०५ रथयाजनम्

वाजपेयब्राह्मणम्

विश्वास-प्रस्तुतिः

सा॒वि॒त्रञ् जु॑होति॒ कर्म॑णᳵकर्मणᳶ पु॒रस्ता॑त् ।

मूलम्

सा॒वि॒त्रञ् जु॑होति॒ कर्म॑णᳵकर्मणᳶ पु॒रस्ता॑त् ।

भट्टभास्कर-टीका

1 सावित्रं जुहोतीत्यादि ॥ ‘देवसवितः प्रसुव’ इति जुहिति कर्मणः दीक्षणीयादीनां पदार्थानामारम्भे ।

मूलम्

कस्तद्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वय्ँ॒यदप॑र॒मिति॑ ।

विश्वास-प्रस्तुतिः

“कस् तद् वे॒दे"त्य् आ॑हु॒र् यद् “वा॑ज॒पेय॑स्य॒ पूर्वय्ँ॒ यद् अप॑र॒मि"ति॑ ।

मूलम्

“कस् तद् वे॒दे"त्य् आ॑हु॒र् यद् “वा॑ज॒पेय॑स्य॒ पूर्वय्ँ॒ यद् अप॑र॒मि"ति॑ ।

भट्टभास्कर-टीका

कस्तदित्यादि । यद्वाजपेयस्य पूर्वं कर्म यदपरं तत् को वेद जानाति इदं पूर्वमिदमपरमिति को वाजपेयस्य जानाति पौर्वापर्यस्य दुर्ज्ञानत्वात् वैकृतानां बहुत्वात् इत्याहुः । तस्मादसुज्ञानानां कर्मणामारम्भे सावित्रं जुहोति ।

विश्वास-प्रस्तुतिः

स॒वि॒तृ-प्र॑सूत ए॒व य॑था-पू॒र्वङ् कर्मा॑णि करोति ।

मूलम्

स॒वि॒तृ-प्र॑सूत ए॒व य॑था-पू॒र्वङ् कर्मा॑णि करोति ।

भट्टभास्कर-टीका

सावित्रहोमेन उत्तराणि कर्माणि सवितृप्रसूतः सवित्रैवानुज्ञातो यथापूर्वं करोति येन पौर्वापर्येण प्रयुङ्क्ते । ‘तृतीया कर्मणि’इति पूर्वपदप्रकृतिस्वरत्वम् ॥

विश्वास-प्रस्तुतिः

सव॑ने-सवने जुहोति ।

मूलम्

सव॑ने-सवने जुहोति ।

भट्टभास्कर-टीका

2 सवनेसवन इति पक्षान्तरम् ॥ यथाऽऽहुः - ‘सवनादौ सवनादौ जुहोति कर्मणः कर्मणो वा पुरस्तात्’इति । यद्वा - कर्मणः पुरस्तादित्युक्ते चोदयन्ति - वाजपेयस्य कर्मणां पौर्वापर्यं को वेद येनैवमुच्यते कर्मणः पुरस्तादिति, सति हि पौर्वापर्यज्ञाने आरम्भज्ञानभिति तस्मादयुक्तमेतदिति । तस्मात्सवनानां आरम्भे होमात् सवित्रैवानुज्ञातः कर्माण्यपि यथापूर्वं करोति ।

मूलम्

आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

विश्वास-प्रस्तुतिः

आ॒क्रम॑णम् ए॒व तत् सेतुय्ँ॒ यज॑मानᳵ कुरुते॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

आ॒क्रम॑णम् ए॒व तत् सेतुय्ँ॒ यज॑मानᳵ कुरुते॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

किञ्च - आक्रमणसाधनं सेतुं कुरुते यजमानः । सुवर्गस्य लोकस्य समष्ट्यै सम्यक्प्राप्त्यै भवति ॥

विश्वास-प्रस्तुतिः

“वा॒चस्पति॒र् वाच॑म् अ॒द्य स्व॑दाति न॒” इत्य् आ॑ह ।
वाग् वै दे॒वाना॑म् पु॒रा ऽन्न॑म् आसीत् ।

मूलम्

“वा॒चस्पति॒र् वाच॑म् अ॒द्य स्व॑दाति न॒” इत्य् आ॑ह ।
वाग् वै दे॒वाना॑म् पु॒रा ऽन्न॑म् आसीत् ।

भट्टभास्कर-टीका

3 वाग्वा इत्यादि ॥ वागेव अन्नं देवानां पूर्वं आसीत् । वागेव स्थितिहेतुरासीत्, स्तुत्या च क्षुन्निवृत्तेः ।

विश्वास-प्रस्तुतिः

वाच॑म् ए॒वास्मा॒ अन्नँ॑ स्वदयति ॥27॥

मूलम्

वाच॑म् ए॒वास्मा॒ अन्नँ॑ स्वदयति ॥27॥

भट्टभास्कर-टीका

तस्मात् अस्मै यजमानाय यजमानार्थं वाचमन्नं च स्वदयति स्वादु करोति ॥

विश्वास-प्रस्तुतिः

“इन्द्र॑स्य॒ वज्रो॑ ऽसि॒ वार्त्र॑घ्न॒” इति॒ रथ॑म् उ॒पाव॑हरति॒ विजि॑त्यै ।
“वाज॑स्य॒ नु प्र॑स॒वे” “मा॒तर॑म् म॒हीमि"त्य् आ॑ह ।

मूलम्

“इन्द्र॑स्य॒ वज्रो॑ ऽसि॒ वार्त्र॑घ्न॒” इति॒ रथ॑म् उ॒पाव॑हरति॒ विजि॑त्यै ।
“वाज॑स्य॒ नु प्र॑स॒वे” “मा॒तर॑म् म॒हीमि"त्य् आ॑ह ।

भट्टभास्कर-टीका

4 उपावहरतीति ॥ रथवाहनादवतारयति इन्द्रसंबन्धात् विजित्यै च भवति ।

मूलम्

यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

यच्चै॒वेयय्ँ यच्चा॒स्याम् अधि॒ तद् ए॒वाव॑-रुन्धे ।

मूलम्

यच्चै॒वेयय्ँ यच्चा॒स्याम् अधि॒ तद् ए॒वाव॑-रुन्धे ।

भट्टभास्कर-टीका

यच्चेत्यादि । यच्चेयं पृथिवी यच्चास्यां पृथिव्यां अधि तत् द्वयं अवरुन्धे ।

विश्वास-प्रस्तुतिः

अथो॒ तस्मि॑न्न् ए॒वोभये॒ ऽभि-षि॑च्यते ।
“अ॒प्स्व् अ॑न्तर॒म् ऋत॑म् अ॒प्सु भे॑ष॒जमि"त्य् अश्वा॑न् पल्पूलयति ।

मूलम्

अथो॒ तस्मि॑न्न् ए॒वोभये॒ ऽभि-षि॑च्यते ।
“अ॒प्स्व् अ॑न्तर॒म् ऋत॑म् अ॒प्सु भे॑ष॒जमि"त्य् अश्वा॑न् पल्पूलयति ।

भट्टभास्कर-टीका

अथो अपि च तस्मिन्नुभये उभयस्मिन् यथोक्ते पृथिव्यां पृथिव्यवस्थिते च पदार्थे अभिषिच्यते उभयविषयमैश्वर्यं प्राप्यते ॥ 5 पल्पूलयति स्नापयति ॥

विश्वास-प्रस्तुतिः

अ॒प्सु वा अश्व॑स्य॒ तृती॑य॒म् प्रवि॑ष्टम् ।

मूलम्

अ॒प्सु वा अश्व॑स्य॒ तृती॑य॒म् प्रवि॑ष्टम् ।

भट्टभास्कर-टीका

अप्सु वा इत्यादि । अश्वस्य तृतीयो भागः अप्सु प्रविष्टः तद्योनित्वादश्वस्य । ‘पूरणाद्भागे तीयादन्’तेनाद्युदात्तत्वम् ।

मूलम्

तद॑नु॒वेन॒न्वव॑प्लवते । यद॒प्सु प॑ल्पू॒लय॑ति ॥28॥
यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

तद् अ॑नु॒वेन॒न् अन्व् अव॑प्लवते॒ यद् अ॒प्सु प॑ल्पू॒लय॑ति॒ यद् ए॒वास्या॒प्सु प्रवि॑ष्ट॒न् तद् ए॒वाव॑रुन्धे ।

मूलम्

तद् अ॑नु॒वेन॒न् अन्व् अव॑प्लवते॒ यद् अ॒प्सु प॑ल्पू॒लय॑ति॒ यद् ए॒वास्या॒प्सु प्रवि॑ष्ट॒न् तद् ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

तदन्वित्यादि । यस्मादिदमश्वमप्सु पल्पूलयति तन्मन्यामहे तदेव तृतीयं अनुवेनन् अनुकामयमानोऽवप्लवते । वेनतिः कान्तिकर्मा । उ इत्यवधारणे ।
यद्वा - अश्वस्य अप्सु यत् तृतीयं प्रविष्टं तदनु तल्लक्षीकृत्य तं तृतीयं भागमश्वं प्रापयितुं नु इति क्षिप्रं वा वितर्के, नूनं तदन्वेव एनमवप्लवते अवप्लवयति ।
यद्वा - अश्व एवोच्यते - तदेव तृतीयमनु नूनमेनदवप्लवतेऽश्वः अप्सु मज्जति । एनदिति क्रियाविशेषणं, छान्दसमाद्युदात्तत्वम् । ‘तन्वादीनाम्’इत्युवङ् ॥

विश्वास-प्रस्तुतिः

ब॒हु वा अश्वो॑ ऽमे॒ध्यम् उप॑-गच्छति ।

मूलम्

ब॒हु वा अश्वो॑ ऽमे॒ध्यम् उप॑-गच्छति ।

मूलम्

यद॒प्सु प॑ल्पू॒लय॑ति । मेध्या॑ने॒वैना॑न्करोति ।

विश्वास-प्रस्तुतिः

यद् अ॒प्सु प॑ल्पू॒लय॑ति॒ मेध्या॑न् ए॒वैना॑न् करोति ।
“वा॒युर् वा॑ त्वा॒ मनु॑र् वा॒ त्वे"त्य् आ॑ह ।

मूलम्

यद् अ॒प्सु प॑ल्पू॒लय॑ति॒ मेध्या॑न् ए॒वैना॑न् करोति ।
“वा॒युर् वा॑ त्वा॒ मनु॑र् वा॒ त्वे"त्य् आ॑ह ।

भट्टभास्कर-टीका

6 बहु वा इत्यादि ॥ अश्वः खलु पृथिव्यां भ्रमन् बहु अमेध्यं अयज्ञार्हरूपं उपगच्छति प्राप्नोति । मेध्यं मेधार्हं । न भवतीत्यमेध्यम् । ‘ययतोश्चातदर्थे’इत्युत्तरपदान्तोदात्तत्वम् । तस्मात्पल्पूलनया मेध्यान् अश्वान् करोति ॥

विश्वास-प्रस्तुतिः

ए॒ता वा ए॒तन् दे॒वता॒ अग्रे॒ अश्व॑म् अयुञ्जन् ।

मूलम्

ए॒ता वा ए॒तन् दे॒वता॒ अग्रे॒ अश्व॑म् अयुञ्जन् ।

मूलम्

ताभि॑रे॒वैना॑न्युनक्ति । स॒वस्योज्जि॑त्यै ।

विश्वास-प्रस्तुतिः

ताभि॑र् ए॒वैना॑न् युनक्ति स॒वस्योज्जि॑त्यै ।

मूलम्

ताभि॑र् ए॒वैना॑न् युनक्ति स॒वस्योज्जि॑त्यै ।

भट्टभास्कर-टीका

7 एता वा इत्यादि ॥ गतम् । सवस्य यज्ञस्य उज्जित्यै उज्जयाय भवति विशिष्टदेवताप्रकरणाभावात् ।

विश्वास-प्रस्तुतिः

यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥29॥

मूलम्

यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥29॥

भट्टभास्कर-टीका

यजुषा मन्त्रेण योजनं व्यावृत्यै भवति । यजुर्वेदपठितत्वादृगेव यजुरुच्यते ।

मूलम्

“अपा॑न्नपाद् आशुहेम॒न्नि"ति॒ सम्मा॑र्ष्टि ।

मेध्या॑न् ए॒वैना॑न् करोति ।

विश्वास-प्रस्तुतिः

“अपा॑न्नपाद् आशुहेम॒न्नि"ति॒ सम्मा॑र्ष्टि॒ , मेध्या॑न् ए॒वैना॑न् करोति ।

मूलम्

“अपा॑न्नपाद् आशुहेम॒न्नि"ति॒ सम्मा॑र्ष्टि॒ , मेध्या॑न् ए॒वैना॑न् करोति ।

भट्टभास्कर-टीका

संमार्ष्टि संमार्जनेन मेध्यान् मेधार्हात् एनाम् करोति ।

विश्वास-प्रस्तुतिः

अथो॒ स्तौत्य् ए॒वैना॑न् आ॒जिँ स॑रिष्य॒तः ।

मूलम्

अथो॒ स्तौत्य् ए॒वैना॑न् आ॒जिँ स॑रिष्य॒तः ।

भट्टभास्कर-टीका

अथो अपिच आजिं युद्धं सरिष्यतः आजिधावनं करिष्यतोऽश्वान् एवं स्तौति दुष्करे कर्मणि व्यवस्थापयितुं उत्तेजयति अपांनपादादिभिः पदैः ॥

विश्वास-प्रस्तुतिः

वि॒ष्णु॒क्र॒मान् क्र॑मते ।
विष्णु॑र् ए॒व भू॒त्वेमाल्ँ लो॒कान् अ॒भि-ज॑यति ।

मूलम्

वि॒ष्णु॒क्र॒मान् क्र॑मते ।
विष्णु॑र् ए॒व भू॒त्वेमाल्ँ लो॒कान् अ॒भि-ज॑यति ।

भट्टभास्कर-टीका

8 विष्णुक्रमानित्यादि ॥ गतम् । “विष्णोः क्रमोसि’ इत्यादयो विष्णुक्रमाः ।

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वो वै रथः॑ ।
“अ॒ङ्कौ न्य॒ङ्काव् अ॒भितो॒ रथय्ँ॒ यावि"त्य् आ॑ह ।

मूलम्

वै॒श्व॒दे॒वो वै रथः॑ ।
“अ॒ङ्कौ न्य॒ङ्काव् अ॒भितो॒ रथय्ँ॒ यावि"त्य् आ॑ह ।

मूलम्

या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः ।
ताभ्य॑ ए॒व नम॑स्करोति ।
आ॒त्मनोऽना॑र्त्यै ।

विश्वास-प्रस्तुतिः

या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टा॒स् ताभ्य॑ ए॒व नम॑स्करोत्य् आ॒त्मनो ऽना॑र्त्यै ।

मूलम्

या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टा॒स् ताभ्य॑ ए॒व नम॑स्करोत्य् आ॒त्मनो ऽना॑र्त्यै ।

भट्टभास्कर-टीका

वैश्वदेवो वा इति । विश्वेषां देवानां’वाहनत्वात् । ‘अङ्कौ न्यङ्कौ'8हति रथोपचारेण रथे प्रविष्टानां देवतानां नमस्कारः पूजा कृता भवति ।
आत्मनोऽनार्त्यै च भवति ।

विश्वास-प्रस्तुतिः

अश॑मरथम् भावुको ऽस्य॒ रथो॑ भवति ।
य ए॒वव्ँ वेद॑ ॥30॥

मूलम्

अश॑मरथम् भावुको ऽस्य॒ रथो॑ भवति ।
य ए॒वव्ँ वेद॑ ॥30॥

भट्टभास्कर-टीका

अशमरथंभावुक इति । एवं वेदिता यो वाजपेयेन यजते अस्य रथोऽशमरथंभावुको भवति शमरथाः शमरंहणाः शमरतयो वा निवृत्तोद्योगाः शमरथीभवितुं शीलं यस्य स शमरथंभावुकः । छान्दसः उकञ्प्रत्ययः । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥

इति तृतीये पञ्चमोऽनुवाकः ॥