०८ अथर्व-शिर-इष्टकाः - इन्द्रो दधीचो

विस्तारः (द्रष्टुं नोद्यम्)

नक्षत्रेष्टिकाण्डम्‌॥ अग्निचयनशेषा अथर्वशिरोभिधानानाम् इष्टकानां मन्त्राः

भास्करोक्त-विनियोगः

1 अथर्वशिरो दशाविषक्ताः शिरस्युपदधाति - इन्द्रो दधीच इत्याद्याः ॥ सर्वा गायत्र्यः ।

१३ इन्द्रो दधीचो ...{Loading}...

+++(ज्येष्ठास्थः, रोहिणीस्थो वा)+++ इ᳓न्द्रो दधीचो᳓ +++(=serpens/ orion)+++ अस्थ᳓भिर्
वृत्रा᳓ण्य् अ᳓प्रतिष्कुतः ।
जघा᳓न नवती᳓र् न᳓व +++(→हेमन्त-दिनानि)+++ ।

१४ इच्छन्नश्वस्य यच्छिरः ...{Loading}...

इच्छ᳓न्न् अ᳓श्वस्य+++(→यज्ञस्य)+++ य᳓च् छि᳓रः+++(→अग्निं, उत्तरायणारम्भ-सूर्यवत् दधिक्रावाणं [pegasus])+++
प᳓र्वतेष्व्+++(→मेघेषष्व्, हेमन्त-मासेष्व्)+++ अ᳓पश्रितम्
त᳓द् विदच् छर्यणा᳓वति ।

१५ अत्राह गोरमन्वत ...{Loading}...

अ᳓त्रा᳓ह+++(=अस्मिन्नेव)+++ गो᳓र्+++(=गन्तुः [चन्द्रमसो])+++ अमन्वत
ना᳓म त्व᳓ष्टुर्+++(=दीप्तस्यादित्यस्य उत्तरायणारम्भे)+++ अपीच्य᳙म्+++(=अपचितम्, अन्तर्हितम् [रात्रौ])+++ । इत्था᳓+++(=इत्थं)+++ चन्द्र᳓मसो गृहे᳓ +++(=अमावास्यायाम्, फाल्गुनीषु पौर्णमास्यां वा)+++॥

०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...

इ᳓न्द्रम् इ᳓द् गाथि᳓नो+++(=गायकाः)+++ बृह᳓द्+++(साम्ना)+++
इ᳓न्द्रम् अर्के᳓भिर्+++(←अर्च्, ऋक्)+++ अर्कि᳓णः ।
इ᳓न्द्रं वा᳓णीर्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥

०२ इन्द्र इद्धर्योः ...{Loading}...

इ᳓न्द्र इ᳓द्+ध᳓र्योः स᳓चा+++(←सच् अनुसरणे)+++
स᳓म्मिश्ल आ᳓ वचो यु᳓जा
इ᳓न्द्रो वज्री᳓ हिरण्य᳓यः ॥+++(5)+++

०३ इन्द्रो दीर्घाय ...{Loading}...

इ᳓न्द्रो दीर्घा᳓य च᳓क्षस
आ᳓ सू᳓र्यं रोहयद् दिवि᳓ ।
वि᳓ गो᳓भिर् अ᳓द्रिम् ऐरयत् ॥+++(5)+++

०४ इन्द्र वाजेषु ...{Loading}...

इ᳓न्द्र वा᳓जेषु नो ऽव
सह᳓स्र–प्र-धनेषु च ।
उग्र᳓ उग्रा᳓भिर् ऊति᳓भिः ॥

०७ तमिन्द्रं वाजयामसि ...{Loading}...

त᳓म् इ᳓न्द्रं वाजयामसि
महे᳓ वृत्रा᳓य ह᳓न्तवे
स᳓ वृ᳓षा वृषभो᳓ भुवत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒स् स दाम॑ने कृ॒तः
ओजि॑ष्ठ॒स् स बले॑ हि॒तः
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

इन्द्र॒स् स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स् स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

भट्टभास्कर-टीका

9 इन्द्रस्स इति ॥ स तादृश इन्द्रः अस्मान् दामने दमनार्थे दमनकृत्ये वा बन्धने कृतः बन्धनयोगैर् वशीकृतकृत्य इत्यर्थः । उत्सादिर्द्रष्टव्यः । किञ्च - इन्द्रः ओजिष्ठः बलवत्तरः अभीतः बले हितः स बलीन्द्रो बले स्थितः द्युम्नी अन्नवान् यशस्वी वा । श्लोको स्तुतिमान् । सौम्य’सोमार्हः । ‘तदर्हति’इति यत् । ततश्छान्दसमन्तस्वरितत्वम् । ईदृश इन्द्रो अस्माभिस्स्वीकृत इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्षुर् उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

गि॒रा वज्रो॒ न सम्भृ॑तः
सब॑लो॒ अन॑पच्युतः
व॒व॒क्षुर्+++(←बह्)+++ उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

भट्टभास्कर-टीका

10 गिरेति ॥ गिरा स्तुतिवाचा वज्रो न वज्र इव संभृतः सम्यक् हस्ते भृतः गृहीत्तः । सवलः बलसहितः अनपच्युतः ववक्षुः संग्रामेषु धुरो वोढुम् इच्छन् । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’इतीत्वाभावः । वर्ण-व्यत्ययेन वा इकारस्याकारभावः ।
उग्रः उद्गूर्णवलः सदोद्यतः अस्तृतः केनचिद् अप्य् अनाच्छादितः । अनुपहिंसितो वा । ईदृशोऽयमिन्द्रः सर्वार्थसाधनभूतो वज्र इवास्माभिः संभृतः ॥

इति पञ्चमे अष्टमोऽनुवाकः ॥