०१ नक्षत्रेष्टका-मन्त्राः

विस्तारः (द्रष्टुं नोद्यम्)

नक्षत्रेष्टिकाण्डम् ।
प्रथमेऽष्टके पञ्चमः प्रश्नः ।
नक्षत्रेष्टकामन्त्राः विकृतिरूपचयनगताः

भास्करोक्त-विनियोगः

1 अग्नेः कृत्तिका इत्यादि ॥ नक्षत्रेष्टिकाण्डम् । ‘त्रयोऽग्निर्देवता’ [कृत्तिका नक्षत्रमग्निर्देवता ] इत्यादिभिः एते विकल्प्यन्ते इत्येके । प्रकरणाम्नातैर्बाधितत्वाद्विकृत्यर्थमेत इत्यन्ये ॥

विश्वास-प्रस्तुतिः
  • अ॒ग्नेᳵ कृत्ति॑काः । शु॒क्रं+++(=दैवतविशेषः)+++ प॒रस्ता॒ज् ज्योति॑र् अवस्ता॑त् ।
मूलम्

अ॒ग्नेᳵ कृत्ति॑काः । शु॒क्रम् प॒रस्ता॒ज् ज्योति॑र् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

अग्नेः कृत्तिकाः स्वभूताः । यद्वा - अग्नेरेव स्वरूपं कृत्तिकादिनक्षत्रं नाम, अग्निरेव कृत्तिकात्मना वर्तत इति । शुक्रं परस्तात् ज्योतिरवस्तात् ज्वाला यदैतत्त्रयं भवति तदा दग्धं मृष्टं वा दश्यते ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते रोहि॒णी । आप॑ᳶ प॒रस्ता॒द् ओष॑धयो॒ ऽवस्ता॑त् ।

मूलम्

प्र॒जाप॑ते रोहि॒णी । आप॑ᳶ प॒रस्ता॒द् ओष॑धयो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

2 प्रजापते रोहिणी रोहणं सृष्टिः । तत्र प्रजापतेः सृजतः त्रयं भवति परस्तादापः सर्वस्य कारणभूताः । मध्ये कालात्मिका रोहणशक्तिः । अवस्तादोषधयः सर्वविकाराणामुपलक्षणम् । यदैतत्त्रयं भवति तदा सृष्टं दृश्यते ॥

विश्वास-प्रस्तुतिः
  • सोम॑स्येन्व॒का । वित॑तानि प॒रस्ता॒द् वय॑न्तो॒ऽवस्ता॑त् ।
मूलम्

सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द् वय॑न्तो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

3 सोमस्येन्वका मृगशीर्षः । ‘इवि प्रीणने’। ‘सौम्यं वै वासः’ इति वासोभिर्जगत् प्रीणयितुः सोमस्य त्रयं भवति । परस्ताद्विततानि तन्तुरूपाणि मध्ये कालात्मिका प्रीणनशक्तिः । अवस्ताद्वयन्तः वास उत्पादयन्तः । एवमेतत्त्रयसन्निपाते तज्जगत् प्रीणनसमर्थं भवति ॥

विश्वास-प्रस्तुतिः
  • रु॒द्रस्य॑ बा॒हू +++(=आर्द्राया उपलक्षणम् - प्रयत्नहेतुत्वात्)+++। मृ॒ग॒यव॑ᳶ प॒रस्ता॑द् विक्षा॒रो॑ऽवस्ता॑त् ।
मूलम्

रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑ᳶ प॒रस्ता॑द् विक्षा॒रो॑ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

4 रुद्रस्य बाहू आर्द्रा । द्विवचनान्तमेव संज्ञा । बाहृ प्रयत्ने । यद्वा - ज्ञादिकं यद्बाह्वादिकं विध्यतो रुद्रस्य त्रयं भवति परस्तान्मृगयवः मृगान्वेषणस्वरूपा पङ्क्तिः । मध्ये कालात्मिका धनव्ययस्य यत्नशक्तिः अवस्ताद्विक्षारः लक्ष्यविहतिः एतत्त्रयोपपत्तौ तद्विद्धं भवति ॥

विश्वास-प्रस्तुतिः

आदि॑त्यै॒ पुन॑र्वसू । वात॑ᳶ प॒रस्ता॑द् आ॒र्द्रम् अ॒वस्ता॑त् ॥ 1 ॥

मूलम्

आदि॑त्यै॒ पुन॑र्वसू । वात॑ᳶ प॒रस्ता॑द् आ॒र्द्रम् अ॒वस्ता॑त् ॥ 1 ॥

भट्टभास्कर-टीका

5 अदित्यै पुनर्वसू वसूनां वसुत्वं आपादयन्त्या अदित्यास्त्रयं भवति परस्तात् वातः विकासहेतुर्भावानाम् । मध्ये कालात्मिका वसुत्वप्रापणशक्तिः । अवस्तात् आर्द्रं वृष्ट्युदकादि । एतत्त्रयोपपत्तौ लतादिकं पुनर्भद्रं दृश्यते ॥

विश्वास-प्रस्तुतिः
  • बृह॒स्पते॑स्ति॒ष्यः॑ । जुह्व॑तᳶ प॒रस्ता॒द् यज॑माना अ॒वस्ता॑त् ।
मूलम्

बृह॒स्पते॑स् ति॒ष्यः॑ । जुह्व॑तᳶ प॒रस्ता॒द् यज॑माना अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

6 बृहस्पतेस्तिष्यः । ‘रुद्रो वै तिष्यस्सोमः पूर्णमासस्साक्षादेव ब्रह्मवर्चसमवरुन्धे’ इति ब्रह्मवर्चसहेतुस्तिष्यः । बृहस्पतेस्तदुत्पादयतस्त्रयं भवति,परस्तात् जुह्वतः । मध्ये कालात्मिका तदुत्पादनशक्तिः । अवस्तात् यजमानाः । एतत्त्रयोपपत्तौ ब्रह्मवर्चसं संपन्नं भवति ॥

विश्वास-प्रस्तुतिः

स॒र्पाणा॑म् आश्रे॒षाः । अ॒भ्या॒गच्छ॑न्तᳶ प॒रस्ता॑द् अभ्या॒नृत्य॑न्तो॒ ऽवस्ता॑त् ।

मूलम्

स॒र्पाणा॑म् आश्रे॒षाः । अ॒भ्या॒गच्छ॑न्तᳶ प॒रस्ता॑द् अभ्या॒नृत्य॑न्तो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

7 सर्पाणामाश्रेषाः । श्रिषु श्लिषु दाहे । सर्पाणां विषाग्निना दहतां त्रयं भवति । परस्तादभ्यागच्छन्तः द्रष्टव्यसकाशं प्रत्यागच्छन्तः । मध्ये कालात्मिका विषाश्लेषणशक्तिः । अवस्तादभ्यानृत्यन्तः कम्पयन्तः स्वेदादिना ॥

विश्वास-प्रस्तुतिः

पि॒तृ॒णाम् म॒घाः । रु॒दन्त॑ᳶ प॒रस्ता॑द् अपभ्रँ॒शो॑ ऽवस्ता॑त् ।

मूलम्

पि॒तृ॒णाम् म॒घाः । रु॒दन्त॑ᳶ प॒रस्ता॑द् अपभ्रँ॒शो॑ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

8 पितृणां मघाः । परस्तात् रुदन्तः बन्धून् रोदयन्तः । मध्ये कालात्मिका त्यागे क्षेपणीशक्तिः । अवस्तादपभ्रंशः देहपातः । एतत्त्रयोपपत्तौ आक्षिप्तचैतन्यो मृत इत्युच्यते ॥

विश्वास-प्रस्तुतिः

अ॒र्य॒म्णᳶ पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑द् ऋष॒भो॑ ऽवस्ता॑त् ।

मूलम्

अ॒र्य॒म्णᳶ पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑द् ऋष॒भो॑ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

9 अयम्णः पूर्वे फल्गुनी फल्गुन्यौ । उपसर्या गावः फल्गुन्यः अर्यमा वृषभः ‘अर्यमाऽऽयाति वृषभस्तुविष्मान्’ ‘फल्गुनीनामृषभो रोरवीति’ इति च । तत्र निषिञ्चतोऽर्यम्णः त्रयं भवति - परस्तात् जाया स्वयं जायते यत्र प्रजार्थेन । मध्ये कालात्मिका प्रजननशक्तिः । अवस्तात् ऋषभः रेतस्सेचनः । एतत्त्रयोपपत्तौ निषिक्तो गर्भो भवति ॥

विश्वास-प्रस्तुतिः

भग॒स्योत्त॑रे । व॒ह॒तव॑ᳶ प॒रस्ता॒द् वह॑माना अ॒वस्ता॑त् ॥ 2 ॥

मूलम्

भग॒स्योत्त॑रे । व॒ह॒तव॑ᳶ प॒रस्ता॒द् वह॑माना अ॒वस्ता॑त् ॥ 2 ॥

भट्टभास्कर-टीका

10 भगस्योत्तरे फल्गुन्यौ ‘भगो ह दाता भग इत्प्रदाता'9इति भगो ददाति ‘तत्त्वा विदुः फल्पुनीः'9इति । फल्गुन्यौ गृह्णन्ति पितृकुलधनार्थिन्यः फल्गुन्यः । फल्पु फलम् । पामादित्वान्नः शार्ङरवादित्वात् ङीन्प्रत्ययः । भरणस्य धनं भाजयतस्त्रयं भवति । परस्ताद्वहतवः पितृकुलान्नीयमानं धनं वहतुङ् यथा ‘कन्या इव वहतुमेतवा उ’ इति । मध्ये कालात्मिका चायनीशक्तिः । अवस्ताद्वहमानाः वहतून्वध्वा पतिकुलं प्रापयन्तो वोढारः । एतत्त्रयसंपत्तौ फलं संपन्नं भवति ॥

विश्वास-प्रस्तुतिः

दे॒वस्य॑ सवि॒तुर् हस्तः॑ । प्र॒स॒वᳶ प॒रस्ता॑त् स॒निर् अ॒वस्ता॑त् ।

मूलम्

दे॒वस्य॑ सवि॒तुर् हस्तः॑ । प्र॒स॒वᳶ प॒रस्ता॑त् स॒निर् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

11 देवस्य सवितुर्हस्तः सविता अनुज्ञाता हस्तेन तद्भवति । सवितुरनुज्ञानेन अर्थं लम्भयतस्त्रयं भवति परस्तात्प्रसवः प्रेरणा । मध्ये कालात्मिका हस्तस्थानीयाऽऽगमशक्तिः । अवस्तात् सनि: लाभः । एतत्त्रयसंपत्तौ लब्धव्यं हस्तस्थं भवति ॥

विश्वास-प्रस्तुतिः

इन्द्र॑स्य चि॒त्रा । ऋ॒तम् प॒रस्ता॑त् स॒त्यम् अ॒वस्ता॑त् ।

मूलम्

इन्द्र॑स्य चि॒त्रा । ऋ॒तम् प॒रस्ता॑त् स॒त्यम् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

12 इन्द्रस्य चित्रा चायनीयशक्तिः इन्द्र ईश्वरः यतः चित्रा चायनीयशक्तिः पूजनीयान् कुर्वतः पूजायां त्रयं भवति परस्तात् ऋतं मनसा अमोघत्वम् । मध्ये कालात्मा चायनीयशक्तिः । अवस्तात् सत्यं वाचिकं यो वाचः फलाविसंवादः । एतत्त्रयसंपत्तौ कर्ता पूजामधिगच्छति ॥

मूलम्

वा॒योर्निष्ट्या॑ व्र॒ततिः॑ । प॒रस्ता॒दसि॑द्धिर॒वस्ता॑त् ।

विश्वास-प्रस्तुतिः

वा॒योर् निष्ट्या॑ । व्र॒ततिᳶ प॒रस्ता॑द्, असि॑द्धिर् अ॒वस्ता॑त् ।

मूलम्

वा॒योर् निष्ट्या॑ । व्र॒ततिᳶ प॒रस्ता॑द्, असि॑द्धिर् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

13 वायोर्निष्ट्या स्वाती संघातात् पदार्थानां निष्ट्यानम् । स्त्यै ष्ट्यै शब्दसंघातयोः, ‘आतश्चोपसर्गे’इत्यङ् । वायुश्च ध्वंसयिता, तस्य ध्वंसयितुः त्रयं भवति । परस्ताद्व्रततिः विस्तारणा इतश्चेतश्च व्यापना । मध्ये कालात्मिका निष्ट्याशक्तिः अवस्तात् असिद्धिः रूपाच्च्युतिः । एतत्त्रयसंपत्तौ पदार्थः प्रध्वंसमुपैति ॥

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्नि॒योर् विशा॑खे । यु॒गानि॑ प॒रस्ता॑त् कृ॒षमा॑णा अ॒वस्ता॑त् ।

मूलम्

इ॒न्द्रा॒ग्नि॒योर् विशा॑खे । यु॒गानि॑ प॒रस्ता॑त् कृ॒षमा॑णा अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

14 इन्द्राग्नियोर्विशारवे इन्द्र आसीत्सुरपतिः शतक्रतुः अग्निश्च कृषिं प्रवर्धयति । तयोर्विविधशाखे विविधकार्यरूपे विशाखे । शाख[खृ]व्याप्तौ । देवयमनक्षत्रकोटिद्वयमध्यस्थिते उभयानुग्राहिणी विशाखे इत्येके । इन्द्राग्न्योर्विविधं कृष्यर्थं यतमानयोस्त्रयं भवति - परस्ताद्युगानि सिराणि । मध्ये कालात्मिके कर्षणकृषिसिद्ध्यनुरूपे व्यापनशक्ती । अवस्तात् कृषमाणाः कृषिसिद्धिं लभमानाः । एतत्त्रयसंपत्तौ कृषिफलपौष्कल्यं भवति ॥

विश्वास-प्रस्तुतिः

मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त् प॒रस्ता॑द् अ॒भ्यारू॑ढम् अ॒वस्ता॑त् ॥3 ॥

मूलम्

मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त् प॒रस्ता॑द् अ॒भ्यारू॑ढम् अ॒वस्ता॑त् ॥3 ॥

भट्टभास्कर-टीका

15 मित्रस्यानूराधाः ‘अन्वेषामरात्स्म’ इहि सिद्धेर्हेतुत्वम् । मित्रस्य जगत्त्रायतस्त्रयं भवति - परस्तादभ्यारोहत् उपर्युपचय प्राप्तुमारब्धम् । मध्ये कालात्मिका राधनशक्तिः, अवस्तादभ्यारूढः अभ्याक्रान्तं उच्छ्रितं पदम् । एतत्त्रयोपपत्तौ राधो भवति ॥

विश्वास-प्रस्तुतिः
  • इन्द्र॑स्य रोहि॒णी +++(→ज्येष्ठा लक्षिता, सङ्ग्रामारोहणात्)+++ । शृ॒णत् प॒रस्ता॑त् प्रतिशृ॒णद॒वस्ता॑त् ।
मूलम्

इन्द्र॑स्य रोहि॒णी । शृ॒णत् प॒रस्ता॑त् प्रतिशृ॒णद्‌ अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

16 इन्द्रस्य रोहिणी ज्येष्ठा । इन्द्रः शूरः तस्य संग्रामे रोहणम् । तत्रेन्द्रस्य शक्नुवतः शौर्यं रोहयतः परस्तात् शृणत् हिंसना[दा]त्मबलं मध्ये कालात्माऽऽरोहणशक्तिः अवस्तात्प्रतिशृणत् परसेना आगच्छन्ती प्रतिमुखं हिंसन [सत्] बलं एतत्त्रयोपपत्तौ शौर्यमस्य रूढं भवति ॥

विश्वास-प्रस्तुतिः

निर्ऋ॑त्यै मूल॒-वर्ह॑णी+++(←वृहू उद्यमने)+++ । प्र॒ति॒भ॒ञ्जन्त॑ᳶ प॒रस्ता॑त् प्रतिशृ॒णन्तो॒ ऽवस्ता॑त् ।

मूलम्

निर्ऋ॑त्यै मूल॒वर्ह॑णी । प्र॒ति॒भ॒ञ्जन्त॑ᳶ प॒रस्ता॑त् प्रतिशृ॒णन्तो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

17 निर्ऋत्यै मूलवर्हणो । वृहू उद्यमने । उद्वर्हणमुन्मूलविनाशनम् । निर्ऋतिः पापदेवता अलक्ष्मीः । उन्मूलयन्त्यास्त्रयं भवति - परस्तात्प्रतिभञ्जन्तः प्रत्येकं भञ्जयन्तो विरुद्धाः पदार्थाः । मध्ये कालात्मा वर्हणशक्तिः । अवस्तात् प्रतिशृणन्तः संघर्षेण प्रतीपं हिंसन्तः मारयन्तः। एतत्त्रयसंपत्तौ निरृतिगृहीतं नश्यति ॥

विश्वास-प्रस्तुतिः

अ॒पाम् पूर्वा॑ अषा॒ढाः । वर्च॑ᳶ प॒रस्ता॒त् समि॑तिर् अ॒वस्ता॑त् ।

मूलम्

अ॒पाम् पूर्वा॑ अषा॒ढाः । वर्च॑ᳶ प॒रस्ता॒त् समि॑तिर् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

18 अपां पूर्वा अषाढाः यन्नासहन्त तदषाढाः अपामसहमानानाममृष्यमाणानामिव परस्ताद्वर्चः बलं अभिभवसमर्थम् । मध्ये कालात्मिकामर्षस्वभाववत्ता । अवस्तात् समितिः संश्लिष्टता समनुप्रविश्य विनाशनं वा । एतत्त्रयोपपत्तौ अनाप्लुताभावा न्नश्यन्ति अपां प्रमाणत्वं यद्वर्चोग्रहणं (अपां प्रवहमाणत्वाय वर्चोग्रहणम्) ॥

विश्वास-प्रस्तुतिः

विश्वे॑षान् दे॒वाना॒म् उत्त॑राः । अ॒भि॒जय॑त् प॒रस्ता॑द् अ॒भिजि॑तम् अ॒वस्ता॑त् ।

मूलम्

विश्वे॑षान् दे॒वाना॒म् उत्त॑राः । अ॒भि॒जय॑त् प॒रस्ता॑द् अ॒भिजि॑तम् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

19 विश्वेषां देवानां उत्तरा अषाढाः संघो गृह्यते । ते चाराधिता जयहेतवः सर्वस्य । तेषां जयं ददतां च त्रयं भवति - परस्तादभिजयत् आभिमुख्येन जयदात्मीयं बलम् । मध्ये कालात्मिका अप्रधृष्या शक्तिः । अवस्तादभिजितं फलम् । एतत्त्रयसंपत्तौ अप्रधृष्यो जेता भवति ॥

विश्वास-प्रस्तुतिः

विष्णो॑श् श्रो॒णा । पृ॒च्छमा॑नाᳶ प॒रस्ता॒त् पन्था॑ अ॒वस्ता॑त् ॥ 4 ॥

मूलम्

विष्णो॑श्श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्पन्था॑ अ॒वस्ता॑त् ॥ 4 ॥

भट्टभास्कर-टीका

20 विष्णोः श्रोणा । शोण संघाते, विष्णुर्व्यापनसंघातकारी प्रपञ्चात्मकत्वात्तस्य । तथा भवतस्त्रयं भवति - परस्तात् पृच्छमानाः चेतयमाना अमूढा जायन्ते । मध्ये कालात्मिका संहननशक्तिः । अवस्तात् पन्थाः पन्थानः ॥

विश्वास-प्रस्तुतिः

वसू॑नाँ॒ श्रवि॑ष्ठाः । भू॒तम् प॒रस्ता॒द् भूति॑र् अ॒वस्ता॑त् ।

मूलम्

वसू॑नाँ॒ श्रवि॑ष्ठाः । भू॒तम् प॒रस्ता॒द् भूति॑र् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

21 वसूनां श्रविष्ठाः वसवो वासयितारः अतिशयेन श्रोत्रिष्ठाः श्रविष्ठाः । ‘तुश्छन्दसि’इतीष्ठनि ‘तुरिष्ठेमेयस्सु’इहि लोपः । वसूनां वासयतां त्रयं भवति - परस्तात् भूतं जन्म । मध्ये कालात्मा अतिशयेन ख्यापयित्री शक्तिः । अवस्तात् भूतिः अभिवृद्धिः । एतत्त्रयोपपतौ लोके नृसंघातो भवति । उक्तमनेन शृणोति विधेया भवति प्रजा ॥

विश्वास-प्रस्तुतिः

इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाᳶ प॒रस्ता॑द् वि॒श्वक्षि॑तिर् अ॒वस्ता॑त् ।

मूलम्

इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाᳶ प॒रस्ता॑द् वि॒श्वक्षि॑तिर् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

22 इन्द्रस्य शतभिषक् । इन्द्रः ईश्वरः नक्षत्रस्य वारुणत्वात् वर्षणसमर्थः पर्जन्यात्मा गृह्यते । स शतधा बहुधा भूत्वा भिषज्यति चिकित्सते निरुपद्रवं करोति लोकमिति । तस्य तथा भिषज्यतस्त्रयं भवति- परस्ताद्विश्वव्यचाः विश्वं व्यचति विविधं गच्छतीति विश्वव्यचाः व्यापकः । ‘गतिकारकयोरपि’इत्यसुन् । पूर्वपदप्रकृतिस्वरत्वं च । मध्ये कालात्मा बहुप्रकारभैषज्यशक्तिः । अवस्ताद्विश्वक्षितिः विश्वाः क्षितयः क्षेत्राणि धान्यानां भवनानि यस्मिन् । एवमेतत्त्रयसंपत्तौ निरुपद्रवो लोको भवति ॥

विश्वास-प्रस्तुतिः

अ॒जस्यैक॑पद॒ᳶ पूर्वे॑ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रम् प॒रस्ता॑द् वैश्वावस॒वम् अ॒वस्ता॑त् ।

मूलम्

अ॒जस्यैक॑पद॒ᳶ पूर्वे॑ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रम् प॒रस्ता॑द् वैश्वावस॒वम् अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

23 अजस्यैकपदः पूर्वे प्रोष्ठपदाः अज एकपात् अग्निविशेषः पदद्वयेनोच्यते । एकः पादोऽस्येति पादस्य लोपे ‘पादः पत्’इति पद्भावः । प्रोष्ठा इव पादाः सोमार्हाः यथा - ‘प्रोष्ठपदेषूदयच्छन्त’ इति । एकेन पादेन यज्ञियेन हविषा यजतोऽग्नेः त्रयं भवति - परस्ताद्वैश्वानरं विश्वेभ्यो नरेभ्यो हितं रूपम् । मध्ये कालात्मिका यजमानोद्यमनशक्तयः। अवस्ताद्वैश्वावसवं विश्वेभ्यो देवेभ्यो हितं रूपम् । एतत्त्रयोपपत्तौ विश्वं लोकं धारयन्ति ॥

विश्वास-प्रस्तुतिः

अहे॑र् बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्त॑ᳶ प॒रस्ता॑द् अभिषु॒ण्वन्तो॒ ऽवस्ता॑त् ।

मूलम्

अहे॑र् बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्त॑ᳶ प॒रस्ता॑द् अभिषु॒ण्वन्तो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

24 अहेर्बुध्नियस्योत्तरे प्रोष्ठपदाः ॥ अहिर्मेघः तात्स्थ्यादुच्यते । बुध्ने मेघे भवो बुध्नियः । मेघानां पतिः कश्चिद्रुद्रः पदद्वयेनोच्यते । वृष्ट्या जगद्धारयतस्त्रयं भवति - परस्तादभिषिञ्चन्तः महीमभिवर्षन्तो मेधाः । मध्ये कालात्मिका वर्षोद्यमनशक्तयः । अवस्ताद् अभिषुण्वन्तः सस्यसमृद्धायाश्मान् […समृद्धानस्मान्] कुर्वाणा यतमानाः । एतत्त्रयोपपत्तौ लोकत्रयं स्थितिं भजते ॥

विश्वास-प्रस्तुतिः

पू॒ष्णो रे॒वती॑ । गाव॑ᳶ प॒रस्ता॑द् व॒त्सा अ॒वस्ता॑त् ।

मूलम्

पू॒ष्णो रे॒वती॑ । गाव॑ᳶ प॒रस्ता॑द् व॒त्सा अ॒वस्ता॑त् ।

भट्टभास्कर-टीका

25 पूष्णो रेवती धनवतीः । ‘रयेर्मत्तौ बहुलम्’इति संप्रसारणम् । जगत् पोषयतः पूष्णस्त्रयं भवति - परस्तात् गावः । मध्ये कालात्मिका क्षीराद्याप्यायनी शक्तिः । अवस्ताद्वत्साः । एतत्त्रयोपपत्तौ जगत् पुष्टं भवति ॥

विश्वास-प्रस्तुतिः

अ॒श्विनो॑र् अश्व॒युजौ॑ । ग्राम॑ᳶ प॒रस्ता॒त् सेना॒ ऽवस्ता॑त् ।

मूलम्

अ॒श्विनो॑र् अश्व॒युजौ॑ । ग्राम॑ᳶ प॒रस्ता॒त् सेना॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

26 अश्विनोरश्वयुजौ अश्विनौ भिषजौ । तयोर्भिषज्यतोस्त्रयं भवति परस्ताद्ग्रामः चिकित्सितव्याः प्रजा देवा मनुष्याश्च । मध्ये कालात्मिका शीघ्रव्यापिनी शक्तिः । अवस्तात् सेना धृतचरुपूर्णा दिव्यौषधसंहतिः । एतत्त्रयोपपत्तौ विश्वं जगदरोगं भवति ॥

विश्वास-प्रस्तुतिः

य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तᳶ प॒रस्ता॑द् अप॒वह॑न्तो॒ ऽवस्ता॑त् ।

मूलम्

य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तᳶ प॒रस्ता॑द् अप॒वह॑न्तो॒ ऽवस्ता॑त् ।

भट्टभास्कर-टीका

27 यमस्यापभरणीः । । अपभरणं मारणम् । यमस्य मारयतः प्रजास्त्रयं भवति - परस्तादपकर्षन्तः शरीरात्प्राणानपकर्षन्तः । मध्ये कालात्मिका अपभरणी शक्तिः । अवस्तादपवहन्तः अवाच्छिद्य पितृलेकं प्रापयन्तः । एतत्त्रयसंपत्तौ परेताः प्रजा भवन्ति ॥

विश्वास-प्रस्तुतिः

पू॒र्णा प॒श्चाद् ..

मूलम्

पू॒र्णा प॒श्चाद् ..

29 पूर्णा पश्चादुत ...{Loading}...

पू॒र्णा प॒श्चाद् उ॒त पू॒र्णा पु॒रस्ता॑त्।
उन् म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय +++(शत्रून्)+++।
तस्या॑न् दे॒वा अधि॑ सव्ँ॒वस॑न्तः
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्

29 पूर्णा पश्चादुत ...{Loading}...

मूलम्

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॑त् ।
उन्म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय ।
तस्या॑न्दे॒वा अधि॑ सव्ँ॒वस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।

भट्टभास्कर-टीका

पूर्णा पूरिता पूर्णचन्द्रसंबन्धात् पञ्चदशी तिथिः (पूर्णेति स्थितिः) पूर्णेत्युच्यते । सा पश्चात् तिथेरन्ते पूर्णा, उत अपि च पुरस्तादादौ च पूर्णा, मध्यतश्च पूर्णा । तस्यां हि तिथौ सर्वसवितृकरणामनुप्रवेशेन भासमानाशेषमण्डलश्चन्द्रो भवति । यद्यपि परमार्थतः तिथ्यन्ते सर्वात्मना चन्द्रः पूर्यते । तथाप्युपलद्भयभिप्रायेणैवमुक्तं, आरम्भात्प्रभृति तस्यां मण्डलं पूर्णमुपलभामहे न तिथ्यन्तरवत् न्यूनमुपलभ्यते । ‘वा दान्तशान्त’ इति ण्यन्तस्य पूर्णेति निपात्यते । एवं त्रिष्वपि कालेषु पूर्णचन्द्रोस्यामिति पूर्णमासी तिथिः । मसी परिमाणे, ण्यन्तात्क्विप् । मित्रः परिमितिहेतुः । मिमीतेर्वा असुनि माः, पूर्णश्चासौ माश्च पूर्णमाः, तस्येयं पौणर्मासी पञ्चदशी । यद्वा - पूर्णो मा अस्मिन्निति पूर्णमासः पर्वान्तः कर्मविशेषो वा । अच्समासान्तः । यद्वा - करणे घञ्, मासः चन्द्रः, तत्सम्बन्धिनी पौणर्मासी । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सा उज्जिगाय उज्जयत्यन्याः तिथीः । उत्कृष्टा भवतीति यावत् । छान्दसे लिटि ‘सन् लिटोर्जेः’ इति कुत्वम् । तस्यां तादृश्यां देवा अधिसंवसन्त एकीभूय वर्तमाना उत्तमे उद्गततमे नाके सुखैकरूपे इहास्मिन् लोके मादयन्ताम् । मद तृप्तियोगे, चौरादिकः, उत्तमशब्द उञ्छादिरन्तोदात्तः ॥


पूर्णा पश्चात् । पुरस्ताच्च पूर्णा । मध्यतश्च पूर्णा । तस्मात् पौर्णमासी पूर्णेन च चद्रमसा योगात् सेयं पौर्णमासी उज्जिगाय अन्याः स्थितीरुज्जयति, तस्यामधिसंवसन्तो देवा उत्तमे नाकस्थानीये अस्मिन् स्थाने मादयन्तां माद्यन्तु ॥

भट्टभास्कर-टीका

29पौर्णमास्याः - पूर्णा पश्चादिति ॥ व्याख्याता पञ्चमाद्ये ॥

भट्टभास्कर-टीका

28-29 ‘पूर्णा पश्चात्, यत्ते देवा अदधुः’इत्येतयोः ‘कृत्तिका नक्षत्रम्’ इत्यत्रैव विनियोगः । व्याख्याते चैते औपानुवाक्ये । तयोरेतत् प्रतीकग्रहणम् ।

विश्वास-प्रस्तुतिः

यत् ते॑ दे॒वा अद॑धुः ..

मूलम्

यत् ते॑ दे॒वा अद॑धुः ..

30 यत्ते देवा ...{Loading}...

यत् ते॑ दे॒वा अद॑धुर् भाग॒-धेय॒म्
अमा॑वास्ये सव्ँ॒वस॑न्तो महि॒त्वा।
सा नो॑ य॒ज्ञम् पि॑पृहि+++(←पालनपूरणयोः)+++ विश्व-वारे+++(←वरणे?)+++
र॒यिन् नो॑ धेहि सुभगे सु॒वीर॑म्॥

30 यत्ते देवा ...{Loading}...

मूलम्

यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सव्ँ॒वस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर॑म् ।

मूलम्

यत्ते॑ दे॒वा अद॑धुः ॥23॥

भट्टभास्कर-टीका

हे अमावास्ये ते तव देवाः भागधेयं इमं होमं यत् यस्मात् अदधुः दत्तवन्तः । अमा सह सूर्याचन्द्रमसावस्यां संवसत इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ इति निपात्यते, पादादित्वादामन्त्रिताद्युदात्तत्वम् । देवा विशेष्यन्ते - संवसन्तः संभूयैकत्र वसन्तमहित्वा तव माहात्म्येन । यस्मात्तव भागमिमं होममदधुः, तस्मात् हे विश्ववारे विश्वकालवति विश्वैर्वा वरणीये सा तादृशी देवैर्दत्तभागा नोस्माकमिमं यज्ञं होमात्मकं पिपृहि पूरय कामैः, पालय वा । पॄ पालनपूरणयोः, शपः श्लुः, धातोर्ह्रस्वत्वम्, अभ्यासस्य चेत्वम् । यद्वा - पृ प्रीतौ, प्रीत्या गृहाणेत्यर्थः । महित्वशब्दात्तृतीयैकवचनस्याजादेशः । किंच - हे सुभगे कल्याणधने अनेन हविषा प्रीता त्वं नः अस्मभ्यं रयिं धनं सुवीरं कल्याणवीरयुक्तं धेहि धनं देहीति । ‘वीरवीर्यौ च` इत्युत्तर पदात्तत्वम् ॥


अथ द्वितीया - हे अमावास्ये! तुभ्यं देवाः यस्माद्भागधेयमादधुः संवसन्तः सहासीना महिम्ना माहात्म्येन, सा त्वं हे विश्ववारे! विश्वकाले नोऽस्माकं यज्ञं पिपृहि पालय, हे सुभगे नोऽस्मभ्यं सुवीरं शोभनपुत्रादिकं धनं धेहि इति ॥

विस्वरपाठः (द्रष्टुं नोद्यम्)

अग्नेᳵ कृत्तिकाः । शुक्रं परस्ताज्ज्योतिरवस्तात् । प्रजापते रोहिणी । आपᳶ परस्तादोषधयोऽवस्तात् । सोमस्येन्वका विततानि । परस्ताद्वयन्तोऽवस्तात् । रुद्रस्य बाहू । मृगयवᳶ परस्ताद्विक्षारोऽवस्तात् । आदित्यै पुनर्वसू । वातः परस्तादार्द्रमवस्तात् ॥ 1 ॥ बृहस्पतेस्तिष्यः । जुह्वतᳶ परस्ताद्यजमाना अवस्तात् । सर्पाणामाश्रेषाः । अभ्यागच्छन्तᳶ परस्तादभ्यानृत्यन्तोऽवस्तात् । पितृणां मघाः । रुदन्तᳶ परस्तादपभ्रँशोऽवस्तात् । अर्यम्णᳶ पूर्वे फल्गुनी । जाया परस्तादृषभोऽवस्तात् । भगस्योत्तरे । वहतवᳶपरस्ताद्वहमाना अवस्तात् ॥ 2 ॥ देवस्य सवितुर् हस्तः । प्रसवᳶ परस्तात्सनिरवस्तात् । इन्द्रस्य चित्रा । ऋतं परस्तात्सत्यमवस्तात् । वायोर्निष्ट्या व्रततिः । परस्तादसिद्धिरवस्तात् । इन्द्राग्नियोर्विशाखे । युगानि परस्तात्कृषमाणा अवस्तात् । मित्रस्यानूराधाः । अभ्यारोहत्परस्तादभ्यारूढमवस्तात् ॥ 3 ॥ इन्द्रस्य रोहिणी । शृणत्परस्तात्प्रतिशृणदवस्तात् । निर्ऋत्यै मूलवर्हणी । प्रतिभञ्जन्तᳶ परस्तात्प्रतिशृणन्तोऽवस्तात् । अपां पूर्वा अषाढाः । वर्चᳶ परस्तात्समितिरवस्तात् । विश्वेषान्देवानामुत्तराः । अभिजयत्परस्तादभिजितमवस्तात् । विष्णोश्श्रोणा पृच्छमानाः । परस्तात्पन्था अवस्तात् ॥ 4 ॥ वसूनाँ श्रविष्ठाः । भूतं परस्ताद्भूतिरवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाᳶपरस्ताद्विश्वक्षितिरवस्तात् । अजस्यैकपदᳶपूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । अहेर्बुध्नियस्योत्तरे । अभिषिञ्चन्तᳶ परस्तादभिषुण्वन्तोऽवस्तात् । पूष्णो रेवती । गावᳶपरस्ताद्वत्सा अवस्तात् । अश्विनोरश्वयुजौ । ग्रामᳶ परस्तात्सेनाऽवस्तात् । यमस्यापभरणीः । अपकर्षन्तᳶ परस्तादपवहन्तोऽवस्तात् । पूर्णा पश्चाद्यत्ते देवा अदधुः ॥ 5 ॥ यत्पुण्यन्नक्षत्रम् । तद्बट्कुर्वीतोपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्रन्नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवँ ह वै यज्ञेषुञ्च शतद्युम्नञ्च मात्स्यो निरवसाययाञ्चकार ॥ 6 ॥ यो वै नक्षत्रियं प्रजापतिव्ँ वेद । उभयोरेनल्ँ लोकयोर्विदुः । हस्त एवास्य हस्तः । चित्रा शिरः । निष्ट्या हृदयम् । ऊरू विशाखे । प्रतिष्ठाऽनूराधाः । एष वै नक्षत्रियᳶ प्रजापतिः । य एवव्ँ वेद । उभयोरेनल्ँ लोकयोर्विदुः ॥ 7॥ अस्मिँश्चामुष्मिँश्च । याङ्कामयेत दुहितरं प्रिया स्यादिति । तान्निष्ट्यायान्दद्यात् । प्रियैव भवति । नेव तु पुनरा गच्छति ।