०७ सन्तत्याख्येष्टकामन्त्राः

विस्तारः (द्रष्टुं नोद्यम्)

अग्निचयनशेषा इष्टकोपधानमन्त्राः, तत्र सन्तत्याख्येष्टकामन्त्राः

भास्करोक्त-विनियोगः

1-12 अतः परं द्वावनुवाकाव् अग्निकाण्डम् अग्न्यार्षेयम् । तत्र प्रथमायां चितौ द्वादश-संततीर् उपदधाति आयुषः प्राणं इत्याद्याः ॥

विश्वास-प्रस्तुतिः

आयु॑षᳶ प्रा॒णँ सन्त॑नु ।

मूलम्

आयु॑षᳶ प्रा॒णँ सन्त॑नु ।

भट्टभास्कर-टीका

आयुषो वयसो ऽवस्थितत्वाद्धेतोः प्राणं संतनु, संततमविच्छिन्नं कुरु । सति ह्यायुषि प्राणास्सन्तन्यन्ते तस्मादायुरेव तावत्संतनु ततः प्राणादिकमिति गम्यते ।

विश्वास-प्रस्तुतिः

प्रा॒णाद् अ॑पा॒नँ सन्त॑नु ।

मूलम्

प्रा॒णाद् अ॑पा॒नँ सन्त॑नु ।

भट्टभास्कर-टीका

सत्यपि प्राणे निश्शेषनिष्क्रमणभयादपानाविच्छेदः प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

अ॒पा॒नाद् व्या॒नँ सन्त॑नु ।

मूलम्

अ॒पा॒नाद् व्या॒नँ सन्त॑नु ।

भट्टभास्कर-टीका

तदुभयसद्भावे रसव्यापनाय व्यानप्रार्थना, अन्यथा शरीरधारणासिद्धेः ।

विश्वास-प्रस्तुतिः

व्या॒नाच् चक्षु॒स् सन्त॑नु ।

मूलम्

व्या॒नाच् चक्षु॒स् सन्त॑नु ।

भट्टभास्कर-टीका

ध्रियमाणेऽपि शरीरे चक्षुः प्रधानं करणमिति प्रार्थ्यते रूपग्रहणार्थम् ।

विश्वास-प्रस्तुतिः

चक्षु॑ष॒श् श्रोत्रँ॒ सन्त॑नु ।

मूलम्

चक्षु॑ष॒श् श्रोत्रँ॒ सन्त॑नु ।

भट्टभास्कर-टीका

नामग्रहणार्थं श्रोत्रप्रार्थना ।

विश्वास-प्रस्तुतिः

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाचँ॒ सन्त॑नु ।

मूलम्

श्रोत्रा॒न् मन॒स् सन्त॑नु ।

मन॑सो॒ वाचँ॒ सन्त॑नु ।

भट्टभास्कर-टीका

एतेष्ववस्थितेष्वपि वाङ्मनसाधीना व्यवहारस्थिति रिति प्रार्थ्यते ।

विश्वास-प्रस्तुतिः

वा॒च आ॒त्मानँ॒ सन्त॑नु ।

मूलम्

वा॒च आ॒त्मानँ॒ सन्त॑नु ।

भट्टभास्कर-टीका

सर्वेषामेषामवस्थितौ आत्मा तन्त्रं इत्यत्र तस्य सन्तानप्रार्थना ।

विश्वास-प्रस्तुतिः

आ॒त्मन॑ᳶ पृथि॒वीँ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्षँ॒ सन्त॑नु ।

मूलम्

आ॒त्मन॑ᳶ पृथि॒वीँ सन्त॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्षँ॒ सन्त॑नु ।

भट्टभास्कर-टीका

तस्य सन्ततस्य उपकारकत्वात् पृथिव्यादिसन्तानं प्रार्थयते ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्षा॒द् दिव॒ ँ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

मूलम्

अ॒न्तरि॑क्षा॒द् दिव॒ ँ॒सन्त॑नु । दिव॒स् सुव॒स् सन्त॑नु ॥ 32 ॥

भट्टभास्कर-टीका

एतेषां सर्वेषां उपकाराय सुवः आदित्यः प्रवर्तत इति तत्संतानमिति प्रार्थयते । देवानामपि संसारित्वात् । एवं अयं जीवादिरादित्यपर्यन्तः संसारप्रवाहोऽविच्छेदेन प्रवर्ततामिति प्रार्थयते ॥

इति पञ्चमे सप्तमोऽनुवाकः ॥