नक्षत्रेष्टिकाण्डम्
राजसूयब्राह्मणम्
विश्वास-प्रस्तुतिः
ऋ॒तम् ए॒व प॑रमे॒ष्ठि ।
ऋ॒तन् नात्य् ए॑ति॒ किञ्च॒न ।
ऋ॒ते स॑मु॒द्र आहि॑तः ।
ऋ॒ते भूमि॑र् इ॒यँ श्रि॒ता । +++(अत्र टीकायां गायत्रीछन्द इत्युक्तम् । त्रिपाद्याः कथं चतुर्थपादयोजना इति न स्पष्टम् - सम्पादकीयम्)+++
मूलम्
ऋ॒तम् ए॒व प॑रमे॒ष्ठि ।
ऋ॒तन् नात्य् ए॑ति॒ किञ्च॒न ।
ऋ॒ते स॑मु॒द्र आहि॑तः ।
ऋ॒ते भूमि॑र् इ॒यँ श्रि॒ता । +++(अत्र टीकायां गायत्रीछन्द इत्युक्तम् । त्रिपाद्याः कथं चतुर्थपादयोजना इति न स्पष्टम् - सम्पादकीयम्)+++
भट्टभास्कर-टीका
1 ऋतमित्यादि ॥ गायत्र्यः । ऋतं यज्ञः तत् एव परमेष्ठि परमे महिम्नि तिष्ठति । यद्वा - तदेव प्रजापतिः । ऋतं नात्येति नातिक्रामति किंचन किञ्चिदपि ऋतं एव सर्वं भूतम् । समुद्रोपि ऋते आहितः अवस्थितः । इयं च भूमिः ऋते स्थिता सर्वोत्पादकत्वाद्यज्ञस्य ॥
विश्वास-प्रस्तुतिः
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
मूलम्
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
भट्टभास्कर-टीका
2 अग्निरिति ॥ अयं अग्निः तिग्मेन निशितेन शोचिषा तेजसा इत्थंभूतः । अङ्गनादिमान् आयसे निशितः क्षुर उच्यते । किञ्च - तपः तप्ताङ्गोऽयःक्षुरः उष्णिहा त्रिपदया त्रेण्या शलल्या आक्रान्तं अधिष्ठितः । किञ्च - अस्मिन् तपसि क्षुरे अस्य यजमानस्य शिर आहितं तदधीनत्वात् शिरस्संस्कारस्य ॥
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
मूलम्
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
भट्टभास्कर-टीका
3 वैश्वानरस्येति ॥ वैश्वानरस्य विश्वेषां नराणां सम्बधिनोऽग्नेः तेजसा तेजःपरिणामेन त्रेण्या ऋतेन सत्येन सेचनादिना अस्य केशान् निवर्तये आवप्तव्येभ्यः पृथक्करोमि । सत्येन स्वकार्याव्यभिचारिणा अनेन क्षुरेण केशान् परिवर्तये परिवापयामि । परिवापणं मद्राकरणम् । यथा ‘मद्रात् परिवापणे’इति ॥
विश्वास-प्रस्तुतिः
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
भट्टभास्कर-टीका
4 अस्य क्षुरस्य तपसा तापकार्योग नैशित्येन अनुवर्तये अनुधावामि अनुरूपं वपामि ।
अस्य क्षुरस्य शिवेन सुखहेतुना रूपेण उपवर्तये उप्तानुप्तसमीकरणाय उप्तसमीपे वर्तयामि ।
अस्य क्षुरस्य शग्मेन शक्तिविशेषेण अभिवर्तये उपरि वर्तये । अभिरूपत्वाय वा श्लक्ष्णीकरोमि उप्तकेशं प्रदेशम् ॥
मूलम्
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 21 ॥
विश्वास-प्रस्तुतिः
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 21 ॥
मूलम्
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 21 ॥
भट्टभास्कर-टीका
5 निवर्त्यमाने यजमानो जपति - तदृतमित्यादि ॥ यजुः । यदेतत् क्रियते निवर्तनं तत् एतत् ऋतं यज्ञः । तत् एतत् सत्यं अमोघम् ।
तत् एतत् व्रतं नातः परं व्रतमस्ति ।
तादृशं तत् कर्म शकेयं निर्वोढुं समर्थो भूयासम् ।
तेन अनेन शकेयं अभिमतं फलं साधयितुं समर्थो भूयासं तेन चानेन राध्यासं बुद्धिमान् भूयासम् । शकेराशिषि लिङि ‘लिङ्याशिष्यङ्’॥
विश्वास-प्रस्तुतिः
यद् घ॒र्मᳶ प॒र्यव॑ र्तयत्। +++(९ अक्षराणि)+++
अन्ता॑न् पृथि॒व्या दि॒वः । +++(७ अक्षराणि)+++
अ॒ग्निर् ईशा॑न॒ ओज॑सा । +++(८ अक्षराणि)+++
वरु॑णो धी॒तिभि॑स् स॒ह । +++(८ अक्षराणि)+++
इन्द्रो॑ म॒रुद्भि॒स् सखि॑भिस् स॒ह । +++(१० अक्षराणि)+++
मूलम्
यद् घ॒र्मᳶ प॒र्यव॑ र्तयत्। +++(९ अक्षराणि)+++
अन्ता॑न् पृथि॒व्या दि॒वः । +++(७ अक्षराणि)+++
अ॒ग्निर् ईशा॑न॒ ओज॑सा । +++(८ अक्षराणि)+++
वरु॑णो धी॒तिभि॑स् स॒ह । +++(८ अक्षराणि)+++
इन्द्रो॑ म॒रुद्भि॒स् सखि॑भिस् स॒ह । +++(१० अक्षराणि)+++
भट्टभास्कर-टीका
6 वरुणप्रघासेषु पूर्ववत् निवर्तनं, सर्वं वापयेत्, मन्त्रादिर्विक्रियते - यत्घर्म इति ॥ त्रिष्टुप् ‘चतुर्भिरष्टाक्षरैर्द्वादशाक्षरेण चैकेन त्रिष्टुप्’इति । पङ्क्तिर्वा । घर्मः आदित्यः यत् यस्मात् पर्यवर्तयत् रश्मिभिर्निर्जलानकरोत् मुण्डीकृतवानिव । पृथिव्या अन्तान् अवयवान् दिवश्चान्तान् पर्यवर्तयदित्येव । अग्निरीशानः समर्थः ओजसा तयोरन्तान् पर्यवर्तयत् । वरुणश्च धीतिभिः उदकव्यापारैः सह तयोरन्तान् पर्यवर्तयत् । इन्द्रश्च मरुद्भिः सखिभिः समानख्यानैः सह तयोरन्तान् पर्यवर्तयत् यस्मादेवं तेऽप्यकुनर्वन् तस्मादहमपि अग्निस्तिग्मेनेति । समानं पूर्वेण ॥
विश्वास-प्रस्तुतिः
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 22 ॥
मूलम्
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 22 ॥
मूलम्
यो अ॒स्याᳶ पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः ।
विश्वास-प्रस्तुतिः
यो अ॒स्याᳶ पृ॑थि॒व्यास् त्व॒चि नि॑व॒र्तय॒त्य् ओष॑धीः ।
मूलम्
यो अ॒स्याᳶ पृ॑थि॒व्यास् त्व॒चि नि॑व॒र्तय॒त्य् ओष॑धीः ।
भट्टभास्कर-टीका
7 अथ साकमेधेषु पूर्ववन्निवर्तनादीनि । मन्त्रादिस्तु विक्रियते यो अस्या इति । पङ्क्तिः ॥ यो अस्याः पृथिव्याः त्वचि उपरि प्ररूढामौषधिं (ढा ओषधीः) निवर्तयति दाहेन परिवापयति वा ।
विश्वास-प्रस्तुतिः
अ॒ग्निर् ईशा॑न॒ ओज॑सा ।
वरु॑णो धी॒तिभि॑स् स॒ह ।
इन्द्रो॑ म॒रुद्भि॒स् सखि॑भिस् स॒ह ।
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
अ॒ग्निर् ईशा॑न॒ ओज॑सा ।
वरु॑णो धी॒तिभि॑स् स॒ह ।
इन्द्रो॑ म॒रुद्भि॒स् सखि॑भिस् स॒ह ।
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
तदृ॒तन्तत्स॒त्यम् । तद्व्र॒तन्तच्छ॑केयम् । तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 23 ॥
मूलम्
तद् ऋ॒तन् ,तत् स॒त्यन्, तद् व्र॒तन्, तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 23 ॥
भट्टभास्कर-टीका
अग्निरीशान इत्यादि ॥ समानम् ॥
विश्वास-प्रस्तुतिः
एक॒म् मास॒म् उद॑सृजत् ।
प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ ।
तेना॑भ्यो॒ मह॒ आव॑हत् ।
अ॒मृत॒म् मर्त्या॑भ्यः ।
मूलम्
एक॒म् मास॒म् उद॑सृजत् ।
प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ ।
तेना॑भ्यो॒ मह॒ आव॑हत् ।
अ॒मृत॒म् मर्त्या॑भ्यः ।
भट्टभास्कर-टीका
8 अथ शुनासीरिये निवर्तनादि पूर्ववत् । मन्त्रादिविकारस्तु - एकं मासमिति । तिस्रोऽनुष्टुभः ॥ अष्टपदाष्टिर्वा द्वितीया । एकं मासं कालांशं परमेष्ठी प्रजाभ्यः उदसृजत् उत्सृष्टमकरोत् पुत्रादिसाधारणत्वात् । यमुदसृजत् तेन कालेन आभ्यः मर्त्याभ्यो मरणशीलाभ्यः महो महत् महनीयं वा अमृतं अमृतत्वं आवहत् ।
विश्वास-प्रस्तुतिः
प्र॒जामनु॒ प्र जा॑यसे ।
तदु॑ ते मर्त्या॒मृत॑म् ।
येन॒ मासा॑ अर्ध-मा॒साः ।
ऋ॒तव॑ᳶ परिवत्स॒राः ।
मूलम्
प्र॒जामनु॒ प्र जा॑यसे ।
तदु॑ ते मर्त्या॒मृत॑म् ।
येन॒ मासा॑ अर्ध-मा॒साः ।
ऋ॒तव॑ᳶ परिवत्स॒राः ।
भट्टभास्कर-टीका
किं पुनस्तदित्याह - प्रजामनु प्रजया सह प्रजायसे । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम् । हे मर्त्य! यजमान! मरणधर्मन् । ते तव तदु तदेव अमृतं अमृतत्वम् । न हि म्रियसे पुत्रपौत्रनप्त्रादिभावेन त्वमेवावतिष्ठसे । तस्मात्तं कालमेव प्रजाभ्य उदसृजत् उत्सृज्य चामृतत्वमावहद्येन परमेष्ठी ।
विश्वास-प्रस्तुतिः
येन॒ ते ते॑ प्रजापते ।
ई॒जा॒नस्य॒ न्यव॑र्तयन् ।
तेना॒हम् अ॒स्य ब्रह्म॑णा ।
निव॑र्तयामि जी॒वसे॑ ।
मूलम्
येन॒ ते ते॑ प्रजापते ।
ई॒जा॒नस्य॒ न्यव॑र्तयन् ।
तेना॒हम् अ॒स्य ब्रह्म॑णा ।
निव॑र्तयामि जी॒वसे॑ ।
भट्टभास्कर-टीका
अथ हे प्रजापते! तासां प्रजानां तादृशामृतत्वभाजां पते! ते च मासादयो येन ते तव ईजानस्य इष्टवतो न्यवर्तयन् तेन तादृशेन प्रशस्तेन ब्रह्मणा मन्त्रेण कर्मणा वा अस्य यजमानस्य निवर्तयामि जीवसे जीवयितुं यथोक्तामृतत्वलक्षणं प्राजापत्यमप्यायुरस्य यथा स्यादिति अयुष्यमिदं कर्म करोमि -
विश्वास-प्रस्तुतिः
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॑ ।
तप॒ आक्रा॑न्तम् उ॒ष्णिहा॑ ।
शिर॒स् तप॒स्याहि॑तम् ।
वै॒श्वा॒न॒रस्य॒ तेज॑सा ।
ऋ॒तेना॑स्य॒ नि व॑र्तये ।
स॒त्येन॒ परि॑ वर्तये ।
तप॑सा॒ ऽस्यानु॑ वर्तये ।
शि॒वेना॒स्योप॑ वर्तये ।
श॒ग्मेना॑स्या॒भि व॑र्तये ।
मूलम्
तदृ॒तन्तत्स॒त्यम् ।
तद्व्र॒तन्तच्छ॑केयम् ।
तेन॑ शकेय॒न्तेन॑ राध्यासम् ॥ 24 ॥
विश्वास-प्रस्तुतिः
तद् ऋ॒तन् तत् स॒त्यन् , तद् व्र॒तन् , तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 24 ॥
मूलम्
तद् ऋ॒तन् तत् स॒त्यन् , तद् व्र॒तन् , तच् छ॑केय॒न्, तेन॑ शकेय॒न् , तेन॑ राध्यासम् ॥ 24 ॥
भट्टभास्कर-टीका
अग्निस्तिग्मेनेति । समानं परम् ॥
इति पञ्चमे पञ्चमोऽनुवाकः ॥