०५ राजसूयानुब्राह्मणशेषः

विश्वास-प्रस्तुतिः

उत्त॑रस्याव्ँ॒ वेद्या॑म् अ॒न्यानि॑ ह॒वीँषि॑ सादयति ।
दक्षि॑णायाम् मारु॒तीम् +++( सादयति )+++।

मूलम्

उत्त॑रस्याव्ँ॒ वेद्या॑म् अ॒न्यानि॑ ह॒वीँषि॑ सादयति ।
दक्षि॑णायाम् मारु॒तीम् +++( सादयति )+++।

भट्टभास्कर-टीका

1 उत्तरस्यामित्यादि ॥ अन्यानिमारुत्याआमिक्षायाः ।

विश्वास-प्रस्तुतिः

अ॒प॒धु॒रम् ए॒वैना॑ युनक्ति ।
अथो॒ ओज॑ ए॒वासा॒मि अव॑ हरति ।
तस्मा॒द् ब्रह्म॑णश् च क्ष॒त्राच् च॒ विशो॑ ऽन्यतो ऽपक्र॒मिणी॑ः ।

मूलम्

अ॒प॒धु॒रम् ए॒वैना॑ युनक्ति ।
अथो॒ ओज॑ ए॒वासा॒मि अव॑ हरति ।
तस्मा॒द् ब्रह्म॑णश् च क्ष॒त्राच् च॒ विशो॑ ऽन्यतो ऽपक्र॒मिणी॑ः ।

भट्टभास्कर-टीका

तां दक्षिणायां सादयति । अपधुरमिति । धुरोयद्वामस्थानं अपधुरं तत्बहिष्ठमितियावत् । तत्र एनाविशः अपक्रमणशीलाः पृथक्स्वभावाः मारुत्याः पृथक्सादितत्वात् । यद्वा- अन्यतोपाक्रमणं सत्यमुक्त्वा अन्यत्रासत्येअपसर्पणम् ॥

मूलम्

मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते ।

विश्वास-प्रस्तुतिः

मा॒रु॒त्या पूर्व॑या॒ प्रच॑र॒त्य् अनृ॑तम् ए॒वाव॑ यजते ।

मूलम्

मा॒रु॒त्या पूर्व॑या॒ प्रच॑र॒त्य् अनृ॑तम् ए॒वाव॑ यजते ।

मूलम्

वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते ।

विश्वास-प्रस्तुतिः

वा॒रु॒ण्योत्त॑रया +++(प्रच॑रति)+++, अन्त॒त ए॒व वरु॑ण॒म् अव॑ यजते ।

मूलम्

वा॒रु॒ण्योत्त॑रया +++(प्रच॑रति)+++, अन्त॒त ए॒व वरु॑ण॒म् अव॑ यजते ।

भट्टभास्कर-टीका

2 मारुत्यापूर्वयाप्रथमयाप्रचरितव्यम् । तेन अनृतं विशस्स्वभावं अन्यतोऽपक्रमणशीलत्वं अवयजतेनाशयति । वारुण्योत्तरयाप्रचरितव्यम् । अन्ततोवरुणं वारकं वरुणपाशं वा अवयजते अनतावयजनादनन्तरम् । यद्वा- अन्ततः यावदन्तं कृत्स्नं वरुणमित्यर्थः ॥

मूलम्

यदे॒वाध्व॒र्युᳵ क॒रोति॑ ॥34॥
तत्प्र॑तिप्रस्था॒ता क॑रोति ।

विश्वास-प्रस्तुतिः

यद् ए॒वाध्व॒र्युᳵ क॒रोति॒ तत् प्र॑तिप्रस्था॒ता क॑रोति ।

मूलम्

यद् ए॒वाध्व॒र्युᳵ क॒रोति॒ तत् प्र॑तिप्रस्था॒ता क॑रोति ।

भट्टभास्कर-टीका

3 यदेवेत्यादि ॥ यत्यज्जातीयं प्रतिप्रस्थाताकरोति ।

मूलम्

तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ । तत्पापी॑यान्करोति ।

विश्वास-प्रस्तुतिः

तस्मा॒द् यच् छ्रेया॑न् क॒रोति॒ तत् पापी॑यान् करोति ।

मूलम्

तस्मा॒द् यच् छ्रेया॑न् क॒रोति॒ तत् पापी॑यान् करोति ।

भट्टभास्कर-टीका

श्रेयान्प्रशस्यतरः । पापीयान्अल्पतरः ।

विश्वास-प्रस्तुतिः

पत्नीव्ँ॑ वाचयति ।

मूलम्

पत्नीव्ँ॑ वाचयति ।

भट्टभास्कर-टीका

पत्नीं वाचयति ‘प्रघास्यान्’ इति ।

विश्वास-प्रस्तुतिः

मेध्या॑म् ए॒वैना॑ङ् करोति ।

मूलम्

मेध्या॑म् ए॒वैना॑ङ् करोति ।

भट्टभास्कर-टीका

मेधार्हां एनां वाचनेनकरोति ।

विश्वास-प्रस्तुतिः

अथो॒ तप॑ ए॒वैना॒म् उप॑ नयति ।

मूलम्

अथो॒ तप॑ ए॒वैना॒म् उप॑ नयति ।

भट्टभास्कर-टीका

अथो अपिच अनेनवाचनेनएनां तप एवोपनयति ॥

मूलम्

यज्जा॒रँ सन्त॒न्न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।

विश्वास-प्रस्तुतिः

यज् जा॒रँ सन्त॒न् न प्र॑ब्रू॒यात् प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।

मूलम्

यज् जा॒रँ सन्त॒न् न प्र॑ब्रू॒यात् प्रि॒यं ज्ञा॒तिँ रु॑न्ध्यात् ।

भट्टभास्कर-टीका

4 यज्जारमित्यादि ॥ अत्रप्रतिप्रस्थातापृच्छतिपत्नीं कतितेजारा इति तत्र यदिजारं विद्यमानं न प्रब्रूयात् ।
प्रियं ज्ञातिं भर्तारं पुत्रं वारून्ध्यात्वरुणपाशेन ग्राहयेत् ।

विश्वास-प्रस्तुतिः

“अ॒सौ मे॑ जा॒र” इति॒ निर्दि॑शेत् ।

मूलम्

“अ॒सौ मे॑ जा॒र” इति॒ निर्दि॑शेत् ।

भट्टभास्कर-टीका

तस्मात् असौ मे जार इति नाम्ना जारं निर्दिशेत् ।

विश्वास-प्रस्तुतिः

नि॒र्दिश्य् ए॒वैनव्ँ॑ वरुण-पा॒शेन॑ ग्राहयति ॥35॥

मूलम्

नि॒र्दिश्य् ए॒वैनव्ँ॑ वरुण-पा॒शेन॑ ग्राहयति ॥35॥

भट्टभास्कर-टीका

एनं निर्दिश्यनिर्देशं जारस्यकुर्वतीएनं जारं एववरुणपाशेनग्राहयतिनतुप्रियं ज्ञातिम् ॥

विश्वास-प्रस्तुतिः

‘प्र॒घा॒स्या॑न् हवामह॒" इति॒ पत्नी॑म् उ॒दान॑यति ।

मूलम्

‘प्र॒घा॒स्या॑न् हवामह॒" इति॒ पत्नी॑म् उ॒दान॑यति ।

भट्टभास्कर-टीका

5 प्रघास्यान्हवामह इति ॥ प्रतिप्रस्थातापत्नीमुदानयति ।

विश्वास-प्रस्तुतिः

अह्व॑तै॒वैना॑म् ।

मूलम्

अह्व॑तै॒वैना॑म् ।

भट्टभास्कर-टीका

एनामह्वत आह्वयति । ‘लिपिसिचिह्वश्च’ इत्यङ्छान्दसोलुङ् ॥

मूलम्

यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानस्स्यात् ।

विश्वास-प्रस्तुतिः

यत् पत्नी॑ पुरोनुवा॒क्या॑म् अनु-ब्रू॒याद् निर्वी॑र्यो॒ यज॑मानस् स्यात् ।

मूलम्

यत् पत्नी॑ पुरोनुवा॒क्या॑म् अनु-ब्रू॒याद् निर्वी॑र्यो॒ यज॑मानस् स्यात् ।

भट्टभास्कर-टीका

6 यत्पत्नीति ॥ ‘मोषूणइन्द्र'7इत्येताम् । निर्वीर्य इति । आशासनीयेनयजमानस्यासम्बन्धात् ।

विश्वास-प्रस्तुतिः

यज॑मा॒नो ऽन्वा॑ह ।
आ॒त्मन्न् ए॒व वी॒र्य॑न् धत्ते ।

मूलम्

यज॑मा॒नो ऽन्वा॑ह ।
आ॒त्मन्न् ए॒व वी॒र्य॑न् धत्ते ।

भट्टभास्कर-टीका

तस्मात् । यजमान एव अन्वाहपुरोनुवाक्याम् । तथाकुर्वन्नात्मनिवीर्यं स्थापयति ।

विश्वास-प्रस्तुतिः

उ॒भौ या॒ज्याँ॑ +++(ब्रूतः )+++ सवीर्य॒त्वाय॑ ।

मूलम्

उ॒भौ या॒ज्याँ॑ +++(ब्रूतः )+++ सवीर्य॒त्वाय॑ ।

भट्टभास्कर-टीका

उभौ पत्नीयजमानौयाज्यां ब्रूतः ‘यद्ग्रामेयदरण्ये’ इत्येताम् ।

मूलम्

यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑यजते ।

विश्वास-प्रस्तुतिः

“यद् ग्रामे॒ यद् अर॑ण्ये॒"त्य् आ॑ह यथोदि॒तम् ए॒व वरु॑ण॒म् अव॑-यजते ।

मूलम्

“यद् ग्रामे॒ यद् अर॑ण्ये॒"त्य् आ॑ह यथोदि॒तम् ए॒व वरु॑ण॒म् अव॑-यजते ।

भट्टभास्कर-टीका

यद्ग्राम इत्यादि नाग्रामादिविषयस्यैनसः कर्तनेनयथोदितं यथोक्तं ग्रामादि विषयेसमस्तं वरुणं वारकं पापं अवयजतेनाशयत्येव ॥

विश्वास-प्रस्तुतिः

य॒ज॒मा॒न॒-दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥36॥
भ्रा॒तृ॒व्य॒-दे॒व॒त्यो॑ दक्षि॑णः ।

मूलम्

य॒ज॒मा॒न॒-दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥36॥
भ्रा॒तृ॒व्य॒-दे॒व॒त्यो॑ दक्षि॑णः ।

मूलम्

यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानव्ँवरुणपा॒शेन॑ ग्राहयेत् ।

विश्वास-प्रस्तुतिः

यद् आ॑हव॒नीये॑ जुहु॒याद् यज॑मानव्ँ वरुण-पा॒शेन॑ ग्राहयेत् ।

मूलम्

यद् आ॑हव॒नीये॑ जुहु॒याद् यज॑मानव्ँ वरुण-पा॒शेन॑ ग्राहयेत् ।

मूलम्

दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति ।

विश्वास-प्रस्तुतिः

दक्षि॑णे॒ ऽग्नौ जु॑होति॒ , भ्रातृ॑व्यम् ए॒व व॑रुण-पा॒शेन॑ ग्राहयति ।

मूलम्

दक्षि॑णे॒ ऽग्नौ जु॑होति॒ , भ्रातृ॑व्यम् ए॒व व॑रुण-पा॒शेन॑ ग्राहयति ।

भट्टभास्कर-टीका

7 यजमानदेवत्योवा इत्यादि ॥ गतम् । देवतान्तात्तादर्थ्येयत् । जुहुयादिति । करम्भपात्रणि ॥

मूलम्

शूर्पे॑ण जुहोति । अन्य॑मे॒व वरु॑ण॒मव॑ यजते ।

विश्वास-प्रस्तुतिः

शूर्पे॑ण जुहो॒त्य् अन्य॑म् ए॒व वरु॑ण॒म् अव॑ यजते ।

मूलम्

शूर्पे॑ण जुहो॒त्य् अन्य॑म् ए॒व वरु॑ण॒म् अव॑ यजते ।

भट्टभास्कर-टीका

8 अन्न्यमिति ॥ शूर्पस्य अन्नसाधनत्वात्तेनहोमं कुर्वन्अन्न्यं अन्नेभवं वरुणमवयजते ।

मूलम्

शी॒र्षन्न॑धि नि॒धाय॑ जुहोति । शी॒र्ष॒त ए॒व वरु॑ण॒मव॑ यजते ।

मन्त्रः़

शी॒र्षन्न् अ॑धि नि॒धाय॑ जुहोति , शीर्ष॒त ए॒व वरु॑ण॒म् अव॑ यजते ।

भट्टभास्कर-टीका

शीर्षत इति । शिरआरभ्यस्थितं वरुणमवयजते ।

मूलम्

प्र॒त्यङ्तिष्ठ॑ञ्जुहोति ॥37॥
प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते ।

मन्त्रः़

प्र॒त्यङ् तिष्ठ॑ञ् जुहोति , प्र॒त्यङ्ङ् ए॒व व॑रुण-पा॒शान् निर्मु॑च्यते ।

भट्टभास्कर-टीका

प्रत्यङ्प्रत्यङ्मुखः । प्रत्यङ्प्रतीपगमन एववरुणपाशान्निर्मुच्यते । यत्रगृहीत्वैवनयतिवरुणपाशं अन्ततोनिष्कृष्यप्रतिकूलमुक्त्वाआनीयते ॥

मूलम्

अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णन्नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒ प्रेतेति॒ वावैतदा॑ह ।

विश्वास-प्रस्तुतिः

“अक्र॒न् कर्म॑ कर्म॒कृते॒"त्य् आ॑ह दे॒वानृ॒णन् नि॑रव॒दाय॑ ,+ “अनृ॒णा गृ॒हान् उप॒ प्रेते"ति॒ वावैतदा॑ह, ।

मूलम्

“अक्र॒न् कर्म॑ कर्म॒कृते॒"त्य् आ॑ह दे॒वानृ॒णन् नि॑रव॒दाय॑ ,+ “अनृ॒णा गृ॒हान् उप॒ प्रेते"ति॒ वावैतदा॑ह, ।

भट्टभास्कर-टीका

9 अक्रन्कर्मकर्मकृत इति ॥ विपरायन्तौजपतः । तत्र मन्त्रस्याभिप्रायमाह- देवानित्यादि । देवसं बन्धिऋणं देवानित्युच्यते । एवमनेनयागेनवरुणं निरवदाय’यज्ञेनदेवेभ्यः ’ इत्युक्तं ऋणं देवानामपाकृत्य अनृणाः सन्तः इदानीं गृहानुपप्रेतउपसं प्राप्नुतेत्येतदर्थरूपमेव आह अयं मन्त्रः । ऋणं निरवदायेत्यनेन’देवेभ्यः ’ कर्मकृत्वा'7 इत्यस्यार्थोविवृतः । गृहानुपप्रेतेत्यस्यार्थोव्याख्यातः ॥

विश्वास-प्रस्तुतिः

वरु॑णगृहीतव्ँ॒ वा ए॒तद् य॒ज्ञस्य॑ ।

मूलम्

वरु॑णगृहीतव्ँ॒ वा ए॒तद् य॒ज्ञस्य॑ ।

भट्टभास्कर-टीका

10 वरुणगृहीतं वा इत्यादि ॥ एतत्वरुणेनगृहीतं भवतियज्ञस्ययन्मन्त्रेणगृर्हीतं अतिरिच्यतेपूर्ववदवशिष्टं गृहीतस्यादिस्थानमतिरेकः ।

मूलम्

यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषा॑श्च निष्का॒सश्च॑ ।

विश्वास-प्रस्तुतिः

यद् यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते॒ तुषा॑श् च निष्का॒सश् च॑ ।

मूलम्

यद् यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते॒ तुषा॑श् च निष्का॒सश् च॑ ।

भट्टभास्कर-टीका

कः पुनरत्रातिरिच्यत इत्याह- तुषाश्च निष्कासश्च तण्डुलावरणानिस्थालीलेपश्च ।

विश्वास-प्रस्तुतिः

तुषै॑श् च निष्का॒सेन॑ चावभृ॒थम् अवै॑ति ।

मूलम्

तुषै॑श् च निष्का॒सेन॑ चावभृ॒थम् अवै॑ति ।

भट्टभास्कर-टीका

तस्मात् तुषैः निष्कासेनचावभृथमवैति इति सगुणस्यावभृथस्यविधिः ।

विश्वास-प्रस्तुतिः

वरु॑णगृहीतेन+ ए॒व वरु॑ण॒म् अव॑ यजते ।

मूलम्

वरु॑णगृहीतेन+ ए॒व वरु॑ण॒म् अव॑ यजते ।

भट्टभास्कर-टीका

एवं कुर्वन्तेनैव वरुणगृहीतेनतुषादिनातमेवग्रहीतारं वरुणमवयजते अवमोचयति ॥

विश्वास-प्रस्तुतिः

अ॒पो॑ ऽवभृ॒थम् अवै॑ति ॥38॥

मूलम्

अ॒पो॑ ऽवभृ॒थम् अवै॑ति ॥38॥

मूलम्

अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑यजते ।

विश्वास-प्रस्तुतिः

अ॒प्सु वै वरु॑णस् सा॒क्षादे॒व वरु॑ण॒म् अव॑ यजते ।

मूलम्

अ॒प्सु वै वरु॑णस् सा॒क्षादे॒व वरु॑ण॒म् अव॑ यजते ।

मूलम्

प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते ।

विश्वास-प्रस्तुतिः

“प्रति॑युतो॒ वरु॑णस्य॒ पाश॒” इत्य् आ॑ह, वरुण-पा॒शादे॒व निर्मु॑च्यते ।

मूलम्

“प्रति॑युतो॒ वरु॑णस्य॒ पाश॒” इत्य् आ॑ह, वरुण-पा॒शादे॒व निर्मु॑च्यते ।

मूलम्

अप्र॑तीक्ष॒माय॑न्ति । वरु॑णस्या॒न्तर्हि॑त्यै ।

विश्वास-प्रस्तुतिः

अप्र॑तीक्ष॒म् आय॑न्ति॒ वरु॑णस्या॒न्तर्हि॑त्यै ।

मूलम्

अप्र॑तीक्ष॒म् आय॑न्ति॒ वरु॑णस्या॒न्तर्हि॑त्यै ।

भट्टभास्कर-टीका

11 अपोऽवभृथमवैतीत्यादि ॥ गतम् । ‘प्रतियुतोवरुणस्यपाशः ’ इत्युदकान्तं प्रत्यस्यति ।

विश्वास-प्रस्तुतिः

“एधो॑ ऽष्येधिषी॒मही"त्य् आ॑ह ।

मूलम्

“एधो॑ ऽष्येधिषी॒मही"त्य् आ॑ह ।

भट्टभास्कर-टीका

‘एधोस्येधिषीमहि’ इति समिदाधानम् ।

विश्वास-प्रस्तुतिः

स॒मिधै॒वाग्निन् न॑म॒स्यन्त॑ उ॒पाय॑न्ति ।

मूलम्

स॒मिधै॒वाग्निन् न॑म॒स्यन्त॑ उ॒पाय॑न्ति ।

मूलम्

तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ॥39 ॥

विश्वास-प्रस्तुतिः

“तेजो॑ ऽसि॒ तेजो॒ मयि॑ धे॒ही"त्य् आ॑ह॒ तेज॑ ए॒वात्मन् ध॑त्ते ॥39 ॥

मूलम्

“तेजो॑ ऽसि॒ तेजो॒ मयि॑ धे॒ही"त्य् आ॑ह॒ तेज॑ ए॒वात्मन् ध॑त्ते ॥39 ॥

भट्टभास्कर-टीका

नमस्यन्तः पूजयन्तः । ‘नमोवरिवश्चित्रङः क्यच्’ । गतमन्यत् ॥

इति षष्ठेपञ्चमोऽनुवाकः ॥