०७ , यूपारोहणम्

विश्वास-प्रस्तुतिः

ता॒र्प्यय्ँ यज॑मान॒म् परि॑धापयति ।

मूलम्

ता॒र्प्यय्ँ यज॑मान॒म् परि॑धापयति ।

भट्टभास्कर-टीका

1 तार्प्यमित्यादि ॥ आज्येन संतृप्तं वासः तार्प्यम् । तृपाख्यस्य वृक्षविशेषस्य विकार इत्येके । परिधानस्य प्राप्तिविशेषत्वात् अणौ कर्तुः कर्मता ।

मूलम्

य॒ज्ञो वै ता॒र्प्यम् ।
य॒ज्ञेनै॒वैनँ॒ सम॑र्धयति ।

विश्वास-प्रस्तुतिः

य॒ज्ञो वै ता॒र्प्यय्ँ य॒ज्ञेन॑+ ए॒वैनँ॒ सम॑र्धयति ।

मूलम्

य॒ज्ञो वै ता॒र्प्यय्ँ य॒ज्ञेन॑+ ए॒वैनँ॒ सम॑र्धयति ।

भट्टभास्कर-टीका

यज्ञो वा इति । तत्परिधानत्वात्ताच्छब्द्यम् ॥

विश्वास-प्रस्तुतिः

द॒र्भ॒मय॒म् परि॑धापयति ।

मूलम्

द॒र्भ॒मय॒म् परि॑धापयति ।

मूलम्

प॒वित्रव्ँ॒ वै द॒र्भाः । पु॒नात्ये॒वैन॑म् ।

विश्वास-प्रस्तुतिः

प॒वित्रव्ँ॒ वै द॒र्भाᳶ पु॒नात्य् ए॒वैन॑म् ।

मूलम्

प॒वित्रव्ँ॒ वै द॒र्भाᳶ पु॒नात्य् ए॒वैन॑म् ।

भट्टभास्कर-टीका

2 दर्भमयमिति ॥ ‘द्व्यचश्छन्दसि’इति मयट् । दर्भविकारं वासो यजमानमेव परिधापयति । ‘पुनात्येवैनम्’इति द्वयोस्समुच्चयः । विकल्पमेके । केचित्तु समुच्चयस्यासम्भवात् विकल्पस्य चान्याय्यत्वात् दर्भमयं पत्रीं परिधापयतीति । एनमिति कथम्? तादृशपत्नीयोगेन यजमान एव पूतो भवतीत्यदोषः । उक्तं चाचार्यैः ‘दर्भमयं पत्रीं’इति ।

मूलम्

वाजव्ँ॒वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पये॑न॒ यज॑ते ।

विश्वास-प्रस्तुतिः

वाजव्ँ॒ वा ए॒षो ऽव॑रुरुत्सते॒ यो वा॑ज॒पये॑न॒ यज॑ते ।
ओष॑धय॒ᳵ खलु॒ वै वाजः॑ ।

मूलम्

वाजव्ँ॒ वा ए॒षो ऽव॑रुरुत्सते॒ यो वा॑ज॒पये॑न॒ यज॑ते ।
ओष॑धय॒ᳵ खलु॒ वै वाजः॑ ।

मूलम्

यद्द॑र्भ॒मय॑म्परिधा॒पय॑ति ॥40॥
वाज॒स्याव॑रुद्ध्यै ।

विश्वास-प्रस्तुतिः

यद् द॑र्भ॒मय॑म् परिधा॒पय॑ति॒ वाज॒स्याव॑रुद्ध्यै ।

मूलम्

यद् द॑र्भ॒मय॑म् परिधा॒पय॑ति॒ वाज॒स्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

वाजं वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

“जाय॒ एहि॒ सुवो॒ रोहा॒वे"त्य् आ॑ह ।
पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वच्छित्त्यै +++(भवति)+++।

मूलम्

“जाय॒ एहि॒ सुवो॒ रोहा॒वे"त्य् आ॑ह ।
पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वच्छित्त्यै +++(भवति)+++।

भट्टभास्कर-टीका

3 पत्निया एवेति ॥ यजमानादनन्तरं पत्न्यपि यज्ञमारभत इति । अन्वारम्भः ‘जाय एहि’ इति पत्न्यामन्त्रणम् । स च अनवच्छित्यै पत्नीयजमानयोरविच्छेदाय भवति ॥

विश्वास-प्रस्तुतिः

स॒प्तद॑शारत्नि॒र् यूपो॑ भवति ।

मूलम्

स॒प्तद॑शारत्नि॒र् यूपो॑ भवति ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।

भट्टभास्कर-टीका

4 सप्तदशारत्निरिति ॥ चतुर्विंशतिरङ्गुलयोऽरत्निः । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

तू॒प॒रश् चतु॑रश्रिर् भवति ।

मूलम्

तू॒प॒रश् चतु॑रश्रिर् भवति ।

भट्टभास्कर-टीका

5 तूपर इत्यादि ॥ तूपरः शृङ्गहीनः । इह तु चषालादूर्ध्वं या शिखा तद्रहितत्वाद्यूपस्तूपर उच्यते । चतस्वोऽश्रयो यस्य स चतुरश्रिः ।

विश्वास-प्रस्तुतिः

गौ॒धू॒मञ् च॒षाल॑म् +++(भवति)+++।

मूलम्

गौ॒धू॒मञ् च॒षाल॑म् +++(भवति)+++।

भट्टभास्कर-टीका

गौधूमं गोधूमविकारः पिष्टमय इत्येके । कपाल इत्यन्ये । गोधूमा उक्ताः ।

मूलम्

न वा ए॒ते व्री॒हयो॒ न यवाः॑ । यद्गो॒धूमाः॑ ॥41॥

विश्वास-प्रस्तुतिः

न वा ए॒ते व्री॒हयो॒, न यवा॒ , यद् गो॒धूमाः॑ ॥41॥
ए॒वम् इ॑व॒ हि प्र॒जाप॑ति॒स् समृ॑द्ध्यै ।

मूलम्

न वा ए॒ते व्री॒हयो॒, न यवा॒ , यद् गो॒धूमाः॑ ॥41॥
ए॒वम् इ॑व॒ हि प्र॒जाप॑ति॒स् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

न वा एत इति । प्रसिद्धजात्यन्वयाभावेन गोधूमप्रजापत्योस्साम्यात् समृद्धिः ।

विश्वास-प्रस्तुतिः

अथो॑ अ॒मुम् ए॒वास्मै॑ लो॒कम् अन्न॑वन्तङ् करोति ।

मूलम्

अथो॑ अ॒मुम् ए॒वास्मै॑ लो॒कम् अन्न॑वन्तङ् करोति ।

भट्टभास्कर-टीका

अथो इति । यूपेन परलोकजयः पुनरपि तदुपरि गोधूमसंबन्धः पुनरपि देवलोकमन्नवन्तं यजमानाय करोति ॥

मूलम्

वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ ।

विश्वास-प्रस्तुतिः

वासो॑भिर् वेष्टयत्य् + ए॒ष वै यज॑मानो॒ यद् यूपः॑ ।
स॒र्व॒-दे॒व॒त्यव्ँ॑ वासः॑ ।

मूलम्

वासो॑भिर् वेष्टयत्य् + ए॒ष वै यज॑मानो॒ यद् यूपः॑ ।
स॒र्व॒-दे॒व॒त्यव्ँ॑ वासः॑ ।

भट्टभास्कर-टीका

6 वासोभिरित्यादि ॥ वेष्टनमुपरिबन्धनम् । प्राधान्यात् यूपयजमानयोस्ताच्छब्द्यम् । ‘अग्नेस्तूषाधानम्’ इत्यत्र वाससः सर्वदेवत्यत्वमुक्तम् ।

विश्वास-प्रस्तुतिः

सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒स् सम॑र्धयति ।

मूलम्

सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒स् सम॑र्धयति ।

भट्टभास्कर-टीका

तादृशवासस्संबन्धेन सर्वाभिर्देवताभिर्यूपं समृद्धं करोति तद्वन्तं वा यजमानम् ।

मूलम्

अथो॑ आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

अथो॑ आ॒क्रम॑णम् ए॒व तत् सेतुय्ँ॒ यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

अथो॑ आ॒क्रम॑णम् ए॒व तत् सेतुय्ँ॒ यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

अथो अपि च उपर्युपरि वासोवेष्टनेन आक्रमणं सोपानं सेतुं सोपानपरंपरां स्वर्गस्य प्राप्त्यै कुरुते ॥

विश्वास-प्रस्तुतिः

द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥42॥

मूलम्

द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥42॥

मूलम्

द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।

विश्वास-प्रस्तुतिः

द्वाद॑श॒ मासा॑स् सव्ँत्स॒रस् सव्ँ॑वत्स॒रमे॒व प्री॑णाति ।

मूलम्

द्वाद॑श॒ मासा॑स् सव्ँत्स॒रस् सव्ँ॑वत्स॒रमे॒व प्री॑णाति ।

मूलम्

अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

अथो॑ सव्ँवत्स॒रम् ए॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

अथो॑ सव्ँवत्स॒रम् ए॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

7 द्वादशेत्यादि ॥ ‘वाजश्च प्रसवश्च’ इत्यादीनि । वाजस्य अन्नस्य प्रसव उत्पत्तिः तत्प्रयोजनानि । अनुप्रवचनादित्वाच्छः ॥

विश्वास-प्रस्तुतिः

द॒शभि॒ᳵ कल्पै॑ रोहति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र् दश॒मी ।

मूलम्

द॒शभि॒ᳵ कल्पै॑ रोहति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र् दश॒मी ।

मूलम्

प्रा॒णाने॒व य॑थास्था॒नङ्क॑ल्पयि॒त्वा । सु॒व॒र्गल्ँ लो॒कमे॑ति ।

विश्वास-प्रस्तुतिः

प्रा॒णाने॒व य॑थास्था॒नङ् क॑ल्पयि॒त्वा सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।

मूलम्

प्रा॒णाने॒व य॑थास्था॒नङ् क॑ल्पयि॒त्वा सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।

मूलम्

ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ॥43 ॥
याव॑त्प्रा॒णाः ।

विश्वास-प्रस्तुतिः

ए॒ताव॒द् वै पुरु॑षस्य॒ स्वय्ँ याव॑त् प्रा॒णाः ।

मूलम्

ए॒ताव॒द् वै पुरु॑षस्य॒ स्वय्ँ याव॑त् प्रा॒णाः ।

भट्टभास्कर-टीका

8 दशभिरिति ॥ ‘आयुर्यज्ञेन कल्पताम्’ इत्यादिभिः यज्ञस्य कॢप्तिहेतुभिरारोहति । गतमन्यत् ।

मूलम्

याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।

विश्वास-प्रस्तुतिः

याव॑द् ए॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।

मूलम्

याव॑द् ए॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।

भट्टभास्कर-टीका

तेन सहेति । दशशब्दान्वयात् सर्वेण तेजसा सह स्वर्गे गच्छति ॥

मूलम्

सुव॑र्दे॒वाँ अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति ।

विश्वास-प्रस्तुतिः

“सुव॑र् दे॒वाँ अ॑ग॒न्मे"त्य् आ॑ह , सु॑व॒र्गम् ए॒व लो॒कम् ए॑ति ।

मूलम्

“सुव॑र् दे॒वाँ अ॑ग॒न्मे"त्य् आ॑ह , सु॑व॒र्गम् ए॒व लो॒कम् ए॑ति ।

भट्टभास्कर-टीका

9 ‘सुवर्देवा अगन्म'14इत्यग्रं प्राप्य जपति ॥

मूलम्

अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः ।

विश्वास-प्रस्तुतिः

“अ॒मृता॑ अभू॒मे"त्य् आ॑हा॒मृत॑म् इव॒ हि सु॑व॒र्गो लो॒कः ।

मूलम्

“अ॒मृता॑ अभू॒मे"त्य् आ॑हा॒मृत॑म् इव॒ हि सु॑व॒र्गो लो॒कः ।

भट्टभास्कर-टीका

10 अमृतमिवेति ॥ अमृतमिव मरणरहिताः स्वर्वासिन इत्यर्थः ॥

मूलम्

प्र॒जाप॑तेᳶ प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यल्ँ लो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ॥44॥

विश्वास-प्रस्तुतिः

“प्र॒जाप॑तेᳶ प्र॒जा अ॑भू॒मे"त्य् आ॑ह , प्राजाप॒त्यो वा अ॒यल्ँ लो॒को ऽ॒स्मादे॒व तेन॑ लो॒कान् नैति॑ ॥44॥

मूलम्

“प्र॒जाप॑तेᳶ प्र॒जा अ॑भू॒मे"त्य् आ॑ह , प्राजाप॒त्यो वा अ॒यल्ँ लो॒को ऽ॒स्मादे॒व तेन॑ लो॒कान् नैति॑ ॥44॥

भट्टभास्कर-टीका

11 प्राजापत्यो वा इति ॥ मनुष्यलोकस्य प्राजापत्यत्वात् ‘प्रजापतेः प्रजा अभूम'14इति वचनमस्माल्लोकादागमनाय भवति ॥

मूलम्

सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।

विश्वास-प्रस्तुतिः

“सम॒हम् प्र॒जया॒ सम्मया॑ प्र॒जे” त्य् आ॑हा॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“सम॒हम् प्र॒जया॒ सम्मया॑ प्र॒जे” त्य् आ॑हा॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

भट्टभास्कर-टीका

12 समहं प्रजयेति ॥ गृहपशुप्रेक्षणम् । आशिषमिति । समित्युपसर्गाक्षिप्ता संगसीयेत्येताम् ॥

विश्वास-प्रस्तुतिः

आ॒स॒पु॒टैर् घ्न॑न्ति ।

मूलम्

आ॒स॒पु॒टैर् घ्न॑न्ति ।

मूलम्

अन्नव्ँ॒वा इ॒यम् । अ॒न्नाद्ये॑नै॒वैनँ॒ सम॑र्धयन्ति ।

विश्वास-प्रस्तुतिः

अन्नव्ँ॒ वा इ॒यम् अ॒न्नाद्ये॑न+ ए॒वैनँ॒ सम॑र्धयन्ति ।

मूलम्

अन्नव्ँ॒ वा इ॒यम् अ॒न्नाद्ये॑न+ ए॒वैनँ॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

13 आसपुटैरित्यादि ॥ कृष्टक्षेत्रपांसव आसाः तत्पुटिकाभिरवतरन्तं घ्नन्ति ॥

विश्वास-प्रस्तुतिः

ऊषै॑र् घ्नन्ति ।

मूलम्

ऊषै॑र् घ्नन्ति ।

मूलम्

ए॒ते हि सा॒क्षादन्न॑म् । यदूषाः॑ ।

विश्वास-प्रस्तुतिः

ए॒ते हि सा॒क्षाद् अन्नय्ँ॒ यद् ऊषाः॑ ।
सा॒क्षाद् ए॒वैन॑म्‌ अ॒न्नाद्ये॑न॒ सम॑र्धयन्ति ।

मूलम्

ए॒ते हि सा॒क्षाद् अन्नय्ँ॒ यद् ऊषाः॑ ।
सा॒क्षाद् ए॒वैन॑म्‌ अ॒न्नाद्ये॑न॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

14 एते हीति ॥ आधानादौ साधनभावेन साक्षादन्नहेतुत्वात् ॥

विश्वास-प्रस्तुतिः

पु॒रस्ता॑त् प्र॒त्यञ्चं॑ घ्नन्ति ॥45॥

मूलम्

पु॒रस्ता॑त् प्र॒त्यञ्चं॑ घ्नन्ति ॥45॥

भट्टभास्कर-टीका

15 पुरस्तादित्यादि ॥ यूपस्य पुरस्तात् स्थिताः प्रत्यञ्चं प्रत्यङ्मुखं आत्माभिमुखं घ्नन्ति ।

विश्वास-प्रस्तुतिः

पु॒रस्ता॒द् धि प्र॑ती॒चीन॒म् अन्न॑म् अ॒द्यते॑ ।

मूलम्

पु॒रस्ता॒द् धि प्र॑ती॒चीन॒म् अन्न॑म् अ॒द्यते॑ ।

भट्टभास्कर-टीका

पुरस्ताद्धीति । प्राक् मुखैः भुञ्जानैः पुरस्तात् स्थितात् भाजनादादाय प्रतीचीनं प्रत्यग्गमनं आस्ये प्रक्षिप्य अन्नमद्यते ॥

विश्वास-प्रस्तुतिः

शी॒र्ष॒तो घ्न॑न्ति ।
शी॒र्ष॒तो ह्य् अन्न॑म् अ॒द्यते॑ ।

मूलम्

शी॒र्ष॒तो घ्न॑न्ति ।
शी॒र्ष॒तो ह्य् अन्न॑म् अ॒द्यते॑ ।

भट्टभास्कर-टीका

16 शीर्षत इति ॥ शिरसि शीर्षतो भवति आस्ये प्रक्षिप्तं जठरमागच्छति ॥

विश्वास-प्रस्तुतिः

दि॒ग्भ्यो घ्न॑न्ति ।

मूलम्

दि॒ग्भ्यो घ्न॑न्ति ।

भट्टभास्कर-टीका

17 दिग्भ्य इति ॥ एवं सर्वे सर्वासु दिक्षु घ्नन्ति ।

विश्वास-प्रस्तुतिः

दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒म् अव॑रुन्धते ।

मूलम्

दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒म् अव॑रुन्धते ।

भट्टभास्कर-टीका

दिग्भ्यस्सर्वाभ्यस्समाहृत्य अस्मै यजमानाय यजमानार्थं अवरुन्धते परिगृह्णन्ति ॥

मूलम्

ई॒श्व॒रो वा ए॒ष परा॑ङ्प्र॒दघः॑ । यो यूपँ॒ रोह॑ति ।

विश्वास-प्रस्तुतिः

ई॒श्व॒रो वा ए॒ष परा॑ङ् प्र॒दघो॒ यो यूपँ॒ रोह॑ति ।

हिर॑ण्यम् अ॒ध्यव॑रोहति ।

मूलम्

ई॒श्व॒रो वा ए॒ष परा॑ङ् प्र॒दघो॒ यो यूपँ॒ रोह॑ति ।

हिर॑ण्यम् अ॒ध्यव॑रोहति ।

मूलम्

अ॒मृतव्ँ॒ वै हिर॑ण्यम् । अ॒मृतँ॑ सुव॒र्गो लो॒कः ॥46॥
अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति ।

विश्वास-प्रस्तुतिः

अ॒मृतव्ँ॒ वै हिर॑ण्यम् , अ॒मृतँ॑ सुव॒र्गो लो॒को ऽ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति ।

मूलम्

अ॒मृतव्ँ॒ वै हिर॑ण्यम् , अ॒मृतँ॑ सुव॒र्गो लो॒को ऽ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

18 ईश्वरो वा एष इत्यादि ॥ यो यूपं रोहति एष पराङ् पुनरावृत्त एव प्रदघः प्रकर्षेण हन्तुं ईश्वरः स्यात् अप्रतिष्ठितो भवति न स्वर्गादवरूढो मन्तव्यः ।

  • पराङेव प्रदघः प्रस्थातुमीश्वरः । दघेः ‘ईश्वरे तोसुन्कसुनौ’ इति कसुन् । +++(अत्र प्रदघशब्दार्थः अन्यः , प्रकृते अन्यः,)+++
मूलम्

श॒तमा॑नम्भवति । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।

विश्वास-प्रस्तुतिः

श॒तमा॑नम् भवति श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।

मूलम्

श॒तमा॑नम् भवति श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

शतमानमिति । गतम् ॥

मूलम्

पुष्ट्यै॒ वा ए॒तद्रू॒पम् । यद॒जा ।

विश्वास-प्रस्तुतिः

पुष्ट्यै॒ वा ए॒तद् रू॒पय्ँ यद् अ॒जा ।

मूलम्

पुष्ट्यै॒ वा ए॒तद् रू॒पय्ँ यद् अ॒जा ।

भट्टभास्कर-टीका

19 पुष्ट्यै वा इति ॥ अजानां पुष्ट्या रूपं पुष्टिरेव स्वयं अजारूपोण वर्तते । षष्ठ्यर्थे चतुर्थी ।

विश्वास-प्रस्तुतिः

त्रिस् सव्ँ॑वत्स॒रस्या॒न्यान् प॒शून् परि॒ प्रजा॑यते ।
ब॒स्ता॒जि॒नम् अ॒ध्यव॑ रोहति ।

मूलम्

त्रिस् सव्ँ॑वत्स॒रस्या॒न्यान् प॒शून् परि॒ प्रजा॑यते ।
ब॒स्ता॒जि॒नम् अ॒ध्यव॑ रोहति ।

भट्टभास्कर-टीका

कथमस्याः पुष्टिरूपत्वमित्याह - त्रिरित्यादि । अत्यर्थे परिशब्दः । इयं हि अन्यान् गवादीन् पशूंश्च अतीत्य संवत्सरस्य त्रिः प्रजायते संवत्सर एकस्मिन् त्रिः प्रजायते अतिरेकेणापत्यमुत्पादयति । त्रिरिति वचनेनात्यन्तसंयोगाभावात् संबन्धसामान्ये षष्ठी । ‘कृत्वोर्थप्रयोगे’इति वा ।
एवमजत्वजातेर्महाभागत्वात् बस्ताजिनमध्यवरोइति ।

विश्वास-प्रस्तुतिः

पुष्ट्या॑म् ए॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥47॥

मूलम्

पुष्ट्या॑म् ए॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥47॥

भट्टभास्कर-टीका

एवं कुर्वन् पुष्ट्यां प्रजननात्मिकायां प्रतिष्ठितो भवति ॥

इति तृतीये सप्तमोऽनुवाकः ॥