सोमादिब्राह्मणम्
वैश्वदेवं काण्डम्
विश्वास-प्रस्तुतिः
यु॒वँ सु॒राम॑मश्विना नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒ना शु॑भस्पती इन्द्र॒ङ् कर्म॑स्वावतम् ।
मूलम्
यु॒वँ सु॒राम॑मश्विना नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒ना शु॑भस्पती इन्द्र॒ङ् कर्म॑स्वावतम् ।
भट्टभास्कर-टीका
1 अथ सौत्रामणीशेषो वैश्वदेवं काण्डं एकोऽनुवाकः ॥ तत्र ग्रहाणां याज्यानुवाक्ये - युवं सुराममश्विनेत्यनुष्टुप् भू पुत्रमिवेति त्रिष्टुप् । हे अश्विना! अश्विनौ! । ‘सुपां सुलुक्’ इत्याकारः । युवं युवां सुरामं सुष्ठु रतिहेतुम् । करणे घञ् … । केचिदाहुः - असुरापत्यं आसुर इति । तेषां ताद्वितानुपपत्तिः जातिशब्दत्वात् । येन हेतुना असुरः पिता तेनैव हेतुना पुऽत्रोऽप्यसुरः । यथा - काकाज्जतोऽन्तरेणाप्यपत्यप्रत्ययं काको भवति । अन्ये तु ब्रुवते - असुरशब्दस्यैवायमादिवर्णविकार इति । तदप्ययुक्तं अन्तोदात्तश्रवणात् । असुरशब्दो ह्याद्युदात्तः । तस्मिन् नमुचा सचा समवेतं तस्मिन्मदहेतुत्वेन सर्वदा स्थितम् । क्विपि द्वितीयैकवचनस्य ‘सुपां सुलुक्’ इत्याकारः । ईदृशं रसं विपिपाना विपिबन्तौ युवां हे शुभस्पती! शुभस्य कर्मणः पातारौ । शोभतेः क्विपि षष्ठ्येकवचनस्य ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावेन षष्ठ्यामन्त्रितसमुदायस्य निघातः । तौ युवां कर्मसु पानकर्मसु आवतं रक्षतं तर्पयतं वा, तेन साहैव पिबतमिति यावत् । उपलक्षणत्वात् सरस्वती चेति द्रष्टव्यम् । ब्राह्मणं च भवति - “युवं सुराममश्विनेति सर्वदेवत्ये याज्यानुवाक्ये भवतः” इति । अवतेः ‘छन्दसि लुङ्लङ्लिटः ’ इति लोडर्थे लङ् ॥
विश्वास-प्रस्तुतिः
पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा ।
इन्द्राव॑त॒ङ्कर्म॑णा दँ॒सना॑भिः ।
यत्सु॒राम॒व्व्ँयपि॑ब॒श्शची॑भिः ।
सर॑स्वती त्वा मघवन्नभीष्णात् ।
मूलम्
पु॒त्त्रमि॑व पि॒तरा॑व॒श्विनो॒भा ।
इन्द्राव॑त॒ङ्कर्म॑णा दँ॒सना॑भिः ।
यत्सु॒राम॒व्व्ँयपि॑ब॒श्शची॑भिः ।
सर॑स्वती त्वा मघवन्नभीष्णात् ।
भट्टभास्कर-टीका
2 अथ याज्या - पुत्रमिवेति ॥ पुत्रमिव यथा पितरौ पुत्रं रक्षतः तथा युवां अश्विनौ उभा उभौ उभावपि सह इन्द्रः सरस्वती च आवतं कर्मणा अनेन पानेन । अवतेः पर्वूवच्छान्दसो लङ् । तत्र इन्द्रेत्यामन्त्रितस्य अविद्यमानवत्त्वात् निघाताभावेन आद्युदात्तत्वम् । इन्द्रशब्दस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । केचिदाहुः - इन्द्रमिति वक्तव्ये छान्दसोऽन्त्य लोप इति । तेषामाख्यातस्य निघातप्रसङ्गः । हे इन्द्र! त्वं सुरामं यथोक्तगुणाद्रव्यं दंसनाभिः शचीभिः त्वदीयैः कर्ममिः देवीभिर्वा सह यद्व्यपिबः तत्र विविधं पिबसि । छान्दसे लङि यद्वृत्तयोगान्निधाताभावे अट उदात्तत्वम् । हे मघवन्! त्वा त्वां मन्यामहे सरस्वती च त्वां अभीष्णात् भिषज्यतु तावश्विनावेव । यद्वा - मया भिषज्यया त्वं शचीभिः सुरामं व्यपिबः तया त्वां सरस्वती अश्विनौ च भिषज्यन्तु । भिषजतिपर्यायः षकारान्तोऽन्यो धातुर्द्रष्टव्यः । भिषज्यतेरेव वा अकारादारभ्य लुप्यते । तस्माच्छान्दसे लङि विकरणव्यत्ययेन श्नाप्रत्ययः, वर्णव्यत्ययेन इकारदीर्घत्वम् । अभिपूर्वाद्वा स्नातेः पञ्चमो लकारः । पानसामर्थ्यं शुद्धिः । छान्दसो विकारः । यद्वा - इष आभीक्ष्ण्ये क्रैयादिकः । तस्मादभिपूर्वात् स एव लकारः । त्वामाभीक्ष्ण्येन पानेन प्रवर्तयत्विति । अनयोः पक्षयोः उपसर्गस्य निघातश्छान्दसः ॥
विश्वास-प्रस्तुतिः
अहा॑व्यग्ने ह॒विरा॒स्ये॑ते ।
स्रु॒चीव॑ घृ॒तञ्च॒मू इ॑व॒ सोमः॑ ॥7॥
वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीर॑म् ।
प्र॒श॒स्तन्धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।
मूलम्
अहा॑व्यग्ने ह॒विरा॒स्ये॑ते ।
स्रु॒चीव॑ घृ॒तञ्च॒मू इ॑व॒ सोमः॑ ॥7॥
वा॒ज॒सनिँ॑ र॒यिम॒स्मे सु॒वीर॑म् ।
प्र॒श॒स्तन्धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।
भट्टभास्कर-टीका
3 हुतां हूयमानां वा यजमानोऽनुमन्त्रयते - अहाव्यग्न इति त्रिष्टुप् ॥ हे अग्ने! ते तव आस्ये हविरहावि हुतं स्रुचीव घृतं यथा स्रुचि घृतं निधीयते यथा चमू चमन्यां चमसे सोमो निधीयते । चमसपर्यायश्चमूशब्दः ‘सुपां सुलुक्’ इति सप्तम्यालुक् । ‘ईदूतौ च सप्तम्यर्थे’ इति प्रगृह्य संज्ञा । अथेदानीं त्वयाऽपीत्थं प्रत्युपकर्तव्यमित्याह - त्वमपि अस्मे अस्मभ्यं वाजसनिं अन्नं भजमानम् । ‘छन्दसि वनसन’ इति इन्प्रत्ययः । सुवीरं शोभनपुत्रादिसहितं यशसं सर्वैः पूजितं बृहन्तं महान्त ईदृशं रयिं धनं धेहि देहि अस्मासु वा स्थापय यशसं यशस्करम् । यशश्शब्दात् तत्करोतीति णिजन्तादसुन् । उदात्तनिवृत्तिस्वरेणासुन एवोदात्तत्वम् । यद्वा - अश आदित्वादाचि छान्दसमुपोत्तमस्योदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ ।
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ ।
हृ॒दा म॒तिञ्ज॑नय॒ चारु॑म॒ग्नये॑ ।
मूलम्
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ ।
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ ।
हृ॒दा म॒तिञ्ज॑नय॒ चारु॑म॒ग्नये॑ ।
भट्टभास्कर-टीका
4 यस्मिन्नश्वास इति जगती ॥ यस्मिन् अग्नौ अश्वासः अश्वाः ऋपभासः ऋषभाः उक्षणः उश्वाणः । ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः । वशाः वन्ध्या गावः मेषाः च अश्वमेधादौ आहुताः देवतोद्देशेन दत्ताः यस्मिन् अवसृष्टाः यजमानैः प्रक्षिप्ताः तस्मै कीलालपे अन्नरसपायिने । विचि ‘आतो धातोः’ इत्याकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्. । सोमपृष्ठाय सोमसंस्थाः पृष्ठस्तोत्राणि यस्य तस्मै वेधसे विधात्रे सर्वश्रेयसां ईदृशाय अग्नये हृदा हदयेन अवधानेन मतिं बुद्धिं यजे एनमिति चारुं शोभनां जनय जनयानि । पुरुषव्यत्ययः ॥
विश्वास-प्रस्तुतिः
नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सदो॑ मि॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥8॥
मूलम्
नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सदो॑ मि॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥8॥
भट्टभास्कर-टीका
5 ब्राह्मणो भक्षयति - नाना हि वामिति ॥ त्रिष्टुप् जगती वा । हि यस्मात् वां युवयोः नाना पृथक्पृथक् सदः स्थानं मितं निर्मितं देवहितं देवेभ्यो हितं प्राणेभ्यो वा । ‘चतुर्थीतदर्थ’ इति समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात् मा संसृक्षाथां संसृष्टौ मा भूतम् । हे सोमसुराग्रहौ! परमे व्योमन् प्रकृष्टे आकाशे भक्षणस्थाने । युवां हि पृथिव्यां भवौ तेन युवयोः स्थानं पृथग्भूतमित्याह - त्वं खलु सुरा शुष्मिणी महाबला एष खलु सोमः सुप्रसिद्धविभवः । तस्मात् सङ्गं मागम । अधुना सङ्गे दोषमाह - हे भक्ष! स्वां योनिं स्थानं आविशन् प्रविशन् त्वं मा मां मा हिंसीः संसर्गे हिंसा स्यात्, तस्मादसंकीर्णं त्वया स्थातव्यमिति ॥
विश्वास-प्रस्तुतिः
यदत्र॑ शि॒ष्टँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
मूलम्
यदत्र॑ शि॒ष्टँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
भट्टभास्कर-टीका
6 इतरयोर्भक्षणमन्त्रौ - यदत्र शिष्टमिति त्रिष्टुभौ ॥ यदत्र शिष्टं अवशिष्टं रसिनः रसवतः स्वादो सुतस्य अभिषुतस्य यदिन्द्रो अपिबच्छचीभिः आत्मीयैः कर्मभिः यदपिबत् अत्र यच्छिष्टं तत् तस्य यस्य एकदेशं सोमं राजानं शिवेन शान्तेन मनसा त्वां इह कर्मणि भक्षयामि ॥
विश्वास-प्रस्तुतिः
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दव्ँविश्व॒म्भुव॑नँ॒ समे॑ति ।
अ॒न्त॒रा पूर्व॒मप॑रञ्च के॒तुम् ।
मूलम्
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दव्ँविश्व॒म्भुव॑नँ॒ समे॑ति ।
अ॒न्त॒रा पूर्व॒मप॑रञ्च के॒तुम् ।
भट्टभास्कर-टीका
7 द्वितीया - अहमशृणवं श्रुतवानस्मि वेदादृषिभ्यश्च पितृणां अस्मत्पूर्वपुरुषाणां सम्बन्धिन्यौ देवानां मर्त्यानां च स्रुती । अनावर्तिनो देवीभूता येन यान्ति स देवयानः पन्थाः कश्चित्, येन गता आवर्तिनः पुनरपि मर्त्यलोकमागच्छन्ति पितरः स पितृयाणोऽन्यः पन्थाः । ताभ्यां स्रुतिभ्यां इदं विश्वं भुवनं भूतजातं समेति सङ्गतं भवति, क्व पुनस्ते स्रुती इत्याह - अन्तरा पूर्वं केतुं चिह्नं पृथिवीं अपरं च केतुं दिवम् । अनयोर्मध्ये द्वे एते स्रुती इतोऽमुत्र गच्छताम् । कश्चिदाह – एतयोः पूर्वापरयोर्मध्ये द्वे एते स्रुती इतोऽमुत्र गच्छतां अमुतश्चात्रागच्छताम् । कश्चिदाह – एतयोः पूर्वापरयोर्मध्ये तृतीयं पन्थानं केतुं आदित्यमपि समेति विश्वं भुवनम् ॥
विश्वास-प्रस्तुतिः
यस् ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ॥9॥
यस् ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ।
यस् ते॑ देव वरुण॒ जग॑तीछन्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ।
मूलम्
यस् ते॑ देव वरुण गाय॒त्रछ॑न्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ॥9॥
यस् ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ।
यस् ते॑ देव वरुण॒ जग॑तीछन्दा॒ᳶ पाशः॑ ।
तन् त॑ ए॒तेनाव॑यजे ।
भट्टभास्कर-टीका
8-10 आश्विनपात्रमवभृथे प्रविद्ध्यति - यस्त इति ॥ गायत्र्येषा । हे देव! वरुण! यस्ते तव गायत्र्येव गायत्रं तदेव छन्दो यस्य स गायत्रछन्दाः गायत्रेण छन्दसा उपबृंहितबलः पाशः तं तादृशं ते तव पाशं एतेन पात्रेण अवयजे नाशयामि अवमोचयामि मत्तः । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्’ इत्यण्, विश्वजनादित्वात्तुगभावः । एवमुत्तरयोरपि द्रष्टव्यम् ॥
मूलम्
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते ।
यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते ।
विश्वास-प्रस्तुतिः
सोमो॒ वा ए॒तस्य॑ रा॒ज्यम् आद॑त्ते॒ , यो राजा॒ सन् रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते ।
मूलम्
सोमो॒ वा ए॒तस्य॑ रा॒ज्यम् आद॑त्ते॒ , यो राजा॒ सन् रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते ।
भट्टभास्कर-टीका
11 अथास्मिन्विषये देवसुवां हवींषि विदधाति - सोमो वा इत्यादि ॥ एतस्य राज्यं सोम आदत्ते अपकर्षति यो राजा मुख्यः सन् सोमेन यजते यो वा राज्यः राजभावार्हः स्वयमराजा सोमेन यजते । ‘छन्दसि च’ इति यः ॥
विश्वास-प्रस्तुतिः
दे॒व॒सु॒वाम् ए॒तानि॑ ह॒वीँषि॑ भवन्ति ।
मूलम्
दे॒व॒सु॒वाम् ए॒तानि॑ ह॒वीँषि॑ भवन्ति ।
भट्टभास्कर-टीका
12 देवसुवामित्यादि ॥ ‘अग्नये गृहपतये पुरोडाशमष्टाकपालम्’ इत्यादीनि ।
मूलम्
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति ।
विश्वास-प्रस्तुतिः
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वास् त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति ।
मूलम्
ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वास् त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति ।
भट्टभास्कर-टीका
एतावन्त इति । ‘सविता त्वा प्रसवानां सुवताम्’ इत्यादयो देवानां सवाः देवसम्बन्धीन्यैश्वर्याणि त एवास्मै सोमेन धर्मपतित्वान्तराज्याय सवान् ऐश्वर्याणि प्रयच्छन्ति ।
विश्वास-प्रस्तुतिः
त ए॑न॒म् पुन॑स् सुवन्ते रा॒ज्याय॑ ।
मूलम्
त ए॑न॒म् पुन॑स् सुवन्ते रा॒ज्याय॑ ।
भट्टभास्कर-टीका
ततः त एनं पुनः राज्यलाभाय सुवन्ते अनुजानन्ति ।
विश्वास-प्रस्तुतिः
दे॒व॒सू राजा॑ भवति ॥10॥
मूलम्
दे॒व॒सू राजा॑ भवति ॥10॥
भट्टभास्कर-टीका
ततश्चायं राजा देवसूर्भवति देवैस्सूयते अनुज्ञायते राज्यायेति, कर्मणि क्विप् ॥
इति द्वितायोऽनुवाकः ॥