०१ अनुमत्याद्या इष्टयः

प्रथमेऽष्टके षष्ठः प्रश्नः ।

राजसूयानुब्राह्मणम्‌

वैश्वदेवं काण्डम्

विश्वास-प्रस्तुतिः

अनु॑मत्यै पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।

मूलम्

अनु॑मत्यै पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।

मूलम्

ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते । तन्नै॑र्ऋ॒तमेक॑कपालम् ।

विश्वास-प्रस्तुतिः

ये प्र॒त्यञ्च॒श् शम्या॑या अव॒शीय॑न्ते॒ तन् नै॑र्ऋ॒तम् एक॑कपालम् +++(निर्वपति)+++।

मूलम्

ये प्र॒त्यञ्च॒श् शम्या॑या अव॒शीय॑न्ते॒ तन् नै॑र्ऋ॒तम् एक॑कपालम् +++(निर्वपति)+++।

भट्टभास्कर-टीका

अथ राजसूयस्यानुब्राह्मणं एतदादयस्त्रयः प्रपाठकाः । वैश्वदेवं काण्डम् ।

1 अनुमत्या इति ॥ चतुर्दशीमिश्रितायाः पौर्णमास्या अभिमानिदेवताऽनुमतिः । ‘अमावास्यासिनीवालीपौर्णमास्यनुमतिः ’ इति श्रुतेः । सा चानुमतिरत्रदेवतापुरोडाशोद्रव्यमित्येतदेकं कर्म । अस्मिन्कर्मणि पुरोडाशार्थं तण्डुलेषु पिष्यमाणेषु पश्चिमायां दिशिदृषदमभ्याधातुमधः स्थापितायाः शम्यायाः प्रत्यञचः प्रतीचीनाः य ेतण्डुलपिष्टलेशा अवशीयन्ते अधः पतन्ति तत्तादृशद्रव्यलेशजनितं एककपालं एककपालपुरोडाशात्मकं द्रव्यं नैर्ऋतं निर्ऋतिदेवताकम्।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वा अनु॑मतिः ।
इ॒यन् निर्ऋ॑तिः ।

मूलम्

इ॒यव्ँ वा अनु॑मतिः ।
इ॒यन् निर्ऋ॑तिः ।

भट्टभास्कर-टीका

इयं शालिगोधूमादिसर्वसस्याढ्याभूमिः अनुमतिः । तथाविधसस्यायोग्याइयं भूमिः निर्ऋतिः ॥

विश्वास-प्रस्तुतिः

नै॒र्ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति ।

मूलम्

नै॒र्ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति ।

भट्टभास्कर-टीका

2 पश्चान्निरुप्तस्यनैर्ऋतस्यानुमतादुत्तरकालेन्यायप्राप्तं प्रधानयागप्रचारं बाधितुं पूर्वकालं विधत्ते- नैर्ऋतेनेति ॥

विश्वास-प्रस्तुतिः

पा॒प्मान॑म् ए॒व निर्ऋ॑ति॒म् पूर्वा॑न् नि॒रव॑दयते ।
एक॑-कपालो भवति ।

मूलम्

पा॒प्मान॑म् ए॒व निर्ऋ॑ति॒म् पूर्वा॑न् नि॒रव॑दयते ।
एक॑-कपालो भवति ।

भट्टभास्कर-टीका

पूर्वां प्राक्तनीं निरवदयतेनिष्कृष्यनाशयति । लोकेरुग्णानां पुरुषाणां अनिष्टं रोगं प्रथमं निवार्यपश्चादिष्टाशरीरपुष्टिः संपाद्यते । तद्वदत्रापिपाप्मानं प्रतिकूलां निर्ऋतिं प्रथमतोभागदानेननिवारयति ।

विश्वास-प्रस्तुतिः

ए॒क॒धैव निर्ऋ॑ति॒न् नि॒रव॑दयते ।

मूलम्

ए॒क॒धैव निर्ऋ॑ति॒न् नि॒रव॑दयते ।

भट्टभास्कर-टीका

एकधैवएकेनैव प्रयत्नेन । कपालबाहुल्येहिप्रयत्नबाहुल्यमपेक्ष्येतेति ॥

विश्वास-प्रस्तुतिः

यद् अहु॑त्वा॒ गार्ह॑पत्य ई॒युः ॥1॥

मूलम्

यद् अहु॑त्वा॒ गार्ह॑पत्य ई॒युः ॥1॥

मूलम्

रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ । अ॒ध्व॒र्युञ्च॒ यज॑मानञ्च हन्यात् ।

विश्वास-प्रस्तुतिः

रु॒द्रो भू॒त्वा ऽग्निर् अ॑नू॒त्थायाध्व॒र्युञ् च॒ यज॑मानञ् च हन्यात् ।

मूलम्

रु॒द्रो भू॒त्वा ऽग्निर् अ॑नू॒त्थायाध्व॒र्युञ् च॒ यज॑मानञ् च हन्यात् ।

भट्टभास्कर-टीका

3 नैर्ऋतयागात्पूर्वं होमविशेषं विधातुमाह- यदिति ॥ रुद्रः क्रूरदेवोभूत्वा’रूद्रोवैक्रूरः’ इति श्रुतेः ॥

विश्वास-प्रस्तुतिः

“वीहि॒ स्वाहा ऽऽहु॑तिञ् जुषा॒णे"त्य् आ॑ह ।
आहु॑त्यै॒वैनँ॑ शमयति ।
नार्ति॒म् आर्च्छ॑त्य् अध्व॒र्युर् न यज॑मानः ।

मूलम्

“वीहि॒ स्वाहा ऽऽहु॑तिञ् जुषा॒णे"त्य् आ॑ह ।
आहु॑त्यै॒वैनँ॑ शमयति ।
नार्ति॒म् आर्च्छ॑त्य् अध्व॒र्युर् न यज॑मानः ।

भट्टभास्कर-टीका

4 तत्र होमेमन्त्रः - हेगार्हपत्य! स्वाहातुभ्यं दत्तां आहुतिं जुषाणः सेवमानः वीहिदक्षिणां दिशं जिगमिषुभिः अस्माभिः विगतोभवमाऽस्माननूत्थायबाधिष्ठाः इति यथा मन्त्र आह तथैव एनं अग्निं शमयति अक्रूरं करोति ॥

विश्वास-प्रस्तुतिः

ए॒को॒ल्मु॒केन॑ यन्ति ।

मूलम्

ए॒को॒ल्मु॒केन॑ यन्ति ।

भट्टभास्कर-टीका

5 दक्षिणाग्नेरुल्मुकनयनं विधत्ते- एकेति ॥ उल्मुकेनयुक्ताइत्यध्याहारः ।

मूलम्

तद्धि निर्ऋ॑त्यै भाग॒धेय॑म् । इ॒मान्दिशय्ँ॑यन्ति ।

विश्वास-प्रस्तुतिः

तद्धि निर्ऋ॑त्यै भाग॒धेय॑म् इ॒मान् दिशय्ँ॑ यन्ति ।

मूलम्

तद्धि निर्ऋ॑त्यै भाग॒धेय॑म् इ॒मान् दिशय्ँ॑ यन्ति ।

मूलम्

ए॒षा वै निर्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निर्ऋ॑तिन्नि॒रव॑दयते ॥2॥

विश्वास-प्रस्तुतिः

ए॒षा वै निर्ऋ॑त्यै॒ दिक् स्वाया॑म् ए॒व दि॒शि निर्ऋ॑तिन् नि॒रव॑दयते ॥2॥

मूलम्

ए॒षा वै निर्ऋ॑त्यै॒ दिक् स्वाया॑म् ए॒व दि॒शि निर्ऋ॑तिन् नि॒रव॑दयते ॥2॥

भट्टभास्कर-टीका

इमां दक्षिणपूर्वाम् ॥

विश्वास-प्रस्तुतिः

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ +++(जुहोति)+++।
ए॒तद् वै निर्ऋ॑त्या आ॒यत॑नम् ।
स्व ए॒वायत॑ने॒ निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ +++(जुहोति)+++।
ए॒तद् वै निर्ऋ॑त्या आ॒यत॑नम् ।
स्व ए॒वायत॑ने॒ निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

6 नीतस्यउल्मुकस्यस्थापनायदेशविशेषं विघत्ते- स्वकृत इति ॥ इरिणं ऊषरक्षेत्रं तच्चस्वकृतं त्वतस्सिद्धम् । प्रदरः स्वतस्सिद्धं भूच्छिद्रम् ॥

मूलम्

ए॒ष ते॑ निर्ऋते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैना॑म् ।

विश्वास-प्रस्तुतिः

“ए॒ष ते॑ निर्ऋते भा॒ग” +इत्य् आ॑ह॒ निर्दि॑शत्य् ए॒वैना॑म् ।

मूलम्

“ए॒ष ते॑ निर्ऋते भा॒ग” +इत्य् आ॑ह॒ निर्दि॑शत्य् ए॒वैना॑म् ।

भट्टभास्कर-टीका

7 नैर्ऋतहोममन्त्रं व्याचष्टे- एष इति ॥ एनां निर्ऋतिं हविर्भागग्रहणायप्रत्यक्षमेवनिर्दिशति ।

विश्वास-प्रस्तुतिः

“भूते॑ ह॒विष्म॑त्य॒सी"त्य् आ॑ह ।
भूति॑म् ए॒वोपाव॑र्तते ।

मूलम्

“भूते॑ ह॒विष्म॑त्य॒सी"त्य् आ॑ह ।
भूति॑म् ए॒वोपाव॑र्तते ।

भट्टभास्कर-टीका

मन्त्रेभूते इति भूतिहेतुत्वेनदेवतायानिर्देशात्भूतिं ऐश्वर्यं उपावर्ततेप्राप्नोति ।

मूलम्

मु॒ञ्चेममँह॑स॒ इत्या॑ह । अँह॑स ए॒वैन॑म्मुञ्चति ।

विश्वास-प्रस्तुतिः

“मु॒ञ्चेमम् अँह॑स॒” इत्य् आ॑हाँह॑स ए॒वैन॑म् मुञ्चति ।

मूलम्

“मु॒ञ्चेमम् अँह॑स॒” इत्य् आ॑हाँह॑स ए॒वैन॑म् मुञ्चति ।

भट्टभास्कर-टीका

इमं यजमानं अंहसोमुञ्चेतिमन्त्रेऽभिधानात्एनं यजमानं अं हसः सकाशात्मुञ्चत्येवमोचयत्येवदेवतासा ॥

विश्वास-प्रस्तुतिः

अ॒ङ्गु॒ष्ठाभ्या॑ञ् जुहोति ॥3 ॥
अ॒न्त॒त ए॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

अ॒ङ्गु॒ष्ठाभ्या॑ञ् जुहोति ॥3 ॥
अ॒न्त॒त ए॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

8 चोदकप्राप्तं जुह्वाहोममपवदितुमाह- अङ्गुष्ठाभ्यामिति ॥ अन्तत एव हस्ताग्रेणैवनिर्ऋतिं निरवदयतेनिवारयति ॥

विश्वास-प्रस्तुतिः

कृ॒ष्णव्ँ वास॑ᳵ कृ॒ष्ण-तू॑ष॒न् दक्षि॑णा ।

मूलम्

कृ॒ष्णव्ँ वास॑ᳵ कृ॒ष्ण-तू॑ष॒न् दक्षि॑णा ।

भट्टभास्कर-टीका

9 मुख्यब्राह्मणे (तै.सं . १-८प्रपाठके) विहितां दक्षिणां प्रशंसति- कृष्णमिति ॥ कृष्णतूषं कृष्णदशान्तम् ।

विश्वास-प्रस्तुतिः

ए॒तद् वै निर्ऋ॑त्यै रू॒पम् ।

मूलम्

ए॒तद् वै निर्ऋ॑त्यै रू॒पम् ।

भट्टभास्कर-टीका

निर्ऋत्यै निर्ऋत्याः राक्षसजातेः पापरूपाया रूपं देहः कृष्णवर्णः ।

विश्वास-प्रस्तुतिः

रू॒पेणै॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

मूलम्

रू॒पेणै॒व निर्ऋ॑तिन् नि॒रव॑दयते ।

भट्टभास्कर-टीका

रूपेणैवतदीयरूपात्मनैव दक्षिणाद्रव्येणनिर्ऋतिं विनाशयति ।

मूलम्

अप्र॑तीक्ष॒माय॑न्ति । निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।

विश्वास-प्रस्तुतिः

अप्र॑तीक्ष॒म् आय॑न्ति॒ निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।

मूलम्

अप्र॑तीक्ष॒म् आय॑न्ति॒ निर्ऋ॑त्या अ॒न्तर्हि॑त्यै ।

भट्टभास्कर-टीका

अप्रतीक्षं पृष्ठभागदर्शनरहितं आयन्तिप्रत्यागच्छन्तिअन्तर्हित्यैअदर्शनाय ॥

विश्वास-प्रस्तुतिः

“स्वाहा॒ नमो॒ य इ॒दञ् च॒कारे"ति॒ पुन॒र् एत्य॒ गार्ह॑पत्ये जुहोति ।
आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्ह॑पत्यम् उ॒पाव॑र्तन्ते ।

मूलम्

“स्वाहा॒ नमो॒ य इ॒दञ् च॒कारे"ति॒ पुन॒र् एत्य॒ गार्ह॑पत्ये जुहोति ।
आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्ह॑पत्यम् उ॒पाव॑र्तन्ते ।

मूलम्

आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यव्ँ वा अनु॑मतिः ॥4॥

विश्वास-प्रस्तुतिः

आ॒नु॒म॒तेन॒ प्रच॑रति ,+इ॒यव्ँ वा अनु॑मतिः ॥4॥

मूलम्

आ॒नु॒म॒तेन॒ प्रच॑रति ,+इ॒यव्ँ वा अनु॑मतिः ॥4॥

भट्टभास्कर-टीका

10 स्वाहेत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

इ॒यम् ए॒वास्मै॑ रा॒ज्यम् अनु॑ मन्यते ।

मूलम्

इ॒यम् ए॒वास्मै॑ रा॒ज्यम् अनु॑ मन्यते ।

मूलम्

धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुङ्कु॑रुते ।

विश्वास-प्रस्तुतिः

धे॒नुर् दक्षि॑णा +, इ॒माम् ए॒व धे॒नुङ् कु॑रुते ।

मूलम्

धे॒नुर् दक्षि॑णा +, इ॒माम् ए॒व धे॒नुङ् कु॑रुते ।

भट्टभास्कर-टीका

11 धेनुः नवसूतिका । इमामेव अनुमतिरूपां भूमिमेव ॥

विश्वास-प्रस्तुतिः

आ॒दि॒त्यञ् च॒रुन् निर्व॑पति ।

मूलम्

आ॒दि॒त्यञ् च॒रुन् निर्व॑पति ।

भट्टभास्कर-टीका

12 आनुमतादन्यान्दिनान्तरेष्वनुष्ठेयान्सप्तमुख्यान्यागान्प्रशं सति- आदित्यमिति ॥

मूलम्

उ॒भयी॑ष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च ।

विश्वास-प्रस्तुतिः

उ॒भयी॑ष्व् ए॒व प्र॒जास्व् अ॒भि-षि॑च्यते॒ दैवी॑षु च॒ मानु॑षीषु च ।

मूलम्

उ॒भयी॑ष्व् ए॒व प्र॒जास्व् अ॒भि-षि॑च्यते॒ दैवी॑षु च॒ मानु॑षीषु च ।

भट्टभास्कर-टीका

अनुमतिः मानुषभूमिः अदितिः देवभूमिरिति उभयीषु दैवीषु मानुषीषु च प्रजासु अभिषिच्यते ।

विश्वास-प्रस्तुतिः

वरो॒ दक्षि॑णा ।

मूलम्

वरो॒ दक्षि॑णा ।

भट्टभास्कर-टीका

वरः गौः ।

मूलम्

वरो॒ हि रा॒ज्यँ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पति ।

विश्वास-प्रस्तुतिः

वरो॒ हि रा॒ज्यँ समृ॑द्ध्या आग्नावैष्ण॒वम् एका॑दशकपाल॒न् निर्व॑पति ।

मूलम्

वरो॒ हि रा॒ज्यँ समृ॑द्ध्या आग्नावैष्ण॒वम् एका॑दशकपाल॒न् निर्व॑पति ।

भट्टभास्कर-टीका

+++(वरः गौः । )+++ राज्यं राजगृहार्हम् ॥

मूलम्

अ॒ग्निस्सर्वा॑ दे॒वताः॑ ॥5॥
विष्णु॑र्य॒ज्ञः । दे॒वता॑श्चै॒व य॒ज्ञञ्चाव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

अ॒ग्निस् सर्वा॑ दे॒वताः ॑ , विष्णु॑र्य॒ज्ञो , दे॒वता॑श् चै॒व य॒ज्ञञ् चाव॑ रुन्धे ।

मूलम्

अ॒ग्निस् सर्वा॑ दे॒वताः ॑ , विष्णु॑र्य॒ज्ञो , दे॒वता॑श् चै॒व य॒ज्ञञ् चाव॑ रुन्धे ।

भट्टभास्कर-टीका

13 अग्निस्सर्वा इति ॥ अन्यत्राप्याम्नातम्- ‘ते देवा अग्नौ तनूस्सं न्यदधत । तस्मादाहुः । अग्निस्सर्वादेवताः ’ इति । ‘यज्ञोवैविष्णुः ’ इति च ।

विश्वास-प्रस्तुतिः

वा॒म॒नो व॒ही दक्षि॑णा ।

मूलम्

वा॒म॒नो व॒ही दक्षि॑णा ।

मूलम्

यद्व॒ही । तेना॑ग्ने॒यः ।

विश्वास-प्रस्तुतिः

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

यद् वा॑म॒नस् तेन॑ वैष्ण॒वस् समृ॑द्ध्यै ।

मूलम्

यद् वा॑म॒नस् तेन॑ वैष्ण॒वस् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

वामनः ह्रस्वाङ्गः । वहीभारवाहनदेशवान्बलीवर्दः ॥

विश्वास-प्रस्तुतिः

अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपाल॒न् निर्व॑पति ।
अ॒ग्नीषोमा॑भ्याव्ँ॒ वा इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्न् इति॑ ।

मूलम्

अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपाल॒न् निर्व॑पति ।
अ॒ग्नीषोमा॑भ्याव्ँ॒ वा इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्न् इति॑ ।

मूलम्

यद॑ग्नीषो॒मीय॒मेका॑दशकपालन्नि॒र्वप॑ति ॥6॥
वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

यद् अ॑ग्नीषो॒मीय॒म् एका॑दशकपालन् नि॒र्वप॑ति॒ वार्त्र॑घ्नम् ए॒व विजि॑त्यै॒ हिर॑ण्य॒न् दक्षि॑णा॒ समृ॑द्ध्यै ।

मूलम्

यद् अ॑ग्नीषो॒मीय॒म् एका॑दशकपालन् नि॒र्वप॑ति॒ वार्त्र॑घ्नम् ए॒व विजि॑त्यै॒ हिर॑ण्य॒न् दक्षि॑णा॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

14 अग्नीषोमीयमिति ॥ अग्नीषोमीयस्यवैरिघातित्वं याजमानमन्त्रब्राह्मणयोः वृत्रवधब्राह्मणेचप्रसिद्धम् ॥

मूलम्

इन्द्रो॑ वृ॒त्रँ ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत ।

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश् चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत ।
स ए॒तम् ऐ॑न्द्रा॒ग्नम् एका॑दशकपालम् अपश्यत् ।
तन् निर॑वपत् ।
तेन॒ वै स दे॒वता॑श् चेन्द्रि॒यञ् चावा॑रुन्धे +++(अवरुन्ध इति जालक्षेत्रपाठः)+++।

15 मुख्यब्राह्मणगतेनेन्द्रेणसहविकल्पितमैन्द्राग्रं प्रस्तुत्यविधत्ते- इन्द्र इति ॥ व्यार्ध्यत वियुक्तोऽभूत् ।

मूलम्

यदै॑न्द्रा॒ग्नमेका॑दशकपालन्नि॒र्वप॑ति । दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यद् ऐ॑न्द्रा॒ग्नम् एेका॑दशकपालन् नि॒र्वप॑ति॒ दे॒वता॑श् चै॒व तेने॑न्द्रि॒यञ् च॒ यज॑मा॒नो ऽव॑रुन्धे ।

ऋ॒ष॒भो व॒ही दक्षि॑णा ॥7॥

मूलम्

यद् ऐ॑न्द्रा॒ग्नम् एेका॑दशकपालन् नि॒र्वप॑ति॒ दे॒वता॑श् चै॒व तेने॑न्द्रि॒यञ् च॒ यज॑मा॒नो ऽव॑रुन्धे ।

ऋ॒ष॒भो व॒ही दक्षि॑णा ॥7॥

मूलम्

यद्व॒ही । तेना॑ग्ने॒यः ।

विश्वास-प्रस्तुतिः

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

यद् ऋ॑ष॒भस् तेनै॒न्द्रस् समृ॑द्ध्यै ।

मूलम्

यद् ऋ॑ष॒भस् तेनै॒न्द्रस् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

ऋषभः सेक्ता, खेलगतिर्वा ॥

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।

मूलम्

आ॒ग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।

मूलम्

ऐ॒न्द्रन्दधि॑ । यदा॑ग्ने॒यो भव॑ति ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रन् दधि॑ +++(निर्वपति)+++ यद् आ॑ग्ने॒यो भव॑ति ।

मूलम्

ऐ॒न्द्रन् दधि॑ +++(निर्वपति)+++ यद् आ॑ग्ने॒यो भव॑ति ।

मूलम्

अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते ।

विश्वास-प्रस्तुतिः

अ॒ग्निर् वै य॑ज्ञ-मु॒खम् , य॑ज्ञ-मु॒खम् ए॒वर्द्धि॑म् पु॒रस्ता॑द् धत्ते ।

मूलम्

अ॒ग्निर् वै य॑ज्ञ-मु॒खम् , य॑ज्ञ-मु॒खम् ए॒वर्द्धि॑म् पु॒रस्ता॑द् धत्ते ।

मूलम्

यदै॒न्द्रन्दधि॑ ॥8॥
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यद् ऐ॒न्द्रन् दधि॑ +इन्द्रि॒यम् ए॒वाव॑रुन्धे ।

ऋ॒ष॒भो व॒ही दक्षि॑णा ।

मूलम्

यद् ऐ॒न्द्रन् दधि॑ +इन्द्रि॒यम् ए॒वाव॑रुन्धे ।

ऋ॒ष॒भो व॒ही दक्षि॑णा ।

मूलम्

यद्व॒ही । तेना॑ग्ने॒यः ।

विश्वास-प्रस्तुतिः

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यद् व॒ही तेना॑ग्ने॒यः ।

मूलम्

यदृ॑ष॒भः । तेनै॒न्द्रस्समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

यद् ऋ॑ष॒भस् तेनै॒न्द्रस् समृ॑द्ध्यै ।

मूलम्

यद् ऋ॑ष॒भस् तेनै॒न्द्रस् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

16 अग्निर्वा इति ॥ अग्निमन्तरेण यज्ञस्याप्रवृत्तेः यज्ञमुखत्वम् । तादृशाग्नेः प्रथमहविःप्रदानेन यागस्यादावेवसमृद्धिं धृतवान्भवति । द्विहविष्कोऽयं यागः ॥

मूलम्

याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्ञ॑न् । ताᳶ परा॑ऽभवन् ।

विश्वास-प्रस्तुतिः

याव॑ती॒र् वै प्र॒जा ओष॑धीना॒म् अहु॑ताना॒म् आश्ञ॑न्न् ताᳶ परा॑ ऽभवन् ।

मूलम्

याव॑ती॒र् वै प्र॒जा ओष॑धीना॒म् अहु॑ताना॒म् आश्ञ॑न्न् ताᳶ परा॑ ऽभवन् ।

भट्टभास्कर-टीका

17 ऐन्द्राग्नवैश्वदेवसौम्येषु दक्षिणाद्वयस्यपृथक्छ्रवणेऽपि कर्मैकत्वसिद्ध्यर्थं आग्रयणवतीं सङ्घरूपां विधातुं प्रस्तौति- यावतीरिति ॥ यावतीः यावत्यः प्रजाः अहुतानां ओषधीनां अहुताओषधीः आश्नन्कर्मणश्शेषत्वविवक्षयाषष्ठी ।

मूलम्

आ॒ग्र॒य॒णम्भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ॥9॥

विश्वास-प्रस्तुतिः

आ॒ग्र॒य॒णम् भ॑वति हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥9॥

मूलम्

आ॒ग्र॒य॒णम् भ॑वति हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥9॥

भट्टभास्कर-टीका

आग्रयणं सङ्घीभावः हुताद्यायहुतानामेवओषधीनां अदनाय ॥

विश्वास-प्रस्तुतिः

दे॒वा वा ओष॑धीष्व् आ॒जिम् अ॑युः ।
ता इ॑न्द्रा॒ग्नी उद॑जयताम् ।

ताव् ए॒तम् ऐ॑न्द्रा॒ग्नन् द्वाद॑शकपाल॒न् निर॑वृणाताम् ।
यद् ऐ॑न्द्रा॒ग्नो भव॒त्य् उज्जि॑त्यै ।

मूलम्

दे॒वा वा ओष॑धीष्व् आ॒जिम् अ॑युः ।
ता इ॑न्द्रा॒ग्नी उद॑जयताम् ।

ताव् ए॒तम् ऐ॑न्द्रा॒ग्नन् द्वाद॑शकपाल॒न् निर॑वृणाताम् ।
यद् ऐ॑न्द्रा॒ग्नो भव॒त्य् उज्जि॑त्यै ।

भट्टभास्कर-टीका

18 तादृशसङ्घे ऐन्द्राग्नादीन्त्रीन्यागान्जयहेतुत्वादिनाप्रशंसति- देवावा इति ॥

मूलम्

द्वाद॑शकपालो भवति । द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ।

विश्वास-प्रस्तुतिः

द्वाद॑शकपालो भवति॒, द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रस् सव्ँ्॑वत्स॒रेणै॒वास्मा॒ अन्न॒म् अव॑रुन्धे ।

वै॒श्व॒दे॒वश् च॒रुर् भ॑वति ।

मूलम्

द्वाद॑शकपालो भवति॒, द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रस् सव्ँ्॑वत्स॒रेणै॒वास्मा॒ अन्न॒म् अव॑रुन्धे ।

वै॒श्व॒दे॒वश् च॒रुर् भ॑वति ।

मूलम्

वै॒श्व॒दे॒वव्ँ वा अन्न॑म् । अन्न॑मे॒वास्मै॑ स्वदयति ॥10॥
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वव्ँ वा अन्न॒म्, अन्न॑म् ए॒वास्मै॑ स्वदयति, प्रथम॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।

मूलम्

वै॒श्व॒दे॒वव्ँ वा अन्न॒म्, अन्न॑म् ए॒वास्मै॑ स्वदयति, प्रथम॒जो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

अस्मै इति । ‘रुच्यर्थानाम्’ इति सं प्रदानतयाचतर्थी ॥

विश्वास-प्रस्तुतिः

सौ॒म्यँ श्या॑मा॒कञ् च॒रुन् निर्व॑पति ।

मूलम्

सौ॒म्यँ श्या॑मा॒कञ् च॒रुन् निर्व॑पति ।

मूलम्

सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा॑ । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै॑ स्वदयति ।

विश्वास-प्रस्तुतिः

सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा॑ ऽकृष्टप॒च्यम् ए॒वास्मै॑ स्वदयति ।
वासो॒ दक्षि॑णा ।
सौ॒म्यँ हि दे॒वत॑या॒ वास॒स् समृ॑द्ध्यै ।

मूलम्

सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा॑ ऽकृष्टप॒च्यम् ए॒वास्मै॑ स्वदयति ।
वासो॒ दक्षि॑णा ।
सौ॒म्यँ हि दे॒वत॑या॒ वास॒स् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

19 सौम्यमिति ॥ प्रतिग्रहमन्त्रे’सोमायवासः ’ इति श्रवणात् ॥

विश्वास-प्रस्तुतिः

सर॑स्वत्यै च॒रुन् निर्व॑पति ।

मूलम्

सर॑स्वत्यै च॒रुन् निर्व॑पति ।

मूलम्

सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

सर॑स्वते च॒रुम् मि॑थु॒नम् ए॒वाव॑ रुन्धे ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।

मूलम्

सर॑स्वते च॒रुम् मि॑थु॒नम् ए॒वाव॑ रुन्धे ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

20 सारस्वतयागं प्रशंसति- सरस्वत्या इति ॥

विश्वास-प्रस्तुतिः

एति॒ वा ए॒ष य॑ज्ञमु॒खाद् ऋध्याः॑ ।

मूलम्

एति॒ वा ए॒ष य॑ज्ञमु॒खाद् ऋध्याः॑ ।

भट्टभास्कर-टीका

21 अत्रद्रव्यदेवतासम्बन्धानामष्टभ्योऽधिकत्वात्यागेष्वप्याधिक्यशङ्कावारणाय अष्टसङ्ख्यां विधातुं प्रस्तौति- एतीति ॥ एति पृथग्भवति अपगच्छति । वक्ष्यमाणप्रकारेणाग्नेः अष्टत्वसङ्ख्यात्मकत्वात्तत्सङ्ख्याया अपगम एव अग्निसकाशादपगमः । योऽग्नेः अष्टत्वात्मकात् अपगच्छति सयज्ञमुखात् यज्ञप्रारम्भात् ऋद्ध्याः यज्ञसमाप्तेश्च अपगच्छति ॥

मूलम्

यो॑ऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति ।

विश्वास-प्रस्तुतिः

यो॑ ऽग्नेर् दे॒वता॑या॒ एत्य् अ॒ष्टाव् ए॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।

मूलम्

यो॑ ऽग्नेर् दे॒वता॑या॒ एत्य् अ॒ष्टाव् ए॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।

मूलम्

गा॒य॒त्रो॑ऽग्निः । तेनै॒व य॑ज्ञमु॒खादृध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ॥11॥

विश्वास-प्रस्तुतिः

गा॒य॒त्रो॑ ऽग्नि॒स् तेन॑+ ए॒व य॑ज्ञमु॒खाद् ऋध्या॑ अ॒ग्नेर् दे॒वता॑यै॒ नैति॑ ॥11॥

मूलम्

गा॒य॒त्रो॑ ऽग्नि॒स् तेन॑+ ए॒व य॑ज्ञमु॒खाद् ऋध्या॑ अ॒ग्नेर् दे॒वता॑यै॒ नैति॑ ॥11॥

भट्टभास्कर-टीका

22 अष्टेति ॥ गायत्र्या अग्नेश्चमुखजत्वेनसहोत्पन्नत्वलक्षणः सम्बन्धः । तेनैव तेषां हविश्शब्दवाच्यानां कर्मणामष्टत्वेनयज्ञप्रारम्भसमाप्तिभ्यां अग्निदेवतायाश्चनापगच्छति ॥

इति षष्ठेप्रथमः ॥