०६ रथधावनम्

वाजपेयब्राह्मणम्

विश्वास-प्रस्तुतिः

“दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ् जेष॒मि"त्य् आ॑ह ।
स॒वि॒तृ-प्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒म् उज्ज॑यति ।

“दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒न् नाकँ॑ रुहेय॒"मित्य् आ॑ह ।
स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठ॒न् नाकँ॑ रोहति ।

मूलम्

भट्टभास्कर-टीका

1 देवस्याहं सवितुरित्यादि ॥ अनेन औदुम्बरं रथचक्रं ब्रह्मा आरोहति । ब्रह्मणा परिबृढेन रथचक्रेण कर्मणा वा तेन मन्त्रेण वा । उत्तरेण यजुर्युक्तं यजमान आरोहति रथम् । ब्रह्मणा रथेन कर्मणा वा मन्त्रेण वा ।
वर्षिष्ठं वृद्धतमम् ॥

विश्वास-प्रस्तुतिः

चात्वा॑ले रथ-च॒क्रन् निमि॑तँ रोहति ।

मूलम्

चात्वा॑ले रथ-च॒क्रन् निमि॑तँ रोहति ।

भट्टभास्कर-टीका

2 चात्वाल इत्यादि ॥ निमितं निखातम् ।

विश्वास-प्रस्तुतिः

अतो॒ वा अङ्गि॑रस उत्त॒मास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।

मूलम्

अतो॒ वा अङ्गि॑रस उत्त॒मास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।

भट्टभास्कर-टीका

अत इति । रथचक्रात् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

सा॒क्षाद् ए॒व यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
आवे॑ष्टयति ।

मूलम्

सा॒क्षाद् ए॒व यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।
आवे॑ष्टयति ।

भट्टभास्कर-टीका

आवेष्टयति चक्रं त्रिः प्रदक्षिणमावर्तयति ।

मूलम्

वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभिज॑यति ॥31॥

विश्वास-प्रस्तुतिः

वज्रो॒ वै रथो॒ वज्रे॑ण +ए॒व दिशो॒ ऽभि-ज॑यति ॥31॥

मूलम्

वज्रो॒ वै रथो॒ वज्रे॑ण +ए॒व दिशो॒ ऽभि-ज॑यति ॥31॥

भट्टभास्कर-टीका

वज्र इव साधनं रथचक्रम् । तस्मात्तेन भ्रमता वज्रेणैव दिशोऽभिजिता भवन्ति सर्वदिक्संबन्धित्वात् भ्रमणस्य ।

विश्वास-प्रस्तुतिः

वा॒जिनाँ॒ साम॑ गायते ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑म् ए॒वाव॑रुन्धे ।

मूलम्

वा॒जिनाँ॒ साम॑ गायते ।
अन्नव्ँ॒ वै वाजः॑ ।
अन्न॑म् ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

वाजिनां साम ब्रह्मा गायते । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

वा॒चो वर्ष्म॑ दे॒वेभ्यो ऽपा॑क्रामत् ।
तद् वन॒स्पती॒न् प्रावि॑शत् ।

मूलम्

वा॒चो वर्ष्म॑ दे॒वेभ्यो ऽपा॑क्रामत् ।
तद् वन॒स्पती॒न् प्रावि॑शत् ।

मूलम्

सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ ।

विश्वास-प्रस्तुतिः

सैषा वाग् वन॒स्पति॑षु वदति॒ , या दु॑न्दु॒भौ ।
तस्मा॑द् दुन्दु॒भिस् सर्वा॒ वाचो ऽति॑-वदति ।
दु॒न्दु॒भीन्त् स॒माघ्न॑न्ति ।

मूलम्

सैषा वाग् वन॒स्पति॑षु वदति॒ , या दु॑न्दु॒भौ ।
तस्मा॑द् दुन्दु॒भिस् सर्वा॒ वाचो ऽति॑-वदति ।
दु॒न्दु॒भीन्त् स॒माघ्न॑न्ति ।

मूलम्

प॒र॒मा वा ए॒षा वाक् ॥32॥
या दु॑न्दु॒भौ ।

विश्वास-प्रस्तुतिः

प॒र॒मा वा ए॒षा वा॒ग् या दु॑न्दु॒भौ ।

मूलम्

प॒र॒मा वा ए॒षा वा॒ग् या दु॑न्दु॒भौ ।

भट्टभास्कर-टीका

3 वाचो वर्ष्मेत्यादि ॥ वर्ष्म उच्छ्रितं स्वरूपम् । गतमन्यत् । अतिवदति आहतो दुंदुभिः सर्वान् शब्दानतीत्य वदति शब्दायते । तस्मात् दुंदुभीनित्यादि विधिः ।

विश्वास-प्रस्तुतिः

प॒र॒मयै॒व वा॒चा ऽव॑राव्ँ॒ वाच॒म् अ॑वरुन्धे ।

मूलम्

प॒र॒मयै॒व वा॒चा ऽव॑राव्ँ॒ वाच॒म् अ॑वरुन्धे ।

भट्टभास्कर-टीका

परमयैवेति । परमया दौन्दुऽभ्या वाचा देवसंबन्धिना हेतुना अवरां वाचं सर्वां मनुष्यार्हामवरुन्धे । यद्वा - परमया वाचा वाक्येन अवरामन्यां सर्वान्वाग्विकल्पान् लभते ।

विश्वास-प्रस्तुतिः

अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नो ऽव॑रुन्धे ।

मूलम्

अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नो ऽव॑रुन्धे ।

भट्टभास्कर-टीका

अपि च वाचो वर्ष्म उच्छ्रितं स्वरूपं सारं लभते ॥

मूलम्

इन्द्रा॑य॒ वाचव्ँ॑वद॒तेन्द्रव्ँ॒वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह ।

विश्वास-प्रस्तुतिः

“इन्द्रा॑य॒ वाचव्ँ॑ वद॒त, +इन्द्रव्ँ॒ वाज॑ञ् जापय॒त, +इन्द्रो॒ वाज॑म् अजय॒दि"त्य् आ॑ह ।

मूलम्

“इन्द्रा॑य॒ वाचव्ँ॑ वद॒त, +इन्द्रव्ँ॒ वाज॑ञ् जापय॒त, +इन्द्रो॒ वाज॑म् अजय॒दि"त्य् आ॑ह ।

भट्टभास्कर-टीका

4 इन्द्राय वाचं वदतेति दुंदुभीन् संह्लादयन्ति ॥

विश्वास-प्रस्तुतिः

ए॒ष वा ए॒तर्ही+ इन्द्रः॑ ।
यो यज॑ते ,यज॑मान ए॒व वाज॒म् उज्ज॑यति ।

मूलम्

ए॒ष वा ए॒तर्ही+ इन्द्रः॑ ।
यो यज॑ते ,यज॑मान ए॒व वाज॒म् उज्ज॑यति ।

भट्टभास्कर-टीका

एष वा इत्यादि । एतर्हि अस्मिन् काले । यजमानो वाजमन्नं उज्जयति, " इन्द्रं वाजं जापयत” इति लिङ्गात् ॥

विश्वास-प्रस्तुतिः

स॒प्तद॑श प्रव्या॒धाना॒जिन् धा॑वन्ति ।

मूलम्

स॒प्तद॑श प्रव्या॒धाना॒जिन् धा॑वन्ति ।

भट्टभास्कर-टीका

5 सप्तदशेति ॥ प्रव्याधाः शम्याक्षेपाः । इषुक्षपो इत्येके । तावत्प्रमाणावकाशे देशेऽवधिं कृत्वा धावन्ति ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शँ स्तो॒त्रम् भ॑वति ।

मूलम्

स॒प्त॒द॒शँ स्तो॒त्रम् भ॑वति ।

भट्टभास्कर-टीका

सप्तदशस्तोमो भवति ।

विश्वास-प्रस्तुतिः

स॒प्तद॑श सप्तदश दीयन्ते ॥33॥

मूलम्

स॒प्तद॑श सप्तदश दीयन्ते ॥33॥

भट्टभास्कर-टीका

सर्वा हस्त्यादयोपि सप्तदशसप्तदश दीयन्ते ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जा॑पते॒राप्त्यै॑ ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जा॑पते॒र् आाप्त्यै॑ ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जा॑पते॒र् आाप्त्यै॑ ।

भट्टभास्कर-टीका

सप्तदश इत्यादि । गतम् ॥

मूलम्

अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह ।

विश्वास-प्रस्तुतिः

“अर्वा॑ ऽसि॒” “सप्ति॑र् असि” “वा॒ज्य् अ॑सी"त्य् आ॑ह ।

मूलम्

“अर्वा॑ ऽसि॒” “सप्ति॑र् असि” “वा॒ज्य् अ॑सी"त्य् आ॑ह ।

मूलम्

अ॒ग्निर्वा अर्वा॑ । वा॒युस्सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थय्ँयु॑नक्ति ।

विश्वास-प्रस्तुतिः

अ॒ग्निर् वा अर्वा॑ , वा॒युस् सप्ति॑र् , आदि॒त्यो वा॒ज्य्, ए॒ताभि॑र् ए॒वास्मै॑ दे॒वता॑भिर् देव-र॒थय्ँ यु॑नक्ति ।

मूलम्

अ॒ग्निर् वा अर्वा॑ , वा॒युस् सप्ति॑र् , आदि॒त्यो वा॒ज्य्, ए॒ताभि॑र् ए॒वास्मै॑ दे॒वता॑भिर् देव-र॒थय्ँ यु॑नक्ति ।

भट्टभास्कर-टीका

6 अर्वाऽसि सप्तिरसीति प्रष्टिवाहिनं रथं युनक्ति ॥ एताभिः देवताभिः अग्न्यादिभिः एतं रथं देवरथमिव युनक्ति अनेन मन्त्रेण युक्तो देवरथ एव भवतीत्यर्थः ।

विश्वास-प्रस्तुतिः

प्र॒ष्टि॒-वा॒हिनय्ँ॑ युनक्ति ।

मूलम्

प्र॒ष्टि॒-वा॒हिनय्ँ॑ युनक्ति ।

भट्टभास्कर-टीका

प्रष्टिवाहिनमिति । प्रष्टिस्त्रिपद आधारः तं वहतीति प्रष्टिवाही । यत्र पृष्ठतः एकः पार्श्वयोः द्वौ वहन्ति तं त्रितयवन्तं युनक्ति ।

विश्वास-प्रस्तुतिः

प्र॒ष्टि॒-वा॒ही वै दे॑व-र॒थः ।
दे॒व॒-र॒थम् ए॒वास्मै॑ युनक्ति ॥34॥

मूलम्

प्र॒ष्टि॒-वा॒ही वै दे॑व-र॒थः ।
दे॒व॒-र॒थम् ए॒वास्मै॑ युनक्ति ॥34॥

भट्टभास्कर-टीका

देवरथो हि प्रष्टिवाही भवति । तस्मादेवं युक्तो देवरथ एव भवति ॥

विश्वास-प्रस्तुतिः

“वाजि॑नो॒ वाज॑न् धावत॒ , काष्ठा॑ङ् गच्छ॒ते"त्य् आ॑ह ।
सु॒व॒र्गो वै लो॒कᳵ काष्ठा॑ ।
सु॒व॒र्गम् ए॒व लो॒कय्ँ य॑न्ति ।

मूलम्

“वाजि॑नो॒ वाज॑न् धावत॒ , काष्ठा॑ङ् गच्छ॒ते"त्य् आ॑ह ।
सु॒व॒र्गो वै लो॒कᳵ काष्ठा॑ ।
सु॒व॒र्गम् ए॒व लो॒कय्ँ य॑न्ति ।

मूलम्

सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति । य आ॒जिन्धाव॑न्ति ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ य आ॒जिन् धाव॑न्ति ।

प्राञ्चो॑ धावन्ति ।
प्राङ् इ॑व॒ हि सु॑व॒र्गो लो॒कः ।

मूलम्

सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ य आ॒जिन् धाव॑न्ति ।

प्राञ्चो॑ धावन्ति ।
प्राङ् इ॑व॒ हि सु॑व॒र्गो लो॒कः ।

भट्टभास्कर-टीका

7 वाजिनो वाजं धावतेति चतसृभिः धावतोऽनुमन्त्रयते । स्वर्गलोकः काष्ठा आजिः स्वर्गसदृशी जयहेतुत्वात् । सुवर्गं वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

च॒त॒सृभि॒र् अनु॑ मन्त्रयते ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिर् ए॒वैना॑न्त् सुव॒र्गल्ँ लो॒कङ् ग॑मयति ॥35॥
प्र वा ए॒ते॑ ऽस्माल् लो॒काच् च्य॑वन्ते ।
य आ॒जिन् धाव॑न्ति ।

मूलम्

च॒त॒सृभि॒र् अनु॑ मन्त्रयते ।
च॒त्वारि॒ छन्दाँ॑सि ।
छन्दो॑भिर् ए॒वैना॑न्त् सुव॒र्गल्ँ लो॒कङ् ग॑मयति ॥35॥
प्र वा ए॒ते॑ ऽस्माल् लो॒काच् च्य॑वन्ते ।
य आ॒जिन् धाव॑न्ति ।

भट्टभास्कर-टीका

8 चतसृभिरिति ॥ अनन्तरोक्ताभिः । चत्वारि प्रधानानि सवनच्छन्दांसि । प्र वा इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

उद॑ञ् च॒ आव॑र्तन्ते ।
अ॒स्माद् ए॒व तेन॑ लो॒कान् नय॑न्ति ।

मूलम्

उद॑ञ् च॒ आव॑र्तन्ते ।
अ॒स्माद् ए॒व तेन॑ लो॒कान् नय॑न्ति ।

भट्टभास्कर-टीका

9 उदञ्च इति ॥ आजिं सृत्वा उदङ्मुखा आवर्तन्ते न दक्षिणामुखाः ॥

विश्वास-प्रस्तुतिः

र॒थ॒-वि॒मो॒च॒नीय॑ञ् जुहोति॒ प्रति॑ष्ठित्त्यै ।
“आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दि"त्य् आ॑ह ।

मूलम्

र॒थ॒-वि॒मो॒च॒नीय॑ञ् जुहोति॒ प्रति॑ष्ठित्त्यै ।
“आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दि"त्य् आ॑ह ।

मूलम्

अन्नव्ँ॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

अन्नव्ँ॒ वै वाजो॒ ऽन्न॑म् ए॒वाव॑रुन्धे ।

मूलम्

अन्नव्ँ॒ वै वाजो॒ ऽन्न॑म् ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

10 रथविमोचनीयमिति ॥ आमावाजस्येत्यादि । गतम् । अयं रथविमोचनीयः । रथविमोचनं प्रयोजनमस्येति ‘अनुप्रवचनादिभ्यश्छः’इति छः ।

विश्वास-प्रस्तुतिः

य॒था॒-लो॒कव्ँ वा ए॒त उज्ज॑यन्ति ।
य आ॒जिन् धाव॑न्ति ॥36॥

मूलम्

य॒था॒-लो॒कव्ँ वा ए॒त उज्ज॑यन्ति ।
य आ॒जिन् धाव॑न्ति ॥36॥

भट्टभास्कर-टीका

यथालोकं वा इत्यादि । यथालोकं यथावकाशं यो यस्यावकाशः स तस्मिन्नाजिसरणेन उज्जयति । एवं सर्वेऽपि किंचित्किंचिल्लोकं वाऽऽजिं जित्वा उज्ज्वला भवन्ति ।

विश्वास-प्रस्तुतिः

कृ॒ष्णल॑ङ् कृष्णलव्ँ वाज॒सृद्भ्य॒ᳶ प्रय॑च्छति ।

मूलम्

कृ॒ष्णल॑ङ् कृष्णलव्ँ वाज॒सृद्भ्य॒ᳶ प्रय॑च्छति ।

भट्टभास्कर-टीका

तस्मात्सर्वेभ्यो वाजसृद्भ्यः एकमेकं कृष्णलं कृष्णलप्रमाणं सुवर्णं प्रयच्छति । कृष्णमेवेत्येके ।

मूलम्

यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति । तम्प॑रि॒क्रीयाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यम् ए॒व ते वाजल्ँ॑ लो॒कम् उ॒ज्जय॑न्ति॒ तम् प॑रि॒क्रीयाव॑रुन्धे ।

मूलम्

यम् ए॒व ते वाजल्ँ॑ लो॒कम् उ॒ज्जय॑न्ति॒ तम् प॑रि॒क्रीयाव॑रुन्धे ।

भट्टभास्कर-टीका

तं तदीयं लोकं वाहं च परिक्रीय कृप्णलेन क्रीत्वा आत्मीयं करोति ।

विश्वास-प्रस्तुतिः

ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधाति ।

मूलम्

ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधाति ।

भट्टभास्कर-टीका

एकधेति । तानि कृष्णलान्यादाय ब्रह्मणे एकीकृत्य ददाति ॥

विश्वास-प्रस्तुतिः

दे॒वा वा ओष॑धीष्व् आ॒जिम॑युः ।

मूलम्

दे॒वा वा ओष॑धीष्व् आ॒जिम॑युः ।

भट्टभास्कर-टीका

11 देवा वा इत्यादि ॥ ओषधीषु ओषधिनिमित्तम् ।

विश्वास-प्रस्तुतिः

ता बृह॒स्पति॒र् उद॑जयत् ।

मूलम्

ता बृह॒स्पति॒र् उद॑जयत् ।

भट्टभास्कर-टीका

ताः सर्वा ओषधीः बृहस्पतिरुदजयत् ।

विश्वास-प्रस्तुतिः

स नी॒वारा॒न् निर॑वृणीत ।
तन् नी॒वारा॑णान् नीवार॒त्वम् ।

मूलम्

स नी॒वारा॒न् निर॑वृणीत ।
तन् नी॒वारा॑णान् नीवार॒त्वम् ।

भट्टभास्कर-टीका

स तदानीं नीवारान्निरवृणीत निष्कृष्य वृतवान् । निर्वार्य अन्या ओषधीः नीवारान् परिगृहीतवानिति यावत् ।

तस्मान्निर्वरेणान्नीवाराः । कर्मणि घञ् । उपसर्गविकारश्छान्दसः । निरर्थो वा निशब्दः । ‘नौ वृ धान्ये’इति घञ् । ‘उपसर्गस्य घञमनुष्ये’इति दीर्घत्वम् ।

विश्वास-प्रस्तुतिः

नै॒वा॒रश् च॒रुर् भ॑वति ॥37 ॥

मूलम्

नै॒वा॒रश् च॒रुर् भ॑वति ॥37 ॥

भट्टभास्कर-टीका

नैवारश्चरुर्भवतीति विधिः । यन्नीवारा इति विकारे प्रकृतिशब्दः ‘शालीन् भुङ्क्ते’इति यथा ।

मूलम्

ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् । यन्नी॒वाराः॑ ।

विश्वास-प्रस्तुतिः

ए॒तद् वै दे॒वाना॑म् पर॒म् अन्नय्ँ॒ यन् नी॒वाराः॑ ।

मूलम्

ए॒तद् वै दे॒वाना॑म् पर॒म् अन्नय्ँ॒ यन् नी॒वाराः॑ ।

भट्टभास्कर-टीका

नैवारश्चरुर्देवानां परममन्नं अन्नान्तरात् प्रकृष्टमिति ।

विश्वास-प्रस्तुतिः

प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम् अ॒न्नाद्य॒म् अव॑रुन्धे ।

मूलम्

प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम् अ॒न्नाद्य॒म् अव॑रुन्धे ।

भट्टभास्कर-टीका

परमेणैवेति । नैवारेण परमेणान्नाद्येन देवेभ्यो दत्तेन हेतुना अवरं मनुष्याभिमतं सर्वं अन्नाद्यमवरुन्धे वशीकरोति ॥

विश्वास-प्रस्तुतिः

स॒प्तद॑श-शरावो भवति ।

मूलम्

स॒प्तद॑श-शरावो भवति ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्ये॑ । क्षी॒रे भ॑वति ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्ये॑ क्षी॒रे भ॑वति ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्ये॑ क्षी॒रे भ॑वति ।

विश्वास-प्रस्तुतिः

रुच॑मे॒वास्मि॑न्दधाति ।

स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।

मूलम्

रुच॑मे॒वास्मि॑न्दधाति ।

स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।

भट्टभास्कर-टीका

12 सप्तदशशराव इत्यादि ॥ गतम् ।

मूलम्

बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ॥38॥
यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्ह॒स्प॒त्य ए॒ष च॒रुः ।

विश्वास-प्रस्तुतिः

बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या॒ ,यो वा॑ज॒पेये॑न॒ यज॑ते , बार्हस्प॒त्य ए॒ष च॒रुः ।

मूलम्

बा॒र्ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या॒ ,यो वा॑ज॒पेये॑न॒ यज॑ते , बार्हस्प॒त्य ए॒ष च॒रुः ।

भट्टभास्कर-टीका

बार्हस्पत्य इत्यादि । एषः वाजपेययाजी देवतया बार्हस्पत्यः बृहस्पतिदैवत्यः तस्मादयं चरुर्बार्हस्पत्यः कार्य इति । पत्युत्तरपदलक्षणो ण्यः ॥

विश्वास-प्रस्तुतिः

अश्वा॑न्त् सरिष्य॒तस् स॒स्रुष॒श् च+अव॑ घ्रापयति ।

मूलम्

अश्वा॑न्त् सरिष्य॒तस् स॒स्रुष॒श् च+अव॑ घ्रापयति ।

मूलम्

यमे॒व ते वाजल्ँ॑ लो॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यम् ए॒व ते वाजल्ँ॑ लो॒कम् उ॒ज्जय॑न्ति॒ तम् ए॒वाव॑रुन्धे ।

“अजी॑जिपत वनस्पतय॒ इन्द्रव्ँ॒ वाजव्ँ॒ विमु॑च्यध्व॒मि"ति॑ दुन्दु॒भीन् विमु॑ञ्चति ।

मूलम्

यम् ए॒व ते वाजल्ँ॑ लो॒कम् उ॒ज्जय॑न्ति॒ तम् ए॒वाव॑रुन्धे ।

“अजी॑जिपत वनस्पतय॒ इन्द्रव्ँ॒ वाजव्ँ॒ विमु॑च्यध्व॒मि"ति॑ दुन्दु॒भीन् विमु॑ञ्चति ।

भट्टभास्कर-टीका

13 अश्वानित्यादि ॥ सरिष्यतः आजिसरणं कर्तुकामान् सस्रुषश्च आजिसरणं कृतवतश्च (कर्मत्वम्) । जिघ्रतेर्ज्ञानार्थत्वादणौ कर्तुः कर्मत्वम् ।

मूलम्

यमे॒व ते वाजल्ँ॑ लो॒कमि॑न्द्रि॒यन्दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ॥39॥

विश्वास-प्रस्तुतिः

यम् ए॒व ते वाजल्ँ॑ लो॒कम् इ॑न्द्रि॒यन् दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति॒ तम् ए॒वाव॑रुन्धे ॥39॥

मूलम्

यम् ए॒व ते वाजल्ँ॑ लो॒कम् इ॑न्द्रि॒यन् दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति॒ तम् ए॒वाव॑रुन्धे ॥39॥

भट्टभास्कर-टीका

यमेवेत्यादि । गतम् । दुन्दुभिविमोचनेन वाजं लोकं इन्द्रियं च अवरुन्धे ॥

इति तृतीये षष्ठोऽनुवाकः ॥