०६ सवननिमित्तकं प्रायश्चित्तम्

सोमादिब्राह्मणम्

विश्वास-प्रस्तुतिः

एकै॑को॒ वै ज॒नता॑या॒म् इन्द्रः॑ ।

मूलम्

एकै॑को॒ वै ज॒नता॑या॒म् इन्द्रः॑ ।

भट्टभास्कर-टीका

1 एकैको वा इत्यादि ॥ जनता जनसमूहः । ‘ग्रामजनबन्धुसहायेभ्यस्तल्’। एकैकस्मिन् जनसमूहे जनपदे एकैक इन्द्रः प्रतिजनपदमिन्द्रो भिद्यते ।

विश्वास-प्रस्तुतिः

एकव्ँ॒ वा ए॒ताव् इन्द्र॑म् अ॒भि- सँसु॑नुतः ।

मूलम्

एकव्ँ॒ वा ए॒ताव् इन्द्र॑म् अ॒भि- सँसु॑नुतः ।

भट्टभास्कर-टीका

तस्मात् एतावेकं इन्द्रमभिसुनुतः सोमेन यजेते एकेन्द्राभिसम्बन्धेन उभौ संसवं कुरुतः ।

विश्वास-प्रस्तुतिः

यौ द्वौ सँ॑ सुनु॒तः ।

मूलम्

यौ द्वौ सँ॑ सुनु॒तः ।

भट्टभास्कर-टीका

यौ द्वौ संसुनुतः एकस्मिन् जनपदे जनस्थाने सह सुनुतः जनपदस्यैकत्वात् । एतस्मादेव ज्ञायते भिन्नजनपदे संसवो नास्तीति ।

मूलम्

प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र् वा ए॒ष विता॑यते॒ यद् य॒ज्ञः ।
तस्य॒ ग्रावा॑णो॒ दन्ताः॑ ।
अ॒न्य॒त॒रव्ँ वा ए॒ते सँ॑सुन्व॒तोर् निर्ब॑प्सति ।

मूलम्

प्र॒जाप॑ति॒र् वा ए॒ष विता॑यते॒ यद् य॒ज्ञः ।
तस्य॒ ग्रावा॑णो॒ दन्ताः॑ ।
अ॒न्य॒त॒रव्ँ वा ए॒ते सँ॑सुन्व॒तोर् निर्ब॑प्सति ।

भट्टभास्कर-टीका

तस्य प्रजापतिस्थानीयस्य यज्ञस्य दन्तस्थानीया ग्रावाणः उपांशुसवनादयः संसुन्वतोः अन्यतर निर्बप्सति बीभत्सयन्ति कर्मणा निष्कृष्य भक्षयन्ति यस्य देवता नास्ति । भस भर्त्सनदीप्त्योः, श्लौ द्विर्वचने ‘अदभ्यस्तात्’इत्यदादशै ‘घसिभसोर्हलि च’इत्युपधालोपः, ‘खरि च’इति भकारस्य यत्वम् ।

विश्वास-प्रस्तुतिः

“पूर्वे॑णोप॒सृत्या॑ दे॒वता॒” इत्य् आ॑हुः ।

मूलम्

“पूर्वे॑णोप॒सृत्या॑ दे॒वता॒” इत्य् आ॑हुः ।

भट्टभास्कर-टीका

कस्य तर्हि देवतेत्याह - पूर्वेणेत्यादि । पूर्वेण प्रथमेन देवता उपसृत्या उपसरणीयाः प्रथम उपसरति देवता नेतर इत्याहुः ।

विश्वास-प्रस्तुतिः

पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया॑न् भवति ।

मूलम्

पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया॑न् भवति ।

भट्टभास्कर-टीका

लोकेऽपि हि यः पूर्वमुपगच्छति तस्यैव संबन्धो श्रेयान् स्वामी भवति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं भर्त्सयन्ति ग्रावाण इति ।

विश्वास-प्रस्तुतिः

एति॑व॒न्त्य् आज्या॑नि भवन्त्य् अ॒भिजि॑त्यै ॥32॥

मूलम्

एति॑व॒न्त्य् आज्या॑नि भवन्त्य् अ॒भिजि॑त्यै ॥32॥

भट्टभास्कर-टीका

तस्मात् एतिवन्ति आगमनवन्ति आज्यानि स्तोत्राणि भवन्ति ।

विश्वास-प्रस्तुतिः

म॒रुत्व॑तीᳶ प्रति॒पदः॑ +++(भवन्ति)+++।

मूलम्

म॒रुत्व॑तीᳶ प्रति॒पदः॑ +++(भवन्ति)+++।

भट्टभास्कर-टीका

तेषां प्रतिपदः प्रथमाः मरुच्छब्दवत्यो भवन्ति । बहिष्पवमानस्येत्येके ।

विश्वास-प्रस्तुतिः

म॒रुतो॒ वै दे॒वाना॒म् अप॑राजितम् आ॒यत॑नम् ।

मूलम्

म॒रुतो॒ वै दे॒वाना॒म् अप॑राजितम् आ॒यत॑नम् ।

भट्टभास्कर-टीका

मरुतो वा इत्यादि । गतम् । देवानां मध्ये मरुत एव फलानामपरिभूतं स्थानम् । यद्वा - देवानामप्यपराजितं स्थानम् ।

विश्वास-प्रस्तुतिः

दे॒वाना॑म् ए॒वाप॑राजित आ॒यत॑ने यतते ।

मूलम्

दे॒वाना॑म् ए॒वाप॑राजित आ॒यत॑ने यतते ।

भट्टभास्कर-टीका

तस्मान्मरुत्वतीभिः प्रतिपद्भिः तादृशे स्थाने यतते फलार्थं प्रवर्तते ॥

विश्वास-प्रस्तुतिः

उ॒भे बृ॑हद्-रथन्त॒रे भ॑वतः ।

मूलम्

उ॒भे बृ॑हद्-रथन्त॒रे भ॑वतः ।

मूलम्

इ॒यव्ँ वाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑म॒न्तरे॑ति ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वाव र॑थन्त॒रम् ,अ॒सौ बृ॒हद् ,आ॒भ्याम् ए॒वैन॑म् अ॒न्तरे॑ति ।

मूलम्

इ॒यव्ँ वाव र॑थन्त॒रम् ,अ॒सौ बृ॒हद् ,आ॒भ्याम् ए॒वैन॑म् अ॒न्तरे॑ति ।

भट्टभास्कर-टीका

2 उभे इति ॥ एनं प्रति सुन्वन्तं आभ्यां द्यावापृभिवीभ्यां अन्तरेति अन्तरितं निर्वासितं करोति । उभाभ्यां बृहद्रथन्तराभ्यां स्तुवन् वागादिभ्योऽप्येनं अन्तरेतीत्येव ।

मूलम्

वा॒चश्च॒ मन॑सश्च ।
प्रा॒णाच्चा॑पा॒नाच्च॑ ।
दि॒वश्च॑ पृथि॒व्याश्च॑ ॥33॥
सर्व॑स्माद्वि॒त्ताद्वेद्या॑त् ।

विश्वास-प्रस्तुतिः

वा॒चश् च॒ मन॑सश् च प्रा॒णाच् चा॑पा॒नाच् च॑ दि॒वश् च॑ पृथि॒व्याश् च॒ सर्व॑स्माद् वि॒त्ताद् वेद्या॑त् +++(अन्तरेति)+++।

मूलम्

वा॒चश् च॒ मन॑सश् च प्रा॒णाच् चा॑पा॒नाच् च॑ दि॒वश् च॑ पृथि॒व्याश् च॒ सर्व॑स्माद् वि॒त्ताद् वेद्या॑त् +++(अन्तरेति)+++।

भट्टभास्कर-टीका

द्युस्थेभ्यो देवेभ्यः पृथिवीस्थेभ्यश्च मर्त्येभ्यः सर्वस्मात् च वित्तात् धनात् वेद्यात् ज्ञातव्यात् । यद्वा - वित्तात् लब्धात् वेद्यात् लब्धव्यात् सर्वस्मादन्तरितं करोति उभाभ्यां बृहद्रथन्तराभ्याम् ॥

मूलम्

अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मम्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै ।

विश्वास-प्रस्तुतिः

अ॒भि॒व॒र्तो ब्र॑ह्म-सा॒मम् भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै ।

मूलम्

अ॒भि॒व॒र्तो ब्र॑ह्म-सा॒मम् भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै ।

भट्टभास्कर-टीका

3 अभिवर्तो नाम ब्रह्मसामं पृष्ठानां तृतीय भवति । ब्रह्मणस्साम ब्रह्मसामं यत् ब्रह्मा शंसति । ‘अनसन्तान्नपुंसकाच्छन्दसि’इत्यच् समासान्तः । तत् स्वर्गस्य अभिवृत्त्यै आभिमुख्येन वर्तनाय भवति ॥

मूलम्

अ॒भि॒जिद्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

विश्वास-प्रस्तुतिः

अ॒भि॒जिद् भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

अ॒भि॒जिद् भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

वि॒श्व॒जिद्भ॑वति । विश्व॑स्य॒ जित्यै॑ ।

विश्वास-प्रस्तुतिः

वि॒श्व॒जिद् भ॑वति॒ विश्व॑स्य॒ जित्यै॑ ।

मूलम्

वि॒श्व॒जिद् भ॑वति॒ विश्व॑स्य॒ जित्यै॑ ।

भट्टभास्कर-टीका

4 अभिजित् विश्वजित् वा अहः भवति ॥

मूलम्

यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ ।

विश्वास-प्रस्तुतिः

“यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒” इत्य् आ॑हु॒स् स दे॒वता॑ वृङ्क्त॒ इति॑ ।

मूलम्

“यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒” इत्य् आ॑हु॒स् स दे॒वता॑ वृङ्क्त॒ इति॑ ।

भट्टभास्कर-टीका

5 यस्येत्यादि ॥ भूयांसो विपुलतराः । वैपुल्यवाचिनः ईयसुनि ‘बहोर्लोपो भू च बहोः’। सः भूयोयज्ञक्रतुर्यजमानः अल्पीयःक्रतोः देवता वृङ्क्ते वर्जयति स्वयमादत्त इत्याहुः । द्वितीय इतिशब्दो हेतौ ।

मूलम्

यद्य॑ग्निष्टो॒मस्सोम॑ᳶ प॒रस्ता॒त्स्यात् ॥34॥
उ॒क्थ्य॑ङ्कुर्वीत ।

विश्वास-प्रस्तुतिः

यद्य् अ॑ग्निष्टो॒मस् सोम॑ᳶ प॒रस्ता॒त् स्याद् उ॒क्थ्य॑ङ् कुर्वीत ।

मूलम्

यद्य् अ॑ग्निष्टो॒मस् सोम॑ᳶ प॒रस्ता॒त् स्याद् उ॒क्थ्य॑ङ् कुर्वीत ।

भट्टभास्कर-टीका

यस्मादेवं तस्मात् यद्यग्निष्टोमः सोमः परस्तात् परस्मिन् प्रतिसुन्वति स्यात् स्वयं उक्थ्यं कुर्वीत ।

मूलम्

यद्यु॒क्थ्य॑स्स्यात् । अ॒ति॒रा॒त्रङ्कु॑र्वीत ।

विश्वास-प्रस्तुतिः

यद्य् उ॒क्थ्य॑स् स्याद्‌ अ॑तिरा॒त्रङ् कु॑र्वीत ।

मूलम्

यद्य् उ॒क्थ्य॑स् स्याद्‌ अ॑तिरा॒त्रङ् कु॑र्वीत ।

भट्टभास्कर-टीका

यद्युक्थ्यः परस्तात् स्यात् स्वयं अतिरात्रं कुर्वीत ।

विश्वास-प्रस्तुतिः

य॒ज्ञ॒क्र॒तुभि॑र् ए॒वास्य॑ दे॒वता॑ वृङ्क्ते ।

मूलम्

य॒ज्ञ॒क्र॒तुभि॑र् ए॒वास्य॑ दे॒वता॑ वृङ्क्ते ।

भट्टभास्कर-टीका

एवं यज्ञक्रतुभिरेव अविकृतैः अस्य प्रतिसुन्वतो देवता वृङ्के ॥

मूलम्

यो वै छन्दो॑भिरभि॒भव॑ति । स सँ॑सुन्व॒तोर॒भिभ॑वति ।

विश्वास-प्रस्तुतिः

यो वै छन्दो॑भिर् अभि॒-भव॑ति॒ स सँ॑सुन्व॒तोर् अ॒भिभ॑वति ।

“सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वे"त्य् आ॑ह ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः ।
छन्दो॑भिर् ए॒वास्य॒ छन्दाँ॑स्य् अ॒भि-भ॑वति ।

मूलम्

यो वै छन्दो॑भिर् अभि॒-भव॑ति॒ स सँ॑सुन्व॒तोर् अ॒भिभ॑वति ।

“सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वे"त्य् आ॑ह ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः ।
छन्दो॑भिर् ए॒वास्य॒ छन्दाँ॑स्य् अ॒भि-भ॑वति ।

भट्टभास्कर-टीका

6 यो वा इत्यादि ॥ उपानुवाक्ये व्याख्यातम् । अभिभूतिहोममन्त्राश्च व्याख्याताः । संसुन्वतोः मध्ये छन्दोभिरभिभवति यः सः इतरमभिभवितुं समर्थः स्यात् संवेशोपवेशौ स्थानासने, तद्धेतुभिश्छन्दोभिरभिभूतिहोमाराधितैः प्रतिसुन्वतश्छदांसि संवेशापेवेशौ स्वयमभिभवति[तः] ॥

विश्वास-प्रस्तुतिः

इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑म् अध्व॒र्युः ॥35 ॥
इ॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ ऽर्ष्टुः क्षी॑यते ।

मूलम्

इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑म् अध्व॒र्युः ॥35 ॥
इ॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ ऽर्ष्टुः क्षी॑यते ।

भट्टभास्कर-टीका

7 इष्टर्ग इत्यादि ॥ दर्वीस्थानीय इष्टर्ग इत्येके । इष्टेन यागेन यागावरोधेन अ??क इत्यन्ये । ऋत्विजामिष्टर्गोऽध्वर्युः स्वापराधेन ऋत्विज आर्तिं गमयति । तस्मादयं इष्टर्गः अर्ष्टुः आर्तिं गच्छन् प्रथममेव क्षीयते ।

विश्वास-प्रस्तुतिः

“प्राणा॑पानौ मृ॒त्योर् मा॑ पात॒मि"त्य् आ॑ह ।
प्रा॒णा॒पा॒नयो॑र् ए॒व श्र॑यते ।

मूलम्

“प्राणा॑पानौ मृ॒त्योर् मा॑ पात॒मि"त्य् आ॑ह ।
प्रा॒णा॒पा॒नयो॑र् ए॒व श्र॑यते ।

भट्टभास्कर-टीका

तस्मात् ‘प्राणापानौ’इति होमेन प्राणापानयोः श्रयते तिष्ठति ।

विश्वास-प्रस्तुतिः

“प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मि"त्य् आ॑ह ।
नैन॑म् पु॒रा ऽऽयु॑षᳶ प्राणापा॒नौ ज॑हितः ।

मूलम्

“प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मि"त्य् आ॑ह ।
नैन॑म् पु॒रा ऽऽयु॑षᳶ प्राणापा॒नौ ज॑हितः ।

भट्टभास्कर-टीका

तथा एनं प्राणापानौ आयुषः शतवर्षात् पुरा प्राक् न जहितः न त्यजतः ॥

मूलम्

आर्तिव्ँ॒वा ए॒ते निय॑न्ति । येषा॑न्दीक्षि॒ताना॑म्प्र॒मीय॑ते ।

विश्वास-प्रस्तुतिः

आर्तिव्ँ॒ वा ए॒ते निय॑न्ति॒ येषा॑न् दीक्षि॒ताना॑म् प्र॒मीय॑ते ।

मूलम्

आर्तिव्ँ॒ वा ए॒ते निय॑न्ति॒ येषा॑न् दीक्षि॒ताना॑म् प्र॒मीय॑ते ।

भट्टभास्कर-टीका

8 आर्तिं वा इत्यादि ॥ संप्रति सत्रमधिकृत्य किंचिदुच्यते । येषां दीक्षितानां सत्रिणां मध्ये कश्चित् प्रमीयते म्रियते एते सर्वेऽपि आर्तिं व्यसनं नियन्ति नियमेन गच्छन्ति । सर्वेषामेवेयमार्तिः न तु प्रमीयमाणस्येति मन्तव्यम् ।

मूलम्

तय्ँयद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषाल्ँ लो॒कस्स्या॑त् ।

विश्वास-प्रस्तुतिः

तय्ँ यद् अ॑व॒वर्जे॑युᳵ क्रूर॒कृता॑म् इवैषाल्ँ लो॒कस् स्या॑त् ।

मूलम्

तय्ँ यद् अ॑व॒वर्जे॑युᳵ क्रूर॒कृता॑म् इवैषाल्ँ लो॒कस् स्या॑त् ।

भट्टभास्कर-टीका

एवं मन्यमाना यत् यदि तं प्रमीयमाणं अववर्जेयुः अवाचीनं निकृष्टं त्यजेयुः एषां त्यक्त्वोत्सृजतां सत्रिणां क्रूरकृतां पापकृतां इव लोकस्स्यात् ।

विश्वास-प्रस्तुतिः

“आह॑र ,द॒हे"ति॑ ब्रूयात् ॥36॥

मूलम्

“आह॑र ,द॒हे"ति॑ ब्रूयात् ॥36॥

भट्टभास्कर-टीका

तस्मात् आहर दहेति ब्रूयात् प्रैषम् । उपलक्षणमिदं सर्वप्रेतोपचाराणाम् । आहर प्रेतं स्नापय अलंकुरु । दह पच यथाविधीति ब्रूयात् प्रेतसकाशे गत्वा वदेदेव ।

मूलम्

तन्द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑युः ।

विश्वास-प्रस्तुतिः

तन् द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ सर्परा॒ज्ञिया॑ ऋ॒ग्भिस् स्तु॑युः ।

मूलम्

तन् द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ सर्परा॒ज्ञिया॑ ऋ॒ग्भिस् स्तु॑युः ।

मूलम्

इ॒यव्ँ वै सर्प॑तो॒ राज्ञी॑ । अ॒स्या ए॒वैन॒म्परि॑ददति ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै सर्प॑तो॒ राज्ञ्य् अ॒स्या ए॒वैन॒म् परि॑-ददति ।

मूलम्

इ॒यव्ँ वै सर्प॑तो॒ राज्ञ्य् अ॒स्या ए॒वैन॒म् परि॑-ददति ।

भट्टभास्कर-टीका

अथ तं प्रेतं वेद्या दक्षिणतो निधाय सर्पराज्ञियाभिः ऋग्भिः ‘भूमिर्भूम्ना’ इत्यादिभिः स्तुयुः । तेन सर्पतां राज्ञ्यै पृथिव्यै एनं परिददति न्यासं ददति । अत्र दाहात्प्रागेवेत्येके । दग्धस्यास्थीनीत्यपरे कार्ये कारणोपचारात् तमित्यस्थीन्युच्यन्त इति ॥

मूलम्

व्यृ॑द्ध॒न्तदित्या॑हुः । यत्स्तु॒तमन॑नुशस्त॒मिति॑ ।

विश्वास-प्रस्तुतिः

“व्यृ॑द्ध॒न् तदि"त्य् आ॑हु॒र् यत् “स्तु॒तम् अन॑नुशस्त॒मि"ति॑ ।

मूलम्

“व्यृ॑द्ध॒न् तदि"त्य् आ॑हु॒र् यत् “स्तु॒तम् अन॑नुशस्त॒मि"ति॑ ।

भट्टभास्कर-टीका

9 व्यृद्धमित्यादि ॥ यत् स्तुतं अननुशस्तं शस्त्रोपक्षीणमिति यावत् तद्व्यृद्धं ऋद्धिहीनं इत्याहुः ।

विश्वास-प्रस्तुतिः

होता॑ प्रथ॒मᳶ प्रा॑चीनावी॒ती मा॑र्जा॒लीय॒म् परी॑यात् ।

मूलम्

होता॑ प्रथ॒मᳶ प्रा॑चीनावी॒ती मा॑र्जा॒लीय॒म् परी॑यात् ।

भट्टभास्कर-टीका

तस्मात् होता अनुगतः प्राचीनावीती भूत्वा मार्जालीयं परीयात् गच्छेत् ।

मूलम्

या॒मीर॑नुब्रु॒वन् । स॒र्प॒रा॒ज्ञीना॑ङ्कीर्तयेत् ।

विश्वास-प्रस्तुतिः

या॒मीर् अ॑नु-ब्रु॒वन्न् स॑र्प-रा॒ज्ञीना॑ङ् कीर्तयेत् ।

मूलम्

या॒मीर् अ॑नु-ब्रु॒वन्न् स॑र्प-रा॒ज्ञीना॑ङ् कीर्तयेत् ।

भट्टभास्कर-टीका

यामीः यमगाधा अनुब्रुवन् सर्पराज्ञीनां कीर्तयेत् ।

विश्वास-प्रस्तुतिः

उ॒भयो॑र् ए॒वैनल्ँ॑ लो॒कयो॒ᳶ परि॑-ददति ॥37॥

मूलम्

उ॒भयो॑र् ए॒वैनल्ँ॑ लो॒कयो॒ᳶ परि॑-ददति ॥37॥

भट्टभास्कर-टीका

एवं कुर्वन् होता एनं प्रेतं उभयोर्लोकयोः परिददति ।

विश्वास-प्रस्तुतिः

अथो॑ धु॒वन्त्य् ए॒वैन॑म् ।

मूलम्

अथो॑ धु॒वन्त्य् ए॒वैन॑म् ।

भट्टभास्कर-टीका

अथो अपि च एनं सिग्वातादिभिरुपचरन्त एते एनं धुवन्त्येव व्यजनादिभिरुपचरन्त्येव । यद्वा - एनं धुवन्ति विधूनयन्ति विद्वेषं त्यजन्ति । धू विधूनने, तौदादिकः ।

विश्वास-प्रस्तुतिः

अथो॒ न्य् ए॑वास्मै॑ ह्नुवते ।

मूलम्

अथो॒ न्य् ए॑वास्मै॑ ह्नुवते ।

भट्टभास्कर-टीका

अथो अपि च अस्मै निह्नुवते नमस्कुर्वते, वियोगमभिनयन्ति वा ॥

विश्वास-प्रस्तुतिः

त्रिᳶ परि॑यन्ति ।

मूलम्

त्रिᳶ परि॑यन्ति ।

मूलम्

त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।

विश्वास-प्रस्तुतिः

त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।

त्रिᳶ पुन॒ᳶ परि॑यन्ति ।
षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑न् धुवते ।

मूलम्

त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।

त्रिᳶ पुन॒ᳶ परि॑यन्ति ।
षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑न् धुवते ।

भट्टभास्कर-टीका

10 त्रिः परियन्तीत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

“अग्न॒ आयूँ॑षि पवस॒” इति॑ प्रति॒-पद॑ङ् कुर्वीरन् ।

मूलम्

“अग्न॒ आयूँ॑षि पवस॒” इति॑ प्रति॒-पद॑ङ् कुर्वीरन् ।

भट्टभास्कर-टीका

11 अग्न आयूंषीत्यादि ॥ अस्मिन् यज्ञे बहिष्पवमानस्य प्रतिपत् ।

विश्वास-प्रस्तुतिः

र॒थ॒न्त॒रसा॑म एषाँ॒ सोम॑स् स्यात् ।

मूलम्

र॒थ॒न्त॒रसा॑म एषाँ॒ सोम॑स् स्यात् ।

भट्टभास्कर-टीका

रथन्तरसामा च एषां सोमस्स्यात् पृष्ठस्य रथन्तरत्वं विधीयते ।

विश्वास-प्रस्तुतिः

आयु॑र् ए॒वात्मन् द॑धते ।

मूलम्

आयु॑र् ए॒वात्मन् द॑धते ।

भट्टभास्कर-टीका

एवं कर्म कुर्वन्तः आत्मन्येव आयुर्दधते ।

विश्वास-प्रस्तुतिः

अथो॑ पा॒प्मान॑म् ए॒व वि॒जह॑तो यन्ति ॥38॥

मूलम्

अथो॑ पा॒प्मान॑म् ए॒व वि॒जह॑तो यन्ति ॥38॥

भट्टभास्कर-टीका

अथो अपि च पाप्मानं क्रूरकृतामिव लोककारणं विजहतः त्यजन्त एव अपापाः यन्ति यथेष्टं गच्छन्ति । अतो ज्ञायते नायं प्रेतोपचारः अपि तु कर्तॄणामेवैतत् ईदृशं आयुरादिकरं कर्मेति ॥

इति षष्ठोऽनुवाकः ॥