विश्वास-प्रस्तुतिः
स॒प्तान्न॑-हो॒माञ् जु॑होति ।
मूलम्
स॒प्तान्न॑-हो॒माञ् जु॑होति ।
मूलम्
स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
स॒प्त वा अन्ना॑नि॒ याव॑न्त्य् ए॒वान्ना॑नि॒ तान्य् ए॒वाव॑रुन्धे ।
मूलम्
स॒प्त वा अन्ना॑नि॒ याव॑न्त्य् ए॒वान्ना॑नि॒ तान्य् ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
1 सप्तान्नहोमानित्यादि ॥ ‘वाजस्येमम्’ इत्यादयोऽन्नहोमाः । सप्त वा इत्यादि । ग्राम्यारण्ययोस्सामान्येनाभिधानम् ।
मूलम्
स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒मव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
स॒प्त ग्रा॒म्या ओष॑धयस् स॒प्तार॒ण्या उ॒भयी॑षा॒म् अव॑रुद्ध्यै ।
मूलम्
स॒प्त ग्रा॒म्या ओष॑धयस् स॒प्तार॒ण्या उ॒भयी॑षा॒म् अव॑रुद्ध्यै ।
भट्टभास्कर-टीका
तत्र सप्त ग्राम्या ओषधयः तिलमाषव्रीहियवाः प्रियङ्ग्वणवो गोधूमा इति ।
अथ सप्तारण्याः श्यामाकाश्च नीवाराश्च जर्तिलाश्च गवीधुका गार्मुताश्च वास्त्वानि च वेणुयवाश्चेति ॥
मूलम्
अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
अन्न॑स्यान्नस्य जुहोत्य्॒ अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।
मूलम्
अन्न॑स्यान्नस्य जुहोत्य्॒ अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
2 अन्नस्यान्नस्येति ॥ सर्वान्नस्य सर्वमन्नमेकीकृत्यान्नहोमाः कर्तव्याः सर्वस्यान्नस्य लाभाय ॥
मूलम्
यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्ञी॒यात् ॥48॥
अव॑रुद्धेन॒ व्यृ॑द्ध्येत ।
विश्वास-प्रस्तुतिः
यद् वा॑जपेयया॒ज्य् अन॑वरुद्ध॒स्याश्ञी॑या॒द् अव॑रुद्धेन॒ व्यृ॑द्ध्येत ।
मूलम्
यद् वा॑जपेयया॒ज्य् अन॑वरुद्ध॒स्याश्ञी॑या॒द् अव॑रुद्धेन॒ व्यृ॑द्ध्येत ।
भट्टभास्कर-टीका
3 यदित्यादि ॥ यदि वाजपेययाजी अनवरुद्धस्य इदानीं यागकालेऽपरिगृहीतस्य उत्तरकालं अश्नीयात् । कर्मणि षष्ठी । अवरुद्धेन व्यृद्ध्येत इदानीं यदवरुद्धं तदेनमवरुद्धग्राहिणं जह्यात् । तस्मात् सर्वमिदानीं अनेनावरोद्धव्यम् ।
मूलम्
सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
सर्व॑स्य समव॒दाय॑ जुहोत्य्॒ अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।
मूलम्
सर्व॑स्य समव॒दाय॑ जुहोत्य्॒ अन॑वरुद्ध॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
तदर्थं सर्वस्य समवदाय सर्वमन्नमेकीकृत्य ततोऽवदायान्नहोमान् जुहोति । अनवरुद्धस्यापि इदानीमेवावरोधनार्थं तद्भवति । ततो न कदाचित् व्यृद्धिः ॥
विश्वास-प्रस्तुतिः
औदु॑म्बरेण स्रु॒वेण॑ जुहोति ।
मूलम्
औदु॑म्बरेण स्रु॒वेण॑ जुहोति ।
भट्टभास्कर-टीका
4 औदुम्बरेणेति ॥ ‘अनुदात्तादेश्च’इत्यङ् ।
मूलम्
ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
ऊर्ग् वा अन्न॑म्, उदु॒म्बर॑ ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
ऊर्ग् वा अन्न॑म्, उदु॒म्बर॑ ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
ऊर्ग्वा इति । रसवतोऽन्नस्य हेतुः उदुम्बरः ॥
विश्वास-प्रस्तुतिः
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे"त्य् आ॑ह ।
स॒वि॒तृ-प्र॑सूत ए॒वैन॒म् ब्रह्म॑णा दे॒वता॑भिर् अ॒भिषि॑ञ्चति ।
मूलम्
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे"त्य् आ॑ह ।
स॒वि॒तृ-प्र॑सूत ए॒वैन॒म् ब्रह्म॑णा दे॒वता॑भिर् अ॒भिषि॑ञ्चति ।
भट्टभास्कर-टीका
5 देवस्य त्वेत्याद्यभिषेकः ॥ सवित्राऽभ्यनुज्ञात एव ब्रह्मणा मन्त्रेण देवताभिः सह अभिषिञ्चति ॥
मूलम्
अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥49॥
विश्वास-प्रस्तुतिः
अन्न॑स्यान्नस्या॒भिषि॑ञ्चत्य्॒ अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥49॥
मूलम्
अन्न॑स्यान्नस्या॒भिषि॑ञ्चत्य्॒ अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥49॥
भट्टभास्कर-टीका
6 अन्नस्यान्नस्येति ॥ सर्वौषधस्य पूरयित्वा तेनाभिषिञ्चति सर्वान्नलाभाय तत् भवति ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त् प्र॒त्यञ्च॑म् अ॒भिषि॑ञ्चति ।
पु॒रस्ता॒द् धि प्र॑ती॒चीन॒म् अन्न॑म् अ॒द्यते॑ ।
शी॒र्ष॒तो॑ ऽभि-षि॑ञ्चति ।
शी॒र्ष॒तो ह्य् अन्न॑म् अ॒द्यते॑ ।
मूलम्
पु॒रस्ता॑त् प्र॒त्यञ्च॑म् अ॒भिषि॑ञ्चति ।
पु॒रस्ता॒द् धि प्र॑ती॒चीन॒म् अन्न॑म् अ॒द्यते॑ ।
शी॒र्ष॒तो॑ ऽभि-षि॑ञ्चति ।
शी॒र्ष॒तो ह्य् अन्न॑म् अ॒द्यते॑ ।
भट्टभास्कर-टीका
पुरस्तादित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
आ मुखा॑द् अ॒न्व् अव॑स्रावयति ।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न् दधाति ।
मूलम्
आ मुखा॑द् अ॒न्व् अव॑स्रावयति ।
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न् दधाति ।
भट्टभास्कर-टीका
7 आमुखादित्यादि ॥ यावत् मुखमविच्छेदेन स्रावयति मुखादारभ्य अन्नाद्यमस्मै दधाति स्थापयति ॥
विश्वास-प्रस्तुतिः
“अ॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि-षि॑ञ्चा॒मी"त्य् आ॑ह ।
मूलम्
“अ॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि-षि॑ञ्चा॒मी"त्य् आ॑ह ।
मूलम्
ए॒ष वा अ॒ग्नेस्स॒वः । तेनै॒वैन॑म॒भिषि॑ञ्चति।
विश्वास-प्रस्तुतिः
ए॒ष वा अ॒ग्नेस् स॒वस् तेनै॒वैन॑म् अ॒भि-षि॑ञ्चति ।
मूलम्
ए॒ष वा अ॒ग्नेस् स॒वस् तेनै॒वैन॑म् अ॒भि-षि॑ञ्चति ।
भट्टभास्कर-टीका
8 अग्रेस्त्वेत्यादि ॥ अग्नेस्साम्राज्येन सम्यग्राजनहेतुना यज्ञेनाभिषिञ्चामीत्युक्ते कः पुनरसावित्याह - एष खलु वा अग्नेः साम्राज्यहेतुः सवः यज्ञः । यद्वा - एतत् सर्वौषधं अग्नेस्साम्राज्यहेतुः सवः । तेनैवैनमभिषिञ्चति ॥
विश्वास-प्रस्तुतिः
“इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि-षि॑ञ्चा॒मी"त्य् आ॑ह ।
इ॒न्द्रि॒यम् ए॒वास्मि॑न्न् ए॒तेन॑ दधाति ।
“बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भि-षि॑ञ्चा॒मी"त्य् आ॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑र् ब्रह्म॑णै॒वैन॑म् अ॒भिषि॑ञ्चति ।

9 इन्द्रस्य त्वेत्यादि । ‘एष वा इन्द्रस्य सवः’इत्याद्यनुक्तेऽपि गम्यते ॥ गतमन्यत् ॥
मूलम्
सो॒म॒ग्र॒हाँश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति ।
विश्वास-प्रस्तुतिः
सो॒म॒ग्र॒हाँश् चा॑वदानी॒यानि॑ च॒+ ऋत्विग्भ्य॒ उप॑हरन्ति ।
मूलम्
सो॒म॒ग्र॒हाँश् चा॑वदानी॒यानि॑ च॒+ ऋत्विग्भ्य॒ उप॑हरन्ति ।
भट्टभास्कर-टीका
10 सोमग्रहांश्चेत्यादि ॥ सोमग्रहांश्च अवदानीयानि च मांसानि प्राजापत्यानां पशूनां तानृत्विग्भ्य उपहरन्ति ददति ॥
विश्वास-प्रस्तुतिः
अ॒मुम् ए॒व तैर् लो॒कम् अन्न॑वन्तङ् करोति ।
मूलम्
अ॒मुम् ए॒व तैर् लो॒कम् अन्न॑वन्तङ् करोति ।
भट्टभास्कर-टीका
अमुमिति । तैः परलोके अन्नलाभः ।
विश्वास-प्रस्तुतिः
सु॒रा॒ग्र॒हाँश् चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ +++(उपहरन्ति)+++।
मूलम्
सु॒रा॒ग्र॒हाँश् चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ +++(उपहरन्ति)+++।
भट्टभास्कर-टीका
सुराग्रहांश्चानवदानीयानि च शिष्टानि मांसानि वाजसृद्भ्यः उपहरन्तीत्येव ।
विश्वास-प्रस्तुतिः
इ॒मम् ए॒व तैर् लो॒कम् अन्न॑वन्तङ् करोति ।
मूलम्
इ॒मम् ए॒व तैर् लो॒कम् अन्न॑वन्तङ् करोति ।
भट्टभास्कर-टीका
तैः मनुष्यलोकेऽस्मिन्नन्नलाभः । दृष्टार्थत्वाद्वाजसृताम् ।
विश्वास-प्रस्तुतिः
अथो॑ उ॒भयी॑ष्व् ए॒वाभि-षि॑च्यते ।
मूलम्
अथो॑ उ॒भयी॑ष्व् ए॒वाभि-षि॑च्यते ।
भट्टभास्कर-टीका
अथो अपि च उभयीषु उभयलोकवासिनीषु प्रजासु अभिषिच्यते आधिपत्येन स्थाप्यते । लोकप्रसङ्गेन प्रजानामाक्षेपः ॥
मूलम्
वि॒मा॒थङ्कु॑र्वते वाज॒सृतः॑ ॥51॥
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
वि॒मा॒थङ् कु॑र्वते वाज॒सृत॑ इन्द्रि॒यस्याव॑रुद्ध्यै ।
मूलम्
वि॒मा॒थङ् कु॑र्वते वाज॒सृत॑ इन्द्रि॒यस्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
11 विमाथमिति ॥ विप्रतिपत्त्याऽपहारो विमाथः । थाथादिनोत्तरपदान्तोदात्तत्वम् । लब्धं मांसमन्योन्यस्मात् अपहरन्ति । इन्द्रियस्य वीर्यस्य लाभाय तत् भवति । सामर्थ्यप्रदर्शनं सामर्थ्यलाभालाभार्थं भविष्यति ॥
विश्वास-प्रस्तुतिः
अनि॑रुक्ताभिᳶ प्रातस् सव॒ने स्तु॑वते ।
मूलम्
अनि॑रुक्ताभिᳶ प्रातस् सव॒ने स्तु॑वते ।
मूलम्
अनि॑रुक्तᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
विश्वास-प्रस्तुतिः
अनि॑रुक्तᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।
वाज॑वतीभि॒र् माध्य॑न्दिने +++( स्तु॑वते)+++।
मूलम्
अनि॑रुक्तᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।
वाज॑वतीभि॒र् माध्य॑न्दिने +++( स्तु॑वते)+++।
मूलम्
अन्नव्ँ॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै वाजो॒ ऽन्न॑म् ए॒वाव॑रुन्धे ।
मूलम्
अन्नव्ँ॒ वै वाजो॒ ऽन्न॑म् ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
12 अनिरुक्ताभिरित्यादि ॥ अव्यक्तदेवताकाभिस्स्तोत्रियाभिः स्तुवते अनिरुक्तात्मनः प्रजापतेराप्त्यै तद्भवति । वाजवत्यः वाजशब्दवत्याः ।
विश्वास-प्रस्तुतिः
शि॒पि॒वि॒ष्टव॑तीभिस् तृतीयसव॒ने +++( स्तु॑वते)+++।
य॒ज्ञो वै विष्णुः॑ ।
प॒शव॒श् शिपिः॑ ।
मूलम्
शि॒पि॒वि॒ष्टव॑तीभिस् तृतीयसव॒ने +++( स्तु॑वते)+++।
य॒ज्ञो वै विष्णुः॑ ।
प॒शव॒श् शिपिः॑ ।
भट्टभास्कर-टीका
शिपिविष्टवत्यः शिपिविष्टो विष्णुर्गृह्यते । तत्र यज्ञो विष्णुश्शिपिविष्टो भवति । पशवः शिपयो रश्मयः । जातावेकवचनम् । यैर्विष्टो विष्णुः ते रश्मयः पशवः पशूनां स्थितिहेतुत्वात् ।
विश्वास-प्रस्तुतिः
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।
मूलम्
य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
तस्माच्छिपिविष्टवतीभिः स्तोत्रं यज्ञे पशुषु च प्रतिष्ठायै भवति ॥
मूलम्
बृ॒हदन्त्य॑म्भवति ।
अन्त॑मे॒वैनँ॑ श्रि॒यै ग॑मयति ॥52॥
विश्वास-प्रस्तुतिः
बृ॒हदन्त्य॑म् भवत्य्॒ अन्त॑म् ए॒वैनँ॑ श्रि॒यै ग॑मयति ॥52॥
मूलम्
बृ॒हदन्त्य॑म् भवत्य्॒ अन्त॑म् ए॒वैनँ॑ श्रि॒यै ग॑मयति ॥52॥
भट्टभास्कर-टीका
13 बृहत् अन्त्यस्तोत्रं भवति यः अन्तं समाप्तिं परिपूर्णतां गमयत्येनम् । गत्यर्थत्वादणौ कर्तुः कर्मता ॥
इति तृतीये अष्टमोऽनुवाकः ॥