सोमादिब्राह्मणम्
विश्वास-प्रस्तुतिः
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒र् अध्य् अ॑सृज्यन्त ।
दे॒वाश् चासु॑राश् च ।
मूलम्
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒र् अध्य् अ॑सृज्यन्त ।
दे॒वाश् चासु॑राश् च ।
भट्टभास्कर-टीका
1 अथ ब्राह्मणं सोमार्षेयम् - उभये वा इत्यादि ॥ ‘उभादुदात्तो नित्यम्’ इत्ययच् । उदात्तवचनसामर्थ्यात् आद्युदात्तत्वम् ।
मूलम्
तान्न व्य॑जानात् । इ॒मे॑ऽन्य इ॒मे॑ऽन्य इति॑ ।
विश्वास-प्रस्तुतिः
तान् न व्य॑जानाद् “इ॒मे॑ ऽन्य इ॒मे॑ ऽन्य” इति॑ ।
मूलम्
तान् न व्य॑जानाद् “इ॒मे॑ ऽन्य इ॒मे॑ ऽन्य” इति॑ ।
भट्टभास्कर-टीका
तान्न व्यजानात् इमे देवा इमे असुरा इति ॥
विश्वास-प्रस्तुतिः
स दे॒वान् अँ॒शून् अ॑करोत् ।
मूलम्
स दे॒वान् अँ॒शून् अ॑करोत् ।
भट्टभास्कर-टीका
2 स इत्यादि ॥ अंशून् सोमलतावयवान् देवानकरोत् विवेकार्थं ताद्रूप्येण स्थापयामास ।
विश्वास-प्रस्तुतिः
तान् अ॒भ्य॑षुणोत् ।
मूलम्
तान् अ॒भ्य॑षुणोत् ।
भट्टभास्कर-टीका
अथ तान् देवात्मकानंशून् अभ्यषुणोत् ।
विश्वास-प्रस्तुतिः
तान् प॒वित्रे॑णापुनात् ।
मूलम्
तान् प॒वित्रे॑णापुनात् ।
भट्टभास्कर-टीका
पवित्रेण दशापवित्रेण च अपुनात् ।
विश्वास-प्रस्तुतिः
तान् प॒रस्ता॑त् प॒वित्र॑स्य॒ व्य॑गृह्णात् ।
मूलम्
तान् प॒रस्ता॑त् प॒वित्र॑स्य॒ व्य॑गृह्णात् ।
भट्टभास्कर-टीका
अथ तान् अभिष्टुतान् देवात्मकान् ऋतुसम्भूतान् परस्तात् स्थितस्य पवित्रस्य सम्बन्धिनोऽधस्तात् स्थितान् व्यगृह्णात् पृथक्पृथक् गृहीतवान् तत्तद्देवतारूपेण स्थापितवान् ।
विश्वास-प्रस्तुतिः
ते ग्रहा॑ अभवन् ।
तद् ग्रहा॑णाङ् ग्रह॒त्वम् ॥1॥
मूलम्
ते ग्रहा॑ अभवन् ।
तद् ग्रहा॑णाङ् ग्रह॒त्वम् ॥1॥
भट्टभास्कर-टीका
अथ ते तथा गृहीता देवा ग्रहा अभवन् । एवं गृहीतत्वात् ग्रहत्वं तेषाम् ।
मूलम्
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । यद्ग्रहाः॑ ।
विश्वास-प्रस्तुतिः
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते॒ यद् ग्रहाः॑ ।
मूलम्
दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते॒ यद् ग्रहाः॑ ।
भट्टभास्कर-टीका
तस्मात् ग्रहा नाम देवता एव स्वयं यजमानस्य गृहे हविर्धाने गृह्यन्ते ।
मूलम्
वि॒दुरे॑नन्दे॒वाः । यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ ।
विश्वास-प्रस्तुतिः
वि॒दुर् ए॑नन् दे॒वा यस्य॑+ ए॒वव्ँ वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ ।
मूलम्
वि॒दुर् ए॑नन् दे॒वा यस्य॑+ ए॒वव्ँ वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ ।
भट्टभास्कर-टीका
तस्मात् यस्यैवं विदुषो ग्रहा देवात्मना गृह्यन्ते एनं देवा अपि विदुः जानन्ति ॥
मूलम्
ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पाँ॒शुः ।
विश्वास-प्रस्तुतिः
ए॒षा वै सोम॒स्याहु॑ति॒र् यद् उ॑पाँ॒शुः ।
मूलम्
ए॒षा वै सोम॒स्याहु॑ति॒र् यद् उ॑पाँ॒शुः ।
भट्टभास्कर-टीका
3 एषा वा इत्यादि ॥ उपांशुर्नाम स्वरः सोमाहुतिः समाप्तोऽस्यां सोमयागः ।
विश्वास-प्रस्तुतिः
सोमे॑न दे॒वाँस् त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते ।
मूलम्
सोमे॑न दे॒वाँस् त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते ।
मूलम्
यदु॑पाँ॒शुञ्जु॒होति॑ । सोमे॑नै॒व तद्दे॒वाँस्त॑र्पयति ।
विश्वास-प्रस्तुतिः
यद् उ॑पाँ॒शुञ् जु॒होति॒ सोमे॑न+ ए॒व तद् दे॒वाँस् त॑र्पयति ।
मूलम्
यद् उ॑पाँ॒शुञ् जु॒होति॒ सोमे॑न+ ए॒व तद् दे॒वाँस् त॑र्पयति ।
भट्टभास्कर-टीका
कथमित्याह - सोमेनेत्यादि । सर्वाम् देवान् सोमेन तर्पयाणीति सोमेन इज्यते उपांशुनैव केवलेन सर्वान् देवांस्तर्पयतीति उपांशुस्तुतिः ।
मूलम्
यद्ग्रहा॑ञ्जु॒होति॑ ॥2॥
दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति ।
विश्वास-प्रस्तुतिः
यद् ग्रहा॑ञ् जु॒होति॑ दे॒वा ए॒व तद् दे॒वान् ग॑च्छन्ति ।
मूलम्
यद् ग्रहा॑ञ् जु॒होति॑ दे॒वा ए॒व तद् दे॒वान् ग॑च्छन्ति ।
भट्टभास्कर-टीका
यद्ग्रहानित्यादि । अर्थवादः । देवाः परमार्थं देवान् गच्छन्ति । यद्वा - द्वये देवाः सोमलतांश्वात्मकाः द्युलोकवासिनश्च । तत्र उपांशुना प्रथमे देवास्तर्प्यन्ते । देवात्मभिस्तु ग्रहैः ऐन्द्रवायवाद्यैः अन्ये तर्प्यन्ते । देवा एव स्वयं देवांस्तर्पयितुं गच्छन्ति ॥
मूलम्
यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।
विश्वास-प्रस्तुतिः
यच् च॑म॒साञ् जु॒होति॒ तेन॑+ ए॒वानु॑रूपेण॒ यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
मूलम्
यच् च॑म॒साञ् जु॒होति॒ तेन॑+ ए॒वानु॑रूपेण॒ यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
भट्टभास्कर-टीका
4 यच्चमसानिति ॥ चमसहोमेन अनुरूपेण यजमानः स्वर्गं गच्छति ग्रहहोमेन देवानां तर्पितत्वात् स्वर्गप्रयाणैकफलत्वाच्चमसहोमस्य स्वर्गगमनं प्रत्यानुरूप्यं अनन्यार्थत्वात् ॥
मूलम्
किन्न्वे॑तदग्र॑ आसी॒दित्या॑हुः । यत्पात्रा॒णीति॑ ।
विश्वास-प्रस्तुतिः
“किन् न्व् ए॑तद् अग्र॑ आसी॒दि"त्य् आ॑हु॒र् “यत् पात्रा॒णी"ति॑ ।
मूलम्
“किन् न्व् ए॑तद् अग्र॑ आसी॒दि"त्य् आ॑हु॒र् “यत् पात्रा॒णी"ति॑ ।
भट्टभास्कर-टीका
5 किं न्वेतदित्यादि ॥ यस्मात् पात्राणि उपादीयन्ते उपादानं तत् पात्रोत्पत्तेः पूर्वं हि किं तु खल्विदं आसीदिति किमुपादानं पात्राणामिति यावत् ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा ए॒तद् अग्र॑ आसीत् ।
मूलम्
इ॒यव्ँ वा ए॒तद् अग्र॑ आसीत् ।
भट्टभास्कर-टीका
इयं वा डति । भूमिरेव पात्राणां पूर्वावस्था ।
विश्वास-प्रस्तुतिः
मृ॒न्मया॑नि॒ वा ए॒तान्य् आ॑सन् ।
मूलम्
मृ॒न्मया॑नि॒ वा ए॒तान्य् आ॑सन् ।
भट्टभास्कर-टीका
एतत् इत्युपादानं उच्यते । तदेवाह - मृन्मयानीति । मृद्विकारभूतानि खलु एतानि भवन्ति । ‘एकाचो नित्यं मयटमिच्छन्ति’ ।
विश्वास-प्रस्तुतिः
तैर् दे॒वा न व्या॒वृत॑म् अगच्छन् ।
मूलम्
तैर् दे॒वा न व्या॒वृत॑म् अगच्छन् ।
भट्टभास्कर-टीका
तैरिति । मृन्मयैः पात्रैः असुरेभ्यो व्यावृत्तिं देवा नागच्छन् व्यावृत्तिः व्यावृत् । संपदादिलक्षणः क्विप् ॥
विश्वास-प्रस्तुतिः
त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा॑ण्य् अपश्यन् ।
तान्य् अ॑कुर्वत ॥3॥
तैर् वै ते व्या॒वृत॑म् अगच्छन् ।
मूलम्
त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा॑ण्य् अपश्यन् ।
तान्य् अ॑कुर्वत ॥3॥
तैर् वै ते व्या॒वृत॑म् अगच्छन् ।
भट्टभास्कर-टीका
6 त एतानीत्यादि ॥ दारुमयाणि ‘द्व्यचश्छन्दसि’ इति मयट् । मृण्मयानि दारुमयाणि च कर्तव्यानीति विधिः ।
विश्वास-प्रस्तुतिः
यद् दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति ।
व्या॒वृत॑म् ए॒व तैर् यज॑मानो गच्छति ।
मूलम्
यद् दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति ।
व्या॒वृत॑म् ए॒व तैर् यज॑मानो गच्छति ।
भट्टभास्कर-टीका
व्यावृतमेव तैरिति । मनुष्येभ्यो व्यावृत्तिं गच्छन्ति दारुमयैः ।
मूलम्
यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति ।
विश्वास-प्रस्तुतिः
यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्त्य् अ॒मुम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
मूलम्
यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्त्य् अ॒मुम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
मूलम्
यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति ।
विश्वास-प्रस्तुतिः
यानि॑ मृ॒न्मया॑नी॒मम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
मूलम्
यानि॑ मृ॒न्मया॑नी॒मम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
भट्टभास्कर-टीका
यानीत्यादि । दारुमयैः द्युलोकजयः, मृन्मयैस्तु मनुप्यलोकजयः ॥
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।
“काश् चत॑स्रस् स्था॒लीर् वा॑य॒व्या॑स् सोम॒ग्रह॑णी॒र्” इति॑ ।
मूलम्
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।
“काश् चत॑स्रस् स्था॒लीर् वा॑य॒व्या॑स् सोम॒ग्रह॑णी॒र्” इति॑ ।
भट्टभास्कर-टीका
7 ब्रह्मवादिन इत्यादि ॥ स्थालीः स्थाल्यः सोमो गृह्यते यासु ताः सोमग्रहण्यः । उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । तस्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्ते इत्युक्तम् ॥
विश्वास-प्रस्तुतिः
दे॒वा वै पृश्ञि॑म् अदुह्रन्न् ॥4॥
मूलम्
दे॒वा वै पृश्ञि॑म् अदुह्रन्न् ॥4॥
भट्टभास्कर-टीका
8 एवं ब्रह्मवादिभिः पृष्टे उत्तरमाह - देवा वा इत्यादि ॥ इमां पृथिवीं पृश्निं गोस्थानीयां देवा अदुह्रन् ।
विश्वास-प्रस्तुतिः
तस्या॑ ए॒ते स्तना॑ आसन् ।
मूलम्
तस्या॑ ए॒ते स्तना॑ आसन् ।
भट्टभास्कर-टीका
तस्याः स्तनस्थानीया एताः स्थाल्योऽभवन् ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वै पृश्ञिः॑ ।
ताम् आ॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदᳶ प॒शून् अ॑दुह्रन् ।
मूलम्
इ॒यव्ँ वै पृश्ञिः॑ ।
ताम् आ॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदᳶ प॒शून् अ॑दुह्रन् ।
भट्टभास्कर-टीका
एवमेताभिः स्तनभूताभिः पश्वादिदेवाः पृश्निं दुग्धवन्तः । ‘बहुलं छन्दसि’ इति रुट् । तामित्यादिना एकैकस्यैव दोहानाचष्टे ।
मूलम्
यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मान्दु॑हे ।
विश्वास-प्रस्तुतिः
यद् आ॑दित्यस्था॒ली भव॑ति॒ , चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मान् दु॑हे ।
मूलम्
यद् आ॑दित्यस्था॒ली भव॑ति॒ , चतु॑ष्पद ए॒व तया॑ प॒शून् यज॑मान इ॒मान् दु॑हे ।
भट्टभास्कर-टीका
चतुष्पद इति । ‘सङ्ख्यासुपूर्वस्य’ इदि लोपः समासान्तः । ’ पादः पत्’ इति पद्भावः । दुह इति ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ।
विश्वास-प्रस्तुतिः
ताम् इन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम् अ॑दुहत् ।
मूलम्
ताम् इन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम् अ॑दुहत् ।
मूलम्
यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
विश्वास-प्रस्तुतिः
यद् उ॑क्थ्यस्था॒ली भव॑तीन्द्रि॒यम् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
ताव्ँ विश्वे॑ दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑म् अदुह्रन् ।
मूलम्
यद् उ॑क्थ्यस्था॒ली भव॑तीन्द्रि॒यम् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
ताव्ँ विश्वे॑ दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑म् अदुह्रन् ।
मूलम्
यदा॑ग्रयणस्था॒ली भव॑ति ॥5॥
ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
विश्वास-प्रस्तुतिः
यद् आ॑ग्रयणस्था॒ली भव॑त्य् ऊ॒र्ज॑म् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
ताम् म॑नु॒ष्या॑ ध्रुवस्था॒ल्या ऽऽयु॑र् अदुह्रन् ।
मूलम्
यद् आ॑ग्रयणस्था॒ली भव॑त्य् ऊ॒र्ज॑म् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
ताम् म॑नु॒ष्या॑ ध्रुवस्था॒ल्या ऽऽयु॑र् अदुह्रन् ।
मूलम्
यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मान्दु॑हे ।
विश्वास-प्रस्तुतिः
यद् ध्रु॑वस्था॒ली भव॑त्य्॒ आयु॑र् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
मूलम्
यद् ध्रु॑वस्था॒ली भव॑त्य्॒ आयु॑र् ए॒व तया॒ यज॑मान इ॒मान् दु॑हे ।
भट्टभास्कर-टीका
एवमादित्यस्थाली उक्थ्यस्याली आग्रयणस्थाली ध्रुवस्थालीति चतस्रः एतास्थाल्य इत्युत्तरं ‘काश्चतस्रः’ इति प्रश्नस्य ॥
विश्वास-प्रस्तुतिः
स्था॒ल्या गृ॒ह्णाति॑ ।
वा॒य॒व्ये॑न जुहोति ।
मूलम्
स्था॒ल्या गृ॒ह्णाति॑ ।
वा॒य॒व्ये॑न जुहोति ।
भट्टभास्कर-टीका
9 स्थाल्या गृह्णातीति ॥ सामान्येनैकवचनं गोबलीवर्दन्यायेनोक्तम्, ध्रुवस्थाल्याश्चमसेऽवनयनात् । ‘यद्धोतृचमसे ध्रुवमवनयति’ इति ॥
विश्वास-प्रस्तुतिः
तस्मा॑द् अ॒न्येन॒ पात्रे॑ण प॒शून् दु॒हन्ति॑ ।
अ॒न्येन॒ प्रति॑-गृह्णन्ति ।
मूलम्
तस्मा॑द् अ॒न्येन॒ पात्रे॑ण प॒शून् दु॒हन्ति॑ ।
अ॒न्येन॒ प्रति॑-गृह्णन्ति ।
भट्टभास्कर-टीका
10 तस्मादिति ॥ दोहनपात्रादन्यस्मिन् गृहीत्वा श्रपणादिकं कर्तव्यमित्यर्थः ।
विश्वास-प्रस्तुतिः
अथो॑ व्या॒वृत॑म् ए॒व तद् यज॑मानो गच्छति ॥6॥
मूलम्
अथो॑ व्या॒वृत॑म् ए॒व तद् यज॑मानो गच्छति ॥6॥
भट्टभास्कर-टीका
अथो अपिच तत् तेन प्रयोगेण यजमानो देववन्मनुष्येभ्यो व्यावृत्तिं गच्छति चतुष्पदादिपुष्ट्या ॥
इति चतुर्थे प्रथमोऽनुवाकः ॥