

यस्यै॒वव्ँ वि॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति॒ भव॑त्या॒त्मना॒ , परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते॑ । प॒श॒व्य॑न्तत् ।

विश्वास-प्रस्तुतिः

यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते॑ पश॒व्य॑न् तत् ।
पा॒क॒त्रा वा ए॒तत् क्रि॑यते ।

मूलम्

यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते॑ पश॒व्य॑न् तत् ।
पा॒क॒त्रा वा ए॒तत् क्रि॑यते ।

भट्टभास्कर-टीका

पाकत्रेति । संक्षिप्तमित्यर्थः । छान्दसस्त्राप्रत्ययः । यत्खलुयज्ञस्य पाकमल्पं क्रियतेतत्पशुभ्योहितं भवति । पाकयज्ञविधयेत्यन्ये ।

विश्वास-प्रस्तुतिः

यन् नेध्माब॒र्हिर् भव॑ति ।
न सा॑मिधे॒नीर् अ॒न्वाह॑ ॥44॥
न प्र॑या॒जा इ॒ज्यन्ते॑ ।

नानू॑या॒जाः +++(इज्यन्ते)+++।

मूलम्

यन् नेध्माब॒र्हिर् भव॑ति ।
न सा॑मिधे॒नीर् अ॒न्वाह॑ ॥44॥
न प्र॑या॒जा इ॒ज्यन्ते॑ ।

नानू॑या॒जाः +++(इज्यन्ते)+++।

मूलम्

य ए॒वव्ँ वेद॑ । प॒शु॒मान्भ॑वति ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॑ , पशु॒मान् भ॑वति ।

मूलम्

य ए॒वव्ँ वेद॑ , पशु॒मान् भ॑वति ।

भट्टभास्कर-टीका

किपुनः पाकत्राकरणमित्याह- यदित्यादि। गतम् ॥

विश्वास-प्रस्तुतिः

आज्य॑भागौ यजति ।
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
म॒रुतो॑ गृहमे॒धिनो॑ यजति ।
भा॒ग॒धेये॑न+ ए॒वैना॒न्त् सम॑र्धयति ।
अ॒ग्निँ स्वि॑ष्ट॒कृतय्ँ॑ यजति॒ प्रति॑ष्ठित्यै ।

मूलम्

आज्य॑भागौ यजति ।
य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति ।
म॒रुतो॑ गृहमे॒धिनो॑ यजति ।
भा॒ग॒धेये॑न+ ए॒वैना॒न्त् सम॑र्धयति ।
अ॒ग्निँ स्वि॑ष्ट॒कृतय्ँ॑ यजति॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

4 आज्यभागौ यज्ञस्य चक्षुष्ट्वात्कर्तव्याविति । नान्तरेति न तिरोदधाति ॥

विश्वास-प्रस्तुतिः

इडा॑न्तो भवति ।
प॒शवो॒ वा इडा॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥45॥

मूलम्

इडा॑न्तो भवति ।
प॒शवो॒ वा इडा॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥45॥

भट्टभास्कर-टीका

5 स्विष्टदिडयोरनूद्यस्तुतिः फलविशेषप्रदशनार्था ॥

इति षष्ठे षष्ठोऽनुवाकः ॥