सोमादिब्राह्मणम्
विश्वास-प्रस्तुतिः
अ॒ग्निर् वाव सव्ँ॑वत्स॒रः ।
आ॒दि॒त्यᳶ प॑रिवत्स॒रः ।
च॒न्द्रमा॑ इदावत्स॒रः ।
वा॒युर् अ॑नुवत्स॒रः ।
मूलम्
अ॒ग्निर् वाव सव्ँ॑वत्स॒रः ।
आ॒दि॒त्यᳶ प॑रिवत्स॒रः ।
च॒न्द्रमा॑ इदावत्स॒रः ।
वा॒युर् अ॑नुवत्स॒रः ।
भट्टभास्कर-टीका
1 अग्निर्वावेत्यादि ॥ अत्र बार्हस्पत्यं षष्टिवर्षं प्रभवादिसंज्ञं महायुगम् । तत्र बार्हस्पत्या द्वादशाब्दाः पञ्चकृत्व आवर्तन्ते आश्वयुजकार्तिकमार्गशीर्षपौषमाघफाल्गुनचैत्रवेशोखज्येष्ठाषाढश्रावणप्रोष्ठपदाख्याः । आहुश्च- गुरुभगणा राशिगुणा आश्वयुजाद्या गुरोरब्दाः । +++(आर्यभटीये कालक्रियापादे)+++
तथा-यस्मिन्नुदेति नक्षत्रे प्रवासोपगतोऽङ्गिराः ।
तस्मात्संवत्सरो मासात् बार्हस्पत्यः प्रशस्यते ॥ इति ॥
ततश्चैतैरेव पञ्चकृत्व आवर्तमानैः द्वादशाब्दप्रमाणानि पञ्चावान्तरयुगानि भवन्ति, तत्र प्रथमे युगे योऽब्दः कार्तिकादिसंज्ञः स संवत्सरोनाम । द्वितीये युगे परिवत्सरोनाम, तृतीये इदावत्सरः, चतुर्थे अनुवत्सरः, पञ्चमे इद्वत्सर इति ।
केचिदाहुः - षड्भिष्षड्भिरब्दैरवान्तराणि युगानि भवन्तीति ॥
तत्र प्रथमादयः षडब्दाः संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरवत्सराख्या इति । तत्र प्रथमतस्सङ्गतो वत्सरः संवत्सरः । अथ स एव वत्सरो धर्मविशेषपरिग्रहेण पुनः परिवर्तत इति परिवत्सरो द्वितीयः । इदमेव संवत्सररूपं धर्मान्तरपरिग्रहेण आवृत्तमिति इदावत्सरस्तृतीयः ।
स एव पुनरप्यनुवर्तत इति अनुवत्सरः ।
अस्यैवानुवृत्तेः इद्वत्सरः कालानुवृत्तिमात्रात् वत्सरः । तत्रैते संवत्सरादयोऽग्न्यादिभावेन स्तूयन्ते तत्प्राप्तिहेतुत्वेन वैश्वदेवादीनि पर्वाणि स्तूयन्ते ॥
मूलम्
यद्वै॑श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तत्सव्ँ॑वत्स॒रमा॑प्नोति ।
विश्वास-प्रस्तुतिः
यद् वै॑श्वदे॒वेन॒ यज॑ते ऽ॒ग्निम् ए॒व तत् सव्ँ॑वत्स॒रम् आ॑प्नोति ।
मूलम्
यद् वै॑श्वदे॒वेन॒ यज॑ते ऽ॒ग्निम् ए॒व तत् सव्ँ॑वत्स॒रम् आ॑प्नोति ।
मूलम्
तस्मा॑द्वैश्वदे॒वेन॒ यज॑मानः । सव्ँ॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
विश्वास-प्रस्तुतिः
तस्मा॑द् “वैश्वदे॒वेन॒ यज॑मानस् सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
मूलम्
तस्मा॑द् “वैश्वदे॒वेन॒ यज॑मानस् सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
भट्टभास्कर-टीका
संवत्सरीणामिति सूक्तवाकस्याशीष्षु एवं होता आशासीत ‘संवत्ससीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्ते’ +++(तै.ब्रा.३-५-१०)+++इति । संवत्सरं भाविनी संवत्सरीणा ‘संपरिपूर्वात्ख च’इति खः ।
मूलम्
यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्प॑रिवत्स॒रमा॑प्नोति ॥57॥
विश्वास-प्रस्तुतिः
यद् व॑रुणप्रघा॒सैर् यज॑ते ऽऽदि॒त्यम् ए॒व तत् प॑रिवत्स॒रम् आ॑प्नोति ॥
मूलम्
यद् व॑रुणप्रघा॒सैर् यज॑ते ऽऽदि॒त्यम् ए॒व तत् प॑रिवत्स॒रम् आ॑प्नोति ॥
मूलम्
तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
विश्वास-प्रस्तुतिः
तस्मा॑द् “वरुणप्रघा॒सैर् यज॑मानᳶ परिवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” +++(तै.ब्रा.१-३-१०)+++ इत्य् आशा॑सीत ।
मूलम्
तस्मा॑द् “वरुणप्रघा॒सैर् यज॑मानᳶ परिवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” +++(तै.ब्रा.१-३-१०)+++ इत्य् आशा॑सीत ।
मूलम्
यत्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति ।
विश्वास-प्रस्तुतिः
यत् सा॑कमे॒धैर् यज॑ते च॒न्द्रम॑सम् ए॒व तदि॑दावत्स॒रम् आ॑प्नोति ।
मूलम्
यत् सा॑कमे॒धैर् यज॑ते च॒न्द्रम॑सम् ए॒व तदि॑दावत्स॒रम् आ॑प्नोति ।
मूलम्
तस्मा॑त्साकमे॒धैर्यज॑मानः । इ॒दा॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
विश्वास-प्रस्तुतिः
तस्मा॑त् “साकमे॒धैर् यज॑मान इदावत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
मूलम्
तस्मा॑त् “साकमे॒धैर् यज॑मान इदावत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
भट्टभास्कर-टीका
एवं परिवत्सरीणामित्यत्र । इदावत्सरीणामित्यादौ छान्दसः खः ॥
मूलम्
यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति ।
विश्वास-प्रस्तुतिः
यत् पि॑तृय॒ज्ञेन॒ यज॑ते दे॒वान् ए॒व तद् अ॒न्व् अव॑स्यति ।
मूलम्
यत् पि॑तृय॒ज्ञेन॒ यज॑ते दे॒वान् ए॒व तद् अ॒न्व् अव॑स्यति ।
भट्टभास्कर-टीका
2 देवानेवेति ॥ पितृयज्ञेन अग्न्यादिव्यतिरिक्तानपि देवान् पित्रादिरूपान् अन्ववस्यति अनुक्रमेण प्राप्नोति । पित्रात्मका देवा गृह्यन्ते । यथा - ‘देवान्वै पितृन् प्रीतान्’ इति ।
विश्वास-प्रस्तुतिः
अथ॒वा अ॑स्य वा॒युश् चा॑नुवत्स॒रश् चाप्री॑ता॒व् उच्छि॑ष्येते ।
मूलम्
अथ॒वा अ॑स्य वा॒युश् चा॑नुवत्स॒रश् चाप्री॑ता॒व् उच्छि॑ष्येते ।
भट्टभास्कर-टीका
अथ इदानीं अस्य वायुश्चानुवत्सरश्चाप्रीतौ अनाराधितौ उच्छिष्येते ।
मूलम्
यच्छु॑नासी॒रीये॑ण॒ यज॑ते ॥58 ॥
वा॒युमे॒व तद॑नुवत्स॒रमा॑प्नोति ।
विश्वास-प्रस्तुतिः
यच् छु॑नासी॒रीये॑ण॒ यज॑ते वा॒युम् ए॒व तद् अ॑नुवत्स॒रम् आ॑प्नोति ।
मूलम्
यच् छु॑नासी॒रीये॑ण॒ यज॑ते वा॒युम् ए॒व तद् अ॑नुवत्स॒रम् आ॑प्नोति ।
मूलम्
तस्मा॑च्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒त्स॒रीणाँ॑ स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत ।
विश्वास-प्रस्तुतिः
तस्मा॑च् “छुनासी॒रीये॑ण॒ यज॑मानो ऽनुवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
मूलम्
तस्मा॑च् “छुनासी॒रीये॑ण॒ यज॑मानो ऽनुवत्स॒रीणाँ॑ स्व॒स्तिम् आशा॑स्त॒” इत्य् आशा॑सीत ।
भट्टभास्कर-टीका
तत्र शुनासीरीयेण तदनुवत्सरस्याप्तिरिति ॥
मूलम्
सव्ँ॒व॒त्स॒रव्ँ वा ए॒ष ई॑प्स॒तीत्या॑हुः । यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ ।
विश्वास-प्रस्तुतिः
“सव्ँ॒व॒त्स॒रव्ँ वा ए॒ष ई॑प्स॒ती"त्य् आ॑हु॒र् यश् चा॑तुर्मा॒स्यैर् यज॑त॒ इति॑ ।
मूलम्
“सव्ँ॒व॒त्स॒रव्ँ वा ए॒ष ई॑प्स॒ती"त्य् आ॑हु॒र् यश् चा॑तुर्मा॒स्यैर् यज॑त॒ इति॑ ।
भट्टभास्कर-टीका
3 संवत्सरं वा इत्यादि ॥ चातुर्मास्ययाजी संवत्सरमाप्तुमिच्छति तस्मादस्माभिरुक्तं ‘अग्निमेव तत्संवत्सरमाप्नोति’इत्यादिकमिति भावः ।
विश्वास-प्रस्तुतिः
ए॒ष ह॒ त्वै सव्ँ॑वत्स॒रम् आ॑प्नोति ।
मूलम्
ए॒ष ह॒ त्वै सव्ँ॑वत्स॒रम् आ॑प्नोति ।
भट्टभास्कर-टीका
अस्ति त्वत्र विशेष इति तुशब्दो वेदितुर्वैशिष्ट्यमाह ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ।
मूलम्
य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ।
भट्टभास्कर-टीका
एवं विदित्वा यश्चातुर्मास्यैः यजते स एव संवत्सरमाप्नोति नाविद्वानिति । तोरन्त्यलोपश्छान्दसः ॥
विश्वास-प्रस्तुतिः
विश्वे॑ दे॒वास् सम॑यजन्त ।
ते॑ ऽग्निम् ए॒वाय॑जन्त ।
मूलम्
विश्वे॑ दे॒वास् सम॑यजन्त ।
ते॑ ऽग्निम् ए॒वाय॑जन्त ।
मूलम्
त ए॒तल्ँ लो॒कम॑जयन्न् ॥59॥
यस्मि॑न्न॒ग्निः ।
विश्वास-प्रस्तुतिः
त ए॒तल्ँ लो॒कम् अ॑जयन्न् यस्मि॑न्न् अ॒ग्निः ।
मूलम्
त ए॒तल्ँ लो॒कम् अ॑जयन्न् यस्मि॑न्न् अ॒ग्निः ।
भट्टभास्कर-टीका
4 विश्वे देवा इत्यादिश्चातुर्मास्यहविषां विधिः । विश्वेदेवाः संहत्याग्निमेवेष्ट्वा अग्निलोकं अजयन् ॥
मूलम्
यद्वै॑श्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति ।
विश्वास-प्रस्तुतिः
यद् वै॑श्वदे॒वेन॒ यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒, यस्मि॑न्न् अ॒ग्निर् अ॒ग्नेर् ए॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यद् वै॑श्वदे॒वेन॒ यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒, यस्मि॑न्न् अ॒ग्निर् अ॒ग्नेर् ए॒व सायु॑ज्य॒म् उपै॑ति ।
भट्टभास्कर-टीका
एतमिति ॥ इदानीं लोकतया प्रसिद्धं व्यपदिशति । एवं सर्वत्र ॥ तस्माद्वैश्वदेवेनेष्ट्वा एतं लोकं जित्वा अग्नेस्सायुज्यं गच्छति यजमानः ॥
मूलम्
य॒दा वै॑श्वदे॒वेन॒ यज॑ते । अथ॑ सव्ँवत्स॒रस्य॑ गृ॒हप॑तिमाप्नोति ।
विश्वास-प्रस्तुतिः
य॒दा वै॑श्वदे॒वेन॒ यज॑ते॒ ऽथ॑ सव्ँवत्स॒रस्य॑ गृ॒हप॑तिम् आप्नोति ।
मूलम्
य॒दा वै॑श्वदे॒वेन॒ यज॑ते॒ ऽथ॑ सव्ँवत्स॒रस्य॑ गृ॒हप॑तिम् आप्नोति ।
मूलम्
य॒दा सव्ँ॑वत्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑माप्नोति ।
विश्वास-प्रस्तुतिः
य॒दा सव्ँ॑वत्स॒रस्य॑ गृ॒हप॑तिम् आ॒प्नोत्य्॒ अथ॑ सहस्रया॒जिन॑म् आप्नोति ।
मूलम्
य॒दा सव्ँ॑वत्स॒रस्य॑ गृ॒हप॑तिम् आ॒प्नोत्य्॒ अथ॑ सहस्रया॒जिन॑म् आप्नोति ।
मूलम्
य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ॥60॥
अथ॑ गृहमे॒धिन॑माप्नोति ।
विश्वास-प्रस्तुतिः
य॒दा स॑हस्रया॒जिन॑म् आ॒प्नोत्य्॒ अथ॑ गृहमे॒धिनम् आप्नोति ।
मूलम्
य॒दा स॑हस्रया॒जिन॑म् आ॒प्नोत्य्॒ अथ॑ गृहमे॒धिनम् आप्नोति ।
भट्टभास्कर-टीका
5 यदा इत्यादि ॥ वैश्वदेवयाजी संवत्सरस्य गवामयनस्य गृहपतिं प्रधानं यज्ञपतिं आप्नोति तन्महिमानं भजते । तत्प्राप्तौ च सहस्रयाजिनं सहस्रदक्षिणयाजिनं आप्नोति ।
मूलम्
य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ । अथा॒ग्निर्भ॑वति ।
विश्वास-प्रस्तुतिः
य॒दा गृ॑हमे॒धिन॑मा॒प्नोत्य्॒ अथा॒ग्निर् भ॑वति ।
मूलम्
य॒दा गृ॑हमे॒धिन॑मा॒प्नोत्य्॒ अथा॒ग्निर् भ॑वति ।
भट्टभास्कर-टीका
तस्य चाप्तौ गृहमेधिनं यायावरं सकलश्रुतिस्मृत्युदितगार्हस्थ्यानुष्ठायिनं वा आप्नोति । तदाप्त्यनन्तरं च अग्निः एव संपद्यते ।
मूलम्
य॒दाग्निर्भव॑ति । अथ॒ गौर्भ॑वति ।
विश्वास-प्रस्तुतिः
य॒दाग्निर् भव॑त्य् अथ॒ गौर् भ॑वति ।
मूलम्
य॒दाग्निर् भव॑त्य् अथ॒ गौर् भ॑वति ।
भट्टभास्कर-टीका
तदनन्तरं च गौः एव संपद्यते । गवां महिमानमाप्नोति गवादिकमाप्नोतीति केचित् ।
विश्वास-प्रस्तुतिः
ए॒षा वै वै॑श्वदे॒वस्य॒ मात्रा॑ ।
मूलम्
ए॒षा वै वै॑श्वदे॒वस्य॒ मात्रा॑ ।
भट्टभास्कर-टीका
एषा एतावती वैश्वदेवस्य मात्रा फलपरिमाणम् ।
विश्वास-प्रस्तुतिः
ए॒तद् वा ए॒तेषा॑मव॒मम् ।
मूलम्
ए॒तद् वा ए॒तेषा॑मव॒मम् ।
भट्टभास्कर-टीका
एतच्च फलं एतेपां चातुर्मास्यफलानां अवमं निकृष्टं वेदितव्यम् ।
विश्वास-प्रस्तुतिः
अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाँ॑सि भवन्ति ।
मूलम्
अतो॑तो॒ वा उत्त॑राणि॒ श्रेयाँ॑सि भवन्ति ।
भट्टभास्कर-टीका
उत्तराणि तु पर्वफलानि अतोऽतः अस्मादस्मात् उत्तराणि श्रेयांसि प्रशस्यानि भवन्ति । पूर्वस्मात्पूर्वस्मादुत्तरोत्तराणि प्रकृष्टफलानीति यावत् ।
मूलम्
यद्विश्वे॑ दे॒वास्स॒मय॑जन्त । तद्वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥
विश्वास-प्रस्तुतिः
यद् विश्वे॑ दे॒वास् स॒मय॑जन्त॒ तद् वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥
मूलम्
यद् विश्वे॑ दे॒वास् स॒मय॑जन्त॒ तद् वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥
भट्टभास्कर-टीका
यत् विश्वेदेवाः संहत्य अयजन्त तस्मादस्य वैश्वदेवत्वम् ॥
विश्वास-प्रस्तुतिः
अथा॑दि॒त्यो वरु॑णँ॒ रा॑जानव्ँ वरुणप्रघा॒सैर॑यजत ।
मूलम्
अथा॑दि॒त्यो वरु॑णँ॒ रा॑जानव्ँ वरुणप्रघा॒सैर॑यजत ।
मूलम्
स ए॒तल्ँ लो॒कम॑जयत् । यस्मि॑न्नादि॒त्यः ।
विश्वास-प्रस्तुतिः
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्नादि॒त्यः ।
मूलम्
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्नादि॒त्यः ।
मूलम्
यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नादि॒त्यः ।
विश्वास-प्रस्तुतिः
यद् व॑रुणप्रघा॒सैर् यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒ यस्मि॑न्नादि॒त्यः ।
आ॒दि॒त्यस्यै॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यद् व॑रुणप्रघा॒सैर् यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒ यस्मि॑न्नादि॒त्यः ।
आ॒दि॒त्यस्यै॒व सायु॑ज्य॒म् उपै॑ति ।
भट्टभास्कर-टीका
6 अथादित्य इत्यादि ॥ तेनेष्ट्वा आदित्यलोकं जितवान् आदित्यः यस्मिन् इदानीं स्वयं वर्तते ।
मूलम्
यदा॑दि॒त्यो वरु॑णँ॒ राजा॑नव्ँवरुणप्रघा॒सैरय॑जत । तद्व॑रुणप्रघा॒सानाव्ँ॑वरुणप्रघास॒त्वम् ।
विश्वास-प्रस्तुतिः
यदा॑दि॒त्यो वरु॑णँ॒ राजा॑नव्ँ वरुणप्रघा॒सैर् अय॑जत॒ तद् व॑रुणप्रघा॒सानाव्ँ॑ वरुणप्रघास॒त्वम् ।
मूलम्
यदा॑दि॒त्यो वरु॑णँ॒ राजा॑नव्ँ वरुणप्रघा॒सैर् अय॑जत॒ तद् व॑रुणप्रघा॒सानाव्ँ॑ वरुणप्रघास॒त्वम् ।
भट्टभास्कर-टीका
राजग्रहणमुदकमिति धीनिवृत्त्यर्थम् । वरुणप्रघासत्वमिति । वरुणसंबन्धिनः प्रघसा हविर्विशेषा वरुणप्रघासाः ॥
विश्वास-प्रस्तुतिः
अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत ॥62॥
मूलम्
अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत ॥62॥
मूलम्
स ए॒तल्ँ लो॒कम॑जयत् । यस्मिँ॑श्च॒न्द्रमा॑ वि॒भाति॑ ।
विश्वास-प्रस्तुतिः
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मिँ॑श् च॒न्द्रमा॑ वि॒भाति॑ ।
मूलम्
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मिँ॑श् च॒न्द्रमा॑ वि॒भाति॑ ।
मूलम्
यत्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मिँ॑श्च॒न्द्रमा॑ वि॒भाति॑ ।
विश्वास-प्रस्तुतिः
यत् सा॑कमे॒धैर् यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒ यस्मिँ॑श् च॒न्द्रमा॑ वि॒भाति॑ ।
च॒न्द्रम॑स ए॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यत् सा॑कमे॒धैर् यज॑त ए॒तम् ए॒व लो॒कञ् ज॑यति॒ यस्मिँ॑श् च॒न्द्रमा॑ वि॒भाति॑ ।
च॒न्द्रम॑स ए॒व सायु॑ज्य॒म् उपै॑ति ।
भट्टभास्कर-टीका
7 अथ सोम इत्यादि ॥ छन्दांसि साकमेधैरयजत । इष्ट्वा च एतं लोकं जितवान् यस्मिन् इदानीं विशेषेण भाति इति ।
विश्वास-प्रस्तुतिः
सोमो॒ वै च॒न्द्रमाः॑ ।
मूलम्
सोमो॒ वै च॒न्द्रमाः॑ ।
भट्टभास्कर-टीका
सोमो वा इत्यादि । सोमो रसात्मा चन्द्रमाः।
मूलम्
ए॒ष ह॒ त्वै सा॒क्षात्सोम॑म्भक्षयति । य ए॒वव्ँ वि॒द्वान्त्सा॑कमे॒धैर्यज॑ते ।
विश्वास-प्रस्तुतिः
ए॒ष ह॒ त्वै सा॒क्षात् सोम॑म् भक्षयति॒ य ए॒वव्ँ वि॒द्वान्त् सा॑कमे॒धैर् यज॑ते ।
मूलम्
ए॒ष ह॒ त्वै सा॒क्षात् सोम॑म् भक्षयति॒ य ए॒वव्ँ वि॒द्वान्त् सा॑कमे॒धैर् यज॑ते ।
भट्टभास्कर-टीका
तस्मादेवं विदित्वा साकमेधयाज्येव साक्षादव्यवधानेन सोमं भक्षयति ।
मूलम्
यत्सोम॑श्च॒ राजा॒ छन्दाँ॑सि च स॒मैध॑न्त ॥63॥
तत्सा॑कमे॒धानाँ॑ साकमेध॒त्वम् ।
विश्वास-प्रस्तुतिः
यत् सोम॑श् च॒ राजा॒ छन्दाँ॑सि च स॒मैध॑न्त॒ तत् सा॑कमे॒धानाँ॑ साकमेध॒त्वम् ।
मूलम्
यत् सोम॑श् च॒ राजा॒ छन्दाँ॑सि च स॒मैध॑न्त॒ तत् सा॑कमे॒धानाँ॑ साकमेध॒त्वम् ।
भट्टभास्कर-टीका
सोमश्च छन्दांसि च समैधन्त तत् साकमेधानां साकमेधत्वम् ॥
विश्वास-प्रस्तुतिः
अथ॒र्तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम् पि॒तर॑म् पितृय॒ज्ञेना॑यजन्त ।
मूलम्
अथ॒र्तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम् पि॒तर॑म् पितृय॒ज्ञेना॑यजन्त ।
मूलम्
त ए॒तल्ँ लो॒कम॑जयन् । यस्मि॑न्नृ॒तवः॑ ।
विश्वास-प्रस्तुतिः
त ए॒तल्ँ-लोकम् अ॑जय॒न्न् यस्मि॑न्नृ॒तवः॑ ।
मूलम्
त ए॒तल्ँ-लोकम् अ॑जय॒न्न् यस्मि॑न्नृ॒तवः॑ ।
मूलम्
यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्नृ॒तवः॑ ।
विश्वास-प्रस्तुतिः
यत् पि॑तृय॒ज्ञेन॒ यज॑त ए॒तम् ए॒व लो॒कञ्ज॑यति॒ यस्मि॑न्नृ॒तवः॑ ।
ऋ॒तू॒नाम् ए॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यत् पि॑तृय॒ज्ञेन॒ यज॑त ए॒तम् ए॒व लो॒कञ्ज॑यति॒ यस्मि॑न्नृ॒तवः॑ ।
ऋ॒तू॒नाम् ए॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यदृ॒तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम्पि॒तर॑म्पितृय॒ज्ञेनाय॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥64॥
विश्वास-प्रस्तुतिः
यदृ॒तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम् पि॒तर॑म् पितृय॒ज्ञेनाय॑जन्त॒ तत् पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥64॥
मूलम्
यदृ॒तव॑ᳶ पि॒तर॑ᳶ प्र॒जाप॑तिम् पि॒तर॑म् पितृय॒ज्ञेनाय॑जन्त॒ तत् पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥64॥
भट्टभास्कर-टीका
8 अथर्तव इत्यादि ॥ पितरं पितृयज्ञेन अयजन्त, तस्मादस्य पितृयज्ञत्वम् ॥
विश्वास-प्रस्तुतिः
अथौष॑धय इ॒मन् दे॒वन् त्र्य॑म्बकैर् अयजन्त॒ प्रथे॑म॒हीति॑ ।
ततो॒ वै ता अ॑प्रथन्त ।
मूलम्
अथौष॑धय इ॒मन् दे॒वन् त्र्य॑म्बकैर् अयजन्त॒ प्रथे॑म॒हीति॑ ।
ततो॒ वै ता अ॑प्रथन्त ।
मूलम्
य ए॒वव्ँ वि॒द्वाँ स्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँस्त्र्य॑म्बकै॒र् यज॑ते॒ प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ ।
मूलम्
य ए॒वव्ँ वि॒द्वाँस्त्र्य॑म्बकै॒र् यज॑ते॒ प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ ।
भट्टभास्कर-टीका
9 अथौषधय इत्यादि ॥ इमं तेषु मन्त्रेषु प्रसिद्धं त्र्यम्बकं अयजन्त । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
अथ॑ वा॒युᳶ प॑रमे॒ष्ठिनँ॑ शुनासी॒रीये॑णायजत ।
मूलम्
अथ॑ वा॒युᳶ प॑रमे॒ष्ठिनँ॑ शुनासी॒रीये॑णायजत ।
मूलम्
स ए॒तल्ँ लो॒कम॑जयत् । यस्मि॑न्वा॒युः ।
विश्वास-प्रस्तुतिः
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न् वा॒युः ।
मूलम्
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न् वा॒युः ।
मूलम्
यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कञ्ज॑यति । यस्मि॑न्वा॒युः ॥65॥
विश्वास-प्रस्तुतिः
यच्छु॑नासी॒रीये॑ण॒ यज॑त ए॒तम् ए॒व लो॒कञ्ज॑यति॒ यस्मि॑न्वा॒युः ॥ वा॒योर् ए॒व सायु॑ज्य॒म् उपै॑ति ।
मूलम्
यच्छु॑नासी॒रीये॑ण॒ यज॑त ए॒तम् ए॒व लो॒कञ्ज॑यति॒ यस्मि॑न्वा॒युः ॥ वा॒योर् ए॒व सायु॑ज्य॒म् उपै॑ति ।
भट्टभास्कर-टीका
10 अथ वायुरित्यादि ॥ गतम् ॥ एवं विश्वदेवादयो वैश्वदेवादिभिः अग्निवरुणच्छन्दःप्रजापतित्र्यम्बकपरमेष्ठिनोऽयजन्तेति ॥
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
“प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता” (३) इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
“प्र चा॑तुर्मास्यया॒जी मी॑य॒ता (३) न प्रमी॑य॒ता” (३) इति॑ ।
भट्टभास्कर-टीका
11 ब्रह्मवादिन इत्यादि ॥ चातुर्मास्ययाजी किं प्रमीयते कि वा नेति । ‘विचार्यमाणानाम्’इति प्लुतः । ‘एचोऽप्रगृह्यस्य’इति पूर्वस्यार्धस्याकारः । छान्दसत्वादेव उत्तराद्यविकारो लुप्यते ।
विश्वास-प्रस्तुतिः
जीव॒न् वा ए॒ष ऋ॒तून् अप्ये॑ति ।
मूलम्
जीव॒न् वा ए॒ष ऋ॒तून् अप्ये॑ति ।
भट्टभास्कर-टीका
अथ नेतीत्युत्तरं ब्रूते । जीवन्नित्यादि ॥ जीवन् खलु एष ऋतूनप्येति अनुप्रविशति । तस्माद्ग्रहादिष्विवानुप्रविश्य तिष्ठन् कथमसौ मृतस्स्यात्,
मूलम्
यदि॑ व॒सन्ता॑ प्र॒मीय॑ते । व॒स॒न्तो भ॑वति ।
विश्वास-प्रस्तुतिः
यदि॑ व॒सन्ता॑ प्र॒मीय॑ते वस॒न्तो भ॑वति ।
यदि॑ ग्री॒ष्मे +++(प्र॒मीय॑ते)+++ ग्री॒ष्मः +++(भ॑वति )+++ ।
यदि॑ व॒र्षासु॑ +++(प्र॒मीय॑ते)+++ व॒र्षाः +++(भ॑वति )+++।
यदि॑ श॒रदि॑ +++(प्र॒मीय॑ते)+++ श॒रत् +++(भ॑वति )+++।
यदि॒ हेम॑न् +++(प्र॒मीय॑ते)+++ हेम॒न्तः +++(भ॑वति )+++।

एवं सामान्येन उक्तान् ऋतून् दर्शयति - यदि वसन्ता वसन्ते प्रमीयते देहोपाधिना वियुज्यते सप्तम्या आदादेशे ‘लघावन्तः’इति मध्योदात्तत्वम् । तदाऽसौ वसन्तमनुप्रविष्टो वसन्त एव भूत्वा वर्तते । निवृत्तेऽपि देहोपाधौ तदानीमेव विद्यमानवसन्तोपाधिपरिग्रहेण वर्तमानो जीवन्नेव भवतीति ॥
एवं ग्रीष्मादिषु ॥ हेमन्निति ‘सुपां सुलुक्’इति सप्तम्या लुकि तलोपश्छान्दसः ।
विश्वास-प्रस्तुतिः
ऋ॒तुर् भू॒त्वा सव्ँ॑वत्स॒रम् अप्ये॑ति ।
मूलम्
ऋ॒तुर् भू॒त्वा सव्ँ॑वत्स॒रम् अप्ये॑ति ।
भट्टभास्कर-टीका
एवमृतूभूतस्संवत्सरमनु प्रविशति । संवत्सरस्स्वयं प्रजापतिरेव सर्वान्प्रति कारणत्वात् ।
मूलम्
सव्ँ॒व॒त्स॒रᳶ प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ॥66॥
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ति॒र् वावैषः ।।
मूलम्
सव्ँ॒व॒त्स॒रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ति॒र् वावैषः ।।
भट्टभास्कर-टीका
एवमुक्तेन प्रकारेण प्रजापतिरेव स खलु एष यजमानः, स चेदानीमपि विद्यत इति कस्मान्म्रियते इति ॥
इति श्री भट्टभास्करमिश्रविरचिते पारक्षुद्रभाष्ये प्रथमेऽष्टके चतुर्थप्रपाठके दशमोऽनुवाकः ॥ चतुर्थप्रश्नस्समाप्तः ॥