०६ चातुर्मास्यशेषो वपनविधिः

नक्षत्रेष्टिकाण्डम्‌ +++(वैश्वदेवं काण्डम्)+++

राजसूयब्राह्मणम्

मूलम्

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तदसु॑रा अकुर्वत ।

विश्वास-प्रस्तुतिः

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ , तद् असु॑रा अकुर्वत ।

मूलम्

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ , तद् असु॑रा अकुर्वत ।

भट्टभास्कर-टीका

1 देवा वै यद्यज्ञ इत्यादि ॥ अयमनुवाको राजसूयब्राह्मणम् । वैश्वदेवं काण्डम् । यज्ञे यज्ञविषये यद्देवा अकुर्वत असुरा अपि तदकुर्वत ।

विश्वास-प्रस्तुतिः

ते ऽसु॑रा ऊ॒र्ध्वम् पृ॒ष्ठेभ्यो॒ नाप॑श्यन् ।

मूलम्

ते ऽसु॑रा ऊ॒र्ध्वम् पृ॒ष्ठेभ्यो॒ नाप॑श्यन् ।

भट्टभास्कर-टीका

अथ असुराः पृष्ठभागात् ऊर्ध्व यद्वपनं पृष्ठमुपक्रम्य उपपक्षश्मश्रुकेशक्रमेण यदूर्ध्वं वपनं तन् नापश्यन् । पृष्ठग्रहणेन तत्सहचरितौ उपपक्षौ लक्ष्येते ।

विश्वास-प्रस्तुतिः

ते केशा॒न् अग्रे॑ ऽवपन्त । अथ॒ श्मश्रू॑णि +++(अवपन्त)+++ । अथो॑पप॒क्षौ +++(अवपन्त)+++ ।

मूलम्

ते केशा॒न् अग्रे॑ ऽवपन्त । अथ॒ श्मश्रू॑णि +++(अवपन्त)+++ । अथो॑पप॒क्षौ +++(अवपन्त)+++ ।

भट्टभास्कर-टीका

कथं तर्हि तेऽवपन्तेत्याह - ते केशानित्यादि । केशश्मश्रूपपक्षक्रमेणावाचीनं वपनमकुर्वन् ।

विश्वास-प्रस्तुतिः

तत॒स् ते ऽवा॑ञ्च आयन् । परा॑ ऽभवन् ।

मूलम्

तत॒स् ते ऽवा॑ञ्च आयन् । परा॑ ऽभवन् ।

मूलम्

यस्यै॒वव्ँवप॑न्ति । अवा॑ङेति ॥25॥
अथो॒ परै॒व भ॑वति ।

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वप॑न्त्य्॒ अवा॑ङेत्य् अथो॒ परै॒व भ॑वति ।

मूलम्

यस्यै॒वव्ँ वप॑न्त्य्॒ अवा॑ङेत्य् अथो॒ परै॒व भ॑वति ।

भट्टभास्कर-टीका

ततस्ते अवाञ्चः पतित्वा पराभूता अभवन् । यस्येत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अथ॑ दे॒वा ऊ॒र्ध्वम् पृ॒ष्ठेभ्यो॑ ऽपश्यन् । त उ॑पप॒क्षाव् अग्रे॑ ऽवपन्त ।
अथ॒ श्मश्रू॑णि +++(अपवन्त)+++।
अथ॒ केशा॑न् +++(अपवन्त)+++।
तत॒स् ते॑ ऽभवन् ।
सु॒व॒र्गल्ँ लो॒कम् आ॑यन् ।

मूलम्

अथ॑ दे॒वा ऊ॒र्ध्वम् पृ॒ष्ठेभ्यो॑ ऽपश्यन् । त उ॑पप॒क्षाव् अग्रे॑ ऽवपन्त ।
अथ॒ श्मश्रू॑णि +++(अपवन्त)+++।
अथ॒ केशा॑न् +++(अपवन्त)+++।
तत॒स् ते॑ ऽभवन् ।
सु॒व॒र्गल्ँ लो॒कम् आ॑यन् ।

भट्टभास्कर-टीका

2 अथ देवा इत्यादि ॥ उपपक्षश्मश्रुकेशक्रमेण ऊर्ध्वमवपन्त ततस्ते संपन्नास्स्वर्गं गताः ।

मूलम्

यस्यै॒वव्ँवप॑न्ति । भव॑त्या॒त्मना॑ ।

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वप॑न्ति॒ भव॑त्य् आ॒त्मना॑ ।

अथो॑ सुव॒र्गल्ँ लो॒कम् ए॑ति ॥ 26 ॥

मूलम्

यस्यै॒वव्ँ वप॑न्ति॒ भव॑त्य् आ॒त्मना॑ ।

अथो॑ सुव॒र्गल्ँ लो॒कम् ए॑ति ॥ 26 ॥

भट्टभास्कर-टीका

यस्येत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अथै॒तन् मनु॑र् व॒प्त्रे मि॑थु॒नम् अ॑पश्यत् ।

मूलम्

अथै॒तन् मनु॑र् व॒प्त्रे मि॑थु॒नम् अ॑पश्यत् ।

भट्टभास्कर-टीका

3 अथैतदित्यादि ॥ वप्त्रे वपनार्थं एतन्मिथुनं एतत्प्रकृतमुपायं ऊर्ध्वमवाचीनं च वपनं अपश्यत् मनुः ।

विश्वास-प्रस्तुतिः

स श्मश्रू॒ण्य् अग्रे॑ ऽवपत ।
अथो॑पप॒क्षौ +++(अवपत)+++।
अथ॒ केशा॑न् +++(अवपत)+++।
ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ ।

मूलम्

स श्मश्रू॒ण्य् अग्रे॑ ऽवपत ।
अथो॑पप॒क्षौ +++(अवपत)+++।
अथ॒ केशा॑न् +++(अवपत)+++।
ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ ।

मूलम्

यस्यै॒वव्ँवप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वप॑न्ति॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।

मूलम्

यस्यै॒वव्ँ वप॑न्ति॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।

भट्टभास्कर-टीका

तत्कथमित्याह – सः श्मश्रूणीत्यादि । गतम् । मिथुनसंपत्त्या प्रजया पशुभिश्च मनुः प्राजायत । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते सव्ँ॑वत्स॒रे व्याय॑च्छन्त ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते सव्ँ॑वत्स॒रे व्याय॑च्छन्त ।

भट्टभास्कर-टीका

4 देवासुरा इत्यादि ॥ संवत्सरे संवत्सरनिमित्तं अस्माकं संवत्सर इति देवाः अस्माकमेवेत्यसुराः एवं संवत्सरोपजीविफलार्थं व्यायच्छन्त व्यायामं कृतवन्तः ।

विश्वास-प्रस्तुतिः

तान् दे॒वाश् चा॑तुर्मा॒स्यैर् ए॒वाभि प्रायु॑ञ्जत ॥ 27 ॥

मूलम्

तान् दे॒वाश् चा॑तुर्मा॒स्यैर् ए॒वाभि प्रायु॑ञ्जत ॥ 27 ॥

भट्टभास्कर-टीका

अथ ते देवाः तान् तथा कुर्वतोऽसुरान् अभिलक्ष्य प्रायुञ्जत कांश्चित्प्रयोगान् संवत्सरात्मसात्करणोपायानकुर्वन् चातुर्मास्यैः साधनभूतैः ।

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ ऽवृञ्ज॒त+इन्द्र॑-राजानः ।

मूलम्

वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ ऽवृञ्ज॒त+इन्द्र॑-राजानः ।

भट्टभास्कर-टीका

तत्कथमित्याह - वैश्वदेवेनेत्यादि । अवृञ्जत आहरन् आत्मसात्कृतवन्तः इन्द्रराजानः इन्द्रो सना येषामिति बहुव्रीहौ टजभावः ।

विश्वास-प्रस्तुतिः

ताञ् छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।

मूलम्

ताञ् छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।

भट्टभास्कर-टीका

तान् चतुरो मासान् शीर्षन् शिरसि न्यवर्तयन्त पर्यवर्तयन्त च क्षुरेण ।

विश्वास-प्रस्तुतिः

व॒रु॒ण॒-प्र॒घा॒सैश् च॒तुरो॑ मा॒सो॑ ऽवृञ्जत॒ वरु॑ण-राजानः ।
ताञ् छी॒र्षन्नि चाव॑र्तयन्त॒ परि॑ च ।

सा॒क॒मे॒धैश् च॒तुरो॑ मा॒सो॑ ऽवृञ्जत॒ सोम॑-राजानः ।

वरुणप्रघासैरित्यादि । गतम् ॥

मूलम्

या सव्ँ॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् । तामे॑षामवृञ्जत ।

विश्वास-प्रस्तुतिः

या सव्ँ॑वत्स॒र उ॑पजी॒वा ऽऽसी॒त् ताम् ए॑षाम् अवृञ्जत ।

मूलम्

या सव्ँ॑वत्स॒र उ॑पजी॒वा ऽऽसी॒त् ताम् ए॑षाम् अवृञ्जत ।

मूलम्

ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥ 28 ॥

विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑व॒न्न् , परा ऽसु॑राः ॥ 28 ॥

मूलम्

ततो॑ दे॒वा अभ॑व॒न्न् , परा ऽसु॑राः ॥ 28 ॥

भट्टभास्कर-टीका

5 या संवत्सर इत्यादि ॥ एवं संवत्सरे या उपजीवा यदुपजीव्यमन्नादि तत् एषा असुराणां अवृञ्जत आहरन् । ‘गुरोश्च हलः’इत्यकारप्रत्ययः ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ।

मूलम्

य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ।

मूलम्

भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्षन्नि च॑ व॒र्तय॑ते॒ परि॑ च ।

विश्वास-प्रस्तुतिः

भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा , शी॒र्षन्नि च॑ व॒र्तय॑ते॒ परि॑ च ।

मूलम्

भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा , शी॒र्षन्नि च॑ व॒र्तय॑ते॒ परि॑ च ।

मूलम्

यैषा सव्ँ॑वत्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते ताम्भ्रातृ॑व्यस्य ।

विश्वास-प्रस्तुतिः

यैषा सव्ँ॑वत्स॒र उ॑पजी॒वा वृ॑ङ्क्ते॒ ताम् भ्रातृ॑व्यस्य ।
क्षु॒धा ऽस्य॒ भ्रातृ॑व्य॒ᳶ परा॑ भवति ।

मूलम्

यैषा सव्ँ॑वत्स॒र उ॑पजी॒वा वृ॑ङ्क्ते॒ ताम् भ्रातृ॑व्यस्य ।
क्षु॒धा ऽस्य॒ भ्रातृ॑व्य॒ᳶ परा॑ भवति ।

भट्टभास्कर-टीका

ततो देवा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते ।

मूलम्

लो॒हि॒ता॒य॒सेन॒ नि व॑र्तयते ।

भट्टभास्कर-टीका

6 लोहितायसेनेत्यादि ॥ ताम्रमयेन क्षुरेण मुण्डयते । ‘अनोश्मायः’इति टच् समासान्तः ।

मूलम्

यद्वा इ॒माम॒ग्निर्ऋ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैनाँ॑ रू॒पङ्कृ॒त्वा निव॑र्तयति ।

विश्वास-प्रस्तुतिः

यद् वा इ॒माम् अ॒ग्निर् ऋ॒ताव् आग॑ते निव॒र्तय॑त्य् ए॒तद् ए॒वैनाँ॑ रू॒पङ् कृ॒त्वा निव॑र्तयति ।

मूलम्

यद् वा इ॒माम् अ॒ग्निर् ऋ॒ताव् आग॑ते निव॒र्तय॑त्य् ए॒तद् ए॒वैनाँ॑ रू॒पङ् कृ॒त्वा निव॑र्तयति ।

भट्टभास्कर-टीका

यत् यदा ऋतौ वसन्तादौ आगते इमां पृथिवीं अग्निः निवर्तयति दहति शुष्कसलिलसलिलाशयां शातितपलाशपादपां पक्वलूनधान्यां मुण्डितामिव करोति तदानीं अयमग्निः एतदेव लोहितं रूपं कृत्वा एनां पृथिवीं निर्वर्तयति ।

मूलम्

सा तत॒श्श्वश्वो॒ भूय॑सी॒ भव॑न्त्येति ॥ 29 ॥
प्र जा॑यते ।

विश्वास-प्रस्तुतिः

सा तत॒श् श्वश्वो॒ भूय॑सी॒ भव॑न्त्य् एति॒ , प्र जा॑यते ।

मूलम्

सा तत॒श् श्वश्वो॒ भूय॑सी॒ भव॑न्त्य् एति॒ , प्र जा॑यते ।

भट्टभास्कर-टीका

सा च पृथिवी ततः परं श्वश्श्वो भूयसो उत्तरोत्तरदिनेषु बहुतरा भवन्ती आपूर्यमाणसलिलाशया विरोहत्पलाशपादपा उप्यमानधान्या भवन्ती एति अविच्छेदेन वर्तते प्रजायते ।

मूलम्

य ए॒वव्ँ वि॒द्वाल्ँ लो॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒पङ्कृ॒त्वा नि व॑र्तयते ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाल्ँ लो॑हिताय॒सेन॑ निव॒र्तय॑त ए॒तद् ए॒व रू॒पङ् कृ॒त्वा नि व॑र्तयते ।

मूलम्

य ए॒वव्ँ वि॒द्वाल्ँ लो॑हिताय॒सेन॑ निव॒र्तय॑त ए॒तद् ए॒व रू॒पङ् कृ॒त्वा नि व॑र्तयते ।

मूलम्

स तत॒श्श्वश्वो॒ भूया॒न्भव॑न्नेति । प्रैव जा॑यते ।

विश्वास-प्रस्तुतिः

स तत॒श् श्वश्वो॒ भूया॒न् भव॑न् नेति॒ प्रैव जा॑यते ।

मूलम्

स तत॒श् श्वश्वो॒ भूया॒न् भव॑न् नेति॒ प्रैव जा॑यते ।

भट्टभास्कर-टीका

य एवं विद्वानित्यादि । गतम् । एतदेव आग्नेयं लोहतं रूपं कृत्वा निवर्तयते । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत ।

मूलम्

त्रे॒ण्या श॑ल॒ल्या नि व॑र्तयेत ।

भट्टभास्कर-टीका

7 त्रेण्येति ॥ तिस्र एन्यः श्वेता राजयो यस्य सा त्रेणी । पृषोदरादिः । शलल्या शल्यकस्य सूचिलोम्ना ।

विश्वास-प्रस्तुतिः

त्रीणि॑-त्रीणि॒ वै दे॒वाना॑म् ऋ॒द्धानि॑ । त्रीणि॒ छन्दाँ॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ॥ 30 ॥

मूलम्

त्रीणि॑-त्रीणि॒ वै दे॒वाना॑म् ऋ॒द्धानि॑ । त्रीणि॒ छन्दाँ॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ॥ 30 ॥

भट्टभास्कर-टीका

त्रीणित्रीणीत्यादि । त्रिसंख्याविशिष्टानि देवानां ऋद्धिरूपाणि यथा छन्दांसि सवनानि लोकाश्च ।

विश्वास-प्रस्तुतिः

ऋ॒ध्याम् ए॒व तद् वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति ।

मूलम्

ऋ॒ध्याम् ए॒व तद् वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

तस्मादृद्धिरूपे वीर्ये एषु लोकेषु च प्रतिष्ठितो भवति त्रेण्या निवर्तयमानः ॥

मूलम्

यच्चा॑तुर्मास्यया॒ज्या॑त्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत ।

विश्वास-प्रस्तुतिः

यच् चा॑तुर्मास्य-या॒ज्य् आ॑त्मनो॒ नाव॒द्येद् दे॒वेभ्य॒ आवृ॑श्च्येत ।

मूलम्

यच् चा॑तुर्मास्य-या॒ज्य् आ॑त्मनो॒ नाव॒द्येद् दे॒वेभ्य॒ आवृ॑श्च्येत ।

भट्टभास्कर-टीका

8 यदित्यादि ॥ यत् यदि चातुर्मास्ययाजी देवेभ्यः अवदानार्थं आत्मानं नावद्येत् नावखण्डयेत् देवेभ्य आवृश्च्येत हीयेत ।

मूलम्

च॒तृ॒षुच॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यना॑व्रस्काय ।

विश्वास-प्रस्तुतिः

च॒तृ॒षु-च॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत प॒रोक्ष॑म् ए॒व तद् दे॒वेभ्य॑ आ॒त्मनो ऽव॑द्य॒त्य् अना॑व्रस्काय ।

मूलम्

च॒तृ॒षु-च॑तृषु॒ मासे॑षु॒ नि व॑र्तयेत प॒रोक्ष॑म् ए॒व तद् दे॒वेभ्य॑ आ॒त्मनो ऽव॑द्य॒त्य् अना॑व्रस्काय ।

भट्टभास्कर-टीका

तस्माच्चतुर्षुचतुर्षु मासेषु निवर्तनं कुर्वन् परोक्षमेव निवर्तनव्याजेन देवेभ्यः आत्मानं अवद्यति । तच्च देवेभ्यः आत्मनोऽनाव्रस्काय अनावृश्चनाय भवति । वृश्चतेर्धञ्, कत्वे श्चुत्वं निवर्तते ॥

मूलम्

दे॒वानाव्ँ॒वा ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी ।

विश्वास-प्रस्तुतिः

दे॒वानाव्ँ॒ वा ए॒ष आनी॑तो॒ यश् चा॑तुर्मास्य-या॒जी ।

मूलम्

दे॒वानाव्ँ॒ वा ए॒ष आनी॑तो॒ यश् चा॑तुर्मास्य-या॒जी ।

भट्टभास्कर-टीका

9 देवानां वा इत्यादि ॥ चातुमार्स्ययाजिनां देवानां स्वभूतः आनीतः ।

मूलम्

य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् नि च॑ व॒र्तय॑ते॒ परि॑ च दे॒वता॑ ए॒वाप्ये॑ति ।

मूलम्

य ए॒वव्ँ वि॒द्वान् नि च॑ व॒र्तय॑ते॒ परि॑ च दे॒वता॑ ए॒वाप्ये॑ति ।

भट्टभास्कर-टीका

तस्मात् एवं विद्वान्यो निवर्तयते परिवर्तयते च स देवता एवाप्येति अनुप्रविशति ।

विश्वास-प्रस्तुतिः

नास्य॑ रु॒द्रᳶ प्र॒जाम् प॒शून् अ॒भि म॑न्यते ॥ 31 ॥

मूलम्

नास्य॑ रु॒द्रᳶ प्र॒जाम् प॒शून् अ॒भि म॑न्यते ॥ 31 ॥

भट्टभास्कर-टीका

न च अस्य पश्वादिकं रुद्रोऽभिमन्यते न क्रोधेन पश्यति ॥ इति पञ्चमे षष्ठोऽनुवाकः ॥