०४ अग्निप्रायश्चित्तम्‌ (अग्निहोत्रे)

सोमादिब्राह्मणम्

विश्वास-प्रस्तुतिः

नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ् कामयते ।
निगार्ह॑पत्य आहव॒नीय॑म् । +++(कामयते)+++ ।

मूलम्

नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ् कामयते ।
निगार्ह॑पत्य आहव॒नीय॑म् । +++(कामयते)+++ ।

भट्टभास्कर-टीका

1 नि वा एतस्येत्यादि ॥ द्वावग्नी परस्परं निकामयेते निभृतेनेकाग्र्यं कामयेते । मा वां पृथग्भावयिता यत्रोद्धरणाद्यपेक्षते । ततः तस्य अग्निद्वयाधीनस्वर्गप्रजाद्यसिद्धिः । यद्वा - पृथगात्मन एव कामनं निकामनं, यथा - ‘तदग्निर्न्यकामयत तेनापाक्रामत्’ । इति । अहमेक एवाग्निर्भूयासं किमनेनेति द्वावपि कामयेते ।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्यम्प्र॒बद्ध्य॑ पु॒रस्ता॑द्धरेत् ।

विश्वास-प्रस्तुतिः

यस्य +अ॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभि -नि॒म्रोच॑ति द॒र्भेण॒ हिर॑ण्यम् प्र॒बद्ध्य॑ पु॒रस्ता॑द् धरेत् ।

मूलम्

यस्य +अ॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभि -नि॒म्रोच॑ति द॒र्भेण॒ हिर॑ण्यम् प्र॒बद्ध्य॑ पु॒रस्ता॑द् धरेत् ।

भट्टभास्कर-टीका

यस्याग्निमनुद्धृतं अभिलक्ष्य सूर्यः अभिनिम्रोचति अस्तमेति । उद्धरणं प्रणयनम् । ‘अभिरभागे’इत्यभेः कर्मप्रवचनीयत्वम् । तत्र समाधानमाह - तत्र हिरण्यं दर्भेण प्रबद्ध्य पुरस्ताद्धरेत् आहवनीयदेशं प्रापयेत् ।

विश्वास-प्रस्तुतिः

अथा॒ग्निम् +++(हरेत् )+++।

मूलम्

अथा॒ग्निम् +++(हरेत् )+++।

भट्टभास्कर-टीका

अथ अनन्तरं अग्निं हरेत् ।

विश्वास-प्रस्तुतिः

अथा॑ग्निहो॒त्रम् +++(हरेत् )+++।

मूलम्

अथा॑ग्निहो॒त्रम् +++(हरेत् )+++।

भट्टभास्कर-टीका

अथ तदनन्तरं च अग्निहोत्रं होमद्रव्यं हरेत् ।

मूलम्

यद्धिर॑ण्यम्पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैन॒म्पश्य॒न्नुद्ध॑रति ।

विश्वास-प्रस्तुतिः

यद् धिर॑ण्यम् पु॒रस्ता॒द् धर॑ति॒ ज्योति॒र् वै हिर॑ण्य॒ञ् ज्योति॑र् ए॒वैन॒म् पश्य॒न्न् उद्ध॑रति ।

मूलम्

यद् धिर॑ण्यम् पु॒रस्ता॒द् धर॑ति॒ ज्योति॒र् वै हिर॑ण्य॒ञ् ज्योति॑र् ए॒वैन॒म् पश्य॒न्न् उद्ध॑रति ।

भट्टभास्कर-टीका

तत्र हिरण्यस्य ज्योतिष्ट्वात् ज्योतिः पश्यन् तेन सत्येवादित्ये ज्योतिषि उद्धरणं कृतं भवति ।

मूलम्

यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् ॥17॥
भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति ।

विश्वास-प्रस्तुतिः

यद् अ॒ग्निम् पूर्वँ॒ हर॒त्य्, अथा॑ग्निहो॒त्रम् भा॑ग॒धेये॑न+ ए॒वैन॒म् प्रण॑यति ।

मूलम्

यद् अ॒ग्निम् पूर्वँ॒ हर॒त्य्, अथा॑ग्निहो॒त्रम् भा॑ग॒धेये॑न+ ए॒वैन॒म् प्रण॑यति ।

भट्टभास्कर-टीका

यस्माच्चायं पूर्वह्रियमाणस्याग्नेः पश्चादग्निहोत्रद्रव्यं हरति तेन भागधेयेन सहित एवाग्निः प्रणीतो भवति ततश्च भागसिद्धेर्निकामना द्वयोर्न भविष्यतीति ॥

मूलम्

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ । सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वता॒स् सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒र् उद्ध॑रति ।

मूलम्

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वता॒स् सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒र् उद्ध॑रति ।

भट्टभास्कर-टीका

2 ब्राह्मण इत्यादि ॥ गतम् । ऋषेरपत्यं आर्षेयः । प्रवर इत्येके । तदपत्यमित्यन्ये । ‘इतश्चानिञः’इति ढक् । ब्राह्मणस्य सर्वदेवतात्वं तदधीनस्थितित्वात् तासाम् ॥

विश्वास-प्रस्तुतिः

अ॒ग्नि॒हो॒त्रम् उ॑प॒साद्यातमि॑तोर् आसीत ।

मूलम्

अ॒ग्नि॒हो॒त्रम् उ॑प॒साद्यातमि॑तोर् आसीत ।

भट्टभास्कर-टीका

3 अग्निहोत्रपुपसाद्येत्यादि ॥ नित्यं अग्निहोत्रं हविः उपसाद्य आतमितोः आग्लानात् यावन्निरुच्छ्वासं आसीत । ‘भावलक्षणे स्थेण्’इत्यादिना ताम्यतेस्तोसुन् ।

विश्वास-प्रस्तुतिः

व्र॒तम् ए॒व ह॒तम् अनु॑-म्रियते ।

मूलम्

व्र॒तम् ए॒व ह॒तम् अनु॑-म्रियते ।

भट्टभास्कर-टीका

आतमितोरासनेन किं करोतीत्याह - व्रतं कर्म हतं अभिनिम्रोचनेन विनष्टं अनुम्रियते स्वयमपि तदनु म्रियते तेनैव हेतुना म्रियत इवायं, यथा लोके कश्चित् स्निग्धं म्रियमाणं अनुम्रियते तत्तुल्यमेतदिति । ‘अनुर्लक्षणे’इति हेतावनोः कर्मप्रवचनीयत्वम् ॥

विश्वास-प्रस्तुतिः

अन्तव्ँ॒ वा ए॒ष आ॒त्मनो॑ गच्छति ।

मूलम्

अन्तव्ँ॒ वा ए॒ष आ॒त्मनो॑ गच्छति ।

मूलम्

यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति ।

विश्वास-प्रस्तुतिः

यस् ताम्य॑त्य्॒ अन्त॑म् ए॒ष य॒ज्ञस्य॑ गच्छति ।

मूलम्

यस् ताम्य॑त्य्॒ अन्त॑म् ए॒ष य॒ज्ञस्य॑ गच्छति ।

मूलम्

यस्या॒ग्निमनु॑द्धृ॒तँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति ॥18॥
पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

विश्वास-प्रस्तुतिः

यस्या॒ग्निम् अनु॑द्धृ॒तँ॒ सूर्यो॒ ऽभि-नि॒म्रोच॑ति॒ , पुन॑स् स॒मन्य॑ जुहोत्य्॒ अन्ते॑न+ ए॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

मूलम्

यस्या॒ग्निम् अनु॑द्धृ॒तँ॒ सूर्यो॒ ऽभि-नि॒म्रोच॑ति॒ , पुन॑स् स॒मन्य॑ जुहोत्य्॒ अन्ते॑न+ ए॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

भट्टभास्कर-टीका

4 अन्तं वा एष इत्यादि ॥ अस्यात्मा च समाप्यते यज्ञश्च तमनादभिनिम्रोचनाच्च । तत्र पुनस्समन्यहोमात् आत्मनोऽन्तेन सह यज्ञस्यान्तो निष्कृतः समाहितो भवति । समननं उच्छ्वासः ॥

विश्वास-प्रस्तुतिः

वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञङ् गृ॑ह्णाति ।

मूलम्

वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञङ् गृ॑ह्णाति ।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति । वा॒रु॒णञ्च॒रुन्निर्व॑पेत् ।

विश्वास-प्रस्तुतिः

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभि-नि॒म्रोच॑ति॒ , वारु॒णञ् च॒रुन् निर्व॑पेत् ।
तेन॑+ ए॒व य॒ज्ञन् निष्क्री॑णीते ।

मूलम्

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभि-नि॒म्रोच॑ति॒ , वारु॒णञ् च॒रुन् निर्व॑पेत् ।
तेन॑+ ए॒व य॒ज्ञन् निष्क्री॑णीते ।

भट्टभास्कर-टीका

5 वरुणो वा इत्यादि ॥ वारुणत्वाद्रात्रेः । वारुणेन चरुणा वरुणगृहीतो यज्ञः ततो निष्क्रीतो भवति ॥

विश्वास-प्रस्तुतिः

नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ् कामयते ।
नि गार्ह॑पत्य आहव॒नीय॑म् +++(कामयते)+++।

मूलम्

नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यङ् कामयते ।
नि गार्ह॑पत्य आहव॒नीय॑म् +++(कामयते)+++।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒तमाज्य॑म्पु॒रस्ता॑द्धरेत् ॥19॥

विश्वास-प्रस्तुतिः

यस्य +अ॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्यु॑देति॑ चतुर्गृही॒तम् आज्य॑म् पु॒रस्ता॑द् धरेत् ॥19॥

अथा॒ग्निम् +++(हरेत्)+++ ।
अथा॑ग्निहो॒त्रम् +++(हरेत्)+++ ।

मूलम्

यस्य +अ॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्यु॑देति॑ चतुर्गृही॒तम् आज्य॑म् पु॒रस्ता॑द् धरेत् ॥19॥

अथा॒ग्निम् +++(हरेत्)+++ ।
अथा॑ग्निहो॒त्रम् +++(हरेत्)+++ ।

मूलम्

यदाज्य॑म्पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ । यदाज्य॑म् ।

विश्वास-प्रस्तुतिः

यद् आज्य॑म् पु॒रस्ता॒द् धर॑त्य् ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॒ यद् आज्य॑म् ।
प्रि॒येण+ ए॒वैन॒न् धाम्ना॒ सम॑र्धयति ।

मूलम्

यद् आज्य॑म् पु॒रस्ता॒द् धर॑त्य् ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॒ यद् आज्य॑म् ।
प्रि॒येण+ ए॒वैन॒न् धाम्ना॒ सम॑र्धयति ।

मूलम्

यद॒ग्निम्पूर्वँ॒ हर॒त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैन॒म्प्रण॑यति ।

विश्वास-प्रस्तुतिः

यद् अ॒ग्निम् पूर्वँ॒ हर॒त्य् अथा॑ग्निहो॒त्रम् भ॑ाग॒धेये॑न+ ए॒वैन॒म् प्रण॑यति ।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् ।

मूलम्

यद् अ॒ग्निम् पूर्वँ॒ हर॒त्य् अथा॑ग्निहो॒त्रम् भ॑ाग॒धेये॑न+ ए॒वैन॒म् प्रण॑यति ।
ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् ।

मूलम्

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः॑ ॥20॥
सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒रुद्ध॑रति ।

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वता॒स्, सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒र् उद्ध॑रति ।

मूलम्

ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वता॒स्, सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒र् उद्ध॑रति ।

भट्टभास्कर-टीका

6 नि वा एतस्येत्यादि ॥ अनुद्धृतमग्निं अभिलक्ष्य सूर्य उदेति । हिरण्यस्थाने चतुर्गृहीतमाज्यम् । समानमितरत् पूर्वेण ॥

विश्वास-प्रस्तुतिः

परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति ।

मूलम्

परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति ।

भट्टभास्कर-टीका

7 पराची वा इत्यादि ॥ पराची परागता अपुनरावृत्ता व्युच्छन्ती तमसो विवासयित्री उषाः व्युच्छति विभाति अपुनरावृत्तैव व्युच्छति न पुनरावर्तते उषाः तस्मिन्नेवाहोरात्रे म्रियत इति यावत् ।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । उ॒षाᳵ के॒तुना॑ जुषताम् । य॒ज्ञन्दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तमँ॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात् ।

विश्वास-प्रस्तुतिः

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देत्य् , “उ॒षाᳵ के॒तुना॑ जुषताय्ँ य॒ज्ञन् दे॒वेभि॑र् इन्वि॒तम् ।
दे॒वेभ्यो॒ मधु॑मत्तमँ॒ स्वाहे"ति॑ प्र॒त्यङ् नि॒षद्याज्ये॑न जुहुयात् ।

मूलम्

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देत्य् , “उ॒षाᳵ के॒तुना॑ जुषताय्ँ य॒ज्ञन् दे॒वेभि॑र् इन्वि॒तम् ।
दे॒वेभ्यो॒ मधु॑मत्तमँ॒ स्वाहे"ति॑ प्र॒त्यङ् नि॒षद्याज्ये॑न जुहुयात् ।

भट्टभास्कर-टीका

यस्येत्यादि गतम् । अथ समाधानं ‘उषाः केतुना’ इत्यनया गायत्र्या पुरस्तात्प्रङ्मुख आसित्वा आज्येन चतुर्गृहीतेन जुहुयात् । ततः प्रतीचीं पुनरावृत्तां उपसंविवासयति न म्रियत इति यावत् ।

विश्वास-प्रस्तुतिः

प्र॒तीची॑म् ए॒वास्मै॒ विवा॑सयति ।

अ॒ग्नि॒हो॒त्रम् उ॑प॒साद्यातमि॑तोर् आसीत ।
व्र॒तम् ए॒व ह॒तम् अनु॑ म्रियते ।
अन्तव्ँ॒ वा ए॒ष आ॒त्मनो॑ गच्छति ॥21॥

मूलम्

प्र॒तीची॑म् ए॒वास्मै॒ विवा॑सयति ।

अ॒ग्नि॒हो॒त्रम् उ॑प॒साद्यातमि॑तोर् आसीत ।
व्र॒तम् ए॒व ह॒तम् अनु॑ म्रियते ।
अन्तव्ँ॒ वा ए॒ष आ॒त्मनो॑ गच्छति ॥21॥

मूलम्

यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति ।

विश्वास-प्रस्तुतिः

यस् ताम्य॑त्य्॒ अन्त॑म् ए॒ष य॒ज्ञस्य॑ गच्छति ।

मूलम्

यस् ताम्य॑त्य्॒ अन्त॑म् ए॒ष य॒ज्ञस्य॑ गच्छति ।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । पुन॑स्स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

विश्वास-प्रस्तुतिः

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देति॒ पुन॑स् स॒मन्य॑ जुहोत्य्॒ अन्ते॑न+ ए॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

मूलम्

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देति॒ पुन॑स् स॒मन्य॑ जुहोत्य्॒ अन्ते॑न+ ए॒वान्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ।

भट्टभास्कर-टीका

विवासनं व्युष्टिः । अग्निहोत्रमुपसाद्येत्यादि । समानम् ॥ मन्त्रार्थस्तु - उषाः व्युष्टिः केतुना आदित्येन सह जुषतां यज्ञं देवेभिः देवैः इन्वितं प्रीणितम् । ‘इवि प्रीणने’देवेभ्यो मधुमत्तमं मधुररसवत्तमं स्वाहा स्वाहुतमिदमस्तु अभ्युदयापराधशमनायेति ॥

विश्वास-प्रस्तुतिः

मि॒त्रो वा ए॒तस्य॑ य॒ज्ञङ् गृ॑ह्णाति ।

मूलम्

मि॒त्रो वा ए॒तस्य॑ य॒ज्ञङ् गृ॑ह्णाति ।

मूलम्

यस्या॒ग्निमनु॑द्धृतँ॒ सूर्यो॒ऽभ्यु॑देति॑ । मै॒त्रञ्च॒रुन्निर्व॑पेत् ।

विश्वास-प्रस्तुतिः

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देति॑ मै॒त्रञ् च॒रुन् निर्व॑पेत् ।
तेन॑+ ए॒व य॒ज्ञन् निष्क्री॑णीते ।

मूलम्

यस्या॒ग्निम् अनु॑द्धृतँ॒ सूर्यो॒ ऽभ्य् उ॑देति॑ मै॒त्रञ् च॒रुन् निर्व॑पेत् ।
तेन॑+ ए॒व य॒ज्ञन् निष्क्री॑णीते ।

भट्टभास्कर-टीका

8 मित्रो वा इत्यादि ॥ मैत्रताशब्दः । [ मैत्रताचरोर्विशेषः ।] गतमन्यत् ॥

विश्वास-प्रस्तुतिः

यस्या॑हव॒नीये ऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये॑त् ॥22॥

मूलम्

यस्या॑हव॒नीये ऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये॑त् ॥22॥

भट्टभास्कर-टीका

9 यस्याहवनीय इत्यादि ॥ उद्वानं नाशः ।

मूलम्

यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्ह॑पत्य॒म्मन्थे॑त् । विच्छि॑न्द्यात् ।

विश्वास-प्रस्तुतिः

यद् आ॑हव॒नीय॒म् अनु॑द्वाप्य॒ गार्ह॑पत्यम् मन्थे॒द् विच्छि॑न्द्यात् ।

मूलम्

यद् आ॑हव॒नीय॒म् अनु॑द्वाप्य॒ गार्ह॑पत्यम् मन्थे॒द् विच्छि॑न्द्यात् ।

भट्टभास्कर-टीका

विच्छिन्द्यादिति । अग्न्यभावेन यज्ञविच्छेदस्स्यात् ।

विश्वास-प्रस्तुतिः

भ्रातृ॑व्यम् अस्मै जनयेत् ।

मूलम्

भ्रातृ॑व्यम् अस्मै जनयेत् ।

भट्टभास्कर-टीका

भ्रातृव्यं शत्रुं च अस्मै यजमानाय जनयेत् अनुद्वातस्याप्याहवनीयस्य यज्ञविच्छेदहेतोरवस्थितत्वात् ।

मूलम्

यद्वै य॒ज्ञस्य॑ वास्त॒व्य॑ङ्क्रि॒यते॑ । तदनु॑ रु॒द्रोऽव॑चरति ।

विश्वास-प्रस्तुतिः

यद् वै “य॒ज्ञस्य॑ वास्त॒व्य॑ङ् क्रि॒यते॒” तद् अनु॑ रु॒द्रो ऽव॑-चरति ।

मूलम्

यद् वै “य॒ज्ञस्य॑ वास्त॒व्य॑ङ् क्रि॒यते॒” तद् अनु॑ रु॒द्रो ऽव॑-चरति ।

भट्टभास्कर-टीका

कथं तस्याहवनीयस्य यज्ञविच्छेदहेतुत्वं भ्रातृव्यजनकत्वं वा? तत्राह - यद्वा इति । यत् खलु यज्ञस्य वास्तव्यं लौकिकं क्रियते शास्त्रीयस्य स्वरूपस्याभावेन वस्तुनि भवं वास्तव्यं तादृशं यद्यज्ञस्य क्रियते तदनु तेनैव हेतुना रुद्रोऽवचरति अवेत्य अपकारं करोति योनिविनाशेन आहवनीयस्य विच्छेदहेतुना, तस्माद्यज्ञं विच्छिन्द्यात् भ्रातृव्यं च जनयेदिति । रुद्रापचाराभिप्रायेण भ्रातृव्यं जनयेदित्युक्तं एवमाहवनीये अनुद्वाते गार्हपत्ये उद्वाते अनर्थहेतुत्वमुक्तम् ।

मूलम्

यत्पूर्व॑मन्वव॒स्येत् । वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत ।

विश्वास-प्रस्तुतिः

यत् पूर्व॑म् अन्व् अव॒स्येद् वा॑स्त॒व्य॑म् अ॒ग्निम् उपा॑सीत ।

मूलम्

यत् पूर्व॑म् अन्व् अव॒स्येद् वा॑स्त॒व्य॑म् अ॒ग्निम् उपा॑सीत ।

भट्टभास्कर-टीका

अथ यदुक्तं ‘यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेत्’इति तस्यापि दुष्टतामिदानीं समर्थयते - यत्पूर्वमित्यादि । अथ यदि तादृशं पूर्वं आहवनीयं अनुलक्ष्य विद्यमान एव तस्मिन् अवस्येत् मन्थनादिकमाचरेत् वास्तव्यं एव अग्निमुपासीत उत्पादयेत् । अनुगतेऽप्याहवनीये अग्निररणिं गच्छति ‘अरणी वाव गच्छति’इति दर्शनात् । अन्यया तु मथितोपि वास्तव्यः स्यात् लौकिकीमन्थनजन्मैव स्यात् ।

विश्वास-प्रस्तुतिः

रु॒द्रो॑ ऽस्य प॒शून् घातु॑कस् स्यात् ।

मूलम्

रु॒द्रो॑ ऽस्य प॒शून् घातु॑कस् स्यात् ।

भट्टभास्कर-टीका

ततो रुद्रोऽस्य पशून् घातुकस्स्यात् ।

मूलम्

आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्यम्मन्थेत् ॥23॥

विश्वास-प्रस्तुतिः

आ॒ह॒व॒नीय॑म् उ॒द्वाप्य॑ गार्ह॑पत्यम् मन्थेत् ॥23॥

मूलम्

आ॒ह॒व॒नीय॑म् उ॒द्वाप्य॑ गार्ह॑पत्यम् मन्थेत् ॥23॥

भट्टभास्कर-टीका

तस्मात् आहवनीयमुद्वाप्य गार्हपत्यं मन्थेत् इति । ततः प्राञ्चमाहवनीयं प्रणीय कर्म प्रवर्तयेत् ॥

विश्वास-प्रस्तुतिः

“इ॒तᳶ प्र॑थ॒मञ् ज॑ज्ञे अ॒ग्निः ।
स्वाद् योने॒र् अधि॑ जा॒तवे॑दाः ।
स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या ।
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हतु प्रजा॒नन्नि"ति॑ ।

मूलम्

“इ॒तᳶ प्र॑थ॒मञ् ज॑ज्ञे अ॒ग्निः ।
स्वाद् योने॒र् अधि॑ जा॒तवे॑दाः ।
स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या ।
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हतु प्रजा॒नन्नि"ति॑ ।

भट्टभास्कर-टीका

10 इतः प्रथममिति मन्थनमन्त्रः समपङ्क्तिः [अस्तारपङ्क्तिः] । चतुष्पदा वा पुरस्ताज्ज्योतिस्त्रिष्टुप् इत्येके ॥ इतस्स्वाद्योनेरधि जातवेदाः अग्निः प्रथमं जज्ञे । स गायत्र्यादिभिस्सहितः प्रजानन् प्रकर्षेण जानन् देवेभ्यो हव्यं वहत्विति ॥

विश्वास-प्रस्तुतिः

छन्दो॑भिर् ए॒वैनँ॒ स्वाद् योने॒ᳶ प्रज॑नयति ।
गार्ह॑पत्यम् मन्थति ।

मूलम्

छन्दो॑भिर् ए॒वैनँ॒ स्वाद् योने॒ᳶ प्रज॑नयति ।
गार्ह॑पत्यम् मन्थति ।

भट्टभास्कर-टीका

11 छन्दोभिरेवेत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

गार्ह॑पत्यव्ँ॒ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्ते ।

मूलम्

गार्ह॑पत्यव्ँ॒ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्ते ।

भट्टभास्कर-टीका

12 गार्हपत्यं मन्थतीति पुनर्विधानं मन्त्रविशेषेणाभिमन्त्रणविधानार्थम् ॥ गार्हपत्यमनु गार्हपत्येन हेतुना आहिताग्निं पशव उपसंगच्छन्ते । सङ्गतिकरणे आत्मनेपदम् ।

मूलम्

स यदु॒द्वाय॑ति । तदनु॑ प॒शवोऽप॑ क्रामन्ति ।

विश्वास-प्रस्तुतिः

स यद् उ॒द्वाय॑ति॒ तद् अनु॑ प॒शवो ऽप॑ क्रामन्ति ।

मूलम्

स यद् उ॒द्वाय॑ति॒ तद् अनु॑ प॒शवो ऽप॑ क्रामन्ति ।

भट्टभास्कर-टीका

तदनु तेनैवोद्वानेन हेतुना ।

मूलम्

इ॒षे र॒य्यै र॑मस्व ॥24॥
सह॑से द्यु॒म्नाय॑ । ऊ॒र्जेऽपत्या॒येत्या॑ह ।

विश्वास-प्रस्तुतिः

“इ॒षे र॒य्यै र॑मस्व॒ सह॑से द्यु॒म्नाय॑ , ऊ॒र्जे ऽपत्या॒ये"त्य् आ॑ह ।

मूलम्

“इ॒षे र॒य्यै र॑मस्व॒ सह॑से द्यु॒म्नाय॑ , ऊ॒र्जे ऽपत्या॒ये"त्य् आ॑ह ।

मूलम्

प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति ।

विश्वास-प्रस्तुतिः

प॒शवो॒ वै र॒यिᳶ प॒शून् ए॒वास्मै॑ रमयति ।

मूलम्

प॒शवो॒ वै र॒यिᳶ प॒शून् ए॒वास्मै॑ रमयति ।

भट्टभास्कर-टीका

तस्मात्तं मथितमग्निं अभिमन्त्रयते - इषे रम्ये रमस्वेति । गायत्री विशेषोऽयं यजुरित्येके । इषे अन्नाय रय्यै धनाय सहसे बलाय द्युम्नाय यशसे ऊर्जे रसाय क्षीराय पत्याय पतित्वाय । भावे छन्दसो यत् । एतानि यथा स्युरिति मयि रमस्व हे अग्ने! अनेनाभिमन्त्रणेन अस्मै यजमानाय पशून्रमयति ॥

विश्वास-प्रस्तुतिः

“सा॒र॒स्व॒तौ त्वोत्सौ॒ समि॑न्धाता॒मि"त्य् आ॑ह ।

मूलम्

“सा॒र॒स्व॒तौ त्वोत्सौ॒ समि॑न्धाता॒मि"त्य् आ॑ह ।

मूलम्

ऋ॒क्सा॒मे वै सा॑रस्व॒तावुत्सौ॑ । ऋ॒क्सा॒माभ्या॑मे॒वैनँ॒ समि॑न्धे ।

विश्वास-प्रस्तुतिः

“ऋ॒क्सा॒मे वै सा॑रस्व॒ताव् उत्सौ॑”+ ऋ॒क्सा॒माभ्या॑म् ए॒वैनँ॒ समि॑न्धे ।

मूलम्

“ऋ॒क्सा॒मे वै सा॑रस्व॒ताव् उत्सौ॑”+ ऋ॒क्सा॒माभ्या॑म् ए॒वैनँ॒ समि॑न्धे ।

भट्टभास्कर-टीका

13 अथोपसमिन्धे - सारस्वतौ त्वेति विराजा द्विपदया ॥ केचिद्द्वौ मन्त्रावाहुः । ऋक्सामे वै सारस्वतावुत्सौ सरस्वत्या वाचा उत्पन्नौ उत्स्यन्दनौ अभिमतानां तौ त्वा समिन्धातां संदीपयेताम् ।

विश्वास-प्रस्तुतिः

“स॒म्राड॑सि” “वि॒राड॒सी"त्य् आ॑ह ।

मूलम्

“स॒म्राड॑सि” “वि॒राड॒सी"त्य् आ॑ह ।

मूलम्

र॒थ॒न्त॒रव्ँ वै स॒म्राट् । बृ॒हद्वि॒राट् ॥25॥
ताभ्या॑मे॒वैनँ॒ समि॑न्धे ।

विश्वास-प्रस्तुतिः

र॒थ॒न्त॒रव्ँ वै स॒म्राट् ,बृ॒हद् वि॒राट् , ताभ्या॑म् ए॒वैनँ॒ समि॑न्धे ।

मूलम्

र॒थ॒न्त॒रव्ँ वै स॒म्राट् ,बृ॒हद् वि॒राट् , ताभ्या॑म् ए॒वैनँ॒ समि॑न्धे ।

भट्टभास्कर-टीका

हे अग्ने! सम्राट् संहतदीप्तिस्त्वं असि । विराट् विविधदीप्तिश्च असि । रथन्तरं बृहच्चाग्ने तवैव यत् सम्राट्त्वविराट्त्वहेतुस्तुतिरूपत्वात्ताभ्यां अभेद उपचर्यते ॥

विश्वास-प्रस्तुतिः

वज्रो॒ वै च॒क्रम् ।
वज्रो॒ वा ए॒तस्य॑ य॒ज्ञव्ँ विच्छि॑नत्ति ।

मूलम्

वज्रो॒ वै च॒क्रम् ।
वज्रो॒ वा ए॒तस्य॑ य॒ज्ञव्ँ विच्छि॑नत्ति ।

मूलम्

यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्या॒दुद्ध॑रेत् ।

विश्वास-प्रस्तुतिः

यस्यानो॑ वा॒ रथो॑ वा ऽन्त॒रा ऽग्नी यात्य् आ॑हव॒नीय॑म् उ॒द्वाप्य॑ गार्ह॑पत्या॒द् उद्ध॑रेत् ।

मूलम्

यस्यानो॑ वा॒ रथो॑ वा ऽन्त॒रा ऽग्नी यात्य् आ॑हव॒नीय॑म् उ॒द्वाप्य॑ गार्ह॑पत्या॒द् उद्ध॑रेत् ।

भट्टभास्कर-टीका

14 वज्रो वा इत्यादि ॥ अग्न्योर्मध्ये अनआदिगमने वज्रात्मकं चक्रं यज्ञं विच्छिनत्ति । तदानीमाहवनीयमुद्वाप्य गार्हपत्यादुद्धरेत् - यदग्ने पूर्वमिति त्रिष्टुभा, जगत्या वा ।

विश्वास-प्रस्तुतिः

“यद् अ॑ग्ने॒ पूर्व॒म् प्रभृ॑तम् प॒दँ हि ते॑ ।
सूर्य॑स्य र॒श्मीन् अन्वा॑त॒तान॑ ।
तत्र॑ रयि॒ष्ठाम् अनु॒ सम्भ॑रै॒तम् ।
सन्न॑स् सृज सुम॒त्या वाज॑व॒त्ये"ति॑ ॥26॥

मूलम्

“यद् अ॑ग्ने॒ पूर्व॒म् प्रभृ॑तम् प॒दँ हि ते॑ ।
सूर्य॑स्य र॒श्मीन् अन्वा॑त॒तान॑ ।
तत्र॑ रयि॒ष्ठाम् अनु॒ सम्भ॑रै॒तम् ।
सन्न॑स् सृज सुम॒त्या वाज॑व॒त्ये"ति॑ ॥26॥

भट्टभास्कर-टीका

हे अग्ने! ते तव यत्पदं पूर्वं प्रभृतं प्रकर्षेण संभृतं प्रभूतं वा पद्यते प्राप्यत इति पदं यज्ञं सूर्यस्य रश्मीन् अनु लक्षीकृत्य आततान विस्तीर्णमभूत् ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’इति । तत्र पदे एतं यज्ञं अनु सम्भर अनुक्रमेण स्थापय रयिष्ठां धनसाधनत्वेन तत्र स्थिताम् । ‘क्विप्च’इति क्विप् । सः नः अस्मान् संसृज संयोजय सुमत्या कल्याणबुद्ध्या अनुग्रहबुद्ध्या वाजवत्या अन्नेन देयेन तद्वत्या ॥

विश्वास-प्रस्तुतिः

पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञम् अनु॒ सन्त॑नोति ।

मूलम्

पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञम् अनु॒ सन्त॑नोति ।

भट्टभास्कर-टीका

15 पूर्वेणेति ॥ गतम् । विच्छिन्नेन यज्ञेन अविच्छिन्नं यज्ञं अनुसंतनोति ॥

विश्वास-प्रस्तुतिः

“त्वम॑ग्ने स॒प्रथा॑ अ॒सी"त्य् आ॑ह ।

मूलम्

“त्वम॑ग्ने स॒प्रथा॑ अ॒सी"त्य् आ॑ह ।

भट्टभास्कर-टीका

16 त्वमग्ने सप्रथा असीत्युद्धरणमन्त्रः । केयिदुपस्थानमन्त्रमाचक्षते । इयं गायत्री ॥ हे अग्ने! त्वं सप्रथाः सविस्तारः प्रथितकीर्तिः असि । जुष्टः सेवितः सर्वैः प्रीतो वा सर्वदा । होता देवानामाह्वाता । वरेण्यः सर्वैः वरणीयः भजनीयः । त्वया हेतुना सर्वे यज्ञं वितन्वते विस्तारयन्तीति ।

मूलम्

अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑नोति ।

विश्वास-प्रस्तुतिः

अ॒ग्निस् सर्वा॑ दे॒वता॑ , दे॒वता॑भिर् ए॒व य॒ज्ञँ सन्त॑नोति ।

मूलम्

अ॒ग्निस् सर्वा॑ दे॒वता॑ , दे॒वता॑भिर् ए॒व य॒ज्ञँ सन्त॑नोति ।

भट्टभास्कर-टीका

अग्निरित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पेत् ।
अ॒ग्निम् ए॒व प॑थि॒कृतँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

मूलम्

अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पेत् ।
अ॒ग्निम् ए॒व प॑थि॒कृतँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

भट्टभास्कर-टीका

17 अग्नये पथिकृत इति ॥ प्रायश्चित्तार्थम् ।

विश्वास-प्रस्तुतिः

स ए॒वैनय्ँ॑ य॒ज्ञिय॒म् पन्था॒म् अपि॑-नयति ।

मूलम्

स ए॒वैनय्ँ॑ य॒ज्ञिय॒म् पन्था॒म् अपि॑-नयति ।

भट्टभास्कर-टीका

यज्ञियं यज्ञार्हम् । ‘यज्ञर्त्विम्भयां घखञौ’। पन्थां पन्थानं ‘छन्दस्यपि दृश्यते’इत्यात्वम् । अपिनयति संयोजयति ।

विश्वास-प्रस्तुतिः

अ॒न॒ड्वान् दक्षि॑णा ।
व॒ही ह्य् ए॑ष समृ॑द्ध्यै ॥27॥

मूलम्

अ॒न॒ड्वान् दक्षि॑णा ।
व॒ही ह्य् ए॑ष समृ॑द्ध्यै ॥27॥

भट्टभास्कर-टीका

अनड्वानिति । वही वहनप्रदेशवान् तस्मात् समृद्धयै भवति कर्मणः अपेक्षितवोढृलाभात् ॥

इति चतुर्थोऽनुवाकः ॥