भास्करोक्त-विनियोगः
‘अनारभ्याधीतानां प्रकृतिगामित्वम्’इति न्यायात् दर्शपूर्णमासयोश् चाविनियोगात् ज्योतिष्ठेम एकाहानां प्रकृतौ एकविंशत्या दर्भपुञ्जीलैः पाव्यमानो यजमानो जपति। अन्यत्र च स्मार्ते स्नानादौ मार्जनार्थोऽयमनुवाकः । सोमः काण्डऋषिः ॥
01 पवमानस् सुवर्जनः ...{Loading}...
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
01 पवमानस् सुवर्जनः ...{Loading}...
मूलम्
पव॑मान॒स् सुव॒र्जनः॑ ।
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
भट्टभास्कर-टीका
1 प्रथमा - पवमान इति गायत्री ॥ पवमानः शोधनकुशलः सुवर्जनः स्वर्गवास्येव यो जनः - समस्तमेव स्वरिति स्वर्गवासी जन उच्यते । [स्वर्गवासिनमभिघत्ते] ‘मञ्चाः क्रोशन्ति’इतिवत् ।
विचर्षणिः विशिष्टज्ञानः सर्वस्य सुकृत-दुष्कृत-प्रत्यवेक्षण-कुशलः यः सर्वस्य साधु पोता पविता पवित्रेण पावनेन दर्शनानुध्यानादिना पुनातु शोधयतु ॥
02 पुनन्तु मा ...{Loading}...
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।
02 पुनन्तु मा ...{Loading}...
मूलम्
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।
भट्टभास्कर-टीका
2 द्वितीया - गायत्री ॥ पुनन्तु मा देवजनाः देवा एव ये जनाः पुनन्तु च
मां मनवः स्वायंभुवादयः धिया प्रज्ञया कर्मणा वा बुद्धिविशेषैः कर्मविशेषैर्वा । मां पुनन्तु ।
विश्वे च आयवः मनुष्या मां पुनन्तु ॥
03 जातवेदᳶ पवित्रवत् ...{Loading}...
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतूँ॒र् अनु॑ ॥46॥
03 जातवेदᳶ पवित्रवत् ...{Loading}...
मूलम्
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒ क्रतूँ॒रनु॑ ॥46॥
भट्टभास्कर-टीका
3 तृतीया - अनुष्टुप् ॥ हे जातवेदः! जातानां वेदितः! पवित्रवत् पवित्रार्हं यथा पवित्राणि शोधयितुम् अर्हन्ति । ‘तदर्हम्’इति वतिः । तद्-अनुरूपं मां पुनाहि पुनीहि । ईत्वाभावश्छान्दसः । पवित्रेण दर्शनादिना पुनीहि।
हे देव! देवनशील! शुक्रेण निर्मलेन तेजसा दीद्यत् दीप्यमानस्त्वम् । दीद्यतेः दीप्तिकर्मणः शतरि ‘अ य स्तानामादिः’इत्याद्युदात्तत्वम्, छान्दसमेवाभ्यस्तत्वम्, कृतद्विर्वचनोऽयं द्रष्टव्यः । हे अग्ने! त्वं दीद्यत् [केन कान् दीद्यत्] इत्याह - क्रतून् आस्माकीनानि कर्माणि प्रज्ञाभेदान्वा अनु लक्षीकृत्य । ‘दीर्घादटि’इति रुत्वम् । क्रत्वा क्रतुना प्रज्ञया कर्मविशेषेण वा दीद्यत् त्वं मां पुनीहीति । ‘जसादिषु वा वचनम्’इति नाभावाभावः ॥
04 यत् ते ...{Loading}...
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
04 यत् ते ...{Loading}...
मूलम्
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
भट्टभास्कर-टीका
4 अथ चतुर्थी - यत्त इति गायत्री ॥ हे अग्ने! यत् ते तव अर्चिषि अन्तरा ज्वालासु मध्ये विततं ब्रह्म परिबृढं पवित्ररूपं तेन आत्मानं पुनीमहे ।
यद्वा - यज् ज्वालासु पवित्रं रूपं तेन ब्रह्म वयं पुनीमहे आस्माकीनं ब्रह्मवर्चसं ऋगादिकं वा ब्रह्मआत्मानं वा पुनीमहे ॥
05 उभाभ्यान् देव ...{Loading}...
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++
05 उभाभ्यान् देव ...{Loading}...
मूलम्
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।
भट्टभास्कर-टीका
5 अथ पञ्चमी - उभाभ्यामिति गायत्री ॥ हे देव! सवितः! सर्वस्य प्रेरक! यश्च सवः अनुज्ञा प्रेरणं वा ताभ्यां इदं ब्रह्म पुनीमहे । गतम् ॥
06 वैश्वदेवी पुनती ...{Loading}...
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा॑त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
06 वैश्वदेवी पुनती ...{Loading}...
मूलम्
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तस् सध॒माद्ये॑षु ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
भट्टभास्कर-टीका
6 अथ षष्ठी - वैश्वदेवीति त्रिष्टुप् ॥
वैश्वदेवी विश्वेषां देवानां सम्बन्धिनी सा देवी पुनती शोधयन्ती अस्मान् आगात् आगच्छतु ।
यस्यै यस्या देव्याः बह्वीः बह्व्यः अनेकाः तनुवः शरीराणि शच्यादि-नाम्न्यः वीतपृष्ठाः कान्तस्तुतयः।
तया देव्या मदन्तः मोदमानाः (व्यत्ययेन शप्) सध-माद्येषु सह माद्यन्ति येषु सवनेषु (अधिकरणे ण्यति व्यत्ययेनोत्तरपदाद्युदात्वम् । यद्वा - ण्यन्तात् ‘अचो यत्"सधमाधस्थयोः’इति सधादेशः ।)
तेषु तेषु स्थानेषु मोदमाना वयं रयीणां धनानां पतयः स्वामिनः स्याम ॥
07 वैश्वानरो रश्मिभिर् ...{Loading}...
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम् ।
07 वैश्वानरो रश्मिभिर् ...{Loading}...
मूलम्
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ।
भट्टभास्कर-टीका
7 अथ सप्तमी - वैश्वानर इति त्रिष्टुप् ॥ वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निरादित्यो वा । मां रश्मिभिः पवित्रैः पुनातु ।
वातश् च मां पुनातु कीदृशः प्राणेन प्राणरूपेण स्थित्वा इषिरः सर्वप्राणिषु प्रविष्टवान् । इष गतौ औणादिकः किरच् । यश् च सर्वस्य मयोभूः सुखस्य भावयिता ।
किञ्च -
द्यावापृथिवी द्याव्यापृथिव्याव् अपि मां पुनीतां शोधयता, कीदृश्यौ, पयसा उदकेन पयोभिर् अन्यैश्च हेतुभिः ऋतावरी ऋतं यज्ञः सत्यं वा तद्वत्यौ । ‘छन्दसीवनिपौ’इति वनिप्, ‘वनोरच’इति ङीब्रेफौ । यज्ञिये यज्ञसंपादिन्यौ यज्ञार्हे । ‘यज्ञर्त्विग्भ्याम्’इति घः । यद्वा - यज्ञिये कर्मणि वर्तमानं पुनीताम् ॥
08 बृहद्भिस् सवितस् ...{Loading}...
बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
08 बृहद्भिस् सवितस् ...{Loading}...
मूलम्
बृ॒हद्भि॑स् सवित॒स् तृभिः॑ ।
वर्षि॑ष्ठैर् देव॒ मन्म॑भिः ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
भट्टभास्कर-टीका
8 अथाष्टमी - बृहद्भिरिति गायत्री ॥ हे सवितः! बृहद्भिः महद्भिः तृभिः त्रिषु लोकेषु त्रिधा स्थितैः - छान्दसं प्रसारणम् । यद्वा - सर्वस्य प्रीणनैः - तृप्यतेः करणे क्विप्, छान्दसोऽन्त्यलोपः आद्युदात्तत्वं च । त्रिशब्दपक्षेऽपि उपोत्तमत्वाभावत् ‘झल्युपोत्तमम्’इति न सिद्ध्यति ।
वर्षिष्ठैः प्रवृद्ध-धर्मैः हे देव! देवनादिगुणयुक्त! अग्ने! मन्मभिः मननीयैः दक्षैः शीघ्रैः मां पुनाहि शोधय ॥
09 येन देवा ...{Loading}...
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
09 येन देवा ...{Loading}...
मूलम्
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
भट्टभास्कर-टीका
9 अथ नवमी - येन देवा इत्यनुष्टुप् ॥
येन देवा आत्मानं अपुनत अशोधयत् येन च दिव्यं अप्राकृतं कशः गति-स्वभावः - कशेर् गतिकर्मणो ऽसुन् । तादृशीं गतिं आपो ऽपुनत, तेन दिव्येन दिवि भवेन ब्रह्मणा परिबृढेन पवित्रेण रूपेण इदं ब्रह्म पुनीमहे ॥
10 यᳶ पावमानीर् ...{Loading}...
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम् अ॑श्ञाति ।
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।
10 यᳶ पावमानीर् ...{Loading}...
मूलम्
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम॑श्ञाति ।
स्व॒दि॒तम् मा॑त॒रिश्व॑ना ।
भट्टभास्कर-टीका
10 अथ दशमी - यः पावमानीरित्यनुष्टुप् ॥
यः पावमानीः पवमानानुवाक-सम्बन्धिनीः ‘पवमानस्सुवर्जनः’ +++(तै.ब्रा.१-४-८)+++ इत्याद्या ऋचः
अध्येति अधीते पठति - व्यत्ययेन परस्मैपदम् । यद्वा - अध्येति एताः स्मरति - इक् स्मरणे । यद्वा - अध्येति अधिगच्छति जानाति याथात्म्येन ग्रन्थतोऽर्थतश्च - इण् गतौ, गत्यर्थाः बुद्ध्यर्थाः ।
कीदृशीर् इत्याह -
ऋषिभिः द्रष्टृभिः संभृतं संचितं रसं सारं मन्त्राणां सः सर्वं पूतं शोधितं अश्नाति स्वदितं स्वादुकृतं च अश्नाति मातरिश्वना वायुना ।
तस्याशनीयं सर्वं मातरिश्वा स्वयमेव शोधयति, स्वादु च करोति ॥
11 पावमानीर् यो ...{Loading}...
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर् मधू॑द॒कम् ।
11 पावमानीर् यो ...{Loading}...
मूलम्
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर् मधू॑द॒कम् ।
भट्टभास्कर-टीका
11 अथ एकादशी - पावमानीरित्यनुष्टुप् ॥ अर्धर्चो गतः ।
तस्मै महाभागाय सरस्वती दुहे दुग्धे समृद्धं ददाति क्षीरादि - अध्ययनमात्रस्यैवेयत् फलम् इति स्तुतिः ॥
12 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
12 पावमानीस् स्वस्त्ययनीः ...{Loading}...
मूलम्
पा॒व॒मा॒नीस् स्व॒स्त्यय॑नीः ॥49॥
सु॒दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
भट्टभास्कर-टीका
12 अथ द्वादशी - पावमानीर् इत्यनुष्टुप् ॥
पावमानीः पावमान्यः एता ऋचः स्वस्त्ययनीः अविनाशन-प्राप्ति-साधन-भूताः - उभयत्रापि ‘वा छन्दसि’इति पूर्व-सवर्ण-दीर्घत्वम् ।
सुदुघाः शोभनं फलानां दोग्ध्र्यः - ‘दुहः कब्वश्च’इति कप् ।
पयस्वतीः उदकवत्यः अन्नवत्यो वा, तद्-धेतुत्वात् ।
हि यस्माद्-अर्थे; यस्मादेवं एता एतादृश्यः तस्मादेता ऋषिभिः संभृतो रसः ।
किञ्च – ब्राह्मणेष्व् अमृतं अमरण-निमित्तं हितं निहितम् । यद्वा - अमृतम् अपवर्गः अपवर्गहेतुत्वेन ज्ञानिषु ब्राह्मणेषु इदं निहितम् ॥
13 पावमानीर् दिशन्तु ...{Loading}...
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्त् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
13 पावमानीर् दिशन्तु ...{Loading}...
मूलम्
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्त् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
भट्टभास्कर-टीका
13 अथ त्रयोदशी - पावमनीरित्यनुष्टुप् ॥ पावमानीः पावमान्यः नः अस्मभ्यं दिशन्तु ददतु इमं च लोकं अथो अपि च अमुं च लोकम् । किञ्च - नः अस्माकं कामान् अस्यां अमुष्या च स्थितान् समर्धयन्तु समृद्धान् कुर्वन्तु देवीः देव्यः देवनादिमत्यः देवैः समाभृताः एकत्र समाहृताः । ‘हृग्रहोर्भः’॥
14 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ।
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
14 पावमानीस् स्वस्त्ययनीः ...{Loading}...
मूलम्
पा॒व॒मा॒नीस् स्व॒स्त्यय॑नीः ।
सु॒दुघा॒ हि घृ॑त॒श्-चुतः॑ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
भट्टभास्कर-टीका
14 अथ चतुर्दशी - पावमानीरित्यनुष्टुबेव ॥ पावमानीरिति गतम् । घृतश्-चुत इति विशेषः - घृतस्योदकस्य क्षारयित्र्यः कर्मसिद्ध्या वृष्टिहेतुत्वात् ॥
15 येन देवाᳶ ...{Loading}...
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
15 येन देवाᳶ ...{Loading}...
मूलम्
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
भट्टभास्कर-टीका
15 अथ पञ्चदशी - येनेति त्रिष्टुबेव ॥ देवाः वस्वादयः ऋत्विगादयो वा येन पवित्रेण पवमानेन रूपेण पावमानीनां सम्बन्धिना आत्मानं सदा पुनते तेन सहस्रधारेण बहुप्रकारशोधनेन पवित्रेण आत्मीयेन पावमान्यः एताः ऋचः मा मां पुनन्तु ॥
16 प्राजापत्यम् पवित्रम् ...{Loading}...
प्रा॒जा॒प॒त्यम् प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे ।
16 प्राजापत्यम् पवित्रम् ...{Loading}...
मूलम्
प्रा॒जा॒प॒त्यम् प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒विदो॑ व॒यम् ।
पू॒तम् ब्रह्म॑ पुनीमहे ।
भट्टभास्कर-टीका
16 अथ षोडशी - प्राजापत्यमित्यनुष्टुबेव ॥
प्राजापत्यं प्रजापतेः स्वं पवित्रं येन स आत्मानं शोधितवान् एता ऋच उच्यन्ते । शतोद्यामं बहु-प्रकारोद्धारणं हिरण्मयं हिरण्य-परिणामवत् पवमानं अविनाशं वा हरणशीलं वा पापानां तेन ब्रह्मणा विदितेन वयं ब्रह्मविदः सन्तः पूतं शुद्धं सदा यथा भवति तथा पुनीमहे ब्रह्म आत्मानं, आत्मीयं वा ब्रह्मवर्चसं, ऋगादिकं वा मन्त्रम् ॥
17 इन्द्रस् सुनीती ...{Loading}...
इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥
17 इन्द्रस् सुनीती ...{Loading}...
मूलम्
इन्द्र॑स् सुनी॒ती स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ पुनातु मा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥51॥
भट्टभास्कर-टीका
17 अथ सप्तदशी - इन्द्रः सुनीतीति त्रिष्टुप् ॥
सुनीती सुनीत्या नयतीति तथा । तादृश्या सेनया शक्त्या वा सह मा मां इन्द्रः पुनातु । ‘सुपां सुलुक्’इति तृतीयैकवचनस्य पूर्वसवर्णदीर्धत्वम्।
सोमश्च स्वस्त्या अविनाशहेतुभूतया सह मां पुनात्विति ।
वरुणश् च समीच्या सम्यगञ्चनया सह मां पुनातु ।
यमश् च राजा प्रमृणाभिः प्रमारिकाभिः सेनाभिः शक्तिभिर्वा सह मा मां पुनातु ।
जातवेदाश् च ऊर्जयन्त्या ऊर्जं हविरात्मकं अन्नं आत्मन इच्छन्त्या विश्वं वा जगदूर्जयन्त्या बल-प्राणन-प्रदानेन धारयन्त्या सह मा मां पुनातु । ‘ऊर्ज बलप्राणनयोः’॥
इति चतुर्थे अष्टमोऽनुवाकः ॥