०७ यूपविरोहणादिप्रायश्चित्तम्

सोमादिब्राह्मणम्

मूलम्

अ॒सु॒र्यव्ँ॑वा ए॒तस्मा॒द्वर्ण॑ङ्कृ॒त्वा । प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति ।

विश्वास-प्रस्तुतिः

अ॒सु॒र्यव्ँ॑वा ए॒तस्मा॒द् वर्ण॑ङ् कृ॒त्वा प॒शवो॑ वी॒र्य॑म् अप॑ क्रामन्ति॒ , यस्य॒ यूपो॑ वि॒रोह॑ति ।

मूलम्

अ॒सु॒र्यव्ँ॑वा ए॒तस्मा॒द् वर्ण॑ङ् कृ॒त्वा प॒शवो॑ वी॒र्य॑म् अप॑ क्रामन्ति॒ , यस्य॒ यूपो॑ वि॒रोह॑ति ।

भट्टभास्कर-टीका

1 असुर्यं वा इत्यादि ॥ यस्य यूपो विरोहति अङ्कुरान् जनयति एतस्मात् पशवो वीर्यं च असुर्यं असुरस्य स्वभूतं बाधकस्वभावं वर्णं रूपं कृत्वा परिगृह्य अपक्रामन्ति । ‘असुरस्य स्वं’इति यत् ।

विश्वास-प्रस्तुतिः

त्वा॒ष्ट्रम् ब॑हुरू॒पम् आल॑भेत ।
त्वष्टा॒ वै रू॒पाणा॑म् ईशे ।

मूलम्

त्वा॒ष्ट्रम् ब॑हुरू॒पम् आल॑भेत ।
त्वष्टा॒ वै रू॒पाणा॑म् ईशे ।

भट्टभास्कर-टीका

त्वाष्ट्रमित्यादि । गतम् । बहुरूपं अनेकवर्णम् । ‘बहोर्नञ्वत्’इति नञ्वद्भावादुत्तरपदान्तोदात्तत्वम् ।

मूलम्

य ए॒व रू॒पाणा॒मीशे॑ । सो॑ऽस्मिन्प॒शून्वी॒र्यय्ँ॑यच्छति ।

विश्वास-प्रस्तुतिः

य ए॒व रू॒पाणा॒मीशे॒ सोऽ॒स्मिन् प॒शून् वी॒र्यय्ँ॑ यच्छति ।
नास्मा॑त् प॒शवो॑ वी॒र्य॑म् अप॑ क्रामन्ति ।

मूलम्

य ए॒व रू॒पाणा॒मीशे॒ सोऽ॒स्मिन् प॒शून् वी॒र्यय्ँ॑ यच्छति ।
नास्मा॑त् प॒शवो॑ वी॒र्य॑म् अप॑ क्रामन्ति ।

भट्टभास्कर-टीका

ईश इति । ‘लोपस्त अत्मनेपदेषु’इति तलोपः ॥

मूलम्

आर्तिव्ँ॒वा ए॒ते निय॑न्ति । येषा॑न्दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ॥ 39॥

विश्वास-प्रस्तुतिः

आर्तिव्ँ॒वा ए॒ते निय॑न्ति॒ येषा॑न् दीक्षि॒ताना॑म् अ॒ ग्निरु॒द्वाय॑ति ॥ 39॥

मूलम्

आर्तिव्ँ॒वा ए॒ते निय॑न्ति॒ येषा॑न् दीक्षि॒ताना॑म् अ॒ ग्निरु॒द्वाय॑ति ॥ 39॥

मूलम्

यदा॑हव॒नीय॑ उ॒द्वाये॑त् । यत्तम्मन्थे॑त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् ।

विश्वास-प्रस्तुतिः

यदा॑हव॒नीय॑ उ॒द्वाये॒द् यत् तम् मन्थे॒द् विच्छि॑न्द्या॒द् , भ्रातृ॑व्यमस्मै जनयेत् ।

मूलम्

यदा॑हव॒नीय॑ उ॒द्वाये॒द् यत् तम् मन्थे॒द् विच्छि॑न्द्या॒द् , भ्रातृ॑व्यमस्मै जनयेत् ।

भट्टभास्कर-टीका

2 आर्तिं वा इत्यादि ॥ आहवनीयोद्वाने तस्यैव मन्थने यज्ञो विच्छिन्नस्स्यात् गार्हपत्ययोनेरेव यज्ञियत्वात् भ्रातृव्यं जनयेत् अग्न्योः सम्बन्धाभावेन परस्परविरुद्धत्वात् ।

मूलम्

यदा॑हव॒नीय॑ उ॒द्वाये॑त् । आग्नी॑द्ध्रा॒दुद्ध॑रेत् ।

विश्वास-प्रस्तुतिः

यदा॑हव॒नीय॑ उ॒द्वाये॒द् आग्नी॑द्ध्रा॒द् उद्ध॑रेत् ।

मूलम्

यदा॑हव॒नीय॑ उ॒द्वाये॒द् आग्नी॑द्ध्रा॒द् उद्ध॑रेत् ।

मूलम्

यदाग्नी॑द्ध्र उ॒द्वाये॑त् । गार्ह॑पत्या॒दुद्ध॑रेत् ।

विश्वास-प्रस्तुतिः

यदाग्नी॑द्ध्र उ॒द्वाये॒द् गार्ह॑पत्या॒द् उद्ध॑रेत् ।

मूलम्

यदाग्नी॑द्ध्र उ॒द्वाये॒द् गार्ह॑पत्या॒द् उद्ध॑रेत् ।

भट्टभास्कर-टीका

तस्मात् आग्नीघ्रादुद्धरेत् । आग्नीध्रोद्वाने गाहपत्यादुद्धरेत् ।

मूलम्

यद्गार्ह॑पत्य उ॒द्वाये॑त् । अत॑ ए॒व पुन॑र्मन्थेत् ॥40॥

विश्वास-प्रस्तुतिः

यद्गार्ह॑पत्य उ॒द्वाये॒द् अत॑ ए॒व पुन॑र्मन्थेत् ॥40॥

मूलम्

यद्गार्ह॑पत्य उ॒द्वाये॒द् अत॑ ए॒व पुन॑र्मन्थेत् ॥40॥

भट्टभास्कर-टीका

गार्हपत्योद्वाने तु अत एव अस्मादेव शेषात् पुनर्मन्थेत् ।

विश्वास-प्रस्तुतिः

अत्र॒ वाव स निल॑यते ।

मूलम्

अत्र॒ वाव स निल॑यते ।

भट्टभास्कर-टीका

अत्र खल्वेव शेषेषु सः अग्निः निलयते निलीयते । व्यत्ययेन लीयतेश्शप् । यद्वा - लयतिश्चुरादिराधृषीयः । तस्मादत एव पुनर्मन्थेत् ।

विश्वास-प्रस्तुतिः

यत्र॒ खलु॒ वै निली॑नम् उत्त॒मम् पश्य॑न्ति ।
तदे॑नम् इच्छन्ति ।

मूलम्

यत्र॒ खलु॒ वै निली॑नम् उत्त॒मम् पश्य॑न्ति ।
तदे॑नम् इच्छन्ति ।

भट्टभास्कर-टीका

लोकेऽपि हि यत्र उत्तमं धनं निलीनं अन्तर्हितं पश्यन्ति जनाः तत् तत्र एनमिच्छन्ति अन्विच्छन्ति । यद्वा - तत्रैव एनं लब्धुमिच्छन्ति लभन्ते वा ।

मूलम्

यस्मा॒द्दारो॑रु॒द्वाये॑त् । तस्या॒रणी॑ कुर्यात् ।

विश्वास-प्रस्तुतिः

यस्मा॒द् दारो॑र् उ॒द्वाये॒द् तस्या॒रणी॑ कुर्यात् ।

मूलम्

यस्मा॒द् दारो॑र् उ॒द्वाये॒द् तस्या॒रणी॑ कुर्यात् ।

भट्टभास्कर-टीका

यस्माद्दारोरुद्वायेत् अन्तत उद्वातं पश्यन्ति तस्य एव विकारभूते अरणी कुर्यात् ।

विश्वास-प्रस्तुतिः

क्रु॒मु॒कमपि॑ कुर्यात् ।

मूलम्

क्रु॒मु॒कमपि॑ कुर्यात् ।

भट्टभास्कर-टीका

क्रुमुकं इन्धनं शकलानि अपि तस्यैव कुर्यात् ।

मूलम्

ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूः । यत्क्रु॑मु॒कः ।

विश्वास-प्रस्तुतिः

ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यत् क्रु॑मु॒कः ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ सम॑र्धयति ।

मूलम्

ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर् यत् क्रु॑मु॒कः ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ सम॑र्धयति ।

भट्टभास्कर-टीका

एषा वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

गार्ह॑पत्यम् मन्थति ॥ 41 ॥

मूलम्

गार्ह॑पत्यम् मन्थति ॥ 41 ॥

मूलम्

गार्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैनय्ँ॒योने॑र्जनयति ।

विश्वास-प्रस्तुतिः

गार्ह॑पत्यो॒ वा अ॒ग्नेर् योनि॒स् स्वादे॒वैनय्ँ॒ योने॑र् जनयति ।
नास्मै॒ भ्रातृ॑व्यञ् जनयति ।

मूलम्

गार्ह॑पत्यो॒ वा अ॒ग्नेर् योनि॒स् स्वादे॒वैनय्ँ॒ योने॑र् जनयति ।
नास्मै॒ भ्रातृ॑व्यञ् जनयति ।

भट्टभास्कर-टीका

3 गार्हपत्यमित्यादि ॥ गार्हपत्यो ह्याहवनीयादेः योनिः जन्मकारणम् ॥

मूलम्

यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णँ॒ हिर॑ण्यन्द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षे॑ऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् ।

विश्वास-प्रस्तुतिः

यस्य॒ सोम॑ उप॒दस्ये॑त्त् सुवर्णँ॒ हिर॑ण्यन् द्वे॒धा वि॒च्छिद्य॑ ऋ॒जी॒षे॑ ऽन्यदा॑धूनु॒याज् , जु॑हु॒याद् अ॒न्यत् ।

सोम॑मे॒वाभि॑षु॒णोति॑ ।
सोम॑ञ् जुहोति ।

मूलम्

यस्य॒ सोम॑ उप॒दस्ये॑त्त् सुवर्णँ॒ हिर॑ण्यन् द्वे॒धा वि॒च्छिद्य॑ ऋ॒जी॒षे॑ ऽन्यदा॑धूनु॒याज् , जु॑हु॒याद् अ॒न्यत् ।

सोम॑मे॒वाभि॑षु॒णोति॑ ।
सोम॑ञ् जुहोति ।

भट्टभास्कर-टीका

4 यस्येत्यादि ॥ उपदस्येत् उपहीयेत । सुवर्णं हिरण्यमिति द्वयोरुपादानं रजतनिवृत्त्यर्थम् । द्वेधा विच्छिद्य तुल्यप्रमाणं शकलं छेदयित्वा ऋजीषे अन्यत् एकं शकलं आधूनुयात् संमिश्र्य सहाभिषुणुयात् । एकं तु चमसे मुख्ये निधाय जुहुयात् । तथा कृते सोम एवाभिषुतो भवति सोम एव हुतो भवति । न तु हिरण्यशकलमभिषुतं, नापि तद्धुतम् ।

विश्वास-प्रस्तुतिः

सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ॥ 42॥
तत् सु॒वर्णँ॒ हिर॑ण्यम् अभवत् ।

मूलम्

सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ॥ 42॥
तत् सु॒वर्णँ॒ हिर॑ण्यम् अभवत् ।

भट्टभास्कर-टीका

तत्कथमित्याह - सोमस्येत्यादि । गतम् ।

मूलम्

यत् सु॒वर्णँ॒ हिर॑ण्यङ् कु॒र्वन्ति॑ ।
प्रि॒ययै॒वैन॑न् त॒नुवा॒ सम॑र्धयन्ति ।

विश्वास-प्रस्तुतिः

यत् सु॒वर्णँ॒ हिर॑ण्यङ् कु॒र्वन्ति॑ प्रि॒ययै॒वैन॑न् त॒नुवा॒ सम॑र्धयन्ति ।

मूलम्

यत् सु॒वर्णँ॒ हिर॑ण्यङ् कु॒र्वन्ति॑ प्रि॒ययै॒वैन॑न् त॒नुवा॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

कुर्वन्तीति । यथोक्तं कुर्वन्ति ॥

मूलम्

यस्याक्री॑तँ॒ सोम॑मप॒हरे॑युः । क्री॒णी॒यादे॒व ।

विश्वास-प्रस्तुतिः

यस्याक्री॑तँ॒ सोम॑मप॒हरे॑युᳵ क्रीणी॒यादे॒व ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

यस्याक्री॑तँ॒ सोम॑मप॒हरे॑युᳵ क्रीणी॒यादे॒व ।
सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

5 यस्याक्रीतमित्यादि ॥ अक्रीतस्य विनाशे क्रय एव प्रायश्चित्तिः ।

मूलम्

यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राँश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् ।

विश्वास-प्रस्तुतिः

यस्य॑ क्री॒तम॑प॒हरे॑युर् आदा॒राँश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् ।

मूलम्

यस्य॑ क्री॒तम॑प॒हरे॑युर् आदा॒राँश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् ।

भट्टभास्कर-टीका

क्रीतस्य विनाशे - आदारानित्यादि । आदाराः क्षीरतृणानि । फाल्गुनानि हैमन्तानि तृणानि हिमप्लुष्टानि । एतानि सोमस्थाने अभिषुणुयात्॥

मूलम्

गा॒य॒त्री यँ सोम॒माह॑रत् । तस्य॒ योऽँ॑शुᳶ प॒राऽप॑तत् ॥43॥

विश्वास-प्रस्तुतिः

गा॒य॒त्री यँ सोम॒माह॑र॒त् , तस्य॒ योऽँ॑शुᳶ प॒राऽप॑तत् ॥43॥
त आ॑दा॒रा अ॑भवन् ।

मूलम्

गा॒य॒त्री यँ सोम॒माह॑र॒त् , तस्य॒ योऽँ॑शुᳶ प॒राऽप॑तत् ॥43॥
त आ॑दा॒रा अ॑भवन् ।

भट्टभास्कर-टीका

6 गायत्री यमित्यादि ॥ अंशुः लतावयवः ।

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑हन् ।
तस्य॑ व॒ल्कᳶ परा॑ ऽपतत् ।
तानि॑ फाल्गु॒नान्य् अ॑भवन् ।
प॒शवो॒ वै फा॑ल्गु॒नानि॑ ।
प॒शव॒स् सोमो॒ राजा॑ ।

मूलम्

इन्द्रो॑ वृ॒त्रम॑हन् ।
तस्य॑ व॒ल्कᳶ परा॑ ऽपतत् ।
तानि॑ फाल्गु॒नान्य् अ॑भवन् ।
प॒शवो॒ वै फा॑ल्गु॒नानि॑ ।
प॒शव॒स् सोमो॒ राजा॑ ।

भट्टभास्कर-टीका

वल्कः शकलः ।

मूलम्

यदा॑दा॒राँश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति ।

विश्वास-प्रस्तुतिः

यदा॑दा॒राँश् च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॒ सोम॑मे॒व राजा॑नम॒भिषु॑णोति ।

मूलम्

यदा॑दा॒राँश् च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॒ सोम॑मे॒व राजा॑नम॒भिषु॑णोति ।

भट्टभास्कर-टीका

फाल्गुनानि । आदाराणां तु तदंशुत्वादेव सोमात्मकत्वमुक्तमेव । तस्मादेषामभिषवे सोम एव अभिषुतो भवति ॥

विश्वास-प्रस्तुतिः

शृ॒तेन॑ प्रातस्-सव॒ने श्री॑णीयात् ।
द॒ध्ना म॒ध्यन्दि॑ने +++(श्री॑णीयात् )+++॥44॥
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने +++(श्री॑णीयात् )+++।

मूलम्

शृ॒तेन॑ प्रातस्-सव॒ने श्री॑णीयात् ।
द॒ध्ना म॒ध्यन्दि॑ने +++(श्री॑णीयात् )+++॥44॥
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने +++(श्री॑णीयात् )+++।

भट्टभास्कर-टीका

7 शृतेनेत्यादि ॥ श्रयणमुपरिमिश्रणम् । शृतेन पयसा सोमं आधवनीयावासं श्रीणीयात् । दध्ना आतक्तेन मध्यन्दिने नवनीतोत्पत्तेः प्रागवस्थं नीतमिश्रं तेन तृतीयसवने श्रीणीयात् ॥

विश्वास-प्रस्तुतिः

अ॒ग्नि॒ष्टो॒मस् सोम॑स् स्याद् रथन्त॒रसा॑मा ।

मूलम्

अ॒ग्नि॒ष्टो॒मस् सोम॑स् स्याद् रथन्त॒रसा॑मा ।

मूलम्

य ए॒वर्त्विजो॑ वृ॒तास्स्युः । त ए॑नय्ँ याजयेयुः ।

विश्वास-प्रस्तुतिः

य ए॒वर्त्विजो॑ वृ॒तास्स्यु॒स् त ए॑नय्ँ याजयेयुः ।

मूलम्

य ए॒वर्त्विजो॑ वृ॒तास्स्यु॒स् त ए॑नय्ँ याजयेयुः ।

भट्टभास्कर-टीका

8 अग्निष्टोम इत्यादि ॥ संस्थान्तरारम्भेऽपि अग्निष्टोमसंस्थ एवेति नियमः । रथन्तरसमैव सर्वत्र साम भवति । ये पूर्ववृताः ऋत्विजः त एव याजयेयुरिति नियमः । पुनर्वरणं निवर्तते ।

विश्वास-प्रस्तुतिः

एका॒ङ्गान् दक्षि॑णान् दद्या॒त् तेभ्य॑ ए॒व ।

मूलम्

एका॒ङ्गान् दक्षि॑णान् दद्या॒त् तेभ्य॑ ए॒व ।

भट्टभास्कर-टीका

एकामेव गां दक्षिणां दद्यात् तेभ्यस्सर्वेभ्य एव सोमस्यार क्षणे एष दण्डः ।

विश्वास-प्रस्तुतिः

पुन॒स् सोम॑ङ् क्रीणीयात् ।
य॒ज्ञेनै॒व तद्-य॒ज्ञम् इ॑च्छति ।

मूलम्

पुन॒स् सोम॑ङ् क्रीणीयात् ।
य॒ज्ञेनै॒व तद्-य॒ज्ञम् इ॑च्छति ।

भट्टभास्कर-टीका

पुनरिति । आरब्धसंस्थार्थं पुनस्सोमं क्रीणीयात् एवं यज्ञेनैव आधारभूतेन यज्ञमिच्छति लिप्सते ।

विश्वास-प्रस्तुतिः

सैव तत॒ᳶ प्राय॑श्चित्तिः ।

मूलम्

सैव तत॒ᳶ प्राय॑श्चित्तिः ।

भट्टभास्कर-टीका

तस्मात् स एव यज्ञः ततो दोषान्मोक्षे प्रायश्चित्तिः ॥

विश्वास-प्रस्तुतिः

सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते ।

मूलम्

सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्य॒स्सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते ।

भट्टभास्कर-टीका

9 सर्वाभ्य इत्यादि ॥ आगुरते उद्यच्छते तादर्थ्येन विनियुङ्क्ते आत्मानम् ।

मूलम्

यस् स॒त्त्राया॑गु॒रते॑ । ए॒तावा॒न् खलु॒ वै पुरु॑षः ।

विश्वास-प्रस्तुतिः

यस् स॒त्त्राया॑गु॒रत॑ ए॒तावा॒न् खलु॒ वै पुरु॑षः ।

मूलम्

यस् स॒त्त्राया॑गु॒रत॑ ए॒तावा॒न् खलु॒ वै पुरु॑षः ।

भट्टभास्कर-टीका

कः यस्सत्रायागुरते यक्ष्य इत्युक्त्वा मनः प्रत्याहरति । गुरी उद्यमने ।

मूलम्

याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत ।

विश्वास-प्रस्तुतिः

याव॑दस्य वि॒त्तँ स॑र्ववेद॒सेन॑ यजेत ।

मूलम्

याव॑दस्य वि॒त्तँ स॑र्ववेद॒सेन॑ यजेत ।

भट्टभास्कर-टीका

एतावानिति । वित्तमात्रसारः पुरुषो नाम । तस्मात् सर्ववेदसेन सर्वस्वदक्षिणेन यजेत ।

विश्वास-प्रस्तुतिः

सर्व॑-पृष्ठो ऽस्य॒ सोम॑स् स्यात् ।

मूलम्

सर्व॑-पृष्ठो ऽस्य॒ सोम॑स् स्यात् ।

भट्टभास्कर-टीका

सर्वपृष्ठोऽस्य सोमस्स्यात् ।

विश्वास-प्रस्तुतिः

सर्वा॑भ्य ए॒व दे॒वता॑भ्य॒स् सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒न् निष्क्री॑णीते ॥ 45 ॥

मूलम्

सर्वा॑भ्य ए॒व दे॒वता॑भ्य॒स् सर्वे॑भ्यᳶ पृ॒ष्ठेभ्य॑ आ॒त्मान॒न् निष्क्री॑णीते ॥ 45 ॥

भट्टभास्कर-टीका

एवं कुर्वन् सर्वदेवतापृष्ठसकाशात् आत्मानं निष्क्रीणीते आदत्ते । सर्वाण वेदांसि धनान्यस्मिन् सन्तीति । अर्शआदित्वादच् ॥

इति सप्तमोऽनुवाकः ॥