विश्वास-प्रस्तुतिः
“नृ॒षद॒न् त्वे"त्य् आ॑ह।
मूलम्
“नृ॒षद॒न् त्वे"त्य् आ॑ह।
भट्टभास्कर-टीका
1 नृषदं त्वेत्यादि ॥ ‘उपयामगृहीतोसि नृषदं त्वा’ इति पञ्चैन्द्रानतिग्राह्यान्गृह्णाति ।
मूलम्
प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते ।
विश्वास-प्रस्तुतिः
प्र॒जा वै नॄन् , प्र॒जाना॑म् ए॒वैतेन॑ सूयते ।
मूलम्
प्र॒जा वै नॄन् , प्र॒जाना॑म् ए॒वैतेन॑ सूयते ।
भट्टभास्कर-टीका
प्रजा वै नॄनिति विभक्तिव्यत्ययः । प्रजा वै नर इति यावत् । तस्मात् प्रजानां सर्वासां सूयते यजमानः स्वामित्वेन अनुज्ञायते एतेन ‘नृषदं त्वा गृह्णामि'18इति ग्रहणेन । नृभिस्सदनं तत्स्वामित्वमेव, यदा ह्ययं नृणामीष्टे तदा नृषु सीदन् भवति । एवं ‘द्रुषदं त्वा'18इत्यादि वेदितव्यम् ।
विश्वास-प्रस्तुतिः
“द्रु॒षद॒मि"त्य् आ॑ह।
मूलम्
“द्रु॒षद॒मि"त्य् आ॑ह।
मूलम्
वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते ।
विश्वास-प्रस्तुतिः
वन॒स्पत॑यो॒ वै द्रु, वन॒स्पती॑नाम् ए॒वैतेन॑ सूयते ।
मूलम्
वन॒स्पत॑यो॒ वै द्रु, वन॒स्पती॑नाम् ए॒वैतेन॑ सूयते ।
भट्टभास्कर-टीका
वनस्पतयो वै द्रु इति । ‘सुपां सुलुक्’इति जसो लुक् ।
विश्वास-प्रस्तुतिः
“भु॒व॒न॒सद॒मि"त्य् आ॑ह ।
मूलम्
“भु॒व॒न॒सद॒मि"त्य् आ॑ह ।
भट्टभास्कर-टीका
भुवनसदमित्यादि । ‘भुवनसदं त्वा गृह्णामि'18इति ग्रहणेन भुवनं स्वामित्वेन गच्छति ।
मूलम्
य॒दा वै वसी॑या॒न्भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः ।
विश्वास-प्रस्तुतिः
य॒दा वै वसी॑या॒न् भव॑ति॒ “भुव॑नम् अग॒न्नि"ति॒ वै तम् आ॑हुः ।
भुव॑नम् ए॒वैतेन॑ गच्छति ॥ 53 ॥
मूलम्
य॒दा वै वसी॑या॒न् भव॑ति॒ “भुव॑नम् अग॒न्नि"ति॒ वै तम् आ॑हुः ।
भुव॑नम् ए॒वैतेन॑ गच्छति ॥ 53 ॥
भट्टभास्कर-टीका
कथमित्याह - यदेति । यदा अयं पुरुषो वसीयान् वसुमत्तरो भवति तदानीं वसीयांसं सर्वेऽप्याहुः अहो महाभागोऽयं भुवनं भूतजातं अखिलं अगन् अगमत् गमिष्यति अचिरात् स्वामी भविष्यतीति । यदि ह्यप्ययं कृत्स्नस्य भुवनस्येष्टे ततो दोषवान् भवति । गमेः ‘छन्दसि लुङ्लङ्लिटः’इति भविष्यति लुङ्, ‘मन्त्रे घस’इति लुक्, ‘मोनो धातोः’इति नत्वम् ॥
विश्वास-प्रस्तुतिः
“अ॒प्सु॒षद॑न् त्वा घृत॒सद॒मि"त्य् आ॑ह।
अ॒पाम् ए॒वैतेन॑ घृ॒तस्य॑ सूयते ।
मूलम्
“अ॒प्सु॒षद॑न् त्वा घृत॒सद॒मि"त्य् आ॑ह।
अ॒पाम् ए॒वैतेन॑ घृ॒तस्य॑ सूयते ।
भट्टभास्कर-टीका
2 अप्सुषदमिति ॥ ‘तत्पुरुषे कृति बहुलम्’इत्यलुक् । अपां घृतस्य च स्वाम्यनुज्ञायते ।
विश्वास-प्रस्तुतिः
“व्यो॒म॒सद॒मि"त्य् आ॑ह।
मूलम्
“व्यो॒म॒सद॒मि"त्य् आ॑ह।
मूलम्
य॒दा वै वसी॑या॒न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः ।
विश्वास-प्रस्तुतिः
य॒दा वै वसी॑या॒न् भव॑ति “व्यो॑माग॒न्नि"ति॒ वै तमा॑हुः ।
व्यो॑म+ ए॒वैते॑न गच्छति ।
मूलम्
य॒दा वै वसी॑या॒न् भव॑ति “व्यो॑माग॒न्नि"ति॒ वै तमा॑हुः ।
व्यो॑म+ ए॒वैते॑न गच्छति ।
भट्टभास्कर-टीका
व्योमसदमिति । यदाऽसौ वसीयान् भवति तदा एतं पुरुषं व्योम परं रक्षकं धर्मं गमिष्यति अयं महानुभावोऽचिराद्भविष्यतीति । समानमन्यत् ॥
विश्वास-प्रस्तुतिः
“पृ॒थि॒वि॒षद॑न् त्वा ऽन्तरिक्ष॒सद॒मि"त्य् आ॑ह।
ए॒षाम् ए॒वैतेन॑ लो॒कानाँ॑ सूयते ।
मूलम्
“पृ॒थि॒वि॒षद॑न् त्वा ऽन्तरिक्ष॒सद॒मि"त्य् आ॑ह।
ए॒षाम् ए॒वैतेन॑ लो॒कानाँ॑ सूयते ।
भट्टभास्कर-टीका
3 एषामेवेति ॥ एषां लोकानां अयं स्वामी गृह्यते सूयते अत एवास्य स्वत्वमिति ।
विश्वास-प्रस्तुतिः
तस्मा॑द् वाजपेयया॒जी न कञ्च॒न प्र॒त्यव॑रोहति ।
मूलम्
तस्मा॑द् वाजपेयया॒जी न कञ्च॒न प्र॒त्यव॑रोहति ।
भट्टभास्कर-टीका
तस्माद्वाजपेययाजी वाजपेयेनेष्टवान् कंचिदपि गुर्वादिकमपि न प्रत्यवरोहति दृष्ट्वा वाहनाविभ्यो नावतरति नाभ्युपगच्छति न प्रत्युत्तिष्ठति न चासनाच्चलति ।
विश्वास-प्रस्तुतिः
अपी॑व॒ हि दे॒वता॑नाँ सू॒यते॑ ॥ 54 ॥
मूलम्
अपी॑व॒ हि दे॒वता॑नाँ सू॒यते॑ ॥ 54 ॥
भट्टभास्कर-टीका
कुत इत्याह - अपीवेति । यस्मादेवं देवतानामपीव सूयते स्वाम्यनुज्ञायते । एवार्थ इवशब्दः देवपूजा[ … शब्दः देवानामेव । पूजा] र्थो वा ।
विश्वास-प्रस्तुतिः
“ना॒क॒सद॒मि"त्य् आ॑ह।
मूलम्
“ना॒क॒सद॒मि"त्य् आ॑ह।
मूलम्
य॒दा वै वसी॑या॒न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः ।
विश्वास-प्रस्तुतिः
य॒दा वै वसी॑या॒न् भव॑ति॒ “नाक॑मग॒न्नि"ति॒ वै तमा॑हुः ।
नाक॑म् ए॒वैतेन॑ गच्छति ।
मूलम्
य॒दा वै वसी॑या॒न् भव॑ति॒ “नाक॑मग॒न्नि"ति॒ वै तमा॑हुः ।
नाक॑म् ए॒वैतेन॑ गच्छति ।
भट्टभास्कर-टीका
नाकं परमसुखस्थानम् ॥
विश्वास-प्रस्तुतिः
“ये ग्रहा॑ᳶ पञ्चज॒नीना॒” इत्य् आ॑ह।
प॒ञ्च॒-ज॒नाना॑म् ए॒वैतेन॑ सूयते ।
“अ॒पाँ रस॒म् उद्व॑यस॒मि"त्य् आ॑ह।
अ॒पाम् ए॒वैतेन॒ रस॑स्य सूयते ।
“सूर्य॑-रश्मिँ स॒माभृ॑त॒मि"त्य् आ॑ह सशुक्र॒त्वाय॑ ॥ 55 ॥
मूलम्
“ये ग्रहा॑ᳶ पञ्चज॒नीना॒” इत्य् आ॑ह।
प॒ञ्च॒-ज॒नाना॑म् ए॒वैतेन॑ सूयते ।
“अ॒पाँ रस॒म् उद्व॑यस॒मि"त्य् आ॑ह।
अ॒पाम् ए॒वैतेन॒ रस॑स्य सूयते ।
“सूर्य॑-रश्मिँ स॒माभृ॑त॒मि"त्य् आ॑ह सशुक्र॒त्वाय॑ ॥ 55 ॥
भट्टभास्कर-टीका
4 निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । ‘दिक्संख्ये संज्ञायाम्’इति समासः । अपां तद्रसस्य च स्वामी भवति । सशुक्रत्वं सवीर्यत्वमुत्पादयितृत्वम् । यद्वा - सजलत्वाय सूर्यरश्मीनां वृष्टिहेतुत्वात् ॥
इति तृतीये नवमोऽनुवाकः ॥