रायसूयानुब्राह्मणम्
मूलम्
त्रि॒वृद्ब॒र्हिर्भ॑वति । मा॒ता पि॒ता पु॒त्रः ।
विश्वास-प्रस्तुतिः
त्रि॒वृद् ब॒र्हिर् भ॑वति ,मा॒ता पि॒ता पु॒त्रः ।
मूलम्
त्रि॒वृद् ब॒र्हिर् भ॑वति ,मा॒ता पि॒ता पु॒त्रः ।
भट्टभास्कर-टीका
1.6.3 1 वैश्वदेवपर्वगतान्येवविशेषाङ्गानिविधीयन्ते । तत्र चोदकप्राप्तस्यबर्हिषस्त्रैगुण्यं विधत्ते- त्रिवृदिति ॥ मात्रादित्रयं यदस्ति तदेव पुत्रयुक्तत्वात्तन्मिथुनं सार्थकम् ।
मूलम्
तदे॒व तन्मि॑थु॒नम् । उल्ब॒ङ्गर्भो॑ ज॒रायु॑ ।
विश्वास-प्रस्तुतिः
तद् ए॒व तन् मि॑थु॒नम् उ॑ल्ब॒ङ् गर्भो॑ ज॒रायु॑ ।
तद् ए॒व तन् मि॑थु॒नम् ।
मूलम्
तद् ए॒व तन् मि॑थु॒नम् उ॑ल्ब॒ङ् गर्भो॑ ज॒रायु॑ ।
तद् ए॒व तन् मि॑थु॒नम् ।
भट्टभास्कर-टीका
गर्भस्यान्तर्वेष्टनं उल्बम् । बहिर्वेष्टनं जरायु । गर्भादित्रयं यदस्ति तदेव सारभूतेनगर्भेणोपेतत्वात्तन्मिथुनं सफलम् । उल्बजराय्वोर्द्वित्वसाम्येनमिथुनत्वम् । बर्हिषस्त्रैगुण्येसतियथोक्तमिथुनद्वयसाम्यं सम्पद्यते ॥
विश्वास-प्रस्तुतिः
त्रे॒धा ब॒र्हिस् सन्न॑द्धम् भवति ।
मूलम्
त्रे॒धा ब॒र्हिस् सन्न॑द्धम् भवति ।
मूलम्
त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
विश्वास-प्रस्तुतिः
त्रय॑ इ॒मे लो॒का ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
मूलम्
त्रय॑ इ॒मे लो॒का ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
2 प्रकृतौदर्भमुष्टीनां पृथग्बन्धनं नविहितम् । इहतुमुष्टित्रयस्यपृथग्बन्धनं विधत्ते- त्रेधेति ॥
विश्वास-प्रस्तुतिः
ए॒क॒धा पुन॒स् सन्न॑द्धम् भवति ।
मूलम्
ए॒क॒धा पुन॒स् सन्न॑द्धम् भवति ।
मूलम्
एक॑ इव॒ ह्य॑यल्ँ लो॒कः ॥19॥
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
एक॑ इव॒ ह्य् अ॑यल्ँ लो॒को अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑तिष्ठति ।
मूलम्
एक॑ इव॒ ह्य् अ॑यल्ँ लो॒को अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
3 पृथग्बद्धानां त्रयाणां मुष्टीनां पुनर्मिळित्वाबन्धनं विधत्ते- एकधेति ॥
विश्वास-प्रस्तुतिः
प्र॒सुवो॑ भवन्ति ।
मूलम्
प्र॒सुवो॑ भवन्ति ।
भट्टभास्कर-टीका
4 चोदकेनसामान्यतः प्राप्तानां दर्भाणां पुष्पितत्वरूपं विशेषं विधत्ते- प्रसुव इति ॥ प्रसूनोपेताः दर्भाः प्रसुवः ।
विश्वास-प्रस्तुतिः
प्र॒थ॒म॒जाम् ए॒व पुष्टि॒म् अव॑रुन्धे ।
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
प्र॒थ॒म॒जाम् ए॒व पुष्टि॒म् अव॑रुन्धे ।
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
प्रथमज इति । स्पष्टम् ॥
विश्वास-प्रस्तुतिः
पृ॒ष॒दा॒ज्यङ् गृ॑ह्णाति ।
प॒शवो॒ वै पृ॑षदा॒ज्यम् ।
प॒शूने॒वाव॑रुन्धे ।
मूलम्
पृ॒ष॒दा॒ज्यङ् गृ॑ह्णाति ।
प॒शवो॒ वै पृ॑षदा॒ज्यम् ।
प॒शूने॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
5 अनूयाजार्थस्यद्रव्यस्यगुणं विधत्ते- पृषदिति ॥ दधिमिश्रमाज्यं पृषदाज्यम् ॥
विश्वास-प्रस्तुतिः
प॒ञ्च॒-गृ॒ही॒तम् भ॑वति ।
पाङ्क्ता॒ हि प॒शवः॑ ।
मूलम्
प॒ञ्च॒-गृ॒ही॒तम् भ॑वति ।
पाङ्क्ता॒ हि प॒शवः॑ ।
भट्टभास्कर-टीका
6 ग्रहणेसंख्यां विधत्ते- पञ्चेति ॥ सपुच्छपादैः पञ्चभिर्युक्तत्वात्पङ्किच्छन्दसः साध्यत्वाद्वापशूनां पाङ्क्तत्वम् ॥
विश्वास-प्रस्तुतिः
ब॒हु॒-रू॒पम् भ॑वति ॥20॥
ब॒हु॒-रू॒पा हि प॒शव॒स् समृ॑द्ध्यै ।
मूलम्
ब॒हु॒-रू॒पम् भ॑वति ॥20॥
ब॒हु॒-रू॒पा हि प॒शव॒स् समृ॑द्ध्यै ।
भट्टभास्कर-टीका
7 मिश्रणं प्रशंसति- बह्विति ॥ दधिबिन्दूनां आज्यबिन्दूनामनेकरूपत्वात्बहुरूपत्वम् । गोमहिषादिरूपेणपशवोबहुरूपाः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निम् म॑न्थन्ति ।
अ॒ग्नि-मु॑खा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
अ॒ग्निम् म॑न्थन्ति ।
अ॒ग्नि-मु॑खा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
यद॒ग्निम्मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानस्सृजते ।
विश्वास-प्रस्तुतिः
यद् अ॒ग्निम् मन्थ॑न्त्य् अ॒ग्नि-मु॑खा ए॒व तत् प्र॒जा यज॑मानस् सृजते ।
मूलम्
यद् अ॒ग्निम् मन्थ॑न्त्य् अ॒ग्नि-मु॑खा ए॒व तत् प्र॒जा यज॑मानस् सृजते ।
भट्टभास्कर-टीका
8 हविरासादनादूर्ध्वं सामिधेनीभ्यः पुरामन्थनं विधत्ते- अग्निमिति ॥ अग्नेः प्रथमसृष्टत्वात्प्रजानामग्निमुखत्वम् ॥
मूलम्
नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः ।
विश्वास-प्रस्तुतिः
नव॑ प्रया॒जा इ॑ज्यन्ते॒ , नवा॑नूया॒जाः ।
अ॒ष्टौ ह॒वीँषि॑ ।
मूलम्
नव॑ प्रया॒जा इ॑ज्यन्ते॒ , नवा॑नूया॒जाः ।
अ॒ष्टौ ह॒वीँषि॑ ।
मूलम्
द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ॥21॥
विश्वास-प्रस्तुतिः
द्वाव् आ॑घा॒रौ , द्वाव् आज्य॑भागौ ॥21॥
मूलम्
द्वाव् आ॑घा॒रौ , द्वाव् आज्य॑भागौ ॥21॥
भट्टभास्कर-टीका
9 शाखान्तराभिहितां प्रयाजानूयाजसङ्ख्यां हृदिनिधाययागं प्रशंसति- नवेति ॥
मूलम्
त्रिँ॒शत्सम्प॑द्यन्ते । त्रिँ॒शद॑क्षरा वि॒राट् ।
विश्वास-प्रस्तुतिः
त्रिँ॒शत् सम्प॑द्यन्ते , त्रिँ॒शद् अ॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒म् अव॑रुन्धे ।
मूलम्
त्रिँ॒शत् सम्प॑द्यन्ते , त्रिँ॒शद् अ॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒म् अव॑रुन्धे ।
भट्टभास्कर-टीका
दशाक्षरपादैस्त्रिभिर्युक्तस्यविराट्छन्दसः त्रिंशदक्षरत्वम् ॥
मूलम्
यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य॑म् ।
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा एक॑कपाल॒स् तेज॒ आज्य॑म् ।
मूलम्
यज॑मानो॒ वा एक॑कपाल॒स् तेज॒ आज्य॑म् ।
मूलम्
यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यद् एक॑कपाल॒ आज्य॑म् आ॒नय॑ति॒ यज॑मानम् ए॒व तेज॑सा॒ सम॑र्धयति ।
मूलम्
यद् एक॑कपाल॒ आज्य॑म् आ॒नय॑ति॒ यज॑मानम् ए॒व तेज॑सा॒ सम॑र्धयति ।
मूलम्
यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य॑म् ॥22॥
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा एक॑कपालᳶ प॒शव॒ आज्य॑म् ॥22॥
मूलम्
यज॑मानो॒ वा एक॑कपालᳶ प॒शव॒ आज्य॑म् ॥22॥
मूलम्
यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभि॒स्सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यद् एक॑कपाल॒ आज्य॑म् आ॒नय॑ति॒ यज॑मानम् ए॒व प॒शुभि॒स् सम॑र्धयति ।
मूलम्
यद् एक॑कपाल॒ आज्य॑म् आ॒नय॑ति॒ यज॑मानम् ए॒व प॒शुभि॒स् सम॑र्धयति ।
भट्टभास्कर-टीका
10 अलङ्करणकालेआज्येनैककपालमभिपूरयतीत्यापस्तम्बेनयदुक्तं तदिदं द्वेधाप्रशस्यविधत्ते- यजमान इति ॥
मूलम्
यदल्प॑मा॒नये॑त् । अल्पा॑ एनम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन् ।
विश्वास-प्रस्तुतिः
यद् अल्प॑म् आ॒नये॑द् अल्पा॑ एनम् प॒शवो॑ भु॒ञ्जन्त॒ उप॑-तिष्ठेरन् ।
मूलम्
यद् अल्प॑म् आ॒नये॑द् अल्पा॑ एनम् प॒शवो॑ भु॒ञ्जन्त॒ उप॑-तिष्ठेरन् ।
मूलम्
यद्ब॒ह्वा॑नये॑त् । ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् ।
विश्वास-प्रस्तुतिः
यद् ब॒ह्व् आ॑नये॑द् ब॒हव॑ एनम् प॒शवो ऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् ।
मूलम्
यद् ब॒ह्व् आ॑नये॑द् ब॒हव॑ एनम् प॒शवो ऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् ।
भट्टभास्कर-टीका
11 विशेषान्तरं विधातुं प्रस्तौति- यदल्पमिति ॥ भुञ्जन्तः पालयन्तः । अभुञ्जन्तः अपालयन्तः । पशूनामल्पत्वमपालयितृत्वं चेतिदोषौ । बहुत्वं पालयितृत्वं चेतिगुणौ ।
विश्वास-प्रस्तुतिः
ब॒ह्व् आ॑नीया॒विᳶ-पृ॑ष्ठङ् कुर्यात् ।
ब॒हव॑ ए॒वैन॑म् प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते ।
मूलम्
ब॒ह्व् आ॑नीया॒विᳶ-पृ॑ष्ठङ् कुर्यात् ।
ब॒हव॑ ए॒वैन॑म् प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते ।
भट्टभास्कर-टीका
तत्र गुणसंपादनेन प्रशंसन् विधत्ते- बह्नानीयेति । बहुन्याज्ये पुरोडाशस्य पृष्ठमतिमज्ज्य यथा दृश्यते तथा तावत्वहु आज्यमानयेत् । तथासतिआज्यस्यबहुत्वात्पशूनामल्पत्वदोषोनभविष्यति । पुरोडाशपृष्ठस्याविर्भूतत्वात् अपालयितृत्वमपि न भवति ॥
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा एक॑कपालः ।
मूलम्
यज॑मानो॒ वा एक॑कपालः ।
मूलम्
यदेक॑कपालस्याव॒द्येत् ॥23॥
यज॑मान॒स्याव॑द्येत् ।
विश्वास-प्रस्तुतिः
यद् एक॑कपालस्याव॒द्येद् यज॑मान॒स्याव॑द्येत् ।
मूलम्
यद् एक॑कपालस्याव॒द्येद् यज॑मान॒स्याव॑द्येत् ।
भट्टभास्कर-टीका
12 कृत्स्नस्यापिपुरोडाशस्यहोमं विधातुं प्रस्तौति- यजमान इति ॥ इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्यकिञ्चिदेवावदीयेत । तद्वदत्राप्यवदानेनयजमानस्यावयवः छिद्येत ।
मूलम्
उद्वा॒ माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत ।
विश्वास-प्रस्तुतिः
उद् वा॒ माद्ये॒द् यज॑मानᳶ प्र वा॑ मीयेत ।
मूलम्
उद् वा॒ माद्ये॒द् यज॑मानᳶ प्र वा॑ मीयेत ।
भट्टभास्कर-टीका
अथवा उन्मत्तोभवेत् । यद्वाप्रमीयेत ॥
विश्वास-प्रस्तुतिः
स॒कृद् ए॒व हो॑त॒व्यः॑ ।
स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः ।
मूलम्
स॒कृद् ए॒व हो॑त॒व्यः॑ ।
स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः ।
भट्टभास्कर-टीका
13 कृत्स्नहोमं विधत्ते- सकृदेवेति ॥ सकृदेवकृत्स्न एव । स्वर्गलोकस्यसकृत्त्वमखण्डितत्वम् ॥
विश्वास-प्रस्तुतिः
हु॒त्वा ऽभि-जु॑होति ।
मूलम्
हु॒त्वा ऽभि-जु॑होति ।
मूलम्
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयि॒त्वा तेज॑सा॒ सम॑र्धयति ।
मूलम्
यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयि॒त्वा तेज॑सा॒ सम॑र्धयति ।
मूलम्
यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ॥24॥
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा एक॑-कपालस् सुव॒र्गो लो॒क आ॑हव॒नीयः॑ ॥24॥
मूलम्
यज॑मानो॒ वा एक॑-कपालस् सुव॒र्गो लो॒क आ॑हव॒नीयः॑ ॥24॥
मूलम्
यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
विश्वास-प्रस्तुतिः
यद् एक॑-कपालम् आहव॒नीये॑ जु॒होति॒ यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
मूलम्
यद् एक॑-कपालम् आहव॒नीये॑ जु॒होति॒ यज॑मानम् ए॒व सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
भट्टभास्कर-टीका
14 एककपालेपूर्वमानीतस्यबह्वाज्यस्यहोमं विधत्ते- हुत्वेति ॥ आदौपुरोडाशं हुत्वातस्यउपर्याज्यं जुहुयात् ॥
मूलम्
यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् ।
विश्वास-प्रस्तुतिः
यद् धस्ते॑न जुहु॒यात् सुव॒र्गाल् लो॒काद् यज॑मान॒म् अव॑विध्येत् ।
मूलम्
यद् धस्ते॑न जुहु॒यात् सुव॒र्गाल् लो॒काद् यज॑मान॒म् अव॑विध्येत् ।
मूलम्
स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
विश्वास-प्रस्तुतिः
स्रु॒चा जु॑होति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
स्रु॒चा जु॑होति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
15 कथाचिदुपपत्त्यापुरोडाशस्यचोदकप्राप्तं स्रुचाहोममपोद्यहस्तेनहोमः प्रसक्तः । तद्वारणायस्रुचाहोमस्यप्रतिप्रसवं विधत्ते- यदिति ॥ अवविध्येत्प्रच्यावयेत् । पुरोडाशोयेनसन्निवेशेनपात्रेऽवस्थितः तेनैव सन्निवेशेनाग्नौतस्यस्थितिः शाखान्तरेविहिता । स्रुचाहूयमानस्त्ववाङ्मुखोवह्नौपतेत् । अतः तद्विरोधं परिहर्तुं हस्तेनहोतव्यं इत्येषामन्दानामुपपत्तिः ॥
मूलम्
यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भिज॑येत् ।
विश्वास-प्रस्तुतिः
यत् प्राङ् पद्ये॑त देव-लो॒कम् अ॒भि-ज॑येत् ।
यद् द॑क्षि॒णा +++(पद्येत)+++ पि॑तृ-लो॒कम् +++(अभिजयेत् )+++।
मूलम्
यत् प्राङ् पद्ये॑त देव-लो॒कम् अ॒भि-ज॑येत् ।
यद् द॑क्षि॒णा +++(पद्येत)+++ पि॑तृ-लो॒कम् +++(अभिजयेत् )+++।
मूलम्
यत्प्र॒त्यक् ॥25॥
रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
विश्वास-प्रस्तुतिः
यत् प्र॒त्यक् +++(पद्येत)+++रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
मूलम्
यत् प्र॒त्यक् +++(पद्येत)+++रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
मूलम्
यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒कम॒भिज॑येत् ।
विश्वास-प्रस्तुतिः
यद् उदङ्ङ्॑ +++(पद्येत)+++ मनुष्य-लो॒कम् अ॒भि-ज॑येत् ।
मूलम्
यद् उदङ्ङ्॑ +++(पद्येत)+++ मनुष्य-लो॒कम् अ॒भि-ज॑येत् ।
भट्टभास्कर-टीका
16 हुतस्यपुरोडाशस्यनैश्चल्यं विधातुं प्रस्तौति- यत्प्राङिति ॥ यद्यपिलोकादिजयोनस्वरूपेणजयः । तथाऽप्यधिकफलभावनायां सत्यां तावन्मात्रत्वं दोष एव ॥
विश्वास-प्रस्तुतिः
प्रति॑ष्ठितो होत॒व्यः॑ ।
एक॑कपालव्ँ॒ वै प्र॑ति॒तिष्ठ॑न् त॒न् द्यावा॑-पृथि॒वी अनु॒ प्रति॑-तिष्ठतः ।
द्यावा॑-पृथि॒वी ऋ॒तवः॑+++(अनु प्रतितिष्ठन्ति )+++ ।
ऋ॒तून् य॒ज्ञः +++( अनु प्रतितिष्ठिति)+++ ।
य॒ज्ञय्ँ यज॑मानः +++( अनु प्रतितिष्ठति)+++ ।
यज॑मानम् प्र॒जाः +++( अनु प्रतितिष्ठन्ति)+++ ।

17 विधत्ते- प्रतिष्ठित इति ॥ प्रागादिदिक्षु पतनपरिहारेणहोमस्थान एवप्रतिष्ठितः निश्चलोयथाभवतितथाहोतव्यः । ऋतव इत्यादिषु अनुप्रतितिष्ठन्तीत्यादिकं द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ॥26॥
मूलम्
तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ॥26॥
भट्टभास्कर-टीका
तस्मादिति । पूर्वस्यविधेरुपसंहारः ॥
विश्वास-प्रस्तुतिः
वा॒जिनो॑ यजति ।
मूलम्
वा॒जिनो॑ यजति ।
मूलम्
अ॒ग्निर्वा॒युस्सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्य॑जति ।
विश्वास-प्रस्तुतिः
अ॒ग्निर् वा॒युस् सूर्यः॒, ते वै वा॒जिन॒स्, ताने॒व तद् य॑जति ।
मूलम्
अ॒ग्निर् वा॒युस् सूर्यः॒, ते वै वा॒जिन॒स्, ताने॒व तद् य॑जति ।
मूलम्
अथो॒ खल्वा॑हुः । छन्दाँ॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्य॑जति ।
विश्वास-प्रस्तुतिः
अथो॒ खल्व् आ॑हुः॒ , “छन्दाँ॑सि॒ वै वा॒जिन॒” इति॒ , तान्य् ए॒व तद् य॑जति ।
मूलम्
अथो॒ खल्व् आ॑हुः॒ , “छन्दाँ॑सि॒ वै वा॒जिन॒” इति॒ , तान्य् ए॒व तद् य॑जति ।
भट्टभास्कर-टीका
18 वैश्वदेव्यामिक्षयानिस्सृतं वाजिनशब्दाभिधेयं यन्नीरं तस्यवाजिसं ज्ञकान्देवानुद्दिश्ययागं विधत्ते- वाजिन इति ॥
विश्वास-प्रस्तुतिः
ऋ॒ख्-सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒-पानौ॑ ।
तयो॑ᳶ परि॒धय॑ आ॒धान॑म् ।
वाजि॑नम्भाग॒धेय॑म् ॥27॥
मूलम्
ऋ॒ख्-सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒-पानौ॑ ।
तयो॑ᳶ परि॒धय॑ आ॒धान॑म् ।
वाजि॑नम्भाग॒धेय॑म् ॥27॥
विश्वास-प्रस्तुतिः
तयो॑ᳶ परि॒धय॑ आ॒धानव्ँ॒ वाजि॑नम् भाग॒धेय॑म् ॥27॥
मूलम्
तयो॑ᳶ परि॒धय॑ आ॒धानव्ँ॒ वाजि॑नम् भाग॒धेय॑म् ॥27॥
भट्टभास्कर-टीका
19 तस्ययागस्यकालं विधातुं प्रस्तौति- ऋगिति ॥ हरीअश्वौ । तयोः वशीकरणाय मुखे प्रक्षिप्तो लोहविशेषआधानम् ।
मूलम्
यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्याङ्घा॒सम्प्रय॑च्छेत् ।
विश्वास-प्रस्तुतिः
यद् अप्र॑हृत्य परि॒धीञ् जु॑हु॒याद् अ॒न्तरा॑धानाभ्याङ् घा॒सम् प्रय॑च्छेत् ।
मूलम्
यद् अप्र॑हृत्य परि॒धीञ् जु॑हु॒याद् अ॒न्तरा॑धानाभ्याङ् घा॒सम् प्रय॑च्छेत् ।
भट्टभास्कर-टीका
अन्तः मुखमध्येऽवस्थितमाधानं ययोस्तावन्तराधानौ । हस्तेनमुखेप्रक्षिप्यमाणः साज्यशर्करमुद्गादिपिण्डोघासः । तृणविशेषोवा । नह्याधानऽन्तरवस्थितेसतिघासोभक्षयितुं शक्यः ॥
विश्वास-प्रस्तुतिः
प्र॒हृत्य॑ परि॒धीञ् जु॑होति ।
निरा॑धानाभ्याम् ए॒व घा॒सम् प्रय॑च्छति ।
मूलम्
प्र॒हृत्य॑ परि॒धीञ् जु॑होति ।
निरा॑धानाभ्याम् ए॒व घा॒सम् प्रय॑च्छति ।
भट्टभास्कर-टीका
20 विधत्ते- प्रहृत्येति ॥ परिधीनामग्नौप्रहारेणआधानस्य अपनीतत्वात्घासः भक्षयितुं शक्यते ॥
विश्वास-प्रस्तुतिः
ब॒र्हिषि॑ विषि॒ञ्चन् वाजि॑न॒म् आन॑यति ।
मूलम्
ब॒र्हिषि॑ विषि॒ञ्चन् वाजि॑न॒म् आन॑यति ।
मूलम्
प्र॒जा वै ब॒र्हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति ।
विश्वास-प्रस्तुतिः
प्र॒जा वै ब॒र्ही रेतो॒ वाजि॑नम् , प्र॒जास्व् ए॒व रेतो॑ दधाति ।
मूलम्
प्र॒जा वै ब॒र्ही रेतो॒ वाजि॑नम् , प्र॒जास्व् ए॒व रेतो॑ दधाति ।
भट्टभास्कर-टीका
21 तत्र पात्रेग्रहणकालेपात्रस्याभिरक्षणेन अधोऽवस्थितस्यबर्हिषः विशेषणसेचनं विधत्ते- बर्हिषीति ॥
विश्वास-प्रस्तुतिः
स॒मु॒प॒हूय॑ भक्षयन्ति ।
ए॒तत् सो॑मपीथा॒ ह्य् ए॑ते ।
अथो॑ आ॒त्मन्न् ए॒व रेतो॑ दधते ।
मूलम्
स॒मु॒प॒हूय॑ भक्षयन्ति ।
ए॒तत् सो॑मपीथा॒ ह्य् ए॑ते ।
अथो॑ आ॒त्मन्न् ए॒व रेतो॑ दधते ।
भट्टभास्कर-टीका
22 सोमवत्परस्परोपहवपूर्वकं भक्षणमप्राप्तत्वादिहविधत्ते-समुपहूयेति ॥ वाजिनयागस्यसान्नाय्यविकृतित्वेऽपि सान्नाय्यवदिडाभक्षणं नकर्तव्यम् । किन्तुसोमवद्भक्षयेत् ।
एतदेव वाजिनभक्षणं सोमपीथः सोमपानं येषां ऋत्विजां ते एतत्सोमपीथाः ॥
विश्वास-प्रस्तुतिः
यज॑मान उत्त॒मो भ॑क्षयति ।
मूलम्
यज॑मान उत्त॒मो भ॑क्षयति ।
मूलम्
प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ॥28॥
विश्वास-प्रस्तुतिः
प॒शवो॒ वै वाजि॑नय्ँ॒ यज॑मान ए॒व प॒शून् प्रति॑ष्ठापयन्ति ॥28॥
मूलम्
प॒शवो॒ वै वाजि॑नय्ँ॒ यज॑मान ए॒व प॒शून् प्रति॑ष्ठापयन्ति ॥28॥
भट्टभास्कर-टीका
23 वाजिनभक्षणेयजमानस्यचरमभक्षणं विधत्ते- यजमान इति ॥ स्पष्टम् ॥
इति षष्ठे तृतीयोऽनुवाकः ॥