०३ दोहप्रायश्चित्तम्‌ (अग्निहोत्रे)

सोमादिब्राह्मणम्

विश्वास-प्रस्तुतिः

उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी ।
आयु॑र्य॒ज्ञप॑तावधात् ।
इन्द्रा॑य कृण्व॒ती भा॒गम् ।
मि॒त्राय॒ वरु॑णाय च ।

मूलम्

उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी ।
आयु॑र्य॒ज्ञप॑तावधात् ।
इन्द्रा॑य कृण्व॒ती भा॒गम् ।
मि॒त्राय॒ वरु॑णाय च ।

भट्टभास्कर-टीका

1 अतःपरमग्निहोत्रप्रायश्चित्तब्राह्मणमनुवाकद्वयमग्न्यार्षेयम् । तत्र यद्यग्निहोत्र्युपसृष्टा निषीदेत्तामुत्थापयेत् - उदस्थाद्देवीति । पुरस्ताद्बृहतीयम् ॥ उदस्थात् उत्तिष्ठतु देवी क्षीरदानादिमती अदितिः स्वयं पृथिवी । अदीना वा । विश्वरूपी नानारूपी । गौरादिलक्षणो ङीष् ।
यज्ञपतौ यजमाने आयुरधात् दधातु निषीदनापराधतो माभूदायुषो विच्छेदः तव । कथमिति चेत् इन्द्राय मित्राय वरुणाय च भागं कृण्वती कुर्वती अविकलं कर्म निर्वर्त्य आयुर्दधातु । तिष्ठतेर्दधातेश्छान्दसो लुङ् ॥

विश्वास-प्रस्तुतिः

इ॒यव्ँ वा अ॑ग्निहो॒त्री ।
इ॒यव्ँ वा ए॒तस्य॒ निषी॑दति ।

मूलम्

इ॒यव्ँ वा अ॑ग्निहो॒त्री ।
इ॒यव्ँ वा ए॒तस्य॒ निषी॑दति ।

मूलम्

यस्या॑ग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ ।

विश्वास-प्रस्तुतिः

यस्या॑ग्निहो॒त्री नि॒षीद॑ति॒ ताम् उत्था॑पये॒द् “उद॑स्थाद् दे॒व्य् अदि॑तिर्” इति॑ ।

मूलम्

यस्या॑ग्निहो॒त्री नि॒षीद॑ति॒ ताम् उत्था॑पये॒द् “उद॑स्थाद् दे॒व्य् अदि॑तिर्” इति॑ ।

भट्टभास्कर-टीका

2 अथैतस्य मन्त्रस्य ब्राह्मणम् - इयं वा इति ॥ इयं पृथिव्येव स्वयं अग्निहोत्री अग्नेर्हुताज्जाता गौरग्निहोत्रार्था अग्निहोत्री । पूर्ववत् ङीष् ।
पृथिव्येव एतस्य यजमानस्य निषीदति फलप्रदाने वैमुख्यं भजते यस्याग्निहोत्री दोहाय उपस्थापिता निषीदति । तस्मादनेन मन्त्रेणोत्थापनात् पृथिव्येवोत्थापिता भवति ॥

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै दे॒व्य् अदि॑तिः ॥11॥
इ॒माम् ए॒वास्मा॒ उत्था॑पयति ।

मूलम्

इ॒यव्ँ वै दे॒व्य् अदि॑तिः ॥11॥
इ॒माम् ए॒वास्मा॒ उत्था॑पयति ।

मूलम्

आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति ।

विश्वास-प्रस्तुतिः

“आयु॑र् य॒ज्ञप॑ताव् अधा॒दि"त्य् आ॑हायु॑र् ए॒वास्मि॑न् दधाति ।

मूलम्

“आयु॑र् य॒ज्ञप॑ताव् अधा॒दि"त्य् आ॑हायु॑र् ए॒वास्मि॑न् दधाति ।

मूलम्

इन्द्रा॑य कृण्व॒ती भा॒गम्मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒य॒जुरे॒वैतत् ।

विश्वास-प्रस्तुतिः

“इन्द्रा॑य कृण्व॒ती भा॒गम् मि॒त्राय॒ वरु॑णाय॒ चे"त्य् आ॑ह यथाय॒जुर् ए॒वैतत् ।

मूलम्

“इन्द्रा॑य कृण्व॒ती भा॒गम् मि॒त्राय॒ वरु॑णाय॒ चे"त्य् आ॑ह यथाय॒जुर् ए॒वैतत् ।

भट्टभास्कर-टीका

3 ‘आयुर्यज्ञपतौ’इत्यादीनि मन्त्राणां पदमवयुत्य स्तुतिरूपाणि ॥ यथा यजुरिति । इन्द्रादिभ्योऽविकलं यागनिर्वृत्तिं यथा मन्त्रो वदति तथा तद्भवत्येव ॥

विश्वास-प्रस्तुतिः

अव॑र्तिव्ँ॒ वा ए॒षैतस्य॑ पा॒प्मान॑म् प्रति॒ख्याय॒ निषी॑दति ।
यस्या॑ग्निहो॒त्र्य् उप॑सृष्टा नि॒षीद॑ति ।

मूलम्

अव॑र्तिव्ँ॒ वा ए॒षैतस्य॑ पा॒प्मान॑म् प्रति॒ख्याय॒ निषी॑दति ।
यस्या॑ग्निहो॒त्र्य् उप॑सृष्टा नि॒षीद॑ति ।

भट्टभास्कर-टीका

4 अवर्तिं वा इति ॥ अवर्तिः अवर्तनं दारिद्र्यं तदात्मानं पाप्मानं प्रतिख्याय प्रतिमुखं दर्शयित्वा प्रत्यग्रं वा स्थापयित्वा प्रत्येकं वा पुत्रादिभ्योपि उत्पाद्य निषीदति यस्य इयं उपसृष्टा निषीदति वत्ससंसृष्टा वत्सेनोपसृष्टा निषीदति ।

विश्वास-प्रस्तुतिः

तान्दु॒ग्ध्वा ब्रा॑ह्म॒णाय॑ दद्यात् ।

मूलम्

तान्दु॒ग्ध्वा ब्रा॑ह्म॒णाय॑ दद्यात् ।

मन्त्रः

भट्टभास्कर-टीका

तामित्यादि । यस्यान्नं अयं यजमानो नाद्यात् न पुनर्भुञ्जति तस्मै ब्राह्मणाय दद्यात् तां गां दुग्ध्वा । तद्दुग्धं वा दद्यादित्येके । तां च दुग्धं चेत्यन्ये ।

मूलम्

यस्यान्न॒न्नाद्यात् । अव॑र्तिम् ए॒वास्मि॑न् पा॒प्मान॒म् प्रति॑मुञ्चति ॥12॥

विश्वास-प्रस्तुतिः

यस्यान्न॒न् नाद्या॒त् अव॑र्तिम् ए॒वास्मि॑न् पा॒प्मान॒म् प्रति॑मुञ्चति ॥12॥

मूलम्

यस्यान्न॒न् नाद्या॒त् अव॑र्तिम् ए॒वास्मि॑न् पा॒प्मान॒म् प्रति॑मुञ्चति ॥12॥

भट्टभास्कर-टीका

प्रतिमुञ्चतीति । पुनरस्मान्मोचनं प्रतिमोचनं, प्रत्येकं वा मोचनम् ।

विश्वास-प्रस्तुतिः

दु॒ग्ध्वा द॑दाति ।
न ह्य् अदृ॑ष्टा॒ दक्षि॑णा दी॒यते॑ ।

मूलम्

दु॒ग्ध्वा द॑दाति ।
न ह्य् अदृ॑ष्टा॒ दक्षि॑णा दी॒यते॑ ।

भट्टभास्कर-टीका

दुग्ध्वेति । दर्शयित्वा हि दक्षिणा दीयते इदं ददामीति । तस्माद्दुग्ध्वैव क्षीरं दद्यात् । त्वमेव दुग्ध्वा भुंक्ष्वेति नानुजानाति । दुग्धदानपक्षे इदम् । गोर्दानपक्षेऽपि दृष्टफलाया एव देवत्वात् क्षीरवत्तां प्रदर्श्य दद्यात् ॥

विश्वास-प्रस्तुतिः

पृ॒थि॒वीव्ँ वा ए॒तस्य॒ पय॒ᳶ प्रवि॑शति ।
यस्या॑ग्निहो॒त्रन् दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।

मूलम्

पृ॒थि॒वीव्ँ वा ए॒तस्य॒ पय॒ᳶ प्रवि॑शति ।
यस्या॑ग्निहो॒त्रन् दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।

भट्टभास्कर-टीका

5 पृथिवीं वा इत्यादि ॥ अग्निहोत्रार्थं द्रव्यं अग्निहोत्रं, तादर्थ्यात्ताच्छब्द्यम् । अग्नये वा होतव्यम् ॥

विश्वास-प्रस्तुतिः

“यद॒द्य दु॒ग्धम्पृ॑थि॒वीमस॑क्त ।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑ ।
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पयो॑ अस्तु॒ तन्मयी” त्य् आ॑ह ।

पय॑ ए॒वात्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते ।

मूलम्

“यद॒द्य दु॒ग्धम्पृ॑थि॒वीमस॑क्त ।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑ ।
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒त्सेषु॒ पयो॑ अस्तु॒ तन्मयी” त्य् आ॑ह ।

पय॑ ए॒वात्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते ।

भट्टभास्कर-टीका

6 दुह्यमानावस्थायां आहुतिमात्रस्य स्थाल्या बहिः पतने ‘यदद्य’इत्यभिमन्त्रणं स्कन्नस्यैव । त्रिष्टुबेषा ॥ यद्दुग्धमद्य अस्मिन् अहनि पृथिवीमसक्त पृथिव्यां सक्तमभूत् यत् च ओषधीः अप्यमरत् अपिगतं अपिसरणं अनुप्रवेशः । यच्च आपोऽ-प्यसरत्, विभक्तिव्यत्ययः । तत् पयो गृहेषु गृहजनेषु अविनष्टं स्थितं अस्तु । यद्वा - निमित्तसप्तम्य एताः, गृहादिनिमित्तं अविनष्टमस्तु । अघ्नियासु गोषु च अस्तु वत्सेषु चास्तु मयि चास्तु ।

विश्वास-प्रस्तुतिः

पय॑ ए॒वात्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते ।

मूलम्

पय॑ ए॒वात्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते ।

भट्टभास्कर-टीका

अनेनाभिमन्त्रणेन आत्मादिषु पयो धत्ते स्थापयत्येव ॥

विश्वास-प्रस्तुतिः

अ॒प उप॑सृजति ॥13॥
अ॒द्भिर् ए॒वैन॑द् आप्नोति ।

मूलम्

अ॒प उप॑सृजति ॥13॥
अ॒द्भिर् ए॒वैन॑द् आप्नोति ।

भट्टभास्कर-टीका

7 तस्मिन्प्रदेशे अप उपसृजति - ‘समुद्रं वः प्रहिणोमि’ इति ॥ अद्भिः हेतुभिः एनत् विनष्टं पय आप्तं भवति ॥

विश्वास-प्रस्तुतिः

यो वै य॒ज्ञस्यार्ते॒ नाना॑र्तँ सँसृ॒जति॑ ।

मूलम्

यो वै य॒ज्ञस्यार्ते॒ नाना॑र्तँ सँसृ॒जति॑ ।

भट्टभास्कर-टीका

8 यो वा इत्यादि ॥ इदानीं दोहकाले स्थालीस्थस्यैकदेशस्य स्कन्दने विशेष उच्यते ।

विश्वास-प्रस्तुतिः

उ॒भे वै ते तर्ह्यार्च्छ॑तः ।

मूलम्

उ॒भे वै ते तर्ह्यार्च्छ॑तः ।

मूलम्

आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । यद्दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।

विश्वास-प्रस्तुतिः

आर्च्छ॑ति॒ खलु॒ वा ए॒तद् अ॑ग्निहो॒त्रय्ँ यद् दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।

मूलम्

आर्च्छ॑ति॒ खलु॒ वा ए॒तद् अ॑ग्निहो॒त्रय्ँ यद् दु॒ह्यमा॑नँ॒ स्कन्द॑ति ।

भट्टभास्कर-टीका

भे अपि ते आर्छतः आर्ते भवत तर्हि तस्मिन्नेव काले आर्तेन अनार्तस्य संसर्गः अनार्तस्याप्यार्ततां आपादयति । आर्तिरयमाङ्पूर्वो विनाशकर्मा । ‘उपसर्गादृति धातौ’इति वृद्धिः, पाघ्रादिना ऋच्छादेशः ।

मूलम्

यद॑भिदु॒ह्यात् । आर्ते॒ नाना॑र्तय्ँ य॒ज्ञस्य॒ सँसृ॑जेत् ।

विश्वास-प्रस्तुतिः

यद् अ॑भिदु॒ह्याद् आर्ते॒ नाना॑र्तय्ँ य॒ज्ञस्य॒ सँसृ॑जेत् ।
तद् ए॒व या॒दृक् की॒दृक् च॑ होत॒व्य॑म् ।

मूलम्

यद् अ॑भिदु॒ह्याद् आर्ते॒ नाना॑र्तय्ँ य॒ज्ञस्य॒ सँसृ॑जेत् ।
तद् ए॒व या॒दृक् की॒दृक् च॑ होत॒व्य॑म् ।

भट्टभास्कर-टीका

किंपनरनार्तमित्याह - यदभिदुह्यादिति । स्कन्नशेषस्य स्थालीस्थस्य उपरि पुनर्दोहोऽभिदोहः, तच्चानार्तं, तस्मादभिदोहं कुर्वन् आर्तेनानार्तं संसृजेत् । तत्र चोक्तो दोषः । तस्मात् स्थालीस्थेन आर्तेन स्तनस्थमनार्तं न संसृजेत् । किन्तु स्थालीस्थं यादृक् कीदृक् च यावत्किंचिद्विद्यते तदेव होतव्यं, न त्वपिदुह्यात् न चार्ताम् ।

विश्वास-प्रस्तुतिः

अथा॒न्यान् दु॒ग्ध्वा पुन॑र् ‌होत॒व्य॑म् ।
अना॑र्तेन+ ए॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥14॥

मूलम्

अथा॒न्यान् दु॒ग्ध्वा पुन॑र् ‌होत॒व्य॑म् ।
अना॑र्तेन+ ए॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥14॥

भट्टभास्कर-टीका

अथास्यां गां दुग्ध्वा अनार्तं पुनर्जुहुयात् । एकं नित्यमितरत् प्रायश्चित्तमिति । एवं कुर्वन् अनार्तेन हविषा यज्ञार्तत्वदोषं निष्करोति समाहितं करोति ॥

विश्वास-प्रस्तुतिः

यद्य् उद्-द्रु॑तस्य॒ स्कन्दे॑त् ।

मूलम्

यद्य् उद्-द्रु॑तस्य॒ स्कन्दे॑त् ।

भट्टभास्कर-टीका

9 उन्नीतस्य स्कन्दने विशेष उच्यते - यद्युद्रुतस्येत्यादिना ॥ उद्द्रवणमुन्नयनम् । उद्द्रुतस्य उन्नीयाहवनीयं प्रति नीयमानस्य यदि स्कन्देत् यावद्दशहोतृपरिसमाप्ति । ‘दशहोतारमनुद्रवति’इति दर्शनान् ।

मूलम्

यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञव्ँविच्छि॑न्द्यात् ।

विश्वास-प्रस्तुतिः

यत् ततो ऽहु॑त्वा॒ पुन॑रे॒याद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।

मूलम्

यत् ततो ऽहु॑त्वा॒ पुन॑रे॒याद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।

भट्टभास्कर-टीका

यत् यदि ततः स्कन्नप्रदेशात् यत्र स्कन्नं तत्प्रदेशात् अहुत्वा एव पुनरेयात् पुनरावर्तेत ततो यज्ञं विच्छिन्द्यात् ।

मूलम्

यत्र॒ स्कन्दे॑त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् ।

विश्वास-प्रस्तुतिः

यत्र॒ स्कन्दे॒त् तन् नि॒षद्य॒ पुन॑र् गृह्णीयात् ।

मूलम्

यत्र॒ स्कन्दे॒त् तन् नि॒षद्य॒ पुन॑र् गृह्णीयात् ।

मूलम्

यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति ।

विश्वास-प्रस्तुतिः

यत्रै॒व स्कन्द॑ति॒ तत॑ ए॒व+ एन॒त् पुन॑र् गृह्णाति ।

मूलम्

यत्रै॒व स्कन्द॑ति॒ तत॑ ए॒व+ एन॒त् पुन॑र् गृह्णाति ।

भट्टभास्कर-टीका

तत् तस्मात् यत्र स्कन्देत् तत्रैव निषद्य आसित्वा स्थाल्यामवशिष्टं पुनर्गृह्णीयात् एवं कुर्वन् ततः स्कन्नप्रदेशात् एनत् स्कन्नं पुनर्गृह्णाति, शुद्धदेशे स्कन्नं तदेव होतव्यमित्येके ।

विश्वास-प्रस्तुतिः

तद् ए॒व या॒दृक् की॒दृक् च॑ होत॒व्य॑म् ।

मूलम्

तद् ए॒व या॒दृक् की॒दृक् च॑ होत॒व्य॑म् ।

भट्टभास्कर-टीका

तस्मात्तदेव यादृक्कीदृक्च यावत्किंचिदस्ति तत् होतव्यम् । एतदेवाग्निहोत्रं स्यादित्याश्मरथ्यः ।

विश्वास-प्रस्तुतिः

अथा॒न्यान् दु॒ग्ध्वा पुन॑र् ‌होत॒व्य॑म् ।

मूलम्

अथा॒न्यान् दु॒ग्ध्वा पुन॑र् ‌होत॒व्य॑म् ।

भट्टभास्कर-टीका

अन्यां दुग्ध्वा पुनर्होतव्यमिति ॥ पूर्ववत् । आलेखनमतिरेषा ।

विश्वास-प्रस्तुतिः

अना॑र्तेन+ ए॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥15॥

मूलम्

अना॑र्तेन+ ए॒वार्तय्ँ॑ य॒ज्ञस्य॒ निष्क॑रोति ॥15॥

भट्टभास्कर-टीका

एवं कुर्वता यज्ञस्यार्तत्वं निष्कृतं भवति ॥

विश्वास-प्रस्तुतिः

वि वा ए॒तस्य॑ य॒ज्ञश् छि॑द्यते ।
यस्या॑ग्निहो॒त्रे॑ ऽधिश्रि॑ते॒ श्वा ऽन्त॒रा धाव॑ति ।

मूलम्

वि वा ए॒तस्य॑ य॒ज्ञश् छि॑द्यते ।
यस्या॑ग्निहो॒त्रे॑ ऽधिश्रि॑ते॒ श्वा ऽन्त॒रा धाव॑ति ।

मूलम्

रु॒द्रᳵ खलु॒ वा ए॒षः । यद॒ग्निः ।

विश्वास-प्रस्तुतिः

रु॒द्रᳵ खलु॒ वा ए॒ष यद् अ॒ग्निः ।

मूलम्

रु॒द्रᳵ खलु॒ वा ए॒ष यद् अ॒ग्निः ।

भट्टभास्कर-टीका

10 वि वा एतस्येत्यादि ॥ अन्तरा गार्हपत्याहवनयियोर्मध्ये ।

मूलम्

यद्गाम॑न्वत्या व॒र्तये॑त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।

विश्वास-प्रस्तुतिः

यद् गाम् अ॑न्वत्या व॒र्तये॑द् रु॒द्राय॑ प॒शून् अपि॑ दध्यात् ।
अ॒प॒शुर् यज॑मानस् स्यात् ।

मूलम्

यद् गाम् अ॑न्वत्या व॒र्तये॑द् रु॒द्राय॑ प॒शून् अपि॑ दध्यात् ।
अ॒प॒शुर् यज॑मानस् स्यात् ।

भट्टभास्कर-टीका

यद्गामन्वित्यादि । यत् यदि यज्ञविच्छेदपरिहाराय गां तदनु तेनैव शुनो गतेन शुनो मार्गमनुसृत्य अत्यावर्तयेत् शुनः पदाक्रमणेन गामावर्तयेत् । ‘यद्वृत्तान्नित्यम्’इति निघाते प्रतिषिद्धे ‘गतिर्गतौ’इति ‘तिङि चोदात्तवति’इति गतीनां निघातः । गामन्वत्या ऋचा श्वानं निवर्तयेदित्येके । तथा कुर्वन्रुद्रात्मनेऽग्नये पशूनपिदध्यात्, ततो यजमानोऽपशुस्स्यात् ।

मूलम्

यद॒पो॑ऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमा॑भ्या॒मपि॑ दध्यात् ।

विश्वास-प्रस्तुतिः

यद् अ॒पो॑ ऽन्व् अतिषि॒ञ्चेद् +अ॑ना॒द्यम् अ॒ग्नेर् आपो॑ ऽना॒द्यम् आ॑भ्या॒म् अपि॑ दध्यात् ।

मूलम्

यद् अ॒पो॑ ऽन्व् अतिषि॒ञ्चेद् +अ॑ना॒द्यम् अ॒ग्नेर् आपो॑ ऽना॒द्यम् आ॑भ्या॒म् अपि॑ दध्यात् ।

भट्टभास्कर-टीका

अथ यत् यदि अपोऽन्वतिषिञ्चेत् शुनो मार्गानुसारेण आक्रम्य सिञ्चेदपः तथा कुर्वन् अग्नेरनाद्यं अभक्ष्यभूताः आपः आभ्यां आहवनीयगार्हपत्याभ्यां अपिदध्यात् उपहारत्वेन दध्यात्,

मूलम्

गार्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दव्ँविष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया॑द्ध्वँ॒सय॒न्नुद्र॑वेत् ।

विश्वास-प्रस्तुतिः

गार्ह॑पत्या॒द् भस्मा॒दाय॑ , “इ॒दव्ँ विष्णु॒र् विच॑क्रम॒” इति॑ वैष्ण॒व्यर्चा ऽऽह॑व॒नीया॑द् ध्वँ॒सय॒न्न् उद्र॑वेत् ।

मूलम्

गार्ह॑पत्या॒द् भस्मा॒दाय॑ , “इ॒दव्ँ विष्णु॒र् विच॑क्रम॒” इति॑ वैष्ण॒व्यर्चा ऽऽह॑व॒नीया॑द् ध्वँ॒सय॒न्न् उद्र॑वेत् ।

भट्टभास्कर-टीका

तस्मादुभयोरपि पक्षयोर्दुष्टत्वात् प्रकारान्तरमाह - गार्हपत्यादिति । आहवनीयात् यावदाहवनीयं भस्म ध्वंसयन् अधः प्रक्षिपन् उद्रवेत् प्राग्गच्छेत् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञेन॑+ ए॒व य॒ज्ञँ सन्त॑नोति ।
भस्म॑ना प॒दम् अपि॑ वपति॒ शान्त्यै॑ ॥ 16॥

मूलम्

य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञेन॑+ ए॒व य॒ज्ञँ सन्त॑नोति ।
भस्म॑ना प॒दम् अपि॑ वपति॒ शान्त्यै॑ ॥ 16॥

भट्टभास्कर-टीका

पदमिति । शुनः पदं भस्मना अपिवपति पूरयति शान्त्यै भवति दोषस्य ॥

इति तृतीयोऽनुवाकः ॥