विस्तारः (द्रष्टुं नोद्यम्)
नक्षत्रेष्टिकाण्डम्
विश्वास-टिप्पनी
- अह्नः कालविभागाः - प्रातः, सङ्गवः, पूर्वाह्णः, अपराह्णः, सायाह्नः। प्रत्येकस्मिन् मुहूर्तत्रयम् इति सायणः। तेषु सन्धिमुहूर्तानाम् अनौचित्यं कर्मसु ब्रूते।
- प्रत्येकः कालो दिवसास्याष्टमो भागः कश्चनेति भट्टभास्करः। तन्मते सायाह्णो नाम प्रदोषः। अयम् मतो रोचतेतराम्।
- प्रत्येकोऽपि कालो दिवसस्य पञ्चमो भाग इति सायणः। प्रत्येकोऽप्यसौ ३-मुहूर्तात्मकः।
कालविभागः
विश्वास-प्रस्तुतिः
दे॒वस्य॑ सवि॒तुᳶ प्रा॒तᳶ प्र॑स॒वᳶ प्रा॒णः । वरु॑णस्य सा॒यम्+++(→प्रदोषः)+++ आ॑स॒वो॑ऽपा॒नः ।
मूलम्
दे॒वस्य॑ सवि॒तुᳶ प्रा॒तᳶ प्र॑स॒वᳶ प्रा॒णः ।
वरु॑णस्य सा॒यम् आ॑स॒वो॑ ऽपा॒नः ।
भट्टभास्कर-टीका
1 देवस्य सवितुरित्यादि ॥ सवितुर्निजोदयेन सर्वस्य प्रेरयितुः देवस्य प्रसवः अनुज्ञैव स प्रातःकालः, तत्र सर्वाणि कर्माणि निजोदयेन देवोऽनुजानातीति कृत्वा, अत एव प्राणः प्राणस्थानीयः कर्मणाम् । अनेन कर्माणि प्राणन्तीव । वरुणस्य वारकस्य । तमसा विश्वं छादयितुमारभमाणस्य आसवः अनुज्ञैव सायंकालः प्रदोषः । यद्वा - आच्छेद आसवः कर्मणामुपरमः । अत एव अपानः अपानस्थानीयः, अपानन्त्येव कर्माणि अनेनेति ॥
मूलम्
यत्प्र॑ती॒चीन॑म्प्रात॒स्तना॑त् । प्रा॒चीनँ॑ सङ्ग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मन्निर॑मिमत ।
विश्वास-प्रस्तुतिः
यत् प्र॑ती॒चीनं॑ प्रात॒स्तना॑त्, प्रा॒चीनँ॑ सङ्ग॒वात् - ततो॑ दे॒वा अ॑ग्निष्टो॒मन् निर॑मिमत । तत् तद् आत्त॑वीर्यन् निर्मा॒र्गः ।
मूलम्
यत् प्र॑ती॒चीन॑म् प्रात॒स्तना॑त् प्रा॒चीनँ॑ सङ्ग॒वात् ततो॑ दे॒वा अ॑ग्निष्टो॒मन् निर॑मिमत । तत् तदात्त॑वीर्यन् निर्मा॒र्गः ।
भट्टभास्कर-टीका
2 एवमिमौ द्वौ कालौ आद्यन्तौ, अथ मध्यवर्तिन आह - यदित्यादि ॥ प्रातस्तनात् कालात् प्रतीचीनं संगवात् कालात् प्राचीनं दिवसस्याष्टमं द्वितीयम् । ततः कालात् सारमादाय अग्निष्टोमं निरमिमत देवाः । तत् तस्मात् तत् आत्तवीर्यं गृहीतसारं अत एव निर्मार्गः । ऋजीषः । निर्मृज्यते त्यज्यते इति निर्मार्गः ।
मूलम्
मि॒त्रस्य॑ सङ्ग॒वः । तत् पुण्य॑न् तेज॒स्व्य् अहः॑ । तस्मा॒त् तर्हि॑ प॒शव॑स् स॒माय॑न्ति ।
विश्वास-प्रस्तुतिः
मि॒त्रस्य॑ सङ्ग॒वस् तत् पुण्य॑न् तेज॒स्व्य् अहः॑ ।
मूलम्
मि॒त्रस्य॑ सङ्ग॒वस् तत् पुण्य॑न् तेज॒स्व्य् अहः॑ ।
तस्मा॒त् तर्हि॑ प॒शव॑स् स॒माय॑न्ति ।
भट्टभास्कर-टीका
अयं संगवः तृतीयं अष्टमो भागो मित्रस्य । तत् अनात्तसारत्वात् पुण्यं तेजस्वि उज्ज्वलं अहः अहरकदेशः ।
तस्मात् तर्हि तस्मिन् काले पशवस्समायन्ति दिगन्तेषु चरित्वा व्रजं समागच्छन्ति तस्मात्सङ्गवत्वमिति ॥
विश्वास-प्रस्तुतिः
यत् प्र॑ती॒चीनँ॑ सङ्ग॒वात्, प्रा॒चीनं॑ म॒ध्यन्दि॑नात् - ततो॑ दे॒वा उ॒क्थ्य॑न् निर॑मिमत । तत् तद् आत्त॑वीर्यन् निर्मा॒र्गः ।
मूलम्
यत्प्र॑ती॒चीनँ॑ सङ्ग॒वात् ॥ 15 ॥
प्रा॒चीन॑म्म॒ध्यन्दि॑नात् ।
ततो॑ दे॒वा उ॒क्थ्य॑न्निर॑मिमत ।
भट्टभास्कर-टीका
3 अथ सङ्गवमध्यन्दिनयोः मध्यमादष्टमांशाच्चतुर्थात् उक्थ्यं निरमिमत ॥ तत्तदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
बृह॒स्पते॑र् म॒ध्यन्दि॑नः । तत् पुण्य॑न् तेज॒स्व्य् अहः॑ । तस्मा॒त् तर्हि॒ तेक्ष्णि॑ष्ठन्+++(=तीक्ष्णतमं)+++ तपति ।
मूलम्
बृह॒स्पते॑र्म॒ध्यन्दि॑नः । तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
भट्टभास्कर-टीका
अथ बृहस्पतेर्मध्यन्दिनः पश्चमोऽष्टमांशः । तत्पुण्यमित्यादि । गतम् । तस्मात्तर्हि तदानीं तेक्ष्णिष्ठं तीक्ष्णतमं तपति तपनः । छान्दसमेत्वम् ॥
विश्वास-प्रस्तुतिः
यत् प्र॑ती॒चीनं॑ म॒ध्यन्दि॑नात्, प्रा॒चीन॑म् अपरा॒ह्णात् । ततो॑ दे॒वाष् षो॑ड॒शिन॒न् निर॑मिमत । तत् तद् आत्त॑वीर्यन् निर्मा॒र्गः ॥ 16 ॥
मूलम्
यत्प्र॑ती॒चीन॑म्म॒ध्यन्दि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाष्षो॑ड॒शिन॒न्निर॑मिमत ।
भट्टभास्कर-टीका
4 अथ मध्यन्दिनापराह्णयोः मध्यमादष्टमांशात् षष्ठात् षोडशिनं निरमिमत ॥ तदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
भग॑स्यापरा॒ह्णः । तत् पुण्य॑न् तेज॒स्व्य् अहः॑ ।
मूलम्
भग॑स्यापरा॒ह्णः । तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
भट्टभास्कर-टीका
अथ भगस्य सप्तमोऽष्टमांशः अपराह्णः, तत्पुण्यं, तेजस्वि ।
विश्वास-प्रस्तुतिः
तस्मा॑द् अपरा॒ह्णे कु॑मा॒र्यो॑ भग॑म् इ॒च्छमा॑नाश् चरन्ति +++(मण्डिताः)+++।
मूलम्
तस्मा॑द् अपरा॒ह्णे कु॑मा॒र्यो॑ भग॑म् इ॒च्छमा॑नाश् चरन्ति ।
भट्टभास्कर-टीका
तस्मात् तदानीं कुमार्यो भगं श्रियं सौभाग्यमिच्छन्त्यः चरन्ति मण्डनपरा वर्तन्ते ॥
विश्वास-प्रस्तुतिः
यत् प्र॑ती॒चीन॑म् अपरा॒ह्णात्, प्रा॒चीनँ॑ सा॒यात्- ततो॑ दे॒वा अ॑तिरा॒त्रन् निर॑मिमत । तत् तद् आत्त॑वीर्यन् निर्मा॒र्गः ।
मूलम्
यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीनँ॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्रन्निर॑मिमत ।
भट्टभास्कर-टीका
5 अथापराह्णसायंकालयोर्मध्यमादष्टमांशात् अतिरात्रं निरमिमत ॥ तदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
वरु॑णस्य सा॒यम्+++(=प्रदोष इति भास्करमते युक्ते)+++ । तत् पुण्य॑न् तेज॒स्व्य् अहः॑ । तस्मा॒त् तर्हि॒ नानृ॑तव्ँ वदेत् ॥ 17 ॥
+++(ब्राह्मणं हि भवति - ‘अनृतवादिनो वरुणो हिनस्ति’ इति।)+++
मूलम्
वरु॑णस्य सा॒यम् ।
तत्पुण्य॑न्तेज॒स्व्यहः॑ ।
तस्मा॒त् तर्हि॒ नानृ॑तव्ँ वदेत् ॥ 17 ॥
भट्टभास्कर-टीका
अथ वरुणस्य सायं प्रदोषकालः । तत्पुण्यं तेजस्वि तस्मात् तदानीं नानृतं वदेत् वारुणत्वात्तस्य । ब्राह्मणं हि भवति - ‘अनृतवादिनो वरुणो हिनस्ति’इति, ‘अतृते खलु वै क्रियमाणे वरुणो गृह्णाति’इति च । तूष्णीमेवासनं वरमिति ॥
ब्राह्मणपात्रम्
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णो वा अ॑ष्टाविँ॒शो नक्ष॑त्राणाम् +++(पुण्याहवाचनमुहूर्तकारीति कृत्वा, तत्रापि देवनक्षत्रम्)+++।
मूलम्
ब्रा॒ह्म॒णो वा अ॑ष्टाविँ॒शो नक्ष॑त्राणाम् ।
भट्टभास्कर-टीका
6 ब्रह्मणो वा इत्यादि ॥ अष्टाविंशमिदं नक्षत्रं ब्राह्मणो नाम । अष्टविंशतेः पूरणोऽष्टाविंशः । नक्षत्राणीवायमपि पुण्याहवाचनमुहूर्तकारीति कृत्वा ।
संवत्सरगुप्तिः
विश्वास-प्रस्तुतिः
स॒मा॒नस्याह्न॒ᳶ +++(प्रातस्सङ्गवादयो भागाः)+++ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि +++(तदंशोपेतत्वात्)+++। +++(सन्धिभागाः)+++ च॒त्वार्य्॑ अश्ली॒लानि॑ । तानि॒ नव॑ ।
मूलम्
स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि ।
च॒त्वार्य् अ॑श्ली॒लानि॑ । तानि॒ नव॑ ।
भट्टभास्कर-टीका
अथ तत् देवनक्षत्रैस्समानकार्यत्वं ब्राह्मणस्याह - समानस्य एकस्य अह्नः उक्तेन प्रकारेण पुण्यानि शोभनानि नक्षत्राणि नक्षत्रांशाः पश्च प्रातःकालसङ्गवमाध्यन्दिनापराह्णसायंकालाः ।
अथ अश्लीलानि अशोभनानि चत्वारि अग्निष्टोमोक्थ्यषोडश्यतिरात्रोत्पत्त्या हृतसाराणि । तान्युभयानि संहत्य नव भवन्ति ॥
विश्वास-प्रस्तुतिः
यच् च॑ प॒रस्ता॒न् +++(रात्रौ)+++ नक्ष॑त्राणाय्ँ॒ यच् चा॒वस्ता॑त् +++(सूर्योदयात् प्राक्)+++, +++(ताव् आहत्य)+++ तान्य् एका॑दश ।
ब्रा॒ह्म॒णो द्वा॑द॒शः ।
मूलम्
यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणाय्ँ॒ यच्चा॒वस्ता॑त् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान्त् +++(१२-कालात्मकस्याह्नो १२-मासात्मकसंवत्सरस्येव भावितं व्रतं चरित्वा)+++ सव्ँ॑ वत्स॒रव्ँ व्र॒तञ् +++(इव)+++ चर॑ति, सव्ँ॒ व॒त्स॒रेणै॒वास्य॑ व्र॒तङ् गु॒प्तं भ॑वति ।
मूलम्
य ए॒वव्ँ वि॒द्वान्त्सव्ँ॑वत्स॒रव्व्ँर॒तञ्चर॑ति । सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ्गु॒प्तम्भ॑वति ।
भट्टभास्कर-टीका
7 अथ यच्च परस्तान्नक्षत्राणां सायंकालात्पूर्वा सन्ध्या यच्चावस्तात् प्रातस्सन्ध्या ते द्वे भवतः । अथ ताभ्यां संहतानि एकादश भवन्ति । ब्राह्मणो द्वादशः । इदं नक्षत्रकार्यकारित्वं ब्राह्मणस्य ।
एवं ब्राह्मणेन सह द्वादशत्वान्वयात् संवत्सरं संवत्सरस्थानीयं ऐकाहिकं व्रतं कर्म विद्वान्यश्चरति अस्य एतत् व्रतं एकेनाह्ना क्रियमाणमपि संवत्सरेण गुप्तं भवति । केचिदाहुः - ‘शुक्रं परस्तात् ज्योतिरवस्तात्’ इति उक्ते तयोरपि तस्मिन्नक्षत्रे क्रियमाणस्य कर्मणः साद्गुण्यहेतुत्यात् संवत्सरसिद्धिरिति ।
संवत्सरगुप्तिर् मार्गान्तरेण
विश्वास-प्रस्तुतिः
स॒मा॒नस्याह्न॒ᳶ +++(प्रातस्सङ्गवादयो भागाः)+++ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि +++(तदंशोपेतत्वात्)+++। +++(सन्धिभागाः)+++ च॒त्वार्य्॑ अश्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑। ऐ॒न्द्रम् अहः॑। तान्य् एका॑दश । आ॒दि॒त्यो द्वा॑द॒शः ।
मूलम्
स॒मा॒नस्याह्न॒ᳶ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ ।
आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः ।
भट्टभास्कर-टीका
समानस्येत्यादिना अन्यथा द्वादशत्वं प्रतिपादयति । आग्नेय्या रात्र्या ऐन्द्रेण चाह्ना आदित्येन सह तानि द्वादशेति । गतमन्यत् ॥
इति पञ्चमे तृतीयोऽनुवाकः ॥
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान्त् +++(१२-कालात्मकस्याह्नो १२-मासात्मकसंवत्सरस्येव भावितं व्रतं चरित्वा)+++ सव्ँ॑ वत्स॒रव्ँ व्र॒तञ् +++(इव)+++ चर॑ति, सव्ँ॒ व॒त्स॒रेणै॒वास्य॑ व्र॒तङ् गु॒प्तं भ॑वति ।
मूलम्
य ए॒वव्ँ वि॒द्वान्त् सव्ँ॑वत्स॒रव्ँ व्र॒तञ् चर॑ति । सव्ँ॒व॒त्स॒रेणै॒वास्य॑ व्र॒तङ् गु॒प्तम् भ॑वति ॥ 18 ॥