राजसूयानुब्राह्मणम्
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
भट्टभास्कर-टीका
1 सन्तिराजसूयेचातुर्मास्यहवींषि । तत्र वैश्वदेवपर्वहवींषि स्तौति- वैश्वदेवेनेति ॥ वैश्वदेवाख्यं कर्मानुष्ठाय तेनैवाहितः प्रजापतिः प्रजा असृजत ।
विश्वास-प्रस्तुतिः
तास् सृ॒ष्टा न प्राजा॑यन्त ।
मूलम्
तास् सृ॒ष्टा न प्राजा॑यन्त ।
भट्टभास्कर-टीका
तास्सृष्टाः प्रजानप्राजायन्तनस्वापत्यानिलेभिरे ।
मूलम्
सो॑ऽग्निर॑कामयत । अ॒हमि॒माᳶ प्रज॑नयेय॒मिति॑ ।
विश्वास-प्रस्तुतिः
सो॑ ऽग्निर् अ॑कामयत, “अ॒हम् इ॒माᳶ प्रज॑नयेय॒मि"ति॑ ।
मूलम्
सो॑ ऽग्निर् अ॑कामयत, “अ॒हम् इ॒माᳶ प्रज॑नयेय॒मि"ति॑ ।
भट्टभास्कर-टीका
सः तासुप्रजासुमध्येस्थितः अग्निः अहं प्रजाः प्रजनयेयमितिअकामयत ।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तये॒ शुच॑म् अदधात् ।
मूलम्
स प्र॒जाप॑तये॒ शुच॑म् अदधात् ।
भट्टभास्कर-टीका
सः एवं कामयमानः अग्निः प्रजापतयेशुचं शोकं अदधात् ।
प्रजापतिसृष्टानां प्रजानामपत्याभावस्य अपत्योत्पादनकामिनावह्निनास्मारितत्वात्प्रजापतौवह्निश्शोकोत्पादकउच्यते ।
विश्वास-प्रस्तुतिः
सो॑ ऽशोचत् प्र॒जाम् इ॒च्छमा॑नः ।
मूलम्
सो॑ ऽशोचत् प्र॒जाम् इ॒च्छमा॑नः ।
भट्टभास्कर-टीका
यस्मात्पुत्रवान्प्रजापतिः पौत्रमिच्छन्नशोचत्
मूलम्
तस्मा॒द्यञ्च॑ प्र॒जा भु॒नक्ति॒ यञ्च॒ न । तावु॒भौ शो॑चतᳶ प्र॒जामि॒च्छमा॑नौ ।
विश्वास-प्रस्तुतिः
तस्मा॒द् यञ् च॑ प्र॒जा भु॒नक्ति॒ यञ् च॒ न +++(भुनक्ति)++ ताव् उ॒भौ शो॑चतᳶ प्र॒जाम् इ॒च्छमा॑नौ ।
मूलम्
तस्मा॒द् यञ् च॑ प्र॒जा भु॒नक्ति॒ यञ् च॒ न +++(भुनक्ति)++ ताव् उ॒भौ शो॑चतᳶ प्र॒जाम् इ॒च्छमा॑नौ ।
भट्टभास्कर-टीका
यस्मात्पुत्राभावादग्निरशोचत्तस्मात् लोकेऽपि यं पितरं उत्पन्नाप्रजापुत्ररूपाभुनक्ति पालयति यं च अपत्यरहितं अनुत्पन्नाप्रजानपालयतितावुभौ पौत्ररूपां पुत्ररूपां च प्रजां इच्छमानौशोचतः ॥
विश्वास-प्रस्तुतिः
तास्व् अ॒ग्निम् अप्य् अ॑सृजत् ।
मूलम्
तास्व् अ॒ग्निम् अप्य् अ॑सृजत् ।
भट्टभास्कर-टीका
2 तासुस्वासुप्रजासुप्रजापतिः प्रजामुत्पादयितुं अग्निं असृजत्अभ्यनुज्ञातवान् ।
विश्वास-प्रस्तुतिः
ता अ॒ग्निर् अध्यै॑त् ॥12॥
मूलम्
ता अ॒ग्निर् अध्यै॑त् ॥12॥
भट्टभास्कर-टीका
तथा अनुज्ञातः अग्निः प्रजाः अध्यैत्प्राप्तवान्मिथुनभावेनसङ्गतवान् ।
विश्वास-प्रस्तुतिः
सोमो॒ रेतो॑ ऽदधात् ।
मूलम्
सोमो॒ रेतो॑ ऽदधात् ।
भट्टभास्कर-टीका
अतः सोमआग्नेयं रेतः तासुप्रजासुगर्भभावेनधारितवान् ।
विश्वास-प्रस्तुतिः
स॒वि॒ता प्राज॑नयत् ।
मूलम्
स॒वि॒ता प्राज॑नयत् ।
भट्टभास्कर-टीका
ततः सविताप्रसवकालेप्राजनयत्प्रजाः ।
विश्वास-प्रस्तुतिः
सर॑स्वती॒ वाच॑म् अदधात् ।
मूलम्
सर॑स्वती॒ वाच॑म् अदधात् ।
भट्टभास्कर-टीका
तेषु अपत्येषु सरस्वतीवाचं अदधात्सं भाषितुं अभ्यासं कारयामास । ़
विश्वास-प्रस्तुतिः
पू॒षा ऽपो॑षयत् ।
मूलम्
पू॒षा ऽपो॑षयत् ।
भट्टभास्कर-टीका
ततः सम्भाषमाणान्बालकान्पूषा अपोषयत्अभ्यवर्धयत् ।
मूलम्
ते वा ए॒ते त्रिस्सव्ँ॑वत्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाᳶ पुष्टि॑पतयः ।
विश्वास-प्रस्तुतिः
ते वा ए॒ते त्रिस् सव्ँ॑वत्स॒रस्य॒ प्रयु॑ज्यन्ते ये दे॒वाᳶ पुष्टि॑-पतयः ।
मूलम्
ते वा ए॒ते त्रिस् सव्ँ॑वत्स॒रस्य॒ प्रयु॑ज्यन्ते ये दे॒वाᳶ पुष्टि॑-पतयः ।
भट्टभास्कर-टीका
येदेवाः अग्निसोमादयः पुष्टिपतयः अपत्यपोषकाः त एते अग्न्यादयः पूषान्ताः पञ्चदेवाः पुष्टिकरत्वेनसंवत्सरस्यमध्येचातुर्मास्येषु त्रिः प्रयुज्यन्ते । वैश्ववेवरुणप्रघाससाकमेधाख्येषु पर्वसुपञ्चानामेतेषां आग्नेयादीनां संचारितत्वात् ।
विश्वास-प्रस्तुतिः
सव्ँ्॒व॒त्स॒रो वै प्र॒जाप॑तिः ।
मूलम्
सव्ँ्॒व॒त्स॒रो वै प्र॒जाप॑तिः ।
भट्टभास्कर-टीका
सोऽयं प्रयोगत्रयकालः संवत्सर एवप्रजापतिः तत्स्वरूपः ।
विश्वास-प्रस्तुतिः
सव्ँ्॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्राज॑नयत् ।
मूलम्
सव्ँ्॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्राज॑नयत् ।
भट्टभास्कर-टीका
अतः प्रजापतिरूपेणप्रयोगत्रययुक्तेनसंवत्सरेणैव अस्मैअनुष्ठात्रेप्रजाः प्राजनयत् ॥
विश्वास-प्रस्तुतिः
ताᳶ प्र॒जा जा॒ता म॒रुतो॑ ऽघ्नन् ।
मूलम्
ताᳶ प्र॒जा जा॒ता म॒रुतो॑ ऽघ्नन् ।
भट्टभास्कर-टीका
3 एवंपञ्चयागान्प्रशस्यषष्ठंयागंप्रशंसति- मरुतः ताः जाताः प्रजाः हतवन्तः ।
विश्वास-प्रस्तुतिः
अ॒स्मान् अपि॒ न प्रायु॑क्ष॒तेति॑ ॥13॥
मूलम्
अ॒स्मान् अपि॒ न प्रायु॑क्ष॒तेति॑ ॥13॥
भट्टभास्कर-टीका
केनाभिप्रायेण अस्मानपि एतस्मिन्वैश्वदेवेकर्मणि न प्रायुक्षत न प्रयुक्तवत्यः ।
विश्वास-प्रस्तुतिः
स ए॒तम् प्र॒जाप॑तिर् मारु॒तँ स॒प्तक॑पालम् अपश्यत् ।
तन् निर॑वपत् ।
ततो॒ वै प्र॒जाभ्यो॑ ऽकल्पत ।
मूलम्
स ए॒तम् प्र॒जाप॑तिर् मारु॒तँ स॒प्तक॑पालम् अपश्यत् ।
तन् निर॑वपत् ।
ततो॒ वै प्र॒जाभ्यो॑ ऽकल्पत ।
भट्टभास्कर-टीका
एताः प्रजा इति । प्रजाभ्योऽकल्पतप्रजारक्षणसमर्थोऽभूत् ।
मूलम्
यन्मा॑रु॒तो नि॑रु॒प्यते॑ । य॒ज्ञस्य॒ कॢप्त्यै॑ ।
विश्वास-प्रस्तुतिः
यन् मा॑रु॒तो नि॑रु॒प्यते॑ य॒ज्ञस्य॒ कॢप्त्यै॑ , प्र॒जाना॒म् अघा॑ताय ।
मूलम्
यन् मा॑रु॒तो नि॑रु॒प्यते॑ य॒ज्ञस्य॒ कॢप्त्यै॑ , प्र॒जाना॒म् अघा॑ताय ।
भट्टभास्कर-टीका
यज्ञस्यकॢप्त्यैसंपूर्त्यै । प्रजानां अघाताय अहिंसायै ॥
विश्वास-प्रस्तुतिः
स॒प्त-क॑पालो भवति ।
मूलम्
स॒प्त-क॑पालो भवति ।
मूलम्
स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति ।
विश्वास-प्रस्तुतिः
स॒प्त-ग॑णा॒ वै म॒रुतो॒ ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति ।
मूलम्
स॒प्त-ग॑णा॒ वै म॒रुतो॒ ग॒ण॒श ए॒वास्मै॒ विश॑ङ्कल्पयति ।
भट्टभास्कर-टीका
4 तत्र कपालसङ्ख्यां प्रशंसति- सप्तानां समूहएकैकोगणः तादृशागणाः सप्तसङ्ख्याकाः यत्रतेमरुतः । गणश एवसङ्घरूपां विशं प्रजां अस्मैयजमानायकल्पयतिसप्तकपालोमारुतः ॥
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिर् अशोचत् ॥14॥
मूलम्
स प्र॒जाप॑तिर् अशोचत् ॥14॥
मूलम्
याᳶ पूर्वा॑ᳶ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑रास्सृजे॒येति॑ ।
विश्वास-प्रस्तुतिः
“याᳶ पूर्वा॑ᳶ प्र॒जा असृ॑क्षि म॒रुत॒स् ता अ॑वधिषुᳵ , क॒थम् अप॑रास् सृजे॒ये"ति॑ ।
मूलम्
“याᳶ पूर्वा॑ᳶ प्र॒जा असृ॑क्षि म॒रुत॒स् ता अ॑वधिषुᳵ , क॒थम् अप॑रास् सृजे॒ये"ति॑ ।
भट्टभास्कर-टीका
5 सप्तमयागेद्रव्यं प्रशंसति- याः पूर्वाः प्रजा असृक्षिसृष्टाः ताः मरुतः अवधिषुः इति एवं सः प्रजापतिः अशोचत् ।
विश्वास-प्रस्तुतिः
तस्य॒ शुष्म॑ आ॒ण्डम् भू॒तन् निर॑वर्तत ।
मूलम्
तस्य॒ शुष्म॑ आ॒ण्डम् भू॒तन् निर॑वर्तत ।
भट्टभास्कर-टीका
तस्यतथाशोचतः प्रजापतेः शुष्मः बलं आण्डं भूतं अण्डवत्पिण्डाकारं निरवर्ततनिर्वृत्तम् ।
विश्वास-प्रस्तुतिः
तद् व्युद॑हरत् ।
मूलम्
तद् व्युद॑हरत् ।
भट्टभास्कर-टीका
तत्तथानिर्वृत्तं व्युदहरत्विभज्योद्धृतवान् ।
विश्वास-प्रस्तुतिः
तद् अ॑पोषयत् ।
तत् प्राजा॑यत ।
मूलम्
तद् अ॑पोषयत् ।
तत् प्राजा॑यत ।
भट्टभास्कर-टीका
उद्धृत्यचतत्पोषयित्वाप्रजारूपेणउदपादयत् ।
मूलम्
आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् । यदा॒मिक्षा॑ । यद्व्यु॒द्धर॑ति ॥15॥
विश्वास-प्रस्तुतिः
आ॒ण्डस्य॒ वा ए॒तद् रू॒पय्ँ यद् आ॒मिक्षा॑ , यद् व्यु॒द्धर॑ति ॥15॥
प्र॒जा ए॒व तद् यज॑मानᳶ पोषयति ।
मूलम्
आ॒ण्डस्य॒ वा ए॒तद् रू॒पय्ँ यद् आ॒मिक्षा॑ , यद् व्यु॒द्धर॑ति ॥15॥
प्र॒जा ए॒व तद् यज॑मानᳶ पोषयति ।
भट्टभास्कर-टीका
पिण्डरूपाया आमिक्षाया अण्डरूपत्वात्तद्व्युद्धरेणप्रजापतिवत्यजमानः प्रजाः पोषयति । अनेनच अर्थवादेन अपूर्वार्थत्वात्व्युद्धरेदिति विधिरुन्नेतव्यः ।
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒व्य् आ॑मिक्षा॑ भवति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
मूलम्
वै॒श्व॒दे॒व्य् आ॑मिक्षा॑ भवति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
भट्टभास्कर-टीका
6 तत्र देवतां प्रशंसति- वैश्वदेवीति ॥ बहुभिः देवैः अग्न्यादिभिः उक्तप्रकारेणोत्पादितत्वात्प्रजानां वैश्वदेवत्वम् ॥
विश्वास-प्रस्तुतिः
वाजि॑न॒म् आन॑यति ।
प्र॒जास्व् ए॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
मूलम्
वाजि॑न॒म् आन॑यति ।
प्र॒जास्व् ए॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
भट्टभास्कर-टीका
7 विभज्योद्धृतयोः आमिक्षाभागयोः वाजिनसेचनं विधत्ते- वाजिनमिति ॥ दध्यानयनेनघनीभूतामिक्षाशब्दवाच्यक्षीरपिण्डस्यप्रजारूपेणाविर्भावः पुर्वार्थवादे निरूपितः । अतः तस्मिन्पिण्डेवाजिनाख्येनक्षीरगतनीरेणसेचनेसतिप्रजातासुप्रजासुरेतोधारितं भवति ॥
विश्वास-प्रस्तुतिः
द्या॒वा॒पृ॒थि॒व्य् एक॑कपालो भवति ।
मूलम्
द्या॒वा॒पृ॒थि॒व्य् एक॑कपालो भवति ।
# (द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । -अयं पराङ्कुशाचार्यमूले पाठः । अन्यत्र द्या॒वा॒पृ॒थि॒व्येक॑कपालो भवति । इति पठ्यते। साधुत्वं विरारणीयम् -..)
विश्वास-प्रस्तुतिः
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑म् उभ॒यत॒ᳶ परि॑गृह्णाति ।
मूलम्
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑म् उभ॒यत॒ᳶ परि॑गृह्णाति ।
भट्टभास्कर-टीका
8 अष्टमभागेदेवतां प्रशंसति- द्यावापृथिव्येति ॥
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
मूलम्
मामग्रे॑ यजत । मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ ।
विश्वास-प्रस्तुतिः
सो॑ ऽग्निर् अ॑ब्रवीत् - “माम् अग्रे॑ यजत, मया॒ मुखे॒नासु॑राञ् जेष्य॒थे"ति॑ ।
“मान् द्वि॒तीय॒मि"ति॒ सोमो॑ ऽब्रवीत् । “मया॒ राज्ञा॑ जेष्य॒थे"ति॑ ।
“मान् तृ॒तीय॒मि"ति॑ सवि॒ता ।“मया॒ प्रसू॑ता जेष्य॒थे"ति॑ ।
“माञ् च॑तु॒र्थीमि"ति॒ सर॑स्वती । “इ॒न्द्रि॒यव्ँ वो॒ ऽहन् धा॑स्या॒मी"ति॑ ।
“माम् प॑ञ्च॒ममि"ति॑ पू॒षा । “मया॑ प्रति॒ष्ठया॑ जेष्य॒थ” इति॑ ॥17॥
ते॑ ऽग्निना॒ मुखे॒नासु॑रान् अजयन् ।
सोमे॑न॒ राज्ञा॑ +++(असुरान् अजयन्)+++।
स॒वि॒त्रा प्रसू॑ताः ।
सर॑स्वती+इन्द्रि॒यम् अ॑दधात् ।
पू॒षा प्र॑ति॒ष्ठा ऽऽसी॑त् ।
मूलम्
सो॑ ऽग्निर् अ॑ब्रवीत् - “माम् अग्रे॑ यजत, मया॒ मुखे॒नासु॑राञ् जेष्य॒थे"ति॑ ।
“मान् द्वि॒तीय॒मि"ति॒ सोमो॑ ऽब्रवीत् । “मया॒ राज्ञा॑ जेष्य॒थे"ति॑ ।
“मान् तृ॒तीय॒मि"ति॑ सवि॒ता ।“मया॒ प्रसू॑ता जेष्य॒थे"ति॑ ।
“माञ् च॑तु॒र्थीमि"ति॒ सर॑स्वती । “इ॒न्द्रि॒यव्ँ वो॒ ऽहन् धा॑स्या॒मी"ति॑ ।
“माम् प॑ञ्च॒ममि"ति॑ पू॒षा । “मया॑ प्रति॒ष्ठया॑ जेष्य॒थ” इति॑ ॥17॥
ते॑ ऽग्निना॒ मुखे॒नासु॑रान् अजयन् ।
सोमे॑न॒ राज्ञा॑ +++(असुरान् अजयन्)+++।
स॒वि॒त्रा प्रसू॑ताः ।
सर॑स्वती+इन्द्रि॒यम् अ॑दधात् ।
पू॒षा प्र॑ति॒ष्ठा ऽऽसी॑त् ।
भट्टभास्कर-टीका
9 अत्रादावुक्तानां पञ्चानां पाठप्राप्तं क्रमं प्रशंसति- देवासुरा इति ॥ लोकेयुद्धार्थमुद्यतायां सेनायां केचनशूराभटामुखतोयोद्धुं गच्छन्ति । तेषां युद्धं द्रष्टुं कश्चिद्राजास्वामित्वेनसन्निधत्ते । केचनदण्डहस्ताः पृष्ठतः स्थित्वा योद्धॄनपरावृत्तयेबलात्प्रेरयन्ति । अन्येकेचनदुन्दुभ्यादिजयघोषेणयोद्धॄणामुत्साहं जनयन्ति । अपराकियत्यपिसेनापुरोगतायाः सेनायाः पृष्ठतस्सहायत्वेनावतिष्ठते ।
तानेतान्पञ्चविधव्यापारान्अग्न्यादयः क्रमेणस्वीकृतवन्तः ।
विश्वास-प्रस्तुतिः
ततो॒ वै दे॒वा व्य॑जयन्त ।
यद् ए॒तानि॑ ह॒वीँषि॑ निरु॒प्यन्ते॒ विजि॑त्यै ।
मूलम्
ततो॒ वै दे॒वा व्य॑जयन्त ।
यद् ए॒तानि॑ ह॒वीँषि॑ निरु॒प्यन्ते॒ विजि॑त्यै ।
भट्टभास्कर-टीका
ततोदेवानां जयोऽभूत् । ततोऽत्रापिपञ्चहविषां निर्वापेजयोभवति ॥
विश्वास-प्रस्तुतिः
नोत्त॑रवे॒दिम् उप॑-वपति ।
प॒शवो॒ वा उ॑त्तर-वे॒दिः ।
अजा॑ता इव॒ ह्य् ए॑तर्हि॑ प॒शवः॑ ॥18॥
मूलम्
नोत्त॑रवे॒दिम् उप॑-वपति ।
प॒शवो॒ वा उ॑त्तर-वे॒दिः ।
अजा॑ता इव॒ ह्य् ए॑तर्हि॑ प॒शवः॑ ॥18॥
भट्टभास्कर-टीका
10 शाखान्तरगतेन’उपवपन्ति’ इत्यादि वाक्येनवैश्वदेवादिषु चतुर्षु चातुर्मास्यपर्वसुसाधारण्येनोत्तरवेद्युपवापः प्राप्तः । तमुपवापं वैश्वदेवपर्मणिप्रतिषेधति- नोत्तरवेदिमिति ॥ उत्तरवेदिसमीपेतदाभिमुख्येनपशूनां बन्धनादुत्तरवेदेः पशुत्वम् । पूर्वोक्तरीत्यावैश्वदेवस्यप्रजासृष्टिसाधनत्वात्स्रष्टव्यासुप्रजास्वन्तर्भूतानां पशूनां वैश्वदेवादूर्ध्वमुत्पत्तिकालोनत्विदानीम् । अतः पशुरूपाउत्तरवेदिः नात्रोपवपनीया ॥
इति षष्ठेद्वितीयः ॥