विस्तारः (द्रष्टुं नोद्यम्)
(प्राजापत्यं काण्डम्)
पितृभ्यः पूर्वेद्युर् अमावास्यायाम्
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रँ ह॒त्वा, असु॑रान् परा॒भाव्य॒॑, सो॑ऽमावा॒स्या॒॑म् प्रत्याग॑च्छत् ।
मूलम्
इन्द्रो॑ वृ॒त्रँ ह॒त्वा, असु॑रान् परा॒भाव्य॒॑, सो॑ऽमावा॒स्या॑म् प्रत्याग॑च्छत् ।
भट्टभास्कर-टीका
1 इन्द्रो वृत्रं हत्वेत्यादि ॥ दर्शपूर्णर्णमासब्राह्माणशेषः । प्राजापत्यं काण्डम् । असुरान् पराभाव्य पराभूतान् कृत्वा, अमावास्यां प्रति अमावास्यां लक्षीकृत्य अमावास्यायामागच्छत् ।
सायण-टीका
अथ दशमे पिण्डपितृयज्ञ उच्यते । तत्राऽऽदौ कालविशेषं विधत्ते-इन्द्रो वृत्रँ हत्वा । असुरान्पराभाव्य । सोऽमावास्यां प्रत्यागच्छत् ।
इन्द्रः पुरा युद्धे वृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वा पश्चादमावास्या-यागदिनं प्रति स्वगृहे समागच्छत् ।
विश्वास-प्रस्तुतिः
ते पि॒तर॑ᳶ पूर्वे॒द्युर् आग॑च्छन् ।
पि॒तॄन् य॒ज्ञो॑ ऽगच्छत् ।
मूलम्
ते पि॒तर॑ᳶ पूर्वे॒द्युर् आग॑च्छन् ।
पि॒तॄन् य॒ज्ञो॑ ऽगच्छत् ।
भट्टभास्कर-टीका
पूर्वेद्युः पितर आगताः । यज्ञश्च दर्शपूर्णमासाख्यः पितृनगच्छत् पितृभिस्सहावसत् ।
सायण-टीका
ते पितरः पूर्वेद्युरागच्छन् । पितॄन् यज्ञोऽगच्छत् ।
शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते ततः पूर्वेद्युः पितर आगतास्तैः पितृभिः सह यज्ञोऽपि गतः ।
विश्वास-प्रस्तुतिः
तन् दे॒वाᳶ पुन॑र् अयाचन्त ।
तम् ए॑भ्यो॒ न पुन॑र् अददुः ।
मूलम्
तन् दे॒वाᳶ पुन॑र् अयाचन्त ।
तम् ए॑भ्यो॒ न पुन॑र् अददुः ।
विश्वास-प्रस्तुतिः
ते᳙ ऽब्रुव॒न् -
वरव्ँ॑ वृणामहै ।
अथ॑ व॒ᳶ पुन॑र् दास्यामः ।
अ॒स्मभ्य॑म् ए॒व पू॑र्वे॒द्युᳵ क्रि॑याता॒
इति॑ ॥ 56 ॥
तम् ए॑भ्य॒ᳶ पुन॑र् अददुः ।
मूलम्
ते॑ ऽब्रुव॒न् - “वरव्ँ॑ वृणामहै । अथ॑ व॒ᳶ पुन॑र् दास्यामः । अ॒स्मभ्य॑म् ए॒व पू॑र्वे॒द्युᳵ क्रि॑याता॒” इति॑ ॥ 56 ॥
तम् ए॑भ्य॒ᳶ पुन॑र् अददुः ।
भट्टभास्कर-टीका
तं देवा इत्यादि । गतम् ॥
सायण-टीका
तं देवाᳶ पुनरयाचन्त । तमेभ्यो न पुनरददुः ।
तेऽब्रुवन्वरं वृणामहै । अथ वᳶ पुनर्दास्यामः । अस्मभ्यमेव पूर्वेद्युᳶ क्रियाता इति ॥ 56 ॥
तमेभ्यः पुनरददुः ।
तं पितृभिः सहावस्थितं यज्ञं देवाः स्वार्थमयाचन्त पूर्वमस्मदीयो यज्ञ इदानीं भवत्समीपमागतः पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदत्त्वा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पुर्वेद्युर्दर्शदिनेऽस्मदर्थं कर्म कर्तव्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृते तं यज्ञं दत्तंवन्तः ।
विश्वास-प्रस्तुतिः
तस्मा॑त् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क्रि॑यते ।
मूलम्
तस्मा॑त् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क्रि॑यते ।
विश्वास-प्रस्तुतिः
यत् पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क॒रोति॑
पि॒तृभ्य॑ ए॒व तद् य॒ज्ञन् नि॒ष्क्रीय॒
यज॑मान॒ᳶ प्रत॑नुते ।
मूलम्
यत्पि॒तृभ्य॑ᳶ पूर्वे॒द्युᳵ क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञन्नि॒ष्क्रीय॒ यज॑मान॒ᳶ प्रत॑नुते ।
भट्टभास्कर-टीका
2 तस्मादित्यादि ॥ पूर्वेद्युः पिण्डपितृयज्ञः पितृभ्यः क्रियते पूर्वेद्युः पितृभ्य एव कर्तव्यत्वेन देवैर्दत्तत्वात् । तस्मात्तेन पितृयज्ञेन पितृभ्यो यज्ञं दर्शपूर्णमासाख्यं निष्क्रीय उत्तरेद्युः प्रतनुते प्रकर्षेण विस्तारयति निर्बाधमारभते यजमानः ॥
सायण-टीका
तस्मात्पितृभ्यᳶ पूर्वेद्युᳶ क्रियते । यत्पितृभ्यᳶ पूर्वेद्युᳶ करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानᳶ प्रतनुते ।
तस्मात्पित्रर्थं कर्म पूर्वेद्युः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं - पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते ।
सोमपीथावरोधः
विश्वास-प्रस्तुतिः
“सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒” इत्य् आ॑ह।
मूलम्
“सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒” इत्य् आ॑ह।
भट्टभास्कर-टीका
3 सोमाय पितृपीतायेति ॥ दक्षिणाग्नौ स्थालीपाकहोमः । अस्मिन् पित्रादिभिः पीताय सोमाय अमृतात्मने स्वधा अमृतात्मकमिदं हविरस्तु नमस्कारश्चास्तु तस्मै ।
सायण-टीका
कालं विधाय होममत्रं विधत्ते -
सोमाय पितृपीताय स्वधा नम इत्याह ।
पितृभिः पीतोऽमृतत्वेन परिणतो यः सोमस्तस्मै सोमायेदं स्वधा दत्तम् ।
विश्वास-प्रस्तुतिः
पि॒तुर् ए॒वाधि॑ सोमपी॒थम् अव॑-रुन्धे ।
मूलम्
पि॒तुर् ए॒वाधि॑ सोमपी॒थम् अव॑-रुन्धे ।
भट्टभास्कर-टीका
पितुरेवेति । पितुस्सकाशादेव सोमपीथं लभते । अनेत होमेन पितुर्यः सोमपीथः तमेव लब्ध्वा कर्मयोग्यो भवति ।
सायण-टीका
नमस्कारोऽपि कृत इत्यमुं मत्रं होमकाले ब्रूयात् । अनेन होमेन स्वकीयस्य पितुरध्युपरि यत्सोमपानं पूर्वं वृत्तं तत्स्वयं प्राप्नोति ।
विश्वास-प्रस्तुतिः
न हि पि॒ता प्र॒मीय॑माण॒ आ"है॒ष सो॑मपी॒थ" इति॑ ।
मूलम्
न हि पि॒ता प्र॒मीय॑माण॒ आ"है॒ष सो॑मपी॒थ" इति॑ ।
भट्टभास्कर-टीका
ननु पुत्रत्वादेवात्र पितुः सोमपीथो गृहादिवत्तदभावे भविष्यतीति किं तदर्थेन होमेन, तत्राह – न हीति । प्रमीयमाणः म्रीयमाणः पिता न ह्येष सोमपीथ इत्याह । गृहादिवन्न हस्ते प्रयच्छतीति यावत् । तस्माद्धोमेनैव पितुस्सकाशात् सोभपीथावरोध इति होमः कार्यः ॥
सायण-टीका
न हि पिता प्रमीयमाण आहैष सोमपीथ इति ।
पितुः संबन्धि गृहक्षेत्रादिकं यथा होममन्तरेण प्रामोति तद्वत्तदीयं सोमपानमपि प्राप्नोतीति चेन्मैवम् । गृहादिवदसमर्पितत्वात् । प्रमीयमाणः पिता पुत्रमाहूयेदं गृहमिदं क्षेत्रं तवेति यथा ब्रूते तथा सोमपानमिदं तवेति न हस्ते समर्पयति । तस्माद्धोमेनैव सोमपानफलं संपादनीयम् । न चैतत्प्रयाससाध्यं सोमपानं मा भूदेवेति शङ्कनीयम् । सोमपानस्येन्द्रियवृद्धिरूपत्वेनावश्यं प्रापणीयत्वात् ।
द्वितीया जाया
विश्वास-प्रस्तुतिः
इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थः ।
इ॒न्द्रि॒यम् ए॒व सो॑मपी॒थम् अव॑ रुन्धे ।
तेने॑न्द्रि॒येण॑ द्वि॒तीया॑ञ् जा॒याम् अ॒भ्य॑श्ञुते॥ 57 +++(5)+++
मूलम्
इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थः ।
इ॒न्द्रि॒यम् ए॒व सो॑मपी॒थम् अव॑ रुन्धे ।
तेने॑न्द्रि॒येण॑ द्वि॒तीया॑ञ् जा॒याम् अ॒भ्य॑श्ञुते॥ 57 ॥
भट्टभास्कर-टीका
4 इन्द्रियं वा इत्यादि ॥ इन्द्रियं वीर्यम् । तद्धेतुत्वात्ताच्छब्द्यम् । तस्मात् सोमपीथार्थेन होमेन इन्द्रियमेवावरुन्धे । ततः तेन पितुरागतेन द्वितीयेन इन्द्रियेण द्वितीयां जायामभ्यश्नुते भोक्तुं समर्थो भवति ।
सायण-टीका
इन्द्रियं वै सोमपीथः । इन्द्रियमेव सोमपीथमव रुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यश्नुते ॥ 57 ॥
पूर्वं स्वस्मिन् विद्यमानेनेन्द्रियेणैकां जायां भोक्तुं समर्थः । पितृप्रसादलब्धेन त्विन्द्रियेण द्वितीयामपि भोक्तुं समर्थो भवति ।
विश्वास-प्रस्तुतिः
ए॒तद् वै ब्राह्म॑णम् -
पु॒रा वा॑जवश्रव॒सा वि॒दाम् अ॑क्रन् ।
मूलम्
ए॒तद् वै ब्राह्म॑णम् पु॒रा वा॑जवश्रव॒सा वि॒दाम॑क्रन् ।
भट्टभास्कर-टीका
एतद्वा इत्यादि । एतत् पितुस्सोमपीथावरोधेन ब्राह्मणं वाजश्रवसः पुत्रा ऋषयः पूर्वं विदामक्रन् विदितवन्तः । ‘अभ्युत्सादयाम्’इत्यादिना आप्रत्ययो निपात्यते । करोतेर्लुङ् परस्यानुप्रयोगः । ‘मन्त्रे घसः’इति लुक् ।
सायण-टीका
एतद्वेदनं प्रशंसति-
एतद्वै ब्राह्मणं पुरा वाजवश्रवसा विदामक्रन् ।
वाजोऽन्नं तदाननिमित्तं श्रवः कीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य पुत्रा वाजश्रवसाः । ते च पुरा " सोमाय पितृपीताय" इतिमन्त्रस्य व्याख्यानरूपमेतद्ब्राह्मणं विदितवन्तः । तस्माद्वेदनात्ते महर्षयः प्रत्येकं जायाद्वयमभिमासवन्तः ।
विश्वास-प्रस्तुतिः
तस्मा॒त् ते द्वे द्वे॑ जा॒ये अ॒भ्या॑क्षत ।
य ए॒वव्ँ वेद॑ -
अ॒भि द्वि॒तीया॑ञ् जा॒याम् अ॑श्ञुते ।
मूलम्
तस्मा॒त् ते द्वे द्वे॑ जा॒ये अ॒भ्या॑क्षत ।
य ए॒वव्ँ वेद॑ ।
अ॒भि द्वि॒तीया॑ञ् जा॒याम् अ॑श्ञुते ।
भट्टभास्कर-टीका
तस्मात् ते द्वेद्रे जाये अभ्याक्षत भोक्तुं समर्था अभूवन् । ऊदित्त्वादिडाभावः । एवं वेदिताऽपि द्वितीयां जायां भोक्तुं शक्नोतीति ॥
सायण-टीका
तस्मात्ते द्वेद्वे जाये अभ्याक्षत । य एवं वेद । अभि द्वितीयां जायामश्नुते ।
तस्मादन्योऽपि विदित्वा द्वितीयां जायां प्राप्नोति ।
कव्यवाहनाय
विश्वास-प्रस्तुतिः
“अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒” इत्य् आ॑ह।
मूलम्
“अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒” इत्य् आ॑ह।
विश्वास-प्रस्तुतिः
य ए॒व पि॑तृ॒णाम् अ॒ग्निस्
तम् प्री॑णाति ।
मूलम्
य ए॒व पि॑तृ॒णाम॒ग्निः । तम्प्री॑णाति ।
भट्टभास्कर-टीका
5 अग्नये कव्यवाहनायेत्यपि । तथैव होमः । पितृणां अग्निः कव्यवाहनः ॥
सायण-टीका
अथ द्वितीय होममन्त्रं विधत्ते-
अग्नये कव्यवाहनाय स्वधा नम इत्याह ।
य एव पितृणामग्निः । तं प्रीणाति ।
कव्यं पित्र्यं हविर्वहतीति कव्यवाहनः ।
यमायाङ्गिरस्वते
विश्वास-प्रस्तुतिः
ति॒स्र आहु॑तीर् जुहोति ।
मूलम्
ति॒स्र आहु॑तीर् जुहोति ।
भट्टभास्कर-टीका
6 तिस्र इति ॥ एते द्वे उक्ते । ‘यमायाङ्गिरस्वते’ इति शाखान्तरीया तृतीया वेदितव्या ।
सायण-टीका
शाखान्तरगतेन - “यमायाङ्गिरस्वते पितृमते स्वधा नमः” इति मत्रेणैकामाहुतिमभिप्रेत्य त्रित्वं विदधाति -
तिस्र आहुतीर्जुहोति, इति ।
तथा च सूत्रकारेण स्पष्टमुक्तम् – “सोमाय पितृपीताय स्वधा नम इति प्रथमां दक्षिणाग्नौ जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् " इति ।
विश्वास-प्रस्तुतिः
त्रिर् निद॑धाति ।
मूलम्
त्रिर् निद॑धाति ।
भट्टभास्कर-टीका
त्रिर्निदधातीति । सकृत् स्फ्योल्लिखिते त्रीन् पिण्डान् निदधाति ।
सायण-टीका
यदुक्तं सूत्रकारेण - " सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने वर्हिषि दक्षिणापवर्गान्पिण्डान्ददाति " इति, तदिदं विधत्ते-
त्रिर्निदधाति, इति ।
विश्वास-प्रस्तुतिः
षट्त् सम्प॑द्यन्ते ॥ 58 ॥
षड् वा ऋ॒तवः॑ ।
ऋ॒तून् ए॒व प्री॑णाति ।
मूलम्
षट्त् सम्प॑द्यन्ते ॥ 58 ॥
षड् वा ऋ॒तवः॑ ।
ऋ॒तून् ए॒व प्री॑णाति ।
भट्टभास्कर-टीका
षडित्यादि । गतम् ॥
सायण-टीका
तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वा प्रशंसति-
षट्त्संपद्यन्ते (३)।
षड्वा ऋतवः । ऋतूनेव प्रीणाति ।
विश्वास-प्रस्तुतिः
तू॒ष्णीम् मेक्ष॑ण॒म् आद॑धाति ।
“अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर् न वा॑” ।
मूलम्
तू॒ष्णीम् मेक्ष॑ण॒म् आद॑धाति । “अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर् न वा॑” ।
भट्टभास्कर-टीका
7 तूष्णीमिति ॥ पक्षान्तरमिदम् । इहाम्नाते द्वे एवाहुती त्रय एव पिण्डा इति पञ्च । अथ मेक्षणस्य तूष्णीमाधानम् । एवं षष्ठमस्ति नास्ति । हुतत्वादस्ति । तूष्णीं हुतत्वान्नास्ति च । षष्ठश्चर्तुरस्ति वा न वा हेमन्तशिशिरयोरेकत्वात् । तस्मात्पञ्चत्वात् ऋतून् प्रीणयति ॥
सायण-टीका
यदुक्तं सूत्रकारेण - " मेक्षणमुपस्तीर्य तेनावदायाभिघार्य " इति तस्य मेक्षणस्यानौ प्रहरणं विधत्ते-
तूष्णीं मेक्षणमादधाति । अस्ति वा हि षष्ठ ऋतुर्न वा ।, इति ।
मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं मन्त्रमन्तरेणानौ प्रक्षिपेत् । शास्त्रेषु षष्ठ ऋतुरस्तीत्येकः पक्षः 4"षड्वा ऋतव १" इति श्रुतेः ।
नास्तीत्यपरः पक्षः " पञ्चर्तवो हेमन्तशिशिरयोः समासेन ” इति श्रुत्यन्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुश्रुतं भवति । तत्र समिध: प्रक्षिप्तत्वादस्तित्वपक्षोऽङ्गीकृतः । मत्रराहित्यादभावपक्षोऽङ्गीकृतः ।
विश्वास-प्रस्तुतिः
दे॒वान् वै पि॒तॄन् प्री॒तान् म॑नु॒ष्या॑ᳶ पि॒तरो ऽनु॒ प्रपि॑पते ।
मूलम्
दे॒वान् वै पि॒तॄन्प्री॒तान् । म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते ।
भट्टभास्कर-टीका
8 वाग्वा इत्यादि ॥ द्विप्रकाराः पितरः सन्ति देवात्मानः ये नित्याः सन्ति, मनुष्यात्मानः ये मृताः पितृलोकं प्रपद्यन्ते । तत्र देवान् पितॄन् प्रीतान् । ‘अनुर्लक्षणे’ इत्यनोः कर्मप्रवचनीयत्वम् । तत्प्रीत्या हेतुना मनुष्याः अनुप्रपिपते अनुपानमिव कुर्वते, तेन च प्रीयन्त इति । पिबतेर्व्यत्ययेनात्मनेपदम् । शपः श्लुः अभ्यासस्य चेत्वम् ।
सायण-टीका
आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रशंसति-
देवान् वै पितॄन्प्रीतान् । मनुष्याᳶ पितरोऽनु प्रपिपते ।
द्विविधा हि पितरो देवात्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो देवात्मकाः । मृताः सन्तो भोगांतल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र देवात्मकेषु पितृषु प्रीतेषु ताननु मनुष्यात्मका: पितरः प्रपिपते प्रीता भवन्तीति युक्तम् ।
त्रित्व-प्रशंसा
विश्वास-प्रस्तुतिः
ति॒स्र आहु॑तीर् जुहोति ।
त्रिर् निद॑धाति ।
षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ॥ 59 ॥
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तून् ए॒व दे॒वान् पि॒तॄन् प्री॑णाति ।
मूलम्
ति॒स्र आहु॑तीर् जुहोति ।
त्रिर् निद॑धाति ।
षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ॥ 59 ॥
ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तरः॑ ।
ऋ॒तून् ए॒व दे॒वान् पि॒तॄन् प्री॑णाति ।
भट्टभास्कर-टीका
यस्मादेवं तस्मात् तिस्र आहुतीः जुहोति । त्रिर्निदधाति इति पूर्वमस्माभिरुक्तमिति ॥
9 कथं पुनस्तेषां प्रीतिः, के वा ते देवाः पितर इत्याह - षडित्यादि ॥ एवं हि षट्त्वान्वयात् षट्संऽख्याः ऋतवः प्रीता भवन्ति ।
सायण-टीका
तिस्र आहुतीर्जुहोति । त्रिर्निदधाति । षट्त्संपद्यन्ते । षड्वा ऋतवः (४) ।
ऋतवᳶ खलु वै देवाᳶ पितरः । ऋतूनेव देवान्पितॄन्प्रीणाति ।
तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् । किंचोभयमेलनेन षट् संपत्त्या तत्संख्याका ऋतवः संपद्यन्ते । ऋत्वभिमानिनश्च देवाः पितरः ।
विश्वास-प्रस्तुतिः
तान् प्री॒तान् मनु॒ष्या॑ᳶ पि॒तरो ऽनु॒ प्रपि॑पते ।
मूलम्
तान्प्री॒तान् । म॒नु॒ष्या॑ᳶ पि॒तरोऽनु॒ प्रपि॑पते ।
भट्टभास्कर-टीका
ऋतवो हि द्वे देवाः पितरः ततस्तान् प्रीतान् मनुष्या अपि पितरः प्रीता भविष्यन्तीति ॥
सायण-टीका
तान्प्रीतान् । मनुष्याᳶ पितरोऽनु प्रपिपते ।
ततश्च संख्यामात्रेण देवपितृषु प्रीतेषु पश्चान्मनुष्यपितरः प्रीता भवन्ति ।
बर्हिश्-छेदः
विश्वास-प्रस्तुतिः
स॒कृ॒द्-आ॒च्छि॒न्नम् ब॒र्हिर् भ॑वति ।
स॒कृद् इ॑व॒ हि पि॒तरः॑ ।
मूलम्
स॒कृ॒द् आ॒च्छि॒न्नम् ब॒र्हिर् भ॑वति ।
स॒कृद् इ॑व॒ हि पि॒तरः॑ ।
भट्टभास्कर-टीका
10 सकृदिति ॥ पितरो नाम सकृत् एकवारं गता भवन्ति न द्वितीयं गच्छन्ति । यद्वा - सकृदुपचारप्रियाः ॥
सायण-टीका
विधत्ते-
सकृदाच्छिन्नं बर्हिर्भवति । सकृदिव हि पितरः, इति ।
पिण्डानामधस्ताद्यद्धर्हिरास्तीर्यते तदेकप्रयत्नेनैव च्छेदनीयम् । न तु लवन-काले दात्रस्य पुनः पुनर्व्यापारः । एकेनैव दृढेन व्यापारेण यावदवच्छिन्नं तावदेवाऽऽनेतव्यम् । यस्मात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नुवन्ति । न तु - तत्प्राप्तये पुनः पुनर्म्रियन्ते ।
पिण्डम्
विश्वास-प्रस्तुतिः
त्रिर् निद॑धाति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
तान् ए॒व प्री॑णाति ।
मूलम्
त्रिर् निद॑धाति ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
तान् ए॒व प्री॑णाति ।
भट्टभास्कर-टीका
11 त्रिर्निदधाति ॥ पिण्डं ददाति । इतो लोकादारभ्य तृतीये लोके पितरः ॥
सायण-टीका
पिण्डदानस्य त्रित्वं प्रशंसति -
त्रिर्निदधाति । तृतीये वा इतो लोके पितरः । तानेव प्रीणाति, इति ।
इतो भूलोकादारभ्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति ।
विश्वास-प्रस्तुतिः
परा॒ङ् आव॑र्तते ॥ 60 ॥
ह्लीका॒ हि पि॒तरः॑ ।
मूलम्
परा॒ङ् आव॑र्तते ॥ 60 ॥
ह्लीका॒ हि पि॒तरः॑ ।
भट्टभास्कर-टीका
12 पराङिति ॥ पिण्डं दत्वा उदङ्मुख आवृत्यास्ते । ह्लीका लज्जाशीलाः । तस्मात् भुञ्जानान्नेक्षेत । औणादिकः कन्प्रत्ययः कपिलकादित्वाल्लत्वविकल्पः ॥
सायण-टीका
विधत्ते-
पराङावर्तते ( ५ ) । ह्रीका हि पितरः, इति ।
दक्षिणाभिमुखः पिण्डं दत्त्वा पिण्डनिरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलत्वात् । लोकेऽपिं हि भुञ्जानाः प्रभवो नान्यैवक्ष्यन्ते ।
विश्वास-प्रस्तुतिः
ओ॒ष्मणो॑ व्या॒वृत॒ उपा॑स्ते ।
ऊ॒ष्म-भा॑गा॒ हि पि॒तरः॑ ।
मूलम्
ओष्मणो॑ व्या॒वृत॒ उपा॑स्ते ।
ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ ।
भट्टभास्कर-टीका
13 ओष्मण इति ॥ ऊष्मण आव्यावृत उपास्ते ।
ऊष्मा हि पितृणां भागः । तस्मादाव्यावृतः आव्यावृत्तेः ऊष्मणि अभिपर्यावर्तेत ॥
सायण-टीका
विधत्ते-
ओष्मण व्यावृत उपा॑स्ति ।
ऊष्मभागा हि पितरः, इति ।
औष्ण्यवशात्पिण्डेषु योऽयमृष्या निर्गच्छति तस्य यावदुपरमोऽव्यावृतस्तदुपरमपर्यन्तं तथैव स्थित्वा सेवेत । पितॄणामूष्मभागित्वेन तच्छान्तिपर्यन्तं सद्भोजनकालत्वात् ।
प्राशनम्
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।
“प्राश्या३न्, न प्राश्या३म्”+++(←स्वरः??)+++ इति॑ ।
मूलम्
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।
“प्राश्या (3) न् न प्राश्या(3) म्” इति॑ ।
भट्टभास्कर-टीका
14 ब्रह्मवादिन इत्यादि ॥ स्थालीशिष्टं किं प्राश्यं किं वा न इति विचारमाहुः ब्रह्मवादिनः । ‘विचार्यमाणानां’इति प्लुतः ।
सायण-टीका
अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽऽघ्राणं विधत्ते -
ब्रह्मवादिनो वदन्ति । प्राश्या (3) न्न प्राश्या (3) मिति ।
विश्वास-प्रस्तुतिः
यत् प्रा॑श्ञी॒याज् जन्य॒म् अन्न॑म् अद्यात् , प्र॒मायु॑कस् स्यात् ।
यन् न प्रा॑श्ञी॒याद्
अह॑विस् स्यात् ॥ 61 ॥
मूलम्
यत्प्रा॑श्ञी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कस्स्यात् ।
यन्न प्रा॑श्ञी॒यात् । अह॑विस्स्यात् ॥ 61 ॥
भट्टभास्कर-टीका
यदि प्राश्नीयात् जन्यमन्नं अशितं स्यात् । जनेषु प्रसिद्धं जन्यं पित्रर्थत्वात् सर्वजनप्रसिद्धमशितं स्यात् । यद्वा - जन्यत्वादेतं [देव] जन्यं चरुभूतमशितं स्यात्, ततश्चात्ता प्रमायुकः स्यात् म्रियेत । छान्दसः उकञ् ।
सायण-टीका
यत्प्राश्नीयात् । जन्यमन्नमद्यात् । प्रमायुकस्स्यात् । यन्न प्राश्नीयात् । अहविस्स्यात् (६) , इति ।
विचारार्था लुतिः । प्राशनपक्षे वीजभक्षणवददनीयस्याभावात्क्षुधितो यज- मानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविःशेषस्य भक्षणदर्शनादिदं हविरेव नं स्यात् ।
विश्वास-प्रस्तुतिः
पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑म् ए॒व ।
मूलम्
पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व ।
भट्टभास्कर-टीका
अप्राशने अहविस्स्यात् हुतहविषां शेषभक्षणस्य दृष्टत्वात् हविर्व्यापत्तौ कर्मलोपात् पितृभ्यो हीयते । तस्मात् अवघ्रेयमेव ।
सायण-टीका
पितृभ्य आवृश्च्येत । अवघ्रेयमेव ।
अतोऽयं पितृभ्यो विच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रेदेव ।
विश्वास-प्रस्तुतिः
तन् नेव॒ प्राशि॑त॒न्, नेवाप्रा॑शितम् ।
मूलम्
तन् नेव॒ प्राशि॑त॒न् नेवाप्रा॑शितम् ।
भट्टभास्कर-टीका
तत् हि प्राशितमिव च न भवति, अनभ्यवहृतत्वात् । अप्राशितमिव च न भवति अवघ्रातत्वात् । इवशब्दः कोटिद्वयानिश्चयात् ॥
सायण-टीका
तन्नेव प्राशितं नेवाप्राशितम् ।
तदवघातं प्राशितमिव न भवति निगरणाभावात् । अप्राशितमिव न भवति । तदीयगन्धस्यान्तःप्रवेशात् ।
दशा-च्छेदः
विश्वास-प्रस्तुतिः
वी॒रव्ँ वा॒ वै पि॒तर॑ᳶ प्र॒यन्तो॒ हर॑न्ति +++(कर्मणो वैगुण्ये)+++।
मूलम्
वी॒रव्ँ वा॒ वै पि॒तर॑ᳶ प्र॒यन्तो॒ हर॑न्ति ।
भट्टभास्कर-टीका
15 वीरं वेत्यादि ॥ पितरो हि प्रयन्त इतो गच्छन्तः वीरं हरन्ति वा अपहरन्ति वा कर्मणो वैगुण्ये ।
सायण-टीका
यदुक्तं सूत्रकारेण - “वाससो दशां छित्त्वा निदधाति" इति । तदेतद्विधत्ते -
वीरं वा वै पितरः प्रयन्तो हरन्ति ।
पिण्डरूपमन्नं भुक्त्वा यदा पितरः स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानमपहरन्ति वा
विश्वास-प्रस्तुतिः
वी॒रव्ँ वा॑ ददति ।
मूलम्
वी॒रव्ँ वा॑ ददति ।
भट्टभास्कर-टीका
पौष्कल्ये वा वीरमेकं ददति अपूर्वमुत्पादयन्ति ।
सायण-टीका
वीरं वा ददति ।
ऽविद्यमानं ददति वा । पक्षद्वयमपि संभाव्यते ।
विश्वास-प्रस्तुतिः
द॒शाञ् छि॑नत्ति ।
मूलम्
द॒शाञ् छि॑नत्ति ।
भट्टभास्कर-टीका
तस्मादन्यतरस्यावश्यकत्वात् पौष्कल्यस्य च दुस्संपादत्वात् हर्तव्यवीरप्रत्याम्नानतया दशां छिनत्ति वाससोऽन्तं छिन्द्यात् । वासस्थाने निदधातीत्येके ।
सायण-टीका
दशां छिनत्ति ।
वैकल्ये पुत्रं मारयन्ति । साकल्ये पुत्रं प्रयच्छन्ति । अत्र वैकल्यस्य दुष्परिहरत्वात्पुत्र-प्रत्यान्नायत्वेन वस्त्राग्रमीषत्सूत्रं छित्त्वा पिण्डेषु निदध्यात् ।
विश्वास-प्रस्तुतिः
हर॑ण-भागा॒ हि पि॒तरः॑ । पि॒तॄन् ए॒व नि॒रव॑दयते ।
मूलम्
हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄन् ए॒व नि॒रव॑दयते ।
भट्टभास्कर-टीका
ततो हरणभागान् यस्य कस्य चिद्धरणेन तृप्तान् पितॄन्निरवदयते वीरहरणान्निष्कृष्य अन्येन छिद्यमानेन प्रीणयति ॥
सायण-टीका
हरणभागा हि पितरः । पितॄनेव निरवदयते ।
यस्मादपहरणमेव पितरो भजन्ते तस्मात्पितन्निःशेषभागदानेन विसर्जयति ।
लोम-च्छेदः
विश्वास-प्रस्तुतिः
उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत ।
पि॒तृ॒णाँ ह्य् ए॒॑तर्हि॒ नेदी॑यः+++(=समीपस्थः)+++ ॥ 62 ॥
मूलम्
उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत ।
पि॒तृ॒णाँ ह्य् ए॑तर्हि॒ नेदी॑यः ॥ 62 ॥
भट्टभास्कर-टीका
16 उत्तरे तु आयुषि स्वं लोम छिन्दीत न दशाम् ।
शतवर्षस्य ब्राह्मणस्यायुषस्तुतीयो भाग उत्तरमायुः षट्षष्टिभ्यो वर्षेभ्यः अष्टाभ्यश्च मासेभ्यः । पञ्चाशत इत्येके ।
हेतुमाह - अस्मिन्नायुषि पितृणां लोकः नेदीयः प्रत्यासन्नतरं भवति उपरि भावात् ॥
सायण-टीका
तत्रैव कंचिद्विशेषं विधत्ते -
उत्तर आयुषि लोम छिन्दीत । पितृणाँ ह्येतर्हि नेदीयः ( ७ ), इति ।
पश्चाशत्संवत्सरपरिमितं पूर्वमायुरवशिष्टं तूत्तरम् । तस्मिन्वयसि वस्त्रदशा न च्छेत्तव्याः किंतु स्वकीयं लोम च्छित्त्वा तत्र निदध्यात्। यस्मादयमासन्न-मरणत्वात्पितृणामपि समीपवर्ती तस्मात्तस्मिन्वयस्येतदुचितम् ।
नमस्कारः
विश्वास-प्रस्तुतिः
नम॑स् करोति , नमस्-का॒रो हि पि॑तृ॒णाम् ।
मूलम्
नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् ।
भट्टभास्कर-टीका
17 नमस्करोतीत्यादि ॥ नमस्कारो हि पितृणां प्रीणनम् ॥
सायण-टीका
विधत्ते-
नर्मस्करोति । नमस्कारो हि पितॄणाम्, इति ।
अत्यन्तं प्रिय इति शेषः ।
विश्वास-प्रस्तुतिः
नमो॑ वᳶ पितरो॒ रसा॑य ।
नमो॑ वᳶ पितर॒श् शुष्मा॑य ।
नमो॑ वᳶ पितरो जी॒वाय॑ ।
नमो॑ वᳶ पितरस् स्व॒धायै॑ ।
नमो॑ वᳶ पितरो म॒न्यवे॑ ।
नमो॑ वᳶ पितरो घो॒राय॑ ।
पित॑रो॒ नमो॑ वः ।
मूलम्
नमो॑ वᳶ पितरो॒ रसा॑य ।
नमो॑ वᳶ पितर॒श् शुष्मा॑य ।
नमो॑ वᳶ पितरो जी॒वाय॑ ।
नमो॑ वᳶ पितरस् स्व॒धायै॑ ।
नमो॑ वᳶ पितरो म॒न्यवे॑ ।
नमो॑ वᳶ पितरो घो॒राय॑ ।
पित॑रो॒ नमो॑ वः ।
सायण-टीका
हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । स्वधा तदीया स्त्री । पितरो हि स्वधायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो मारणादिव्यापार: । हे पितरो यूयमेतस्मिल्ँ लोके स्थितास्तेभ्यो युष्मभ्यं नमः ।
मूलम्
य ए॒तस्मिल्ँ॑ लो॒के स्थ ॥ 63 ॥
यु॒ष्माँस्तेऽनु॑ ।
ये॑ऽस्मिल्ँ लो॒के ।
मान्तेऽनु॑ ।
य ए॒तस्मिल्ँ॑ लो॒के स्थ ।
यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त ।
ये॑ऽस्मिल्ँ लो॒के ।
अ॒हन्तेषाव्ँ॒वसि॑ष्ठो भूयास॒मित्या॑ह ।
विश्वास-प्रस्तुतिः
य ए॒तस्मिल्ँ॑ लो॒के स्थ ,
यु॒ष्माँस् ते ऽनु॑ ।
ये॒॑ ऽस्मिल्ँ लो॒के, मान् तेऽनु॑ ।
य ए॒तस्मिल्ँ॑ लो॒के स्थ , यू॒यन् तेषाव्ँ॒ वसि॑ष्ठा भूयास्त ।
ये॒॑ ऽस्मिल्ँ लो॒के - अ॒हन् तेषाव्ँ॒ वसि॑ष्ठो भूयासम्
मूलम्
य ए॒तस्मिल्ँ॑ लो॒के स्थ , यु॒ष्माँस् ते ऽनु॑ ।
ये॑ ऽस्मिल्ँ लो॒के मान् तेऽनु॑ ।
य ए॒तस्मिल्ँ॑ लो॒के स्थ , यू॒यन् तेषाव्ँ॒ वसि॑ष्ठा भूयास्त ।
“ये॑ ऽस्मिल्ँ लो॒के ऽ॒हन् , तेषाव्ँ॒ वसि॑ष्ठो भूयासम्
भट्टभास्कर-टीका
18 नमो वः पितर इति नमस्कारमन्त्रेण जपः । एते च मन्त्राः भक्षानुवाके व्याख्याताः ।
- { नमो॑ वᳶ पितरो॒ रसा॑य +++(पित॑रो॒ नमो॑ वः।)+++,
- 18षद्भिर्नमस्कारैरुपतिष्ठते - नमो व इति ॥ हे पितरः युष्मभ्यं नमः नमस्करोमि रसाय रसार्थं रसवान् भूयासमिति । ‘पितरो नमो वः’ इत्यादिकं षट्स्वप्यजुषज्यते ।
- नमो॑ वᳶ पितर॒श्शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,
- शुष्मो बलम् ।
- नमो॑ वᳶ पितरो जी॒वाय +++(पित॑रो॒ नमो॑ वः।)+++,
- जीवः प्राणः ।
- नमो॑ वᳶ पि॒त॒र॒स्स्व॒धायै॑ +++(पित॑रो॒ नमो॑ वः।)+++,,
- स्वधा अन्नम् ।
- नमो॑ वᳶ पितरो म॒न्यवे॑ +++(पित॑रो॒ नमो॑ वः।)+++,,
- मन्युर्दीप्तिः, क्रोधो वा ।
- नमो॑ वᳶ पितरो घो॒राय॑ , पित॑रो॒ नमो॑ वः ।
- घोरः क्रूरम् । एतयोः स्थाने प्राधान्यं प्रार्थ्यते । हे पितरः युष्मभ्यं नमः । फलमनपेक्ष्य सप्तमोयं नमस्कारः क्रियते । पुनर्वचनं फलनिरपेक्षया नमस्कारार्थम् । अन्य आहुः - पितृसंबन्धिभ्यो रसादिभ्यः प्रथमं षण्णमस्काराः, ततः पितृभ्य एव सप्तम इति ।
- य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॑ ।
- ये एतस्मिन् लोके पितरः स्थ । एतस्मिन्निति पितृलोकं व्यपदिशति । स्थेति सर्वपित्रभिप्रायेणोक्तम् । ते सर्वे युष्माननुसन्तु युष्मत्प्रधाना भवन्तु । ‘हीने’ इत्यनोः कर्मप्रवचनीयत्वम् । युष्मानिति पित्रादित्रयं व्यपदिशति ।
- ये॑ऽस्मिल्ँ लो॒के मान्तेऽनु॑ ।
- अस्मिन् मनुष्यलोके मनुष्याः स्थ, ते सर्वे मामनु सन्तु मत्प्रधाना भवन्तु ।
- य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त ।
- ये यूयमेतस्मिन् लोके स्थ तेषां पितॄणां यूयं वसिष्ठाः वसुमत्तमा भूयास्त ।
- ये॑ऽस्मिल्ँ लो॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयासम् ।
- येऽस्मिन् लोके सन्ति मनुष्यास्तेषां मनुष्याणामहं वसिष्ठो वसुमत्तमो भूयासम् । वसुशब्दादिष्ठनि ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः ॥}
सायण-टीका
ये तु युष्मत्तोऽन्ये परकीयपितरोऽस्मिल्ँ लोके वर्तन्ते ते सर्वे युष्माननुवर्तन्ताम् । ये तु मनुष्या अस्मिल्ँ लोके वर्तन्ते ते सर्वे मामनुवर्तन्ताम् । ये यूयं परकीयैः पितृभिः सहास्मिल्ँ लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवास हेतवो भूयास्त । ये तु मनुष्या अस्मिल्ँ लोके वर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं मन्त्रं नमस्कुर्वन्पठेत् ।
विश्वास-प्रस्तुतिः
इत्य् आ॑ह।
वसि॑ष्ठस् समा॒नाना॑म् भवति॒
य ए॒वव्ँ वि॒द्वान् पि॒तृभ्य॑ᳵ क॒रोति॑ ।
मूलम्
इत्य् आ॑ह।
वसि॑ष्ठस् समा॒नाना॑म् भवति ।
य ए॒वव्ँ वि॒द्वान् पि॒तृभ्य॑ᳵ क॒रोति॑ ।
भट्टभास्कर-टीका
वसिष्ठो वसुमत्तमः एवं वेदिता यः पितृभ्यः करोति पिण्डपितृयज्ञं करोति ॥
सायण-टीका
यः पुमानेवं नमस्कारमत्रं विद्वान्पित्रर्थ पिण्डदानं करोति स एष समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति ।
फलम्
विश्वास-प्रस्तुतिः
ए॒ष वै म॑नु॒ष्या॑णाय्ँ य॒ज्ञः ॥ 64 ॥
दे॒वानाव्ँ॒ वा इत॑रे य॒ज्ञाः ।
मूलम्
ए॒ष वै म॑नु॒ष्या॑णाय्ँ य॒ज्ञः ॥ 64 ॥
दे॒वानाव्ँ॒ वा इत॑रे य॒ज्ञाः ।
भट्टभास्कर-टीका
19 एष वा इति ॥ मनुष्यान् पितॄनुद्दिश्य करणात् मनुष्ययज्ञः ॥
सायण-टीका
पिण्डपितृयज्ञं प्रशंसति-
एष वै मनुष्याणां यज्ञः (८.) देवानां वा इतरे यज्ञाः ।
द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः । ये तु देवास्तेषां दर्शपूर्णमासादिका इतरे यज्ञाः ।
विश्वास-प्रस्तुतिः
तेन॒ वा ए॒तत् पि॑तृ-लो॒के च॑रति ।
मूलम्
तेन॒ वा ए॒तत् पि॑तृलो॒के च॑रति ।
सायण-टीका
तेन वा एतत्पितृलोके चरति ।
तस्मादेतेन पिण्डपितृयज्ञेनैष पुरुषः पितृलोके चरति ।
प्राजापत्यर्चा
विश्वास-प्रस्तुतिः
यत् पि॒तृभ्य॑ᳵ क॒रोति॒
स ई॑श्व॒रᳶ प्रमे॑तोः+++(=मर्तुं)+++ ।
मूलम्
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ । स ई॑श्व॒रᳶ प्रमे॑तोः ।
भट्टभास्कर-टीका
20 तेन वा इत्यादि ॥ यत् अयं पितृभ्यः पिण्डपितृयज्ञं करोति तेन हेतुना एतत् एष पितृलोके चरति सृत इव भवति । क्रियाविशेषणं वा पितृलोके खल्वेतच्चरणं यदयं पितृभ्यः करोति ।
ततः स एष प्रमेतोः ममर्तुं ईश्वरस्स्यात् । तस्मात् तत्परिहाराय प्राजापत्यया ‘प्रजापते न त्वत्’ इत्येतया ऋचा पुनरैति गार्हपत्यदेशं पुनरागच्छति ॥
सायण-टीका
अथ " प्रजापते न त्वदेतानि " इति मत्रेण गार्हपत्यदेशं प्रत्यागमनं विधत्ते -
यत्पितृभ्यᳶ करोति । स ईश्वरᳶ प्रमेतोः ।
यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृम्रियत्वात्सहसा मर्तुं सुसमर्थो भवति ।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यय॒र्चा पुन॒र् ऐति॑ ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञेनै॒व स॒ह पुन॒र् ऐति॑ ।
न प्र॒मायु॑को भवति ।
मूलम्
प्राजाप॒त्यय॒र्चा पुन॒र् ऐति॑ ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ ।
न प्र॒मायु॑को भवति ।
भट्टभास्कर-टीका
21 यज्ञो वा इत्यादि ॥ गतम् ॥
सायण-टीका
प्राजापत्ययर्चा पुनरैति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनरैति । न प्रमायुको भवति ।
तत्परिहाराय प्राजापत्यमत्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्रष्टृत्वेन यज्ञरूपत्वाद्यज्ञेनैव सह पुनरागतो भवति । अतो न म्रियते ।
विश्वास-प्रस्तुतिः
पि॒तृ॒लो॒के वा ए॒तद् यज॑मानश् चरति ।
मूलम्
पि॒तृ॒लो॒के वा ए॒तद् यज॑मानश् चरति ।
सायण-टीका
एतदेव समकं पुनरागमनं प्रशंसति-
पितृलोके वा एतद्यजमानश्चरति । यत्पितृभ्यᳶ करोति । स ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वावैनं तत उन्नेतुमर्हतीत्याहुः ।
विश्वास-प्रस्तुतिः
यत् पि॒तृभ्य॑ᳵ क॒रोति॒
स ई॑श्व॒र आर्ति॒म् आर्तोः॑ ।+++(4)+++
“प्र॒जाप॑ति॒स् त्वावैन॒न् तत॒ उन्ने॑तुम् अर्ह॒ती“त्य् आ॑हुः ।
मूलम्
यत्पि॒तृभ्य॑ᳵ क॒रोति॑ । स ई॑श्व॒र आर्ति॒मार्तोः॑ । “प्र॒जाप॑ति॒स् त्वावैन॒न् तत॒ उन्ने॑तुम् अर्ह॒ती"त्य् आ॑हुः ।
भट्टभास्कर-टीका
22 आर्तिमार्तोः आर्तिं गन्तुं व्यसने पतितुं ईश्वरः स्यात् । तत्र प्रजापतिरेव खलु एनं तत आर्तेः उन्नेतुं उद्धर्तुं अर्हति शक्नोति ॥
सायण-टीका
पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति । अतः स यजमानो मनुष्यलोके निस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं प्रजापतिरेव तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः ।
विश्वास-प्रस्तुतिः
यत् प्रा॑जाप॒त्यय॒र्चा पुन॒र् ऐति॑
प्र॒जाप॑तिर् ए॒वैन॒न् तत॒ उन्न॑यति ।
नार्ति॒म् आर्च्छ॑ति॒ यज॑मानः ॥ 65 ॥
मूलम्
यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ ।
प्र॒जाप॑तिरे॒वैन॒न्तत॒ उन्न॑यति ।
नार्ति॒म् आर्च्छ॑ति॒ यज॑मानः ॥ 65 ॥
भट्टभास्कर-टीका
23 यदित्यादि ॥ गतम् ॥
इति श्री भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये प्रथमेऽष्टके तृतीयप्रपाठके दशमोऽनुवाकः ॥ तृतीयः प्रश्नस्समाप्तः ॥
सायण-टीका
अतः प्राजापत्यमत्रेणाऽऽगच्छन्तं प्रजापतिरुद्धरति । सोऽप्याति न प्राप्नोति ।