नक्षत्रेष्टिकाण्डम्
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति । “कति॒ पात्रा॑णि य॒ज्ञव्ँ व॑ह॒न्ती"ति॑ । “त्रयो॑द॒शे"ति॑ ब्रूयात् ।
मूलम्
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति । “कति॒ पात्रा॑णि य॒ज्ञव्ँ व॑ह॒न्ती"ति॑ । “त्रयो॑द॒शे"ति॑ ब्रूयात् ।
भट्टभास्कर-टीका
1 अथाध्वरब्राह्मणशेषः सोमार्षेयम् ॥ ब्रह्मवादिनो वदन्ति कति पात्रणीत्यादिरनुवाकः सोमार्षेयम् । कतीति संख्याप्रश्नः । कति पात्राणि यज्ञोपकरणानि यज्ञं वहन्ति निर्वर्तयन्ति ।
मूलम्
स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ ।
विश्वास-प्रस्तुतिः
स यद् ब्रू॒यात्, “क॑स् तानि॒ निर॑मिमी॒ते"ति॑ । “प्र॒जाप॑ति॒र्” इति॑ ब्रूयात् ।
मूलम्
स यद् ब्रू॒यात्, “क॑स् तानि॒ निर॑मिमी॒ते"ति॑ । “प्र॒जाप॑ति॒र्” इति॑ ब्रूयात् ।
भट्टभास्कर-टीका
स इति । स पर्यनुयोक्ता यदि ब्रूयात् यदि पुनरपि पृच्छेत् इति ।
क इति कर्तृप्रश्नः ।
मूलम्
स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ ।
विश्वास-प्रस्तुतिः
स यद् ब्रू॒यात् ,“कुत॒स् तानि॒ निर॑मिमी॒ते"ति॑ । “आ॒त्मन॒” इति॑ ।
मूलम्
स यद् ब्रू॒यात् ,“कुत॒स् तानि॒ निर॑मिमी॒ते"ति॑ । “आ॒त्मन॒” इति॑ ।
भट्टभास्कर-टीका
आत्मन इति । स्वस्मादित्यर्थः ॥
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नाभ्या॑म् ए॒वोपाँ॑श्वन्तर्या॒मौ निर॑मिमीत ॥ 19 ॥
व्या॒नाद् उ॑पाँशु॒-सव॑नम् +++( निर॑मिमीत)+++।
वा॒च ऐ॑न्द्रवाय॒वम् +++( निर॑मिमीत)+++।
मूलम्
प्रा॒णा॒पा॒नाभ्या॑म् ए॒वोपाँ॑श्वन्तर्या॒मौ निर॑मिमीत ॥ 19 ॥
व्या॒नाद् उ॑पाँशु॒-सव॑नम् +++( निर॑मिमीत)+++।
वा॒च ऐ॑न्द्रवाय॒वम् +++( निर॑मिमीत)+++।
भट्टभास्कर-टीका
2 अथैकैकश्येन व्याचष्टे - प्राणापानाभ्यामिति ॥ प्राणादिभ्य उत्पन्नत्वात् गृहीतत्वात्तेभ्य एव साद्यन्ते ‘एष ते योनिः प्राणाय त्वा’ इत्यादिना ।
विश्वास-प्रस्तुतिः
द॒क्ष॒-क्र॒तुभ्या॑म् मैत्रावरु॒णम् +++( निर॑मिमीत)+++।
श्रोत्रा॑द् आश्वि॒नम् +++( निर॑मिमीत)+++।
चक्षु॑षश् शु॒क्रा-म॒न्थिनौ॑+++( निर॑मिमीत)+++ ।
मूलम्
द॒क्ष॒-क्र॒तुभ्या॑म् मैत्रावरु॒णम् +++( निर॑मिमीत)+++।
श्रोत्रा॑द् आश्वि॒नम् +++( निर॑मिमीत)+++।
चक्षु॑षश् शु॒क्रा-म॒न्थिनौ॑+++( निर॑मिमीत)+++ ।
भट्टभास्कर-टीका
दक्षक्रतू उत्साहसंकल्पौ ।
विश्वास-प्रस्तुतिः
आ॒त्मन॑ आग्रय॒णम् +++( निर॑मिमीत)+++।
अङ्गे॑भ्य उ॒क्थ्य॑म् +++( निर॑मिमीत)+++ ।
आयु॑षो ध्रु॒वम् +++( निर॑मिमीत)+++ ।
मूलम्
आ॒त्मन॑ आग्रय॒णम् +++( निर॑मिमीत)+++।
अङ्गे॑भ्य उ॒क्थ्य॑म् +++( निर॑मिमीत)+++ ।
आयु॑षो ध्रु॒वम् +++( निर॑मिमीत)+++ ।
भट्टभास्कर-टीका
आत्मा देहः ।
विश्वास-प्रस्तुतिः
प्र॒ति॒ष्ठाया॑ ऋतु-पा॒त्रे +++( निर॑मिमीत)+++ ।
मूलम्
प्र॒ति॒ष्ठाया॑ ऋतु-पा॒त्रे +++( निर॑मिमीत)+++ ।
भट्टभास्कर-टीका
प्रतिष्ठा पादौ ॥
विश्वास-प्रस्तुतिः
य॒ज्ञव्ँ वाव तम् प्र॒जाप॑ति॒र् निर॑मिमीत ।
मूलम्
य॒ज्ञव्ँ वाव तम् प्र॒जाप॑ति॒र् निर॑मिमीत ।
भट्टभास्कर-टीका
यज्ञं वावेत्यादि ॥ यज्ञापेक्षमेकवचनं पुल्लिङ्गता च । तान्येतानि खलु पात्राणि प्रजापतिः पूर्वं यज्ञं निर्मितवान् ।
विश्वास-प्रस्तुतिः
स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत ।
मूलम्
स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत ।
भट्टभास्कर-टीका
स तथा निर्मितो यज्ञो नाध्रियत नावतिष्ठत, अपि तु समव्लीयत व्यशीर्यत । व्ली विशरणे ।
विश्वास-प्रस्तुतिः
स ए॒तान् प्र॒जाप॑तिर् अपिवा॒पान् अ॑पश्यत् ।
तान् निर॑वपत् ।
मूलम्
स ए॒तान् प्र॒जाप॑तिर् अपिवा॒पान् अ॑पश्यत् ।
तान् निर॑वपत् ।
भट्टभास्कर-टीका
स इत्यादि विशीर्णं यज्ञं पश्यन् स प्रजापतिरेतान् अपिवापान् प्रतिनिग्राह्यादीन् अपश्यत् निरवपत् । विशीर्णस्य यज्ञस्य अपिवपनं पुनरुत्पादनं येषु ते अपिवापाः । करणे घञ्, थाथादिना उत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
तैर् वै स य॒ज्ञम् अप्य् अ॑वपत् ।
मूलम्
तैर् वै स य॒ज्ञम् अप्य् अ॑वपत् ।
भट्टभास्कर-टीका
स तैर्यज्ञमप्यवपत् पुनरुदपादयत् ।
मूलम्
यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्ँलयाय ॥ 20 ॥
विश्वास-प्रस्तुतिः
यद् अ॑पिवा॒पा भव॑न्ति य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्ँलयाय ॥ 20 ॥
मूलम्
यद् अ॑पिवा॒पा भव॑न्ति य॒ज्ञस्य॒ धृत्या॒ अस॑व्व्ँलयाय ॥ 20 ॥
भट्टभास्कर-टीका
यदित्यादि । गतम् । असंव्लयः अविशरणम् ॥
इति पञ्चमे चतुर्थोऽनुवाकः ॥