सोमादिब्राह्मणम्
विश्वास-प्रस्तुतिः
यस्य॑ प्रातस्सव॒ने सोमो॑ ऽति॒-रिच्य॑ते ।
मूलम्
यस्य॑ प्रातस्सव॒ने सोमो॑ ऽति॒-रिच्य॑ते ।
भट्टभास्कर-टीका
1 अथाध्वरस्य ब्राह्मणशेषः सोमार्षेयः ‘यस्य प्रातस्सवने’इत्यादयः त्रयोऽनुवाकाः । उन्नीतेषु चमसेषु अवशिष्यते हुतः ।
भट्टभास्कर-टीका
माध्य॑न्दिनँ॒ सव॑नङ् का॒मय॑मानो॒ ऽभ्य् अति॑-रिच्यते ।
विश्वास-प्रस्तुतिः
माध्यन्दिनं अनन्तरभावि सवनं कामयमानः तत्राप्युपयोगो मे स्यादिति वाञ्छया खलु गृहीतः सोमोऽभ्यतिरिच्यते प्रयोजनाद्व्यतिरेकेण वर्तते ।
मूलम्
माध्यन्दिनं अनन्तरभावि सवनं कामयमानः तत्राप्युपयोगो मे स्यादिति वाञ्छया खलु गृहीतः सोमोऽभ्यतिरिच्यते प्रयोजनाद्व्यतिरेकेण वर्तते ।
विश्वास-प्रस्तुतिः
“गौर् ध॑यति म॒रुता॒मि"ति॒ धय॑द्वतीषु कुर्वन्ति ।
मूलम्
“गौर् ध॑यति म॒रुता॒मि"ति॒ धय॑द्वतीषु कुर्वन्ति ।
भट्टभास्कर-टीका
अतिरेकित्वं च गृहीतभागिन्यः प्रातस्सवनदेवता न सहन्ते तत्कथं समाधेयमित्याह - ‘गौर्धयति मरुताम्’इत्यासु धयद्वतीषु धयशब्दवतीषु प्रातस्सवनत्वात् गायत्रीषु उद्गातारो गायत्रं साम कुर्वन्ति स्तुतशस्त्रवन्तं पुनर्होममाचरेत् इति ।
विश्वास-प्रस्तुतिः
हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् ।
मूलम्
हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् ।
भट्टभास्कर-टीका
कथं पुनर्धयद्वतीभिरयं दोषः सन्धीयत इत्याह - हिनस्तीति । अन्यदीयवत्सदोह्या गौस्सन्धिः । इह तु उपचारेण तदीय क्षीरं सन्धीत्युच्यते । पुनरपि गोसाधर्म्यात् सोमे वर्तते अन्यदीयत्वसामान्यात् ।
मूलम्
स॒न्धीव॒ खलु॒ वा ए॒तत् । यत्सव॑नस्याति॒रिच्य॑ते ।
विश्वास-प्रस्तुतिः
स॒न्धीव॒ खलु॒ वा ए॒तद् यत् सव॑नस्याति॒-रिच्य॑ते ।
मूलम्
स॒न्धीव॒ खलु॒ वा ए॒तद् यत् सव॑नस्याति॒-रिच्य॑ते ।
भट्टभास्कर-टीका
तदिदमुक्तम् - सन्धीव खलु वा एतत् । यत्सवनस्यातिरिच्यते इति । अधीतं अपीतं अतिरोहितम् पानेन स्वरूपहानिर्लक्ष्यते । अयमर्थः - अयं सन्धिक्षीरसमोतिरिक्तः सोमः स्वरूपेणैव अवस्थितोपि अनपत्यत्वाद्यजमानं । हिनस्ति । तस्मादस्य समाधानं कर्तव्यं, तच्च धयद्वतीभिः क्रियत इति ।
मूलम्
यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेश्शान्त्यै॑ ।
विश्वास-प्रस्तुतिः
यद् धय॑द्वतीषु कु॒र्वन्ति॑ स॒न्धेश् शान्त्यै॑ ।
मूलम्
यद् धय॑द्वतीषु कु॒र्वन्ति॑ स॒न्धेश् शान्त्यै॑ ।
भट्टभास्कर-टीका
तदिदमाह - यद्धयद्वतीषु कुर्वन्ति सन्धेश्शान्त्या इति । यद्वा - सन्धिनीक्षीरसमोऽयं सोमो यदि प्रातःसवन एव पीतस्स्यात् । ततो माध्यन्दिनेऽपि भवन् हिनस्ति यजमानमिति सन्धिगोस्थानीयप्रातस्सवनक्षीरसदृशस्य सोमातिरेकस्यापार्थत्वेन अन्यत्र अनुपयोज्यत्वात् धयद्वतीभिः अत्रैव पीतः क्रियत इति । यद्वा - अधीतं अधिगतं उत्पादितं सन्धिक्षीरं धयद्वतीभिः सामभिः पीतं क्रियत इति ॥
मूलम्
गा॒य॒त्रँ साम॑ भवति पञ्च-द॒शस्स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ॥28॥
विश्वास-प्रस्तुतिः
गा॒य॒त्रँ साम॑ भवति पञ्चद॒शस् स्तोम॒स् ,तेन॑+ ए॒व प्रा॑तस्-सव॒नान् नय॑न्ति ॥28॥
मूलम्
गा॒य॒त्रँ साम॑ भवति पञ्चद॒शस् स्तोम॒स् ,तेन॑+ ए॒व प्रा॑तस्-सव॒नान् नय॑न्ति ॥28॥
भट्टभास्कर-टीका
2 गायत्रमित्यादि ॥ गायत्रपञ्चदशाभ्यां प्रातस्सवनान्न यन्ति न गच्छन्ति उद्गातारः । प्रातस्सवन एव प्रतिपत्तीः कृता भवति ॥
मूलम्
म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माध्य॑न्दिना॒त्सव॑ना॒न्नय॑न्ति ।
विश्वास-प्रस्तुतिः
म॒रुत्व॑तीषु कुर्वन्ति॒ , तेन॑+ ए॒व माध्य॑न्दिना॒त् सव॑ना॒न् नय॑न्ति ।
मूलम्
म॒रुत्व॑तीषु कुर्वन्ति॒ , तेन॑+ ए॒व माध्य॑न्दिना॒त् सव॑ना॒न् नय॑न्ति ।
भट्टभास्कर-टीका
3 मरुत्वतीष्विति ॥ ‘गौर्धयति’ इत्यादिभिः मरुच्छब्दवतीभिः स्तवनात् माध्यन्दिनात् अपि सवनात् न गच्छन्ति तत्राप्युपयुक्तोऽसौ भवति यत् कामयमानः सोमोऽतिरिच्यते । केचिदाहुः - उभयसवनाकांक्षितत्वात् सन्ध्याकल्पोऽयमतिरिक्तः सोमः । ततश्च इत्थं क्रियमाणं स्तोत्रादिकं सन्ध्यायामधीतमुच्यमानमिव हिनस्ति । तत्र धयद्वतीनां गायत्रपञ्चदशाभ्यां गानात् सवनद्वयातिरेकेण सन्धिर्नाम कश्चिन्नास्ति ॥
विश्वास-प्रस्तुतिः
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
मूलम्
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
भट्टभास्कर-टीका
4 होतुरिति ॥ होतुश्चमसं अग्रत उन्नीतमनु अन्ये चमसा उन्नयन्ते ।
विश्वास-प्रस्तुतिः
होता ऽनु॑ शँसति ।
मूलम्
होता ऽनु॑ शँसति ।
भट्टभास्कर-टीका
होता तु तं अनु शंसति ऐन्द्राग्नमित्येके । ऐन्द्रावैष्णवमित्यन्ये ।
विश्वास-प्रस्तुतिः
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ।
मूलम्
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ।
भट्टभास्कर-टीका
एवं कुर्वन् यज्ञं मध्यतः समादधाति अन्यूनानतिरिक्तसवनद्वयातिरेकेण समीकरोति । यथा सन्धिदोषो न भवति तथा करोति ॥
विश्वास-प्रस्तुतिः
यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ ऽति॒-रिच्य॑ते ।
आ॒दि॒त्यन् तृ॑तीयसव॒नङ् का॒मय॑मानो॒ ऽभ्य् अति॑-रिच्यते ।
मूलम्
यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ ऽति॒-रिच्य॑ते ।
आ॒दि॒त्यन् तृ॑तीयसव॒नङ् का॒मय॑मानो॒ ऽभ्य् अति॑-रिच्यते ।
भट्टभास्कर-टीका
5 यस्य माध्यन्दिन इत्यादि ॥ पूर्ववत् ।
विश्वास-प्रस्तुतिः
गौ॒रि॒वी॒तँ साम॑ भवति ।
अति॑रिक्तव्ँ॒ वै गौ॑रिवी॒तम् ।
मूलम्
गौ॒रि॒वी॒तँ साम॑ भवति ।
अति॑रिक्तव्ँ॒ वै गौ॑रिवी॒तम् ।
मूलम्
अति॑रिक्तय्ँ॒यत्सव॑नस्याति॒रिच्य॑ते ॥29॥
अति॑रिक्तस्य॒ शान्त्यै॑ ।
विश्वास-प्रस्तुतिः
अति॑रिक्तय्ँ॒ यत् सव॑नस्याति॒रिच्य॑ते॒ ऽति॑रिक्तस्य॒ शान्त्यै॑ ।
मूलम्
अति॑रिक्तय्ँ॒ यत् सव॑नस्याति॒रिच्य॑ते॒ ऽति॑रिक्तस्य॒ शान्त्यै॑ ।
भट्टभास्कर-टीका
गोरिवीतमिति । अतिरिक्ताक्षरेण गौरिवीतेन स्तवनात् सोमातिरेकदोषशान्तिः ।
विश्वास-प्रस्तुतिः
“बण्म॒हाँ अ॑सि सू॒र्ये"ति॑ कुर्वन्ति ।
मूलम्
“बण्म॒हाँ अ॑सि सू॒र्ये"ति॑ कुर्वन्ति ।
मूलम्
यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैन॒ङ्कामे॑न॒ सम॑र्धयन्ति ।
विश्वास-प्रस्तुतिः
यस्य +ए॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒-रिच्य॑ते॒ तेन॑+ ए॒वैन॒ङ् कामे॑न॒ सम॑र्धयन्ति ।
मूलम्
यस्य +ए॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒-रिच्य॑ते॒ तेन॑+ ए॒वैन॒ङ् कामे॑न॒ सम॑र्धयन्ति ।
भट्टभास्कर-टीका
‘बण्महां असि सूर्य’ इत्यासु सौरीषु स्तवनात् आदित्यं तृतीयसवनं कामयमानं सोममभिमतेन समृद्धं करोति ।
विश्वास-प्रस्तुतिः
गौ॒रि॒वी॒तँ साम॑ भवति ।
तेन॑+ ए॒व माध्य॑न्दिना॒त् सव॑ना॒न् नय॑न्ति ।
मूलम्
गौ॒रि॒वी॒तँ साम॑ भवति ।
तेन॑+ ए॒व माध्य॑न्दिना॒त् सव॑ना॒न् नय॑न्ति ।
भट्टभास्कर-टीका
गौरिवीतस्य च पृष्टविकारत्वात् माध्यंदिनात्सवनान्न यन्ति स्तोमस्य सप्तदशत्वात् तृतीयसवनान्न यन्ति ॥
विश्वास-प्रस्तुतिः
स॒प्त॒द॒शस्स् तोमः॑ ।
तेन॑+ ए॒व तृ॑तीयसव॒नान् नय॑न्ति ।
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
होता ऽनु॑ शँसति ॥30॥
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ।
मूलम्
स॒प्त॒द॒शस्स् तोमः॑ ।
तेन॑+ ए॒व तृ॑तीयसव॒नान् नय॑न्ति ।
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
होता ऽनु॑ शँसति ॥30॥
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ।
भट्टभास्कर-टीका
6 होतुरित्यादि ॥ समानम् । ऐन्द्रमित्येके । ऐन्द्रावैष्णवमित्यन्ये ॥
मूलम्
यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्य॑ङ्कुर्वीत ।
विश्वास-प्रस्तुतिः
यस्य॑ तृतीयसव॒ने सोमो॑ ऽति॒रिच्ये॑तो॒क्थ्य॑ङ् कुर्वीत ।
मूलम्
यस्य॑ तृतीयसव॒ने सोमो॑ ऽति॒रिच्ये॑तो॒क्थ्य॑ङ् कुर्वीत ।
भट्टभास्कर-टीका
7 यस्य तृतीयसवन इत्यादि ॥ अग्रिष्टोमसंस्थे क्रतौ तृतीयसवनेऽतिरेकश्चेत् उक्थ्यं कुर्वीत ।
मूलम्
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रङ्कु॑र्वीत ।
विश्वास-प्रस्तुतिः
यस्यो॒क्थ्ये॑ ऽति॒-रिच्ये॑ता॒तिरा॒त्रङ् कु॑र्वीत ।
मूलम्
यस्यो॒क्थ्ये॑ ऽति॒-रिच्ये॑ता॒तिरा॒त्रङ् कु॑र्वीत ।
भट्टभास्कर-टीका
उक्थ्यसंस्थेऽतिरेकस्तृतीयसवने चेत्स्यात् अतिरात्रं कुर्वीत ।
मूलम्
यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते । तत्त्वै दु॑ष्प्रज्ञा॒नम् ।
विश्वास-प्रस्तुतिः
यस्या॑तिरा॒त्रे॑ ऽति॒-रिच्य॑ते॒ तत्त्वै दु॑ष्प्रज्ञा॒नम् ।
मूलम्
यस्या॑तिरा॒त्रे॑ ऽति॒-रिच्य॑ते॒ तत्त्वै दु॑ष्प्रज्ञा॒नम् ।
भट्टभास्कर-टीका
अतिरात्रसंस्थे त्वतिरेके सति यत्समाधानं तत् दुष्प्रज्ञानं दुर्बोधनं न वयं जानीमः । तोरन्त्यलोपश्छान्दसः ।
विश्वास-प्रस्तुतिः
यज॑मानव्ँ॒ वा ए॒तत् प॒शव॑ आ॒साह्य॑यन्ति ।
मूलम्
यज॑मानव्ँ॒ वा ए॒तत् प॒शव॑ आ॒साह्य॑यन्ति ।
भट्टभास्कर-टीका
अथाष्यसमाहिते महान् दोषः । तथा हि - एतत् एतस्मिन् दोषे सति पशवो यजमानमासाह्य सर्वतोऽभिभूय कथंचिदपि व्यवस्थापयितुं अशक्ता यन्ति त्यक्त्वा गच्छन्ति । आङ्पूर्वात् सहतेर्ल्यपि वर्णव्यत्ययेन दीर्घत्वम् । तस्माद्दुष्प्रज्ञानमिति नोपेक्षितव्यम् ।
विश्वास-प्रस्तुतिः
बृ॒हत् साम॑ भवति ।
बृ॒हद् वा इ॒माल्ँ लो॒कान् दा॑धार ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार ।
मूलम्
बृ॒हत् साम॑ भवति ।
बृ॒हद् वा इ॒माल्ँ लो॒कान् दा॑धार ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार ।
भट्टभास्कर-टीका
इदं ब्रूम इत्याह - बृहदित्यादि । इमान् लोकान् यज्ञद्वारेण बृहत् बिभर्ति पशवः च बार्हताः बृहत उत्पन्नाः । बृहच्छन्द उत्सादिः । बृहता पशून् यजमानस्य धारयति ॥
विश्वास-प्रस्तुतिः
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति ।
मूलम्
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति ।
भट्टभास्कर-टीका
8 शिपिविष्टवतीषु साम कुर्वन्ति ।
विश्वास-प्रस्तुतिः
शि॒पि॒वि॒ष्टो वै दे॒वाना॑म् पु॒ष्टम् ।
पुष्ट्यै॒वैनँ॒ सम॑र्धयन्ति ।
मूलम्
शि॒पि॒वि॒ष्टो वै दे॒वाना॑म् पु॒ष्टम् ।
पुष्ट्यै॒वैनँ॒ सम॑र्धयन्ति ।
भट्टभास्कर-टीका
शिपिविष्टो हि देवानां पुष्टिहेतुः ।
विश्वास-प्रस्तुतिः
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
होता ऽनु॑-शँसति ।
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ॥31॥
मूलम्
होतु॑श् चम॒सम् अनून्न॑यन्ते ।
होता ऽनु॑-शँसति ।
म॒ध्य॒त ए॒व य॒ज्ञँ स॒म् आद॑धाति ॥31॥
भट्टभास्कर-टीका
होतुरित्यादि । गतम् । आश्विनमित्येके । ऐन्द्रावैष्णवमित्यन्ये ॥
इति पञ्चमोऽनुवाकः ॥