वाजपेयब्राह्मणम्
मूलम्
दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावारु॑न्धत ।
तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत ।
विश्वास-प्रस्तुतिः
दे॒वा वै यद् अ॒न्यैर् ग्रहै॑र् य॒ज्ञस्य॒ नावारु॑न्धत॒ तद् अ॑तिग्रा॒ह्यै॑र् अति॒गृह्यावा॑रुन्धत ।
तद् अ॑तिग्र॒ह्या॑णाम् अति-ग्राह्य॒त्वम् ।
मूलम्
दे॒वा वै यद् अ॒न्यैर् ग्रहै॑र् य॒ज्ञस्य॒ नावारु॑न्धत॒ तद् अ॑तिग्रा॒ह्यै॑र् अति॒गृह्यावा॑रुन्धत ।
तद् अ॑तिग्र॒ह्या॑णाम् अति-ग्राह्य॒त्वम् ।
भट्टभास्कर-टीका
1 देवा वै यदन्यैरित्यादि ॥ यत् यज्ञस्य फलमन्यैर्नालभन्त तदतिग्राह्यैर्ग्रहैः ‘उपयामगृहीतोसि नृषदं त्वा’ इत्याद्यैः अवरुन्धत देवाः तत्प्रसादात् अतिगृह्य अन्यग्रहानतिक्रम्य एषां ग्रहणादेषामतिग्राह्यत्वम् ।
मूलम्
यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते॑ । यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नाव॑रु॒न्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद् अ॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते॒ यद् ए॒वान्यैर् ग्रहै॑र् य॒ज्ञस्य॒ नाव॑रु॒न्धे तद् ए॒व तैर् अ॑ति॒गृह्याव॑रुन्धे ।
मूलम्
यद् अ॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते॒ यद् ए॒वान्यैर् ग्रहै॑र् य॒ज्ञस्य॒ नाव॑रु॒न्धे तद् ए॒व तैर् अ॑ति॒गृह्याव॑रुन्धे ।
भट्टभास्कर-टीका
यदित्यादिः अतिग्राह्यग्रहणविधिः ॥
विश्वास-प्रस्तुतिः
पञ्च॑ गृह्यन्ते ।
पाङ्क्तो॑ य॒ज्ञः ।
मूलम्
पञ्च॑ गृह्यन्ते ।
पाङ्क्तो॑ य॒ज्ञः ।
मूलम्
यावा॑ने॒व य॒ज्ञः । तमा॒प्त्वाऽव॑रुन्धे ॥15॥
विश्वास-प्रस्तुतिः
यावा॑न् ए॒व य॒ज्ञस् तम् आ॒प्त्वा ऽव॑रुन्धे ॥15॥
मूलम्
यावा॑न् ए॒व य॒ज्ञस् तम् आ॒प्त्वा ऽव॑रुन्धे ॥15॥
भट्टभास्कर-टीका
2 पञ्चेत्यादि ॥ पञ्चत्वमैन्द्रत्वं च बिधीयते । ततः पञ्चत्वेन पङ्क्ति प्रभवं यज्ञं कात्स्नर्येन आप्त्वाऽवरुन्धे अनाप्तमपि फलम् । पङ्क्तिशब्दादुत्सादित्वादञ् ।
विश्वास-प्रस्तुतिः
सर्व॑ ऐ॒न्द्रा भ॑वन्ति ।
ए॒क॒धैव यज॑मान इन्द्रि॒यन् द॑धति ।
मूलम्
सर्व॑ ऐ॒न्द्रा भ॑वन्ति ।
ए॒क॒धैव यज॑मान इन्द्रि॒यन् द॑धति ।
भट्टभास्कर-टीका
अथ सर्वेषामैन्द्रत्वात् एकधा एकप्रकारं एव यजमाने इन्द्रियं दधति अतिग्राह्या ग्रहाः ॥
मूलम्
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । एक॑य॒र्चा गृ॑ह्णाति ।
विश्वास-प्रस्तुतिः
स॒प्त-द॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते ।
स॒प्त॒-द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्या॒ एक॑य॒र् चा गृ॑ह्णाति ।
मूलम्
स॒प्त-द॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते ।
स॒प्त॒-द॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒र् आप्त्या॒ एक॑य॒र् चा गृ॑ह्णाति ।
भट्टभास्कर-टीका
3 सप्तदशेत्यादि ॥ सप्तदाक्षरपरिणामत्वात् । एकयर्चेति । ‘अया विष्ठा जनयन्’ इत्यनया ।
विश्वास-प्रस्तुतिः
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधाति ।
मूलम्
ए॒क॒धैव यज॑माने वी॒र्य॑न् दधाति ।
भट्टभास्कर-टीका
एकधा यजमाने वीर्यं दधाति ॥
विश्वास-प्रस्तुतिः
सो॒म॒-ग्र॒हाँश् च॑ सुरा-ग्र॒हाँश् च॑ गृह्णाति ।
मूलम्
सो॒म॒-ग्र॒हाँश् च॑ सुरा-ग्र॒हाँश् च॑ गृह्णाति ।
मूलम्
ए॒तद्वै दे॒वाना॑म्पर॒ममन्न॑म् । यत्सोमः॑ ॥16॥
ए॒तन्म॑नु॒ष्या॑णाम् । यत्सुरा॑ ।
विश्वास-प्रस्तुतिः
ए॒तद् वै दे॒वाना॑म् पर॒म् अन्नय्ँ॑ यत् सोमः॑ ॥16॥
ए॒तन् म॑नु॒ष्या॑णाय्ँ॒ यत् सुरा॑ +++(अन्नम्)+++।
मूलम्
ए॒तद् वै दे॒वाना॑म् पर॒म् अन्नय्ँ॑ यत् सोमः॑ ॥16॥
ए॒तन् म॑नु॒ष्या॑णाय्ँ॒ यत् सुरा॑ +++(अन्नम्)+++।
भट्टभास्कर-टीका
4 सोमग्रहांश्च सुराग्रहांश्चेति ॥ सप्तदशेत्येव, तच्च प्रत्येकम् । एतद्वा इत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
प॒र॒मेण+एवास्मा॑ अ॒न्नाद्ये॒नाव॑रम् अ॒न्नाद्य॒म् अव॑रुन्धे ।
मूलम्
प॒र॒मेण+एवास्मा॑ अ॒न्नाद्ये॒नाव॑रम् अ॒न्नाद्य॒म् अव॑रुन्धे ।
भट्टभास्कर-टीका
परमेणेति । परममन्नाद्यं लभ्यते चेत् किं पुनरवरमिति भावः । न हि महारत्नं लब्धवद्भिः काचादयो दुर्लभाः । अतो हेतोरुभयग्रहणस्य उभयलाभार्थत्वात्फलसमुच्चयः । अन्यथा उत्कृष्टलाभा न गुणाय स्यात् ॥
विश्वास-प्रस्तुतिः
सो॒म॒-ग्र॒हान् गृ॑ह्णाति ।
मूलम्
सो॒म॒-ग्र॒हान् गृ॑ह्णाति ।
मूलम्
ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ । यत्सोमः॑ ।
विश्वास-प्रस्तुतिः
ब्रह्म॑णो॒ वा ए॒तत् तेजो॒ यत् सोमः॑ ।
ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति ।
मूलम्
ब्रह्म॑णो॒ वा ए॒तत् तेजो॒ यत् सोमः॑ ।
ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति ।
भट्टभास्कर-टीका
5 सोमग्रहानित्यादिपुनर्विधानं गुणान्तरार्थम् । ब्रह्मणस्तेजस्सोमः तत्साधनत्वात् ।
विश्वास-प्रस्तुतिः
सु॒रा॒-ग्र॒हान् गृ॑ह्णाति ।
मूलम्
सु॒रा॒-ग्र॒हान् गृ॑ह्णाति ।
मूलम्
अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ ॥17॥
विश्वास-प्रस्तुतिः
अन्न॑स्य॒ वा ए॒तच् छम॑लय्ँ॒ यत् सुरा॑ ॥17॥
अन्न॑स्यै॒व शम॑लेन॒ शम॑लय्ँ॒ यज॑माना॒द् अप॑हन्ति ।
मूलम्
अन्न॑स्य॒ वा ए॒तच् छम॑लय्ँ॒ यत् सुरा॑ ॥17॥
अन्न॑स्यै॒व शम॑लेन॒ शम॑लय्ँ॒ यज॑माना॒द् अप॑हन्ति ।
भट्टभास्कर-टीका
अन्नस्यैव शमलेनेति । शमलस्य हेयत्वात् अन्नस्य शमलेन गृह्यमाणेन सह यजमानशमलमपि गृहीतमिति तद्यनमानादपहतं भवति । तेजसस्तु उपादेयत्वात् ब्रह्मणस्तेजसा गृह्यमाणेन सह यजमानतेजोपि गृहीतमिति सर्व तेजो यजमाने दधाति ॥
विश्वास-प्रस्तुतिः
सो॒म॒ग्र॒हाँश् च॑ सुराग्र॒हाँश् च॑ गृह्णाति ।
मूलम्
सो॒म॒ग्र॒हाँश् च॑ सुराग्र॒हाँश् च॑ गृह्णाति ।
मूलम्
पुमा॒न्वै सोमः॑ । स्त्री सुरा॑ । तन्मि॑थु॒नम् ।
विश्वास-प्रस्तुतिः
पुमा॒न् वै सोम॒स् , स्त्री सुरा॒ ,तन् मि॑थु॒नम् +++(भवति)+++।
मूलम्
पुमा॒न् वै सोम॒स् , स्त्री सुरा॒ ,तन् मि॑थु॒नम् +++(भवति)+++।
भट्टभास्कर-टीका
6 स्रोमग्रहांश्चेतिपुनर्विधानं पुनरपि गुणान्तरप्रतिपादनार्थम् । पुमान् सोमः’पुल्लिङ्गपदवाच्यत्वात् ।
स्त्री सुरा स्त्रीलिङ्गपदवाच्यत्वात् । सर्वमन्यत् समानमिति ।
सदृशस्त्रीपुंसयुगलस्य मिथुनत्वात् सोमसुरायुगलं मिथुनं भवति । तथा हि सूयत इति सोमः औणादिको मन्प्रत्ययः, तथा सूयत इति सुरा, तत एव धातोरौणादिकः क्रन्प्रत्ययः ।
विश्वास-प्रस्तुतिः
मि॒थु॒नम् ए॒वास्य॒ तद् य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
मूलम्
मि॒थु॒नम् ए॒वास्य॒ तद् य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
भट्टभास्कर-टीका
एवमनयोस्समानप्रकृतिकत्वात् सदृशत्वमिति तादृशं मिथुनं यज्ञे क्रियते प्रनननार्थं प्रजानाम् ॥
विश्वास-प्रस्तुतिः
आ॒त्मान॑म् ए॒व सो॑मग्र॒हैस् स्पृ॑णोति ।
जा॒याँ सु॑राग्र॒हैः +++(स्पृणोति)+++ ।
मूलम्
आ॒त्मान॑म् ए॒व सो॑मग्र॒हैस् स्पृ॑णोति ।
जा॒याँ सु॑राग्र॒हैः +++(स्पृणोति)+++ ।
भट्टभास्कर-टीका
7 आत्मानमेवेत्यादि ॥ स्पृणोति प्रीणयति सोमग्रहैरात्मानं पुंस्त्वाद्द्वयोः । जायां सुराग्रहैरिति । स्पृणोतीत्येव, उभयोस्स्त्रीत्वात् ।
विश्वास-प्रस्तुतिः
तस्मा॑द् वाजपेय-या॒ज्य् अ॑मुष्मिल्ँ॑ लो॒के स्त्रियँ॒ सम्भ॑वति ।
वा॒ज॒पेया॑भिजितँ॒ ह्य् अ॑स्य ॥18॥
मूलम्
तस्मा॑द् वाजपेय-या॒ज्य् अ॑मुष्मिल्ँ॑ लो॒के स्त्रियँ॒ सम्भ॑वति ।
वा॒ज॒पेया॑भिजितँ॒ ह्य् अ॑स्य ॥18॥
भट्टभास्कर-टीका
तस्मादिति । सम्भवो भोगः । अस्य तद्भोगफलं यस्माद्वाजपेयेनाभिजितं आभिमुख्येन जितम् ॥
मूलम्
पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः ।
विश्वास-प्रस्तुतिः
पूर्वे॑ सोम-ग्र॒हा गृ॑ह्यन्ते॒ , अप॑रे सुरा-ग्र॒हाः +++(गृह्यन्ते)+++।
मूलम्
पूर्वे॑ सोम-ग्र॒हा गृ॑ह्यन्ते॒ , अप॑रे सुरा-ग्र॒हाः +++(गृह्यन्ते)+++।
मूलम्
पु॒रो॒ऽक्षँ सो॑मग्र॒हान्त्सा॑दयति । प॒श्चा॒द॒क्षँ सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै ।
विश्वास-प्रस्तुतिः
पु॒रो॒ ऽक्षँ सो॑म-ग्र॒हान्त् सा॑दयति , पश्चाद् अ॒क्षँ सु॑रा-ग्र॒हान् +++(सादयति)+++ पा॑पवस्य॒सस्य॒ विधृ॑त्यै ।
मूलम्
पु॒रो॒ ऽक्षँ सो॑म-ग्र॒हान्त् सा॑दयति , पश्चाद् अ॒क्षँ सु॑रा-ग्र॒हान् +++(सादयति)+++ पा॑पवस्य॒सस्य॒ विधृ॑त्यै ।
भट्टभास्कर-टीका
8 पूर्व इत्यादिः क्रमविधिः ॥ पुरोऽक्षमिति देशनियमः । रथाक्षस्य पुरस्तात् सोमग्रहान् सादयति, पश्चादक्षं रथाक्षस्थ पश्चात् सुराग्रहान् सादयतीत्येव । पापवस्यसस्य विधृत्यै पापं च वसीयश्च पुण्यं च पापवस्यसम् । अच्समासान्तः, ईयसुन इकारस्य लोपः । तयोर्विधृतिर्विभागः ।
मूलम्
ए॒ष वै यज॑मानः । यत्सोमः॑ । अन्नँ॒ सुरा॑ ।
विश्वास-प्रस्तुतिः
ए॒ष वै यज॑मानो॒ यत् सोमो॒ , अन्नँ॒ सुरा॑ ।
मूलम्
ए॒ष वै यज॑मानो॒ यत् सोमो॒ , अन्नँ॒ सुरा॑ ।
भट्टभास्कर-टीका
एष वा इत्यादि । सोमः स्वयं यजमानः, प्राधान्यात् । अन्नमेव सुरा ।
विश्वास-प्रस्तुतिः
सो॒म॒-ग्र॒हाँश् च॑ सुराग्र॒हाँश् च॒ व्यति॑षजति ।
अ॒न्नाद्ये॑न+ ए॒वैनव्ँ॒ व्यति॑षजति ॥19॥
मूलम्
सो॒म॒-ग्र॒हाँश् च॑ सुराग्र॒हाँश् च॒ व्यति॑षजति ।
अ॒न्नाद्ये॑न+ ए॒वैनव्ँ॒ व्यति॑षजति ॥19॥
भट्टभास्कर-टीका
तस्मात्तयोर्व्यतिषङ्गेण विमिश्रणेन एनं यजमानमन्नाद्येन व्यतिषजति ॥
विश्वास-प्रस्तुतिः
“स॒म्पृच॑स् स्थ॒ सम्मा॑ भ॒द्रेण॑ पृ॒ङ्क्ते"त्य् आ॑ह ।
मूलम्
“स॒म्पृच॑स् स्थ॒ सम्मा॑ भ॒द्रेण॑ पृ॒ङ्क्ते"त्य् आ॑ह ।
मूलम्
अन्नव्ँ॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैनँ॒ सँसृ॑जति ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै भ॒द्रम् , अ॒न्नाद्ये॑न+ ए॒वैनँ॒ सँसृ॑जति ।
मूलम्
अन्नव्ँ॒ वै भ॒द्रम् , अ॒न्नाद्ये॑न+ ए॒वैनँ॒ सँसृ॑जति ।
भट्टभास्कर-टीका
9 सम्पृचस्स्थ संमा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुद्द्रति ॥ तत्र भद्रपदं व्याचष्टे - अन्नं वा इत्यादि । गतम् । अथ ‘विपृचस्स्थ विमा पाप्मना पृङ्क्त’हति प्रत्यङ् प्रतिप्रस्थाता सुराग्रहैरुद्द्रवति ।
मूलम्
अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ ।
विश्वास-प्रस्तुतिः
अन्न॑स्य॒ वा ए॒तच्-छम॑लय्ँ॒ यत् सुरा॑ ।
पा॒प्मेव॒ खलु॒ वै शम॑लम् ।
पा॒प्मना॒ वा ए॑नम् ए॒तच्-छम॑लेन॒ व्यति॑षजति ।
यत् सो॑मग्र॒हाँश् च॑ सुराग्र॒हाँश् च॑ व्यति॒षज॑ति ।
“वि॒पृच॑स् स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्ते"त्य् आ॑ह ।
पा॒प्मना+ ए॒वैनँ॒ शम॑लेन॒ व्याव॑र्तयति ॥20॥

तत्र पाप्मपदं व्याचष्टे - अन्नस्य वा इत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
तस्मा॑द् वाजपेय-या॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ ।
मूलम्
तस्मा॑द् वाजपेय-या॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ ।
भट्टभास्कर-टीका
तस्मादित्यादि । पूतः शुद्धः मेध्यो मेधार्हः दक्षिण्यो दक्षिणार्हः । ‘कडङ्करदक्षिणाच्छ च’इति यत् ॥
विश्वास-प्रस्तुतिः
प्राङ् उद् -द्र॑वति सोम-ग्र॒हैः ।
अ॒मुम् ए॒व तैर् लो॒कम् अ॒भिज॑यति ।
प्र॒त्यङ्क् सु॑राग्र॒हैः +++(उद्द्रवति)+++।
इ॒मम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
प्रति॑ष्ठन्ति सोम-ग्र॒हैः ।
मूलम्
प्राङ् उद् -द्र॑वति सोम-ग्र॒हैः ।
अ॒मुम् ए॒व तैर् लो॒कम् अ॒भिज॑यति ।
प्र॒त्यङ्क् सु॑राग्र॒हैः +++(उद्द्रवति)+++।
इ॒मम् ए॒व तैर् लो॒कम् अ॒भि-ज॑यति ।
प्रति॑ष्ठन्ति सोम-ग्र॒हैः ।
भट्टभास्कर-टीका
10 प्राङित्यादि ॥ गतम् । प्रत्यङ् सुराग्रहैरित्यादि । उद्द्रवतीत्येव । प्रतिष्ठन्ति प्रचरन्ति । ‘समवप्रविभ्यः’इत्यात्मनेपदं कस्मान्न भवति? उच्यते - अयं प्रशब्दो यदा धात्वर्थस्य गतिनिवृत्तेर्निवृत्तिं गतिमाचष्टे तदाऽऽत्मनेपदमिष्यते । । नान्यत्र । यथा - ‘ब्रह्मन् प्रस्थास्यामः ओं प्रतिष्ठ’इत्यादौ ॥
मूलम्
याव॑दे॒व स॒त्यम् । तेन॑ सूयते ।
विश्वास-प्रस्तुतिः
याव॑द् ए॒व स॒त्यन् तेन॑ सूयते ।
मूलम्
याव॑द् ए॒व स॒त्यन् तेन॑ सूयते ।
भट्टभास्कर-टीका
यावदेवेति । यावत् सत्यं सति साधु तेन सर्वेणायं सूयते अनुज्ञायते सर्वेणानुज्ञातमस्यैश्वर्यं भवति सर्वात्मनां ईष्ट इति यावत् ॥
विश्वास-प्रस्तुतिः
वा॒ज॒सृद्भ्य॑स् सुराग्र॒हान् ह॑रन्ति ।
मूलम्
वा॒ज॒सृद्भ्य॑स् सुराग्र॒हान् ह॑रन्ति ।
भट्टभास्कर-टीका
11 वाजसृद्भ्य इति ॥ वाजसृतोऽन्नस्यार्जयितारो वैश्याः, अशनार्थं वा अन्नस्यार्जयितारो मनुष्याः । तेभ्यः सुराग्रहान् हरन्ति ।
विश्वास-प्रस्तुतिः
अनृ॑तेन+ ए॒व विशँ॒ सँसृ॑जति ।
मूलम्
अनृ॑तेन+ ए॒व विशँ॒ सँसृ॑जति ।
भट्टभास्कर-टीका
अनृतेन विशं संयोजयति । स्वयं तु सत्येनैनं सूयते ॥
मूलम्
हि॒र॒ण्य॒पा॒त्रम्मधो॑ᳶपू॒र्णन्द॑दाति । म॒ध॒व्यो॑ऽसा॒नीति॑ ।
विश्वास-प्रस्तुतिः
हि॒र॒ण्य॒-पा॒त्रम् मधो॑ᳶ-पू॒र्णन् द॑दाति॒ “मध॒व्यो॑ ऽसा॒नी"ति॑ ।
मूलम्
हि॒र॒ण्य॒-पा॒त्रम् मधो॑ᳶ-पू॒र्णन् द॑दाति॒ “मध॒व्यो॑ ऽसा॒नी"ति॑ ।
भट्टभास्कर-टीका
12 हिरण्यपात्रमिति ॥ ‘पूरणगुणसुहितार्थ’इति षष्ठीसमासप्रतिषेधात् षष्ठी ज्ञाप्यते । लिङ्गव्यत्ययः छान्दसः । मधुमान् मधव्यः ‘मधोर्य च’इति यः । मधुमान्भूयासमित्यनया आशिषा ददाति ।
विश्वास-प्रस्तुतिः
ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति ।
मूलम्
ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति ।
भट्टभास्कर-टीका
एकधेति । हिरण्यपात्रं कृष्णलानि च एकस्मै ब्रह्मणे उपहरति ददाति ।
विश्वास-प्रस्तुतिः
ए॒क॒धैव यज॑मान॒ आयु॒स् तेजो॑ दधाति ॥21॥
मूलम्
ए॒क॒धैव यज॑मान॒ आयु॒स् तेजो॑ दधाति ॥21॥
भट्टभास्कर-टीका
आयुस्तेजश्च एकधा सहैव यजमाने दधाति ॥
इति तृतीये तृतीयोऽनुवाकः ॥