पुण्य-नक्षत्रम् उपव्युषम्
विश्वास-प्रस्तुतिः
यत् पुण्य॒न् नक्ष॑त्रम्, तद् बट् कु॑र्वीतोपव्यु॒षम्
य॒दा वै सूर्य॑ उ॒देति॑,
अथ॒ नक्ष॑त्र॒न् नैति॑ +++(अस्तम्)+++।
मूलम्
यत्पुण्य॒न्नक्ष॑त्रम् ।
तद्बट्कु॑र्वीतोपव्यु॒षम् ।
य॒दा वै सूर्य॑ उ॒देति॑ ।
अथ॒ नक्ष॑त्र॒न्नैति॑ ।
सायण-टीका
ज्योतिःशास्त्रप्रसिद्ध्या कर्तुः स्वस्य क्रियमाणस्य कर्मणश् चानुकूलत्वेन पुण्यं यन् नक्षत्रम् अस्ति, उपव्युषम् उषःकालसमीपे तन् नक्षत्रं बट् कुर्वीत = बाढं कुर्वीत । “आकाशे सूर्योदय-देशाद् ऊर्ध्वम् एतावति दूरे तन् नक्षत्रं तिष्ठती"ति बुद्धौ दृढ-निश्चयं कुर्यात् ।
उपव्युषम् इत्य् अस्यैवाभिप्रायः स्पष्टी क्रियते । यस्मिन् काले सूर्य उदेति तस्मिन् काले तन् नक्षत्रं पुरुषो नैति न प्राप्नोति । सूर्य-प्रकाशेन तिरोहितत्वाद् द्रष्टुं न शक्यत इत्य् उदयात् प्राग् एव नक्षत्र-दर्शन-काले तस्य स्थान-विशेषं निश्चिनुयात् ।
भट्टभास्कर-टीका
1 यत्पुण्यं इत्यादि ॥ पुण्य-कर्मणोऽनुरूपं आत्मनश् चानुकूलं यन् नक्षत्रं इष्टं, तत् बट् कुर्वीत । बड् इति सत्य-नाम । तत् सत्यं चिह्नं कुर्वीत । तेन वा चिह्नम् आकाशं कुर्वीत । अस्मिन् आकाशावकाशे इदं नक्षत्रम् इति उपव्युषं उषस्-समीपे विवासन-काले । छान्दसो डः समासान्तः ।
पुनः कालं विशिनष्टि - यदा सूर्य उदेति अथ तत् पुण्यं नक्षत्रं नैति न तिरोहितं भवति
तादृशे विवासनकाले तत् पुण्यं नक्षत्रं यत्राकाशावकाशे तिष्ठति तं प्रदेशं सत्यं कुर्वीत - अविपर्यस्तं जानीयात् ।
विश्वास-प्रस्तुतिः
याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त्
यत्र॑ +++(पुण्य-नक्षत्रं)+++ जघ॒न्यं॑+++(=अन्तिमं)+++ पश्ये॑त् -
ताव॑ति कुर्वीत यत्-का॒री स्यात् ।
मूलम्
याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् । यत्र॑ जघ॒न्य॑म्पश्ये॑त् । ताव॑ति कुर्वीत यत्का॒री स्यात् ।
सायण-टीका
तच् च नक्षत्रं यावत् प्राच्याम् उदयं प्राप्य पश्चिमाभिमुखं गच्छति । तथा सति, यस्मिन् देशे नक्षत्र-स्थानं स्वेन निश्चितं, तत्-स्थानात् प्राचीनः समीप-देशस् तन् नक्षत्रापेक्षया जघन्यः। तस्मिञ् जघन्यदेशे यावति काले सूर्यो गच्छेत् तावति काले स्वेन कर्तव्यं कर्म कुर्यात् । यत् कर्म करोतीति यत्कारी। तादृशश् चिकीर्षुः पुरुषस् तस्मिन् काले प्रारभेत ।
+++(एतद् असमञ्जसम् इति विश्वासः। द्वितीयपक्षे “यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात्” इति त्याज्यम्। विवरणम् अन्यत्र।)+++
भट्टभास्कर-टीका
अथैवं ज्ञात्वा तस्मात् चिह्नितात् प्रदेशात् जघन्यं पश्चाद्भागत्वेन यत्र पश्येत् तत्राकाशप्रदेशे यावति काले सूर्यो गच्छेत् तावति ततः प्रागेव कुर्वीत अविपर्यस्तः स्वं तत् कर्म यत्कारी यत् कर्म करिष्यन् स्यात् ।
केचिदाहुः - ‘अथ नक्षत्रं नैति’ इत्यन्तं समानम् । यावति काले तत्र चिह्निते प्रदेशे सूर्यो गच्छेत्, यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात् । आ-कुत इत्याह - यावति काले तत् पुण्यं नक्षत्रं जघन्यं अस्तं गतं पश्येत् अस्तं गच्छता चरमं पश्येत् गणयेत् तावति ततः ततः प्रागेव कुर्यात् न ततः परमिति ॥
+++(पक्षद्वयम् अप्य् असमञ्जसम् इति विश्वासः। द्वितीयपक्षे “यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात्” इति त्याज्यम्। विवरणम् अन्यत्र।)+++
विश्वास-प्रस्तुतिः
पु॒ण्या॒ह ए॒व कु॑रुते ।
मूलम्
पु॒ण्या॒ह ए॒व कु॑रुते ।
सायण-टीका
तथा सति, सत्स्व् अपि शास्त्रोक्तेषु काल-दोषेषु, तेषां दोषाणाम् उपशमाद् अयं पुरुषः पुण्याह एव तत् कृतवान् भवति।
भट्टभास्कर-टीका
पुण्याह एव कुरुते । एवं क्रियमाणं सत्स्व् अपि दोषेषु पुण्याहे कृतं भवति, अज्ञातानाम् अपि मुहूर्तादिदोषाणां+++(5)+++ शान्त्यै भवतीति भावः । अथ यत्र न चेत् कर्मयोज्यं नक्षत्रं तदहर् नातीव पुण्यम् इति ।
अनारभ्योक्तत्वेऽपि प्राकृतानां नियतकालत्वात् तद्व्यतिरिक्तार्थमिदम् ॥
विश्वास-प्रस्तुतिः
ए॒वं ह॒ वै य॒ज्ञेषु॑ञ् च श॒तद्यु॑म्नञ् च
मा॒त्स्यो नि॑रवसाय॒याञ् +++(→निःशेषेण श्रैष्ठ्यम्)+++ च॑कार ॥ 6 ॥
मूलम्
ए॒वँ ह॒ वै य॒ज्ञेषु॑ञ् च श॒तद्यु॑म्नञ् च मा॒त्स्यो नि॑रवसाय॒याञ् च॑कार ॥ 6 ॥
सायण-टीका
तदेतत् सांप्रदायिकम् । यस्मान् मात्स्यो नाम कश्चिद् ऋषिर् यज्ञेषु-नामकं शतद्युम्नं च पुरुषम् ईदृशे मुहूर्ते कारयित्वा निःशेषेण श्रेष्ठ्यं प्रापयामास ।
भट्टभास्कर-टीका
2 एवमित्यादि॥ निरवसाययांचकार ईदृशे मुहूर्ते कर्म कारयित्वा अन्योन्यो[न्यं]निष्क्रृष्य श्रैष्ठ्ये स्थापयामास । अभ्यषिञ्चदित्येके ॥
विश्वास-टिप्पनी (द्रष्टुं नोद्यम्)
नक्षत्र-बट्-करणम् (कृत्तिकाविषुवसूर्यापेक्षया)
- उदाहरणम् - चौले निश्चिते पुनर्वस्वोः - “कृत्तिकानक्षत्रं सदा विषुवसूर्योदयस्थाने स्याद् इति निश्चिनुमश्चेत् (यथा तैत्तिरीयब्राह्मणाविर्भाववेलायाम् आसीत्), तर्हि पुनर्वसु-नक्षत्रं 53-60 = -7 deg equinoctial longitude इति रेखायाम् आपतति। निश्चिते दिने (Mar 25 2018) सूर्योदयाद् ईषत् प्रागेव परिष्कृतनक्षत्रस्थानमेतद् (0deg latitude, -7 deg equinoctial longitude) उदेति।”
भावसामञ्जस्यम्
- पुण्य-नक्षत्रस्य सत्-प्रभाव इष्यते।
- चान्द्रास्तित्वे सति नक्षत्रस्य तादृक् प्रभावो भवतीति प्रयोजनं सूत्रकाले तु दृश्यते।
- अत्र तु - यावन् नक्षत्रं खे राजते तावत् तत्प्रभावेण कर्म प्रशस्तम् भवतीति ज्ञेयम्। अस्तंगमनकालनिश्चयार्थं ह्य् उदये नक्षत्रस्थानबट्करणादिकम्।
- अत्र सायणभट्टभास्कराभ्याम् उक्तं निर्वचनम् असमञ्जसम्।
- “कुतः तावान् एव कालः प्रशस्तः,
यावत् सूर्यः खय् उदयकालीनं नक्षत्रस्थानं नैति?
को विशेषस् तस्मिन् स्थाने?
कुतो वा नक्षत्रस्य खे ऽस्तित्वं यावन् न भवति पुण्याहकारित्वम्?”
इति प्रश्नान् जनयति प्राचीनव्याख्यानम्।
तस्य न किञ्चित् स्वाभाविकं स्फुटं समाधानम्।- (विदितम् एव सर्वेभ्यो यन् नक्षत्र-सूर्ययोर् अन्तरं न परिवर्तते - सूर्येण सहैव नक्षत्रम् अप्य् अग्रे सरति।)
“उदयकाले सूर्यप्रकाशसहितनक्षत्रयात्रया +ऊर्जिते ख-भागे वर्तमानेन सूर्येण +अनुगृह्यत इति भावः। एवं सूर्यो नक्षत्रे वर्तमान इव भाव्यते।” इति किञ्चिद् वक्रं समाधानं न तृप्तिकरम्।
- (विदितम् एव सर्वेभ्यो यन् नक्षत्र-सूर्ययोर् अन्तरं न परिवर्तते - सूर्येण सहैव नक्षत्रम् अप्य् अग्रे सरति।)
- मद्-व्याख्याने नैषा विचिकित्सा।
“कुतस् तर्ह्य् उदयकालनक्षत्रस्थानं चिह्नितम् पूर्वम्?” इति सहजस्य प्रश्नस्य तु “नक्षत्रनिमज्जनकालम् अनुमातुम्” इति व्यक्तं युक्तम् उत्तरम्। - तेन मद्व्याख्याने विचार-लाघवम्, प्राचीने गौरवम्।
- “कुतः तावान् एव कालः प्रशस्तः,
वाक्यावगतौ भेदः
याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ +++(पुण्य-नक्षत्रं)+++ जघ॒न्यं॑+++(=अस्तम्)+++ पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् । इत्यग्रिमं वाक्यं पश्येम।
सायणपक्षाद् भेदः
अपरं व्याख्यानं भट्टभास्करेण दत्तम् पश्येम - “चिह्नितात् प्रदेशात् जघन्यं पश्चाद्भागत्वेन यत्र पश्येत् तत्राकाशप्रदेशे यावति काले सूर्यो गच्छेत् तावति ततः प्रागेव कुर्वीत अविपर्यस्तः स्वं तत् कर्म यत्कारी यत् कर्म करिष्यन् स्यात् ।” सायणोऽपि - “तच् च नक्षत्रं यावत् प्राच्याम् उदयं प्राप्य पश्चिमाभिमुखं गच्छति । तथा सति, यस्मिन् देशे नक्षत्र-स्थानं स्वेन निश्चितं, तत्-स्थानात् प्राचीनः समीप-देशस् तन् नक्षत्रापेक्षया जघन्यः। तस्मिञ् जघन्यदेशे यावति काले सूर्यो गच्छेत् तावति काले स्वेन कर्तव्यं कर्म कुर्यात् । यत् कर्म करोतीति यत्कारी। तादृशश् चिकीर्षुः पुरुषस् तस्मिन् काले प्रारभेत ।” द्वयोर् अन्तरं नास्ति।
अत्र “याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त्, यत्र॑ (चिह्नितम् प्रदेशं) जघ॒न्यं॑(=अन्तिमं [साक्षादग्रेवर्तिनं]) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।” इति फलितं वाक्यम्। मदिष्टं फलितवाक्यं तावत् - “याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अन्तिमं ) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।”
उभयोयोर् गौरवे लाघवे वा ऽन्तरं तावन्नास्ति - यद्यपि “[साक्षादग्रेवर्तिनं]” इत्यधिकं कल्प्यते प्राचीनाभ्याम्। जघन्यशब्दस्य वाच्यार्थे ऽपि नास्ति भेदः। अतो व्याख्यागरीयस्त्वनिर्णये ऽन्यत् किञ्चिद् द्रष्टव्यं स्यात्।
भट्टभास्करोक्तद्वितीयपक्षाद् भेदः
भट्टभास्करोक्तद्वितीयपक्षं प्रस्तौति तम् पश्येम - " केचिदाहुः - ‘अथ नक्षत्रं नैति’ इत्यन्तं समानम् । यावति काले तत्र चिह्निते प्रदेशे सूर्यो गच्छेत्, यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात् । आ-कुत इत्याह - यावति काले तत् पुण्यं नक्षत्रं जघन्यं अस्तं गतं पश्येत् अस्तं गच्छता चरमं पश्येत् गणयेत् तावति ततः ततः प्रागेव कुर्यात् न ततः परमिति ॥”
यथैवात्र व्याख्याता पुण्यं नक्षत्रं इत्य् अध्याहरति, यथा च जघ॒न्यं॑(=अस्तं गतं) इति गृह्णाति तथैव मयापि कृतम्। किन्त्व् अग्रे भेदः। “यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तं गतं) पश्ये॑त्, तत्र याव॑ति॒ काले सूर्यो॒ गच्छे॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।” इत्य् अन्वयः। तेन मदुक्तः सरलो ऽर्थः।
उल्लिखित-व्याख्याने तु - “याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् (तदारभ्य), यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तं गतं) पश्ये॑त् (तदा यावद् यः कालः) - ताव॑ति कुर्वीत यत्का॒री स्यात् ।” इत्य् अधिकम् अध्याहरति। सिद्धं तेन तदपेक्षया मद्व्याख्याने लाघवम्।
नक्षत्रिय-प्रजापतिः
विश्वास-प्रस्तुतिः
यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑तिव्ँ॒ वेद॑ - उ॒भयो॑र् एनल्ँ लो॒कयो॑र् विदुः +++(देवा मानुषाश्च)+++ ।
मूलम्
यो वै न॑क्ष॒त्रिय॑म्प्र॒जाप॑तिव्ँ॒वेद॑ ।
उ॒भयो॑रेनल्ँ लो॒कयो॑र्विदुः ।
भट्टभास्कर-टीका
3 यो वा इत्यादि ॥ नक्षत्रियं नक्षत्रसमूहात्मानम् । ‘नक्षत्राद्धः’इति घः । एनमुभयोर्लोकयोः दिवि पृथिव्यां च विदुः जानन्ति । उभयोर्लोकयोरपि विख्यातो भवतीत्यर्थः ।
विश्वास-प्रस्तुतिः
हस्त॑ ए॒वास्य॒ हस्तः॑ ।
चि॒त्रा शिरः॑ ।
निष्ट्या॒ हृद॑यम् ।
ऊ॒रू विशा॑खे ।
प्र॒ति॒ष्ठा ऽनू॑रा॒धाः ।
ए॒ष वै न॑क्ष॒त्रिय॑ᳶ प्र॒जाप॑तिः ।
मूलम्
हस्त॑ ए॒वास्य॒ हस्तः॑ ।
चि॒त्रा शिरः॑ ।
निष्ट्या॒ हृद॑यम् ।
ऊ॒रू विशा॑खे ।
प्र॒ति॒ष्ठा ऽनू॑रा॒धाः ।
ए॒ष वै न॑क्ष॒त्रिय॑ᳶ प्र॒जाप॑तिः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदो॒भयो॑र् एनल्ँ लो॒कयो॑र् विदुर् अ॒स्मिँश् चा॒मुष्मिँ॑श् च ॥ 7॥
विश्वास-टिप्पनी
नाम - सूर्यपथि निष्ट्याम् आनेतुम् (projection) यो जानाति, (तथा प्रायेण विषुवस्थाने तस्यावस्थानं यो वेद), स हि नक्षत्रियं प्रजापतिं वेद, स हि उभयोर् लोकयोस् तं वेद।
मूलम्
य ए॒वव्ँ वेद॑ ।
उ॒भयो॑रेनल्ँ लो॒कयो॑र्विदुः ॥ 7॥
अ॒स्मिँश्चा॒मुष्मिँ॑श्च ।
भट्टभास्कर-टीका
हस्त एवेत्यादि । व्यपदेशादिभिः तद्भाव उपचर्यते । चित्रा चायनीया उत्तमाङ्गम् । निष्टा स्वाती । ‘अधो निष्ट्या वितस्त्यां तु’ इति हृदयत्वम् । विविधशाखत्वात् ऊरूविशाखे । ऋद्धिहेतुत्वात् प्रतिष्ठा अनूराधाः ॥
पुण्यनक्षत्राणि
निष्ट्या
विश्वास-प्रस्तुतिः
“याङ् का॒मये॑त दुहि॒तर॑म् प्रि॒या स्या॒दि"ति॒ तान् निष्ट्या॑यान् दद्यात् । प्रि॒यैव भ॑वति ।
मूलम्
याङ्का॒मये॑त दुहि॒तर॑म्प्रि॒या स्या॒दिति॑ । तान्निष्ट्या॑यान्दद्यात् ।
भट्टभास्कर-टीका
4 ईदृशत्वज्ञानस्य फलं वक्तुं पुनराम्नातं - यामित्यादि ॥ प्रिया पत्युः स्यादिति । तां स्वात्यां दद्यात् । प्रिया भवत्येव, निष्ट्याया हृदयत्वात् ।
विश्वास-प्रस्तुतिः
नेव॒ तु पुन॒र् आ ग॑च्छति ।
मूलम्
नेव॒ तु पुन॒र् आ ग॑च्छति ।
भट्टभास्कर-टीका
अपि च निष्ट्यायास्तस्याङ्गविशेषत्वात् न पुनरियं पितृगृहं आगच्छति । यद्वा - न पुनरागच्छतीव । पत्युरतिवल्लभत्वात् क्षणमात्रमपि तत्पार्श्वं न जहाति । तुशब्दोपि व्यावृत्त्या निन्दास्तुतिमाचष्टे, न निषेधति ॥
अभिजित्
मूलम्
अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टादषा॒ढाना॑म् । अ॒वस्ता॑च्छ्रो॒णायै॑ ।
विश्वास-प्रस्तुतिः
अ॒भि॒जिन् नाम॒ नक्ष॑त्रम् , उ॒परि॑ष्टाद् अषा॒ढाना॑म् अ॒वस्ता॑च् छ्रो॒णायै॑ ।
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वास् तस्मि॒न् नक्ष॑त्रे॒ ऽभ्य॑जयन्न् ॥ 8 ॥
मूलम्
अ॒भि॒जिन् नाम॒ नक्ष॑त्रम् , उ॒परि॑ष्टाद् अषा॒ढाना॑म् अ॒वस्ता॑च् छ्रो॒णायै॑ ।
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वास् तस्मि॒न् नक्ष॑त्रे॒ ऽभ्य॑जयन्न् ॥ 8 ॥
मूलम्
यद॒भ्यज॑यन् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् ।
विश्वास-प्रस्तुतिः
यद् अ॒भ्यज॑य॒न्न् तद् अ॑भि॒जितो॑ ऽभिजि॒त्त्वम् ।
मूलम्
यद् अ॒भ्यज॑य॒न्न् तद् अ॑भि॒जितो॑ ऽभिजि॒त्त्वम् ।
भट्टभास्कर-टीका
5 अभिजिदित्यादि ॥ गतम् ॥ अनपजय्यं पुनरन्येनापजेतुमशक्यं ‘ययतोश्चातदर्थे’इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यङ् का॒मये॑त +अनपज॒य्यञ् +++(अपरं)+++ “ज॑ये॒द्” इति॑ तम् ए॒तस्मि॒न् नक्ष॑त्रे यातयेत् +++(=यत्नं कारयेत्)+++।
मूलम्
यङ्का॒मये॑तानपज॒य्यञ्ज॑ये॒दिति॑ । तमे॒तस्मि॒न्नक्ष॑त्रे यातयेत् ।
भट्टभास्कर-टीका
एतस्मिन्निति । अषाढाश्रोणयोराद्यन्तयोः पादयोः । आद्यन्तयोरिति केचित् । यातयेत् जयोपायेषु प्रवर्तयेत् । यती प्रयत्ने ।
विश्वास-प्रस्तुतिः
अ॒न॒प॒ज॒य्यम् ए॒व ज॑यति पा॒प-प॑राजितम् इव॒ तु +++(न राज्ञः प्रयासेन)+++।
मूलम्
अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु ।
भट्टभास्कर-टीका
अनपजय्यं यथा तथा । पापपराजितं पापेन पराजितं पापोपहतमिव निवारकाभावात् । यद्वा - यत्नेन [यत्नो न?] जयति तस्य पापमेव तज्जयति न तस्य यत्नोपेक्षित इति । ‘तृतीया कर्मणि’इति पूर्वपदप्रकृतिस्वरत्वम् । पूर्ववन्निन्दास्तुतिरेव ॥
रेवती
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प॒शून् अ॑सृजत ।
ते नक्ष॑त्त्रन् नक्षत्त्र॒म् +++(रेवतीभिन्नम् प्रति)+++ उपा॑तिष्ठन्त ।
मूलम्
प्र॒जाप॑तिᳶ प॒शून् अ॑सृजत ।
ते नक्ष॑त्त्रन् नक्षत्त्र॒म् उपा॑तिष्ठन्त ।
भट्टभास्कर-टीका
6 प्रजापतिः पशूनित्यादि ॥ पशवस्सर्वं नक्षत्रं उपातिष्ठन्त उपासर्पन् ।
विश्वास-प्रस्तुतिः
ते स॒माव॑न्त +++(=समाः, अवृद्धाः)+++ ए॒वाभ॑वन् ।
मूलम्
ते स॒माव॑न्त ए॒वाभ॑वन् ।
भट्टभास्कर-टीका
ते समावन्त एवाभवन् । समा अनुपचिता एवातिष्ठन्त न वृद्धिं गताः । समादावतुप् स्वार्थिकः ।
विश्वास-प्रस्तुतिः
ते रे॒वती॒म् उपा॑तिष्ठन्त ॥ 9 ॥
ते रे॒वत्या॒म् प्राभ॑वन् ।
मूलम्
ते रे॒वती॒म् उपा॑तिष्ठन्त ॥ 9 ॥
ते रे॒वत्या॒म् प्राभ॑वन् ।
भट्टभास्कर-टीका
ते रेवत्युपस्थानेन प्रभूता अभवन् ।
विश्वास-प्रस्तुतिः
तस्मा॑द् रे॒वत्या॑म् पशू॒नाङ् कु॑र्वीत ।
मूलम्
तस्मा॑द् रे॒वत्या॑म् पशू॒नाङ् कु॑र्वीत ।
विश्वास-प्रस्तुतिः
यत् किञ्चा॑र्वा॒चीनँ॒ सोमा॒त् प्रैव भ॑वन्ति ।
मूलम्
यत्किञ्चा॑र्वा॒चीनँ॒ सोमा॑त् । प्रैव भ॑वन्ति ।
भट्टभास्कर-टीका
तस्माद्रेवत्यां पशूनां संबन्धि कर्म इष्टिपश्वादिकं प्राक् सोमात् कुर्वीत । प्रभवन्त्येव ॥
नक्षत्राणि कानि?
विश्वास-प्रस्तुतिः
स॒लि॒लव्ँ वा इ॒दम् अ॑न्त॒र् आसी॑त् ।
मूलम्
स॒लि॒लव्ँ वा इ॒दम् अ॑न्त॒र् आसी॑त् ।
विश्वास-प्रस्तुतिः
यद् अत॑र॒न्न् तत् तार॑काणान् तारक॒त्वम् ।
मूलम्
यदत॑रन् । तत्तार॑काणान्तारक॒त्वम् ।
भट्टभास्कर-टीका
7 सलिलं वा इत्यादि ॥ इदं द्यावापृथिव्योरन्तरं सलिलं सलिलकल्पं अप्रतिष्ठत्वात् अव्यक्तावस्थां गतं आसीत् तत्र पृथिव्युद्धरणक्षोभे बुद्बुदकल्पा यस्मात् अतरन् उत्तीर्यान्तस्स्थिताः तत् आसां तारकत्वम् ॥
विश्वास-प्रस्तुतिः
यो वा इ॒ह यज॑ते, अ॒मुँ +++(स्वर्गं)+++ स लो॒कन् न॑क्षते +++(=प्राप्नोति)+++ । तन् नक्ष॑त्राणान् नक्षत्र॒त्वम् ॥ 10 ॥
मूलम्
यो वा इ॒ह यज॑ते ऽ॒मुँ स लो॒कन् न॑क्षते॒, तन् नक्ष॑त्राणान् नक्षत्र॒त्वम् ॥ 10 ॥
भट्टभास्कर-टीका
8 यो वा इत्यादि ॥ इह इष्ट्वा अमुं च लोकं नक्षत्रपथात्मकं नक्षते गच्छति देवीभूय वर्तते । नक्ष गतौ । तस्मात् नक्षत्रत्वं तेन निहितत्वात् नक्षेरौणादिकः कर्मण्यत्रप्रत्ययः ।
विश्वास-प्रस्तुतिः
दे॒व॒-गृ॒हा वै नक्ष॑त्राणि॒ , य ए॒वव्ँ वेद॑ गृ॒ह्य् ए॑व भ॑वति ।
मूलम्
दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वव्ँ वेद॑ । गृ॒ह्ये॑व भ॑वति ।
पुण्य-भूमिः
विश्वास-प्रस्तुतिः
यानि॒ वा इ॒मानि॑ पृथि॒व्याश् चि॒त्राणि॒ +++(ग्रामनगरादीनि)+++, तानि॒ नक्ष॑त्राणि ।
मूलम्
यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि ।
भट्टभास्कर-टीका
यस्माद् दिवं गच्छतां नक्षत्रैस् सम्बन्धात्
तेषां देवीभवतां गृहाः नक्षत्राणि नक्षत्रतुल्यानि
चित्राकारत्वाद् एव पृथिव्याश् चित्रस्थानीयानि नक्षत्र-स्थानीयानि दिविष्ठानां तथोपलब्धेश् च ।
विश्वास-प्रस्तुतिः
तस्मा॑द् अश्ली॒लना॑मँश् चि॒त्रे नाव॑स्ये॒न्+++(=न निवसेत्)+++ न य॑जेत ।
मूलम्
तस्मा॑दश्ली॒लना॑मँ श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत ।
भट्टभास्कर-टीका
तस्माद्-अश्लील-नाम्नि विकृत-स्वभावे प्रतिकूल-नक्षत्र-स्थानीये
अत एव अश्ली-नाम्नि निन्दिते ग्रामादौ नावस्येत् न वसेत् ।
न च तत्र यजेत ।
इदं च पुण्याह-प्रसङ्गेनोक्तं अपुण्याह-स्थानीयत्वाद् अस्य ग्रामादेः ।
तद् एव वैकृतम् अश्लीलवद् अश्लीलम् ।
मत्वर्थीयः सिध्मादिलक्षणो लच् ।
तादृशं नाम यस्य ।
तादृश-नाम-ग्रहणं प्रसिद्ध्य्-उपसंग्रहार्थम् ।
‘सुपां सुलुक्’इति सप्तम्या लुक् । ‘न ङिसंबुद्ध्योः’इति लोपप्रतिषेधः ।
विश्वास-प्रस्तुतिः
यथा॑ पापा॒हे कु॑रु॒ते ,ता॒दृगे॒व तत् ।
मूलम्
यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
यथा पापाहे पापनक्षत्रे कर्मायोग्ये कर्म कुरुते तादृक् पापनक्षत्रकल्पे चित्रे ग्रामादौ लोकनिन्दिते यदवस्यति यच्च यजते ॥
पुण्य-नक्षत्र-चोदनम्
विश्वास-प्रस्तुतिः
दे॒व॒-न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ , यम-नक्ष॒त्राण्य् अ॒न्यानि॑ ।
मूलम्
दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ॥ 11 ॥
य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ ।
विश्वास-टिप्पनी
इदानीन्त्व् अयनारम्भ उत्तरभाद्रपदे। अन्त्यम् उत्तरफाल्गुनीषु। तर्हि तान्येव देवनक्षत्राणि ज्ञेयानि स्युः??
भट्टभास्कर-टीका
9 देवनक्षत्राण्यन्यानि एतेन पुण्याहपापाहकोटिद्वयात्मना नक्षत्राणि विभजति । देवनक्षत्राणि देवलोकप्रत्यासन्नानि पुण्यान्यहानि । यमनक्षत्राणि पापाहानि ।
विश्वास-प्रस्तुतिः
कृत्ति॑काᳶ प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देव-नक्ष॒त्राणि॑ ।
मूलम्
कृत्ति॑काᳶ प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देव-नक्ष॒त्राणि॑ ।
भट्टभास्कर-टीका
कानि पुनस्तानीत्याह - कृत्तिकाः प्रथममित्यादि । किंपुनर्लक्षणमित्याह यानीत्यादि । देवनक्षत्राणि देवलोकं दक्षिणेन परियन्ति यमनक्षत्राणि तु यमलोकमुत्तरेण परियन्ति । ‘एनबन्यतरस्याम्’इत्येनप्प्रत्ययः । परियन्ति परिपाट्या क्रमेणावतिष्ठन्ते गत्यभावात् । नक्षत्राणां ज्योतिश्चक्रापेक्षया पर्ययणम् । कृत्तिकादीन्युत्तरेण तावति प्रदेशे अदूरेण देवलोकः, अभ्यन्तरत्वात् ।
विश्वास-प्रस्तुतिः
अ॒नू॒रा॒धाᳶ प्र॑थ॒मम् । अ॒प॒भर॑णीर् उत्त॒मम् । तानि॑ यम-नक्ष॒त्राणि॑ ।
मूलम्
अ॒नू॒रा॒धाᳶ प्र॑थ॒मम् । अ॒प॒भर॑णीर् उत्त॒मम् । तानि॑ यम-नक्ष॒त्राणि॑ ।
मूलम्
यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति
विश्वास-प्रस्तुतिः
यानि॑ देव-नक्ष॒त्राणि॒ , तानि॒ दक्षि॑णेन॒ परि॑यन्ति ।
मूलम्
यानि॑ देव-नक्ष॒त्राणि॒ , तानि॒ दक्षि॑णेन॒ परि॑यन्ति ।
मूलम्
यानि॑ यमनक्ष॒त्राणि॑ ॥ 12 ॥
तान्युत्त॑रेण ।
विश्वास-प्रस्तुतिः
यानि॑ यम-नक्ष॒त्राणि॒ , तान्य् उत्त॑रेण +++( परि॑यन्ति)+++।
मूलम्
यानि॑ यम-नक्ष॒त्राणि॒ , तान्य् उत्त॑रेण +++( परि॑यन्ति)+++।
भट्टभास्कर-टीका
अनूराधादीनि तु दक्षिणेन तावति प्रदेशे यमलोकः बाह्यत्वात् । केचित् आहुः - देवनक्षत्राणीति देवानां सबन्धिन्य इष्टका अभेदेन उच्यन्ते । तान्यग्रौ दक्षिणतः परिपाट्या उपधीयन्ते । यमनक्षत्राणि तूत्तरत उपधीयन्ते इतीष्टकाद्वारेण नक्षत्राणामेव लक्षणमुक्तमिति ॥
विश्वास-प्रस्तुतिः
“+++(युद्धसामाग्रिभिः)+++ अन्व् ए॑षाम् अरा॒थ्+++(=शीघ्रं)+++ स्मे"ति॒ तद् अ॑नूरा॒धाः+++(=अनुकूल-सामग्र्यः)+++ ।
मूलम्
अन्वे॑षामरा॒त्स्मेति॑ । तद॑नूरा॒धाः ।
भट्टभास्कर-टीका
10 इदानीं यमनक्षत्राणां पापाहत्वं दर्शयितुं अनूराधादीनि पदानि व्युत्पादयति - अन्वेषामित्यादि ॥ देवासुरास्संयत्ता आसन्नित्यत्र प्रकृतमधिकृत्योच्यते । तत्र देवनक्षत्रैरसुरानजयन् देवा हीनशक्तिकानकुर्वन्, यमनक्षत्रैस्तु दिनेदिने विविधान्निग्रहानकुर्वन् असुराणां तानीदानीं क्रमेण दर्शयति - एषां अनूराधानां अन्वरात्स्म वयं हेतावनोः कर्मप्रवचनीयत्वम् । व्यत्ययेन षष्ठी । एता अनु एतैः हेतुभिः वयं संसिद्धिं युद्धसामग्रीसंपत्तिं गताः तस्मात् अनूराधाः। अधिकरणे घञ् ‘उपसर्गस्य घञ्यमनुष्ये’इति दीर्घत्वं थाथादिना उत्तरपदान्तोदात्तत्वम् । असुरानभिभूय यस्मादेषु देवैरित्थं कृतार्थता ख्यापिता तस्मादनूराधाः ।
विश्वास-प्रस्तुतिः
“ज्ये॒ष्ठम् ए॑षाम् अवधि॒ष्मे"ति॒, तज् ज्ये॑ष्ठ॒घ्नी ।
मूलम्
ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ । तज्ज्ये॑ष्ठ॒घ्नी ।
भट्टभास्कर-टीका
एषां असुराणां ज्येष्ठं प्रधानं अवधिष्मेति यत्रामन्यन्त सा ज्येष्ठघ्नी । ज्येष्ठी ज्येष्ठा एकदेशो लुप्यते यथा - भीमसेनो भीम इति । ‘अमनुष्यकर्तृके च’इति टक् ।
विश्वास-प्रस्तुतिः
“मूल॑म् एषा+++(म्)+++ वृक्षा॒मे"ति॒ तन् मू॑ल॒वर्ह॑णी ।
मूलम्
मूल॑मेषावृक्षा॒मेति॑ । तन्मू॑ल॒वर्ह॑णी ।
भट्टभास्कर-टीका
एषां असुराणां मूलमवृक्षाम उत्पाटितवन्तो वयं स्यामेति यस्याममंसत सा मूलवर्हणी ।
मूलम्
यन्नास॑हन्त । तद॑षा॒ढाः ।
विश्वास-प्रस्तुतिः
यन् नास॑हन्त॒, तद् अ॑षा॒ढाः ।
मूलम्
यन् नास॑हन्त॒, तद् अ॑षा॒ढाः ।
भट्टभास्कर-टीका
सहनमासु नास्तीति अषाढाः । ‘नञ् सुभ्याम्’इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यद् अश्लो॑ण॒त्+++(=[प्रहार]सङ्घम् अकरोत्)+++ - तच् छ्रो॒णा ।
मूलम्
यदश्लो॑णत् ॥ 13 ॥
तच्छ्रो॒णा ।
भट्टभास्कर-टीका
यस्मादियमसुरशरीरेषु अश्लोणत्, श्लोणृ संघाते । प्लक्षाम्रजम्बूवृक्षाणां शोणितक्षयमकरोदिति यावत् । तस्मात् श्रोणा । कपिलकादित्वाल्लत्वविकल्पः ।
मूलम्
यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः ।
विश्वास-प्रस्तुतिः
यद् अशृ॑णो॒त् तच् छ्रवि॑ष्ठाः ।
मूलम्
यद् अशृ॑णो॒त् तच् छ्रवि॑ष्ठाः ।
भट्टभास्कर-टीका
यस्मादियं देवेभ्यः अशृणोत् उक्तं शृणोति स्वविधेयभूताऽतिष्ठत् तस्मात् श्रविष्टाः । ‘तुश्छदसि’इतीष्ठन् ।
मूलम्
यच्छ॒तमभि॑षज्यन् । तच्छ॒तभि॑षक् ।
विश्वास-प्रस्तुतिः
यच् छ॒तम् अभि॑षज्य॒न्न्+++(=अचिकित्सन्)+++ तच् छ॒तभि॑षक् ।
मूलम्
यच् छ॒तम् अभि॑षज्य॒न्न् तच् छ॒तभि॑षक् ।
भट्टभास्कर-टीका
यस्माद्देवाः शतं बहूनात्मीयान् अभिषज्यन् क्षताद्यपनोदनाय अचिकित्सन्त तस्मात् शतभिषक् ।
विश्वास-प्रस्तुतिः
प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त +++(=उदनयन्)+++ ।
मूलम्
प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त ।
भट्टभास्कर-टीका
यस्मादेषु देवा पादौ चरणावात्मीयौ उदयच्छन्त प्रोत्थितावकुर्वन् युद्धभूमेरुत्थिता इति यावत्, तस्मात् प्रोष्ठपदा । पृषोदरादिः । यस्मादस्यां अरवन्त शब्दमकुर्वन् । व्यत्ययेन शप् ।
विश्वास-प्रस्तुतिः
रे॒वत्या॑म् अरवन्त ।
मूलम्
रे॒वत्या॑म् अरवन्त ।
भट्टभास्कर-टीका
युद्धभूमेरुत्थाय यस्यां सिंहनादमकुर्वन् तस्माद्रेवती । पृषोदरादिः ।
विश्वास-प्रस्तुतिः
अ॒श्व॒युजो॑र् अयुञ्जत ।
मूलम्
अ॒श्व॒युजो॑र् अयुञ्जत ।
भट्टभास्कर-टीका
यस्मादनयो. अयुञ्जत अश्वादिकं गमनाय युक्तं अकुर्वन् तस्मादश्वयुजौ ।
विश्वास-प्रस्तुतिः
अ॒प॒भर॑णी॒ष्व् अपा॑वहन् । तानि॒ वा ए॒तानि॑ यम-नक्ष॒त्राणि॑ ।
मूलम्
अ॒प॒भर॑णी॒ष्व् अपा॑वहन् । तानि॒ वा ए॒तानि॑ यम-नक्ष॒त्राणि॑ ।
भट्टभास्कर-टीका
यस्मादसुरान् परागतासून्यसुरशरीराणि अपावहन् अपानुदन्त तस्मादपभरण्यः । अधिकरणे ल्युट् ।
मूलम्
यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ॥ 14 ॥
विश्वास-प्रस्तुतिः
यान्य् ए॒व दे॑व-नक्ष॒त्राणि॒ तेषु॑ कुर्वीत यत् का॒री स्यात् , पुण्या॒ह ए॒व कु॑रुते ॥ 14 ॥
मूलम्
यान्य् ए॒व दे॑व-नक्ष॒त्राणि॒ तेषु॑ कुर्वीत यत् का॒री स्यात् , पुण्या॒ह ए॒व कु॑रुते ॥ 14 ॥
भट्टभास्कर-टीका
यस्मादेवं तस्मात् तानि तादृग्विधानि एतानि अनूराधादीनि नक्षत्राणि अमङ्गल्यकर्माधारभृतत्वाद्देवानां, तस्मादेतद्व्यतिरिक्तानि यानि देवनक्षत्राणि कृत्तिकादीनि तेष्वेव स्वानुकूलेषु कर्मानुरूपेषु च इष्टं कर्म कुर्यात् । एवं कृतं पुण्याहे एव कृतं भवति ॥
इति पञ्चमे द्वितीयोऽनुवाकः ॥
(ता)व॑ति कुर्वीत (यत्) का॒(री) स्यात् । इति मूलम् । अत्र कुर्वीत इत्यत्र तकारे सन्नतरः ,
एवं स्यात् इत्यत्र स्याकारे स्वरितश्च इति सन्देहः