०४ पशवः सप्तदश

वाजपेयब्राह्मणम्

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒ -वा॒दिनो॑ वदन्ति ।

मूलम्

ब्र॒ह्म॒ -वा॒दिनो॑ वदन्ति ।

मूलम्

नाग्नि॑ष्टो॒मो नोक्थ्यः॑ । न षो॑ड॒शी नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ ।

विश्वास-प्रस्तुतिः

“नाग्नि॑ष्टो॒मो, नोक्थ्यो॒, न षो॑ड॒शी, नाति॑रा॒त्रो ऽथ॒ कस्मा॑द् वाज॒पेये॒ सर्वे॑ यज्ञ-क्र॒तवो ऽव॑-रुध्यन्त॒” इति॑ ।

मूलम्

“नाग्नि॑ष्टो॒मो, नोक्थ्यो॒, न षो॑ड॒शी, नाति॑रा॒त्रो ऽथ॒ कस्मा॑द् वाज॒पेये॒ सर्वे॑ यज्ञ-क्र॒तवो ऽव॑-रुध्यन्त॒” इति॑ ।

भट्टभास्कर-टीका

1 ब्रह्मवादिन इत्यादि ॥ इदानीं पशुद्वारेण अग्निष्टोमादिरूपाणां वाजपेयस्य प्रतिपादयति - अग्निष्टोमाद्यात्मनोऽप्यस्य सर्वयज्ञक्रत्वात्मकत्वं वा कस्माद्धेतोर्भवति । अस्ति खलु स उपाय इति तज्जिज्ञासवो ब्रह्मवादिनः पृच्छन्ति । उक्थ्यादयोऽग्निष्टोमस्य गुणविकाराः । यज्ञाश्च क्रतवश्च यज्ञक्रतवः । क्रतवो यूपवन्तः, प्राधान्यात्पुनरुपादानम् ।

विश्वास-प्रस्तुतिः

“प॒शुभि॒र्” इति॑ ब्रूयात् ।

मूलम्

“प॒शुभि॒र्” इति॑ ब्रूयात् ।

भट्टभास्कर-टीका

पशुभिरिति । तेभ्यः पशुभिरिति उत्तरं भूयात् ।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम् प॒शुम् आल॑भते ।
अ॒ग्नि॒ष्टो॒मम् ए॒व तेनाव॑रुन्धे ।

मूलम्

आ॒ग्ने॒यम् प॒शुम् आल॑भते ।
अ॒ग्नि॒ष्टो॒मम् ए॒व तेनाव॑रुन्धे ।

भट्टभास्कर-टीका

तांश्च दर्शयति - आग्नेयमित्यादि । आग्नेयादिभिरग्निष्टोमाद्यात्मताऽस्य क्रियते । आग्नेयादयोऽग्निष्टोमादीनां सवनपशवः क्रतुव्यावृत्तिहेतवः ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रा॒ग्नेनो॒क्थ्य॑म् +++(अवरुध्यते)+++ ।

ऐ॒न्द्रेण॑ षोड॒शिन॑स् स्तो॒त्रम् +++(अवरुध्यते)+++ ।

सा॒र॒स्व॒त्या ऽति॑रा॒त्रम् +++(अवरुध्यते)+++ ।

मा॒रु॒त्या बृ॑ह॒तस्-स्तो॒त्रम् +++(अवरुध्यते)+++ ।

सारस्वती मेषी । मारुती वशा ॥

विश्वास-प्रस्तुतिः

ए॒ताव॑न्तो॒ वै य॑ज्ञ-क्र॒तवः॑ ।
तान् प॒शुभि॑र् ए॒वाव॑रुन्धे ।

आ॒त्मान॑म् ए॒व स्पृ॑णोत्य् अग्निष्टो॒मेन॑ ।
प्रा॒णा॒पा॒नाव् उ॒क्थ्ये॑न +++( स्पृणोति)+++।
वी॒र्यँ॑ षोड॒शिन॑स् स्तो॒त्रेण॑ +++( स्पृणोति)+++।
वाच॑म् अतिरा॒त्रेण॑ +++( स्पृणोति)+++।
प्र॒जाम् बृ॑ह॒तस् स्तो॒त्रेण॑ +++( स्पृणोति)+++।

2 एतावन्त इत्यादि ॥ गतम् । स्पृणोति प्रीणयति । अयं वाजपेयोऽग्निष्टोमाद्यात्मना आत्मादिप्रीणनहेतुर्भवति ।

विश्वास-प्रस्तुतिः

इ॒मम् ए॒व लो॒कम् अ॒भि-ज॑यत्य् अग्निष्टो॒मेन॑ ।
अ॒न्तरि॑क्षम् उ॒क्थ्ये॑न +++(अभिजयति)+++ ।
सु॒व॒र्गल्ँ लो॒कँ षो॑ड॒शिन॑स् स्तो॒त्रेण॑ +++(अभिजयति)+++ ।

दे॒व॒याना॑न् ए॒व प॒थ आरो॑हत्य् अतिरा॒त्रेण॑ ।
नाकँ॑ रोहति बृह॒तस् -स्तो॒त्रेण॑ ।

किञ्च - अनेन वाजपेयेन अग्निष्टोमाद्यात्मना पृथिव्यादीन् जयति ।

विश्वास-प्रस्तुतिः

तेज॑ ए॒वात्मन् ध॑त्त आग्ने॒येन॑ प॒शुना॑ । ओजो॒ बल॑म् ऐन्द्रा॒ग्नेन॑ +++(धत्ते)+++।
इ॒न्द्रि॒यम् ऐ॒न्द्रेण॑ +++(धत्ते)+++।
वाचँ॑ सारस्व॒त्या +++(धत्ते)+++।

मूलम्

तेज॑ ए॒वात्मन् ध॑त्त आग्ने॒येन॑ प॒शुना॑ । ओजो॒ बल॑म् ऐन्द्रा॒ग्नेन॑ +++(धत्ते)+++।
इ॒न्द्रि॒यम् ऐ॒न्द्रेण॑ +++(धत्ते)+++।
वाचँ॑ सारस्व॒त्या +++(धत्ते)+++।

मूलम्

उ॒भावे॒व दे॑वलो॒कञ्च॑ मनुष्यलो॒कञ्चा॒भिज॑यति मारु॒त्या व॒शया॑ ।

विश्वास-प्रस्तुतिः

उ॒भाव् ए॒व दे॑व-लो॒कञ् च॑ मनुष्य-लो॒कञ् चा॒भि-ज॑यति मारु॒त्या व॒शया॑ ।

मूलम्

उ॒भाव् ए॒व दे॑व-लो॒कञ् च॑ मनुष्य-लो॒कञ् चा॒भि-ज॑यति मारु॒त्या व॒शया॑ ।

भट्टभास्कर-टीका

अपि च तत्तत्सवनपशुभिराग्नेयादिभिः तेजःप्रभृतीन्यात्मनि धत्ते स्थापयति । ओजः ओजिष्ठमुज्ज्वलं बलम् ॥

विश्वास-प्रस्तुतिः

स॒प्तद॑श प्राजाप॒त्यान् प॒शून् आल॑भते ।

मूलम्

स॒प्तद॑श प्राजाप॒त्यान् प॒शून् आल॑भते ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥24॥
प्र॒जाप॑ते॒राप्त्यै॑ ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।

मूलम्

स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्यै॑ ।

मूलम्

श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑ति॒स्समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

श्या॒मा एक॑रूपा भवन्त्य् ए॒वम् इ॑व॒ हि प्र॒जाप॑ति॒स् समृ॑द्ध्यै ।

मूलम्

श्या॒मा एक॑रूपा भवन्त्य् ए॒वम् इ॑व॒ हि प्र॒जाप॑ति॒स् समृ॑द्ध्यै ।

भट्टभास्कर-टीका

3 सप्तदशेत्यादि ॥ गतम् ॥ एवमिवेति अव्यक्तत्वाच्छ्याम इव वर्णजात्याद्यनवधारणादेकरूपः । तस्माद्रूपसमृद्धिर्भवतीति ॥

विश्वास-प्रस्तुतिः

तान् पर्य॑ग्नि-कृता॒न् उथ्-सृ॑जति ।
म॒रुतो॑ य॒ज्ञम् अ॑जिघाँसन् प्र॒जाप॑तेः ।
तेभ्य॑ ए॒ताम् मा॑रु॒तीव्ँ व॒शाम् आल॑भत ।
तयै॒वैना॑न् अशमयत् ।

मूलम्

तान् पर्य॑ग्नि-कृता॒न् उथ्-सृ॑जति ।
म॒रुतो॑ य॒ज्ञम् अ॑जिघाँसन् प्र॒जाप॑तेः ।
तेभ्य॑ ए॒ताम् मा॑रु॒तीव्ँ व॒शाम् आल॑भत ।
तयै॒वैना॑न् अशमयत् ।

भट्टभास्कर-टीका

4 तानित्यादि ॥ तेषां प्राजापत्यानां पर्यग्निकरणानन्तरं उत्तरं प्राकृतं कर्म न कुर्यात् .। अपि तु मारुतीं वशामालभेत ।

मूलम्

मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्त्संज्ञ॑पयेत् ।

विश्वास-प्रस्तुतिः

मा॒रु॒त्या प्र॒चर्य॑+ ए॒तान्त् संज्ञ॑पयेत् ।

मूलम्

मा॒रु॒त्या प्र॒चर्य॑+ ए॒तान्त् संज्ञ॑पयेत् ।

मूलम्

म॒रुत॑ ए॒व श॑मयि॒त्वा ॥25॥
ए॒तैᳶ प्रच॑रति । य॒ज्ञस्याघा॑ताय ।

विश्वास-प्रस्तुतिः

म॒रुत॑ ए॒व श॑मयि॒त्वा+ ए॒तैᳶ प्रच॑रति य॒ज्ञस्याघा॑ताय ।

मूलम्

म॒रुत॑ ए॒व श॑मयि॒त्वा+ ए॒तैᳶ प्रच॑रति य॒ज्ञस्याघा॑ताय ।

भट्टभास्कर-टीका

हेतुमाह - मरुत इत्यादि ॥ गतम् ॥ तस्मान्मारुत्या प्रचर्य एतान् प्राजापत्यान् संज्ञपयेत् मारयेत् । शमयत्येव यज्ञस्य हन्तॄम् मरुतः । प्राजापत्यानां प्रचारः कृतो भवति । तच्च यज्ञस्यावधाय भवति ॥

विश्वास-प्रस्तुतिः

ए॒क॒धा व॒पा जु॑होति ।

मूलम्

ए॒क॒धा व॒पा जु॑होति ।

मूलम्

ए॒क॒दे॒व॒त्या॑ हि । ए॒ते ।

विश्वास-प्रस्तुतिः

ए॒क॒दे॒व॒त्या॑ ह्य् ए॒ते ।

मूलम्

ए॒क॒दे॒व॒त्या॑ ह्य् ए॒ते ।

भट्टभास्कर-टीका

5 एकधेति ॥ न पृथग्जुहोति । हेतुमाह - एकदेवत्या ह्येत हति ॥

विश्वास-प्रस्तुतिः

अथो॑ एक॒धैव यज॑माने वी॒र्य॑न् दधाति ।

मूलम्

अथो॑ एक॒धैव यज॑माने वी॒र्य॑न् दधाति ।

भट्टभास्कर-टीका

अथो अपि च एकीकृत्य सर्वं वीर्यं यजमाने दधाति ॥

विश्वास-प्रस्तुतिः

नै॒वा॒रेण॑ स॒प्तद॑शशरावेण +ए॒तर्हि॒ प्रच॑रति ।

मूलम्

नै॒वा॒रेण॑ स॒प्तद॑शशरावेण +ए॒तर्हि॒ प्रच॑रति ।

भट्टभास्कर-टीका

6 नैवारेणेत्यादि ॥ सप्तदशशरावेण सप्तदशसु शरावेषु संस्कृतेन । ‘द्विगोः’इति लुक् । ‘इगन्तकालकपालभगालशरावेषु’इति पूर्वपदप्रकृस्विरत्वम् । तत्रापि ‘सङ्ख्या’इति पूर्वपदप्रकृतिस्वरत्वम् । ईदृशेन चरुणा एतर्हि एतस्मिन् काले वपाहोमानन्तरं प्रचरति । ‘इदमोर्हिल्’एते तौ रथोः’इत्येतादेशः ।

विश्वास-प्रस्तुतिः

ए॒तत् पु॑रोडाशा॒ ह्य् ए॑ते ।

मूलम्

ए॒तत् पु॑रोडाशा॒ ह्य् ए॑ते ।

भट्टभास्कर-टीका

एतत्पुरोडाशाः एषः नैवारः पुरोडाशो येषां पुरोडाशकार्यकरणाच्चरुः पुरोडाशः ।

विश्वास-प्रस्तुतिः

अथो॑ पशू॒नाम् ए॒व छि॒द्रम् अपि॑-दधाति ।

मूलम्

अथो॑ पशू॒नाम् ए॒व छि॒द्रम् अपि॑-दधाति ।

भट्टभास्कर-टीका

अथो अपि च पशूनां छिद्रं कर्मवैकल्यमेतत्कालेन चरुणा अपिदधाति आपूरयति ॥

विश्वास-प्रस्तुतिः

सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति ।

मूलम्

सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति ।

मूलम्

वाग्वै सर॑स्वती ।
तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मा ।

विश्वास-प्रस्तुतिः

वाग् वै सर॑स्वती॒ , तस्मा॑त् प्रा॒णानाव्ँ॒ वाग् उ॑त्त॒मा ।
अथो॑ प्र॒जाप॑ताव् ए॒व य॒ज्ञम् प्रति॑ष्ठापयति ।

मूलम्

वाग् वै सर॑स्वती॒ , तस्मा॑त् प्रा॒णानाव्ँ॒ वाग् उ॑त्त॒मा ।
अथो॑ प्र॒जाप॑ताव् ए॒व य॒ज्ञम् प्रति॑ष्ठापयति ।

भट्टभास्कर-टीका

7 सारस्वत्योत्तमया अन्त्यया प्रचरति । वाग्वा इत्यादि ॥ गतम् ॥ सारस्वत्या उत्तमत्वात् प्रजापतावेव यज्ञः प्रतिष्ठापितः समापितो भवति ।

मूलम्

प्र॒जाप॑ति॒र्हि वाक् । अप॑न्नदती भवति ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्हि वा॒ग् अप॑न्नदती भवति ।

मूलम्

प्र॒जाप॑ति॒र्हि वा॒ग् अप॑न्नदती भवति ।

भट्टभास्कर-टीका

हेतुमाह - प्रजापतिर्हि वाक् सर्वात्मकत्वाद्वाजपेयस्य । अपन्नदती अविपन्नदन्ता सरस्वती भवति ‘छन्दसि च’ इति दतृभावः ।

विश्वास-प्रस्तुतिः

तस्मा॑न् मनु॒ष्या॑स् सर्वाव्ँ॒ वाचव्ँ॑ वदन्ति ॥26॥

मूलम्

तस्मा॑न् मनु॒ष्या॑स् सर्वाव्ँ॒ वाचव्ँ॑ वदन्ति ॥26॥

भट्टभास्कर-टीका

तस्मान्मनुष्याः सर्वां बहुप्रकारां वाचं वदन्ति ॥

इति तृतीये चतुर्थोऽनुवाकः ॥