सोमादिब्राह्मणम्
वैश्वदेवं काण्डम्
विश्वास-प्रस्तुतिः
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स् तप्य॑माना॒ अजु॑ह्वतीः ।
मूलम्
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स् तप्य॑माना॒ अजु॑ह्वतीः ।
भट्टभास्कर-टीका
1 अथ राजसूयब्राह्मणशेषः, चातुर्मास्यानां राजसूय एवोत्पत्तेः॥ ‘प्रजा वै सत्रत्तमासत’ इति द्वावनुवाकौ वैश्वदेवं काण्डम् ॥
प्रजाः वक्ष्यमाणा देवादयः सर्वे संहत्य सत्रमासत सत्रासनं कुवन्त इव दीर्घकालं सहासत किं कुर्वन्तः तपस्तप्यमानाः गार्हस्थ्ये स्थित्वा उपवासादीनि तपांसि कुर्वत्यः अजुह्वतीः अजुह्वत्यः होमं कंचिदप्यकुर्वाणा आस्त । ‘तपस्तपः कर्मकस्यैव’इत्यात्मनेपदम् ।
विश्वास-प्रस्तुतिः
दे॒वा अ॑पश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः । ।
मूलम्
दे॒वा अ॑पश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः । ।
भट्टभास्कर-टीका
अथ तासां देवतानां मध्ये देवाश्चमसं पात्रं घृतस्य पूर्णं स्वधां अमृतात्मकं स्वस्यात्मनो धारकं वा । दधातेर्विच्, ‘पूरणगुण’इति षष्ठीसमासप्रतिषेधेन षष्ठी ज्ञापिता । ईदृशं चमसं तपःप्रभावादाविर्भूतं अपश्यन् ।
विश्वास-प्रस्तुतिः
पि॒तरो॑ ऽपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
मूलम्
पि॒तरो॑ ऽपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
भट्टभास्कर-टीका
अथ तं द्रष्टुं उपोदतिष्ठन् समीपतो होतुमुद्यताः अथ अजुहवुश्च तम् ।
विश्वास-प्रस्तुतिः
तेना॑र्धमा॒स ऊर्ज॒म् अवा॑रुन्धत ।
मूलम्
तेना॑र्धमा॒स ऊर्ज॒म् अवा॑रुन्धत ।
भट्टभास्कर-टीका
तेन च होमेन अर्धमासे ऊर्जं अन्नं अवारुन्धत लब्धवन्तः । सामर्थ्याद्वीप्स्यते अर्धमासेअर्धमासे ।
विश्वास-प्रस्तुतिः
तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते ।
मूलम्
तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते ।
भट्टभास्कर-टीका
तस्मादर्धमासे पौर्णमास्याममावावास्यायां च देवा इज्यन्ते । एवं सर्वत्र वेदितव्यम् ॥
विश्वास-प्रस्तुतिः
तेन॑ मा॒स्य् ऊर्ज॒म् अवा॑रुन्धत ।
मूलम्
तेन॑ मा॒स्य् ऊर्ज॒म् अवा॑रुन्धत ।
भट्टभास्कर-टीका
2 पितरो मासि अन्नं अवारुन्धत ।
विश्वास-प्रस्तुतिः
तस्मा॑न् मा॒सि पि॒तृभ्य॑ᳵ क्रियते ।
मूलम्
तस्मा॑न् मा॒सि पि॒तृभ्य॑ᳵ क्रियते ।
भट्टभास्कर-टीका
तस्मान्मासि पितृभ्यः क्रियते मासिमासि पिण्डपितृयज्ञः क्रियते ।‘पद्दन्नादिना मासस्य मास्भावः । ‘ऊदिडम्’इत्यादिना विभक्तेरुदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
म॒नु॒ष्या॑ अपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥52॥
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ द्व॒यीम् ऊर्ज॒म् अवा॑रुन्धत ।
मूलम्
म॒नु॒ष्या॑ अपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥52॥
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ द्व॒यीम् ऊर्ज॒म् अवा॑रुन्धत ।
भट्टभास्कर-टीका
3 मनुष्या द्वयीं ऊर्जं अन्नं अवारुन्धत । द्वावयवावस्य कालद्वयसम्बन्धात् । ‘द्वित्रिभ्यां तयस्यायज्वा’स्थानिवद्भावेन तयबन्ततया उदात्तनिवृत्तिस्वरेण ङीपि उदात्तत्वम् ।
मूलम्
तस्मा॒द् द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते । प्रा॒तश् च॑ सा॒यञ् च॑ ।
विश्वास-प्रस्तुतिः
तस्मा॒द् द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते प्रा॒तश् च॑ सा॒यञ् च॑ ।
मूलम्
तस्मा॒द् द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते प्रा॒तश् च॑ सा॒यञ् च॑ ।
भट्टभास्कर-टीका
तस्मान्मनुष्येभ्यः एकस्य अह्नः अहोरात्रस्य द्विरुपह्रियते प्रातश्च सायं च प्रतिदिवसमह्नि रात्रौ च ॥
विश्वास-प्रस्तुतिः
प॒शवो॑ ऽपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ त्र॒यीम् ऊर्ज॒म् अवा॑रुन्धत ।
मूलम्
प॒शवो॑ ऽपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ।
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ त्र॒यीम् ऊर्ज॒म् अवा॑रुन्धत ।
भट्टभास्कर-टीका
4 पशवः त्रयीं त्र्यवयवां ऊर्जं अन्नं अवारुन्धत ।
मूलम्
तस्मा॒त् त्रिरह्न॑ᳶ प॒शव॒ᳶ प्रेर॑ते । प्रा॒तस् स॑ङ्ग॒वे सा॒यम् ।
विश्वास-प्रस्तुतिः
तस्मा॒त् त्रिरह्न॑ᳶ प॒शव॒ᳶ प्रेर॑ते प्रा॒तस् स॑ङ्ग॒वे सा॒यम् ।
मूलम्
तस्मा॒त् त्रिरह्न॑ᳶ प॒शव॒ᳶ प्रेर॑ते प्रा॒तस् स॑ङ्ग॒वे सा॒यम् ।
भट्टभास्कर-टीका
तस्मादह्नस्त्रिः प्रेरते पशवश्चरणार्थं प्रतिष्ठन्ते प्रातस्सङ्गवे सायं च । एभिः त्रिभिः विभागैः दिवसो भवति नैतद्व्यतिरिक्तः कश्चिद्दिवसांशः । तस्मात् सामर्थ्यात् सर्वमहश्चरन्ति पशव इत्युक्तं भवति । ततस्सति अत्यन्तसंयोगे संख्याविशेषोपादानस्य तद्विरोधित्वात् द्वितीयाभवे संबन्धसामान्ये षष्ठ्येव । ईर गतौ, आदादिकः अनुदात्तेत् ॥
विश्वास-प्रस्तुतिः
असु॑रा अपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥53॥
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ सव्ँवत्स॒र ऊर्ज॒म् अवा॑रुन्धत ।
मूलम्
असु॑रा अपश्यञ् चम॒सङ् घृ॒तस्य॑ पू॒र्णँ स्व॒धाम् ॥53॥
तम् उपोद॑तिष्ठ॒न्तम् अ॑जुहवुः ।
तेन॑ सव्ँवत्स॒र ऊर्ज॒म् अवा॑रुन्धत ।
भट्टभास्कर-टीका
5 असुराः संवत्सरे अन्नमलभन्त संवत्सरेऽन्तर्भावितान्नाः सकृत् संवत्सरे भुञ्जते ।
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑मन्यन्त ।
मूलम्
ते दे॒वा अ॑मन्यन्त ।
भट्टभास्कर-टीका
अथ तथाविधानसुरान् पश्यन्तः ते देवा अमन्यन्त ।
मूलम्
अ॒मी वा इ॒दम॑भूवन् । यद्व॒यँ स्म इति॑ ।
विश्वास-प्रस्तुतिः
अ॒मी वा इ॒दम् अ॑भूव॒न्न् यद् व॒यँ स्म इति॑ ।
मूलम्
अ॒मी वा इ॒दम् अ॑भूव॒न्न् यद् व॒यँ स्म इति॑ ।
भट्टभास्कर-टीका
अमी असुरा इदं सर्वं अभूवन् यद्वयं स्मः । एभिः अपहृतं अस्मदैश्वर्यमिति यावत् ॥
विश्वास-प्रस्तुतिः
त ए॒तानि॑ चातुर्मा॒स्यान्य् अ॑पश्यन् ।
तानि॒ निर॑वपन् ।
तैर् ए॒वैषा॒न् ताम् ऊर्ज॑म् अवृञ्जत ।
मूलम्
त ए॒तानि॑ चातुर्मा॒स्यान्य् अ॑पश्यन् ।
तानि॒ निर॑वपन् ।
तैर् ए॒वैषा॒न् ताम् ऊर्ज॑म् अवृञ्जत ।
मूलम्
ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥54॥
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑वन्न् , प॒रा ऽसु॑राः ॥54॥
मूलम्
ततो॑ दे॒वा अभ॑वन्न् , प॒रा ऽसु॑राः ॥54॥
भट्टभास्कर-टीका
6 त एतानीत्यादि ॥ गतम् ॥
मूलम्
यद्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद् यज॑ते॒ यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत॒ तान् ते॒ेनाव॑रुन्धे ।
मूलम्
यद् यज॑ते॒ यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत॒ तान् ते॒ेनाव॑रुन्धे ।
भट्टभास्कर-टीका
7 यद्यजत इति ॥ यदुक्तं ‘तस्मादर्धमासे देवा इज्यन्ते’इति ब्राह्मणेन तदाह - तत्र यत् दर्शपूर्णमासाभ्यां यजते यजमानो देवान् तेन देवानां ऊर्जं अवरुन्धे ।
मूलम्
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यत् पि॒तृभ्य॑ᳵ क॒रोति॒ ,यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत॒, तान् ते॒नाव॑रुन्धे ।
मूलम्
यत् पि॒तृभ्य॑ᳵ क॒रोति॒ ,यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत॒, तान् ते॒नाव॑रुन्धे ।
भट्टभास्कर-टीका
पितृभ्यः पिण्डपितृयज्ञेन पितॄणामूर्जयवरुन्धे ।
विश्वास-प्रस्तुतिः
यदा॑वस॒थे ऽन्नँ॒ हर॑न्ति ।
मूलम्
यदा॑वस॒थे ऽन्नँ॒ हर॑न्ति ।
मूलम्
यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
याम् ए॒व म॑नु॒ष्या॑ ऊर्ज॑म् अ॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
मूलम्
याम् ए॒व म॑नु॒ष्या॑ ऊर्ज॑म् अ॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
भट्टभास्कर-टीका
आवसथे वैश्वदेवातिथिपूजादिना अन्नदानेन मनुष्याणामूर्जमवरुन्धे ।
मूलम्
यद् दक्षि॑णा॒न् ददा॑ति ॥55॥ यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद् दक्षि॑णा॒न् ददा॑ति॒ यामे॒व प॒शव॒ ऊर्ज॑म् अ॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
मूलम्
यद् दक्षि॑णा॒न् ददा॑ति॒ यामे॒व प॒शव॒ ऊर्ज॑म् अ॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
भट्टभास्कर-टीका
दक्षिणात्वेन पश्वादिदानात् पशूनामूर्जमवरुन्धे ।
मूलम्
यच् चा॑तुर्मा॒स्यैर् यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तान्तेनाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यच् चा॑तुर्मा॒स्यैर् यज॑ते॒ यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
मूलम्
यच् चा॑तुर्मा॒स्यैर् यज॑ते॒ यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत॒ तान् ते॒नाव॑रुन्धे ।
भट्टभास्कर-टीका
चातुर्मास्यैरसुराणामूर्जमवरुन्धे संवत्सरसाध्यत्वात् ।
विश्वास-प्रस्तुतिः
भव॑त्या॒त्मना॑ ।
मूलम्
भव॑त्या॒त्मना॑ ।
भट्टभास्कर-टीका
भवत्यात्मना स्वयं भूतिमान् संपद्यते ।
विश्वास-प्रस्तुतिः
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
भट्टभास्कर-टीका
अस्य भ्रातृव्यः पराभवति विनश्यति ॥
मूलम्
वि॒राजो॒ वा ए॒षा विक्रा॑न्तिः । यच्चा॑तुर्मा॒स्यानि॑ ।
विश्वास-प्रस्तुतिः
वि॒राजो॒ वा ए॒षा विक्रा॑न्ति॒र् यच् चा॑तुर्मा॒स्यानि॑ ।
मूलम्
वि॒राजो॒ वा ए॒षा विक्रा॑न्ति॒र् यच् चा॑तुर्मा॒स्यानि॑ ।
भट्टभास्कर-टीका
8 विराजो वा इत्यादि ॥ विराट् प्रजापतिः । तदीया विक्रान्तिः लोकत्रयमाक्रम्यावस्थानम् । सैव चातुर्मास्यानि ।
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वेना॒स्मिल्ँ लो॒के प्रत्य॑तिष्ठत् ।
व॒रु॒ण॒प्र॒घा॒सैर् अ॒न्तरि॑क्षे +++(प्रत्य॑तिष्ठत् )+++ ।
सा॒क॒मे॒धैर् अ॒मुष्मिल्ँ॑ लो॒के +++(प्रत्य॑तिष्ठत् )+++।
ए॒ष ह॒ त्वावैतत् सर्व॑म् भवति ।
य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ॥56॥
मूलम्
वै॒श्व॒दे॒वेना॒स्मिल्ँ लो॒के प्रत्य॑तिष्ठत् ।
व॒रु॒ण॒प्र॒घा॒सैर् अ॒न्तरि॑क्षे +++(प्रत्य॑तिष्ठत् )+++ ।
सा॒क॒मे॒धैर् अ॒मुष्मिल्ँ॑ लो॒के +++(प्रत्य॑तिष्ठत् )+++।
ए॒ष ह॒ त्वावैतत् सर्व॑म् भवति ।
य ए॒वव्ँ वि॒द्वाँश् चा॑तुर्मा॒स्यैर् यज॑ते ॥56॥
भट्टभास्कर-टीका
इदानीं विराज एव विक्रान्तिं दर्शथति - वैश्वदेवेनेत्यादि ॥ यस्मादेवं तस्मात् एवं विद्वान्यश्चातुर्मास्यैर्यजते एष खलु एतत्सर्वं त्रैलोक्यं भवति, एतदाधारं सर्वं भवति एतस्माद्वा देवाद्यैश्वर्यं प्राप्नोति । तोरन्त्यलोपश्छान्दसः । एवं चातुर्मास्यानामेव स्तुत्यर्थं तदवयवानां नित्यानां कर्मणामनुवाद इति ॥
इति चतुर्थे नवमोऽनुवाकः ॥