वाजपेयब्राह्मणम्
विश्वास-प्रस्तुतिः
दे॒वा वै यथा॒-दर्शय्ँ॑ य॒ज्ञान् आह॑रन्त ।
मूलम्
दे॒वा वै यथा॒-दर्शय्ँ॑ य॒ज्ञान् आह॑रन्त ।
भट्टभास्कर-टीका
1 देवा वा इत्यादि ॥ अतः परमष्टावनुवाका वाजपेयब्राह्मणं सोमार्षेयम् ॥ यथादर्शं योयो यंयं क्रतुमपश्यत् सस तंतमाहरत्, कश्चिदुक्थ्यं, कश्चिदतिरात्रम् । दृशेर्णमुलि लित्स्वरः ।
एवं देवा यथादर्शं यज्ञान् अग्निष्टोमादीन् आहरन्त ।
मूलम्
यो॑ऽग्निष्टो॒मम् । य उ॒क्थ्य॑म् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन् ।
विश्वास-प्रस्तुतिः
यो॑ ऽग्निष्टो॒मय्ँ य उ॒क्थ्यय्ँ॑ यो॑ ऽतिरा॒त्रन् ते स॒हैव सर्वे॑ वाज॒पेय॑म् अपश्यन् ।
मूलम्
यो॑ ऽग्निष्टो॒मय्ँ य उ॒क्थ्यय्ँ॑ यो॑ ऽतिरा॒त्रन् ते स॒हैव सर्वे॑ वाज॒पेय॑म् अपश्यन् ।
भट्टभास्कर-टीका
तत्र योऽग्निष्टोमं अपश्यत् यश्च उक्थ्यं यश्च अतिरात्रं ते सर्वेऽपि सहैव वाजपेयमपश्यन् ।
मूलम्
ते । अ॒न्यो॑ऽन्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ ।
विश्वास-प्रस्तुतिः
ते ऽ॒न्यो॑ ऽन्यस्मै॒ नाति॑ष्ठन्त “अ॒हम् अ॒नेन॑ यजा॒” इति॑ ।
मूलम्
ते ऽ॒न्यो॑ ऽन्यस्मै॒ नाति॑ष्ठन्त “अ॒हम् अ॒नेन॑ यजा॒” इति॑ ।
भट्टभास्कर-टीका
अथ ते देवाः दृष्टवाजपेयाः अन्योन्यस्मै नातिष्ठन्त यज्ञविषयं कर्तृत्वं अहमनेन यजा इति प्राधान्यं वा आत्मन एवेच्छन्तोऽयमनेन यजतामिति अभ्युपगमाभिप्रायं अन्यस्मै सर्वे नाविष्कृतवन्तः ।
यदा कश्चिदेकोऽहमनेन यजा इत्याह तदा अन्योपि तथैव । न कश्चिदप्ययमनेन यजतामित्यन्वमन्यत, प्राधान्यं वा नासहत । ‘क्रियासमभिहारे सर्वनाम्नो द्वे भवतस्समासवच्च बहुलं यदा न समासवत् प्रथमैकवचनं तदा’इति पूर्वपदस्य असमासपक्षे पदयोः पृथक्स्वरत्वमेव । अन्यशब्दोन्तोदात्तः ‘स्वरितो वाऽनुदात्ते पदादौ’इति संहितायामोकारस्स्वर्यते । द्वितीयशब्दोन्तोदात्त एव । ‘श्लाघह्नुङ्स्थाशषाम्’इति संप्रदानत्वम् । ‘प्रकाशनस्थेयाख्ययोश्च’इत्यात्मनेपदम् ।
मूलम्
ते॑ऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ ॥8॥
विश्वास-प्रस्तुतिः
ते॑ ऽब्रुवन्न् - “आ॒जिम् अ॒स्य धा॑वा॒मे"ति॑ ॥
मूलम्
ते॑ ऽब्रुवन्न् - “आ॒जिम् अ॒स्य धा॑वा॒मे"ति॑ ॥
भट्टभास्कर-टीका
अथ ते विप्रतिपन्ना देवाः अब्रुवन् अस्य कृते सर्वेऽपि वयं आजिं धावाम, गन्तव्योऽवधिराजिः । अज गतौ, ‘अज्यतिभ्यां च’इतीण् । जयत्यनेनेति जयहेतुत्वाद्वा अवधेराजित्वम् । तं धावाम वेगेन प्राप्नुयाम । ‘सर्तेर्वेगितायां गतौ’इति धावादेशः ।
विश्वास-प्रस्तुतिः
तस्मि॑न्न् आ॒जिम् अ॑धावन् ।
मूलम्
तस्मि॑न्न् आ॒जिम् अ॑धावन् ।
भट्टभास्कर-टीका
तत्र धावतामस्माकं यो जयति स यक्ष्यतामिति कृतनिर्णयाः तस्मिन् वाजपेये निमित्ते आजिमधावन् ॥
विश्वास-प्रस्तुतिः
तम् बृह॒स्पति॒र् उद॑जयत् ।
तेना॑यजत ।
स स्वारा॑ज्यम् अगच्छत् ।
मूलम्
तम् बृह॒स्पति॒र् उद॑जयत् ।
तेना॑यजत ।
स स्वारा॑ज्यम् अगच्छत् ।
भट्टभास्कर-टीका
2 तमित्यादि ॥ गतम् । तं वाजपेयम् । स्वाराज्यमिति ।
मूलम्
तमिन्द्रो॑ऽब्रवीत् । माम॒नेन॑ याज॒येति॑ ।
विश्वास-प्रस्तुतिः
तम् इन्द्रो॑ ऽब्रवी॒न् - “माम् अ॒नेन॑ याज॒ये"ति॑ ।
तेनेन्द्र॑म् अयाजयत् ।
सो ऽग्र॑न् दे॒वता॑ना॒म् पर्यै॑त् ।
मूलम्
तम् इन्द्रो॑ ऽब्रवी॒न् - “माम् अ॒नेन॑ याज॒ये"ति॑ ।
तेनेन्द्र॑म् अयाजयत् ।
सो ऽग्र॑न् दे॒वता॑ना॒म् पर्यै॑त् ।
भट्टभास्कर-टीका
सोग्रमित्यादि । अग्रं प्राधान्यं ब्रह्मवर्चसिनामाधिपत्यं पर्यैत् पर्यगच्छत् ।
विश्वास-प्रस्तुतिः
अग॑च्छ॒त् स्वारा॑ज्यम् ।
मूलम्
अग॑च्छ॒त् स्वारा॑ज्यम् ।
भट्टभास्कर-टीका
अगच्छत् स्वाराज्यं माहाराज्यम् ।
विश्वास-प्रस्तुतिः
अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥9॥
मूलम्
अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥9॥
भट्टभास्कर-टीका
अतिष्ठन्त च अस्मै ज्यैष्ठ्याय प्राधान्याय देवाः ।
मूलम्
य ए॒वव्ँवि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते॒ गच्छ॑ति॒ स्वारा॑ज्यम् ।
अग्रँ॑ समा॒नाना॒म् पर्ये॑ति ।
मूलम्
य ए॒वव्ँ वि॒द्वान् वा॑ज॒पेये॑न॒ यज॑ते॒ गच्छ॑ति॒ स्वारा॑ज्यम् ।
अग्रँ॑ समा॒नाना॒म् पर्ये॑ति ।
भट्टभास्कर-टीका
य एवमित्यादि । स्वाराज्यं स्वायत्तदीप्तित्वम् । ब्रह्मवर्चसिनां समानानामग्रं प्राधान्यं पर्येति सर्वात्मना गच्छति ।
विश्वास-प्रस्तुतिः
तिष्ठ॑न्ते ऽस्मै॒ ज्यैष्ठ्या॑य ।
मूलम्
तिष्ठ॑न्ते ऽस्मै॒ ज्यैष्ठ्या॑य ।
भट्टभास्कर-टीका
अनुमन्यन्ते च अस्मै ज्यैष्ठ्यं प्रजाः ॥
विश्वास-प्रस्तुतिः
स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः ।
मूलम्
स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः ।
भट्टभास्कर-टीका
3 स वा एव इत्यादि ॥ वैश्यनिवृत्त्यर्थं वचनम् । बृहस्पतिना इन्द्रेण च प्रथममिष्टत्वात् ब्राह्मणराजन्ययोरेव एष यज्ञः ।
विश्वास-प्रस्तुतिः
“तव्ँ वा ए॒तव्ँ वा॑ज॒पेय॒” इत्य् आ॑हुः ।
मूलम्
“तव्ँ वा ए॒तव्ँ वा॑ज॒पेय॒” इत्य् आ॑हुः ।
भट्टभास्कर-टीका
तं वा इत्यादि । वाजायान्नाय पीयते सोमोऽस्मिन्निति वाजपेयः । अधिकरणे कृत्यः ।
विश्वास-प्रस्तुतिः
वा॒जाप्यो॒ वा ए॒षः ।
मूलम्
वा॒जाप्यो॒ वा ए॒षः ।
भट्टभास्कर-टीका
तत्रैव हेतुमाह - वाजाप्यः खलु एषः वाज आप्यतेऽनेनेति वाजाप्यः । करणे कृत्यः ।
विश्वास-प्रस्तुतिः
वाजँ॒ ह्य् ए॑तेन॑ दे॒वा ऐप्स॑न् ।
मूलम्
वाजँ॒ ह्य् ए॑तेन॑ दे॒वा ऐप्स॑न् ।
भट्टभास्कर-टीका
तदपि कुत इत्याह - वाजं खलु ऐतेन देवा ऐप्सन् आप्तुमैच्छन् । अहमनेन यजा इति वाजमीप्सन्तो देवाः पूर्वमन्योन्यस्मै नातिष्ठन्तेति भावः ॥
विश्वास-प्रस्तुतिः
सोमो॒ वै वा॑ज॒पेयः॑ ।
मूलम्
सोमो॒ वै वा॑ज॒पेयः॑ ।
मूलम्
यो वै सोमव्ँ॑वाज॒पेयव्ँ॒वेद॑ ॥10॥
वा॒ज्ये॑वैन॑म्पी॒त्वा भ॑वति ।
विश्वास-प्रस्तुतिः
यो वै सोमव्ँ॑ वाज॒पेयव्ँ॒ वेद॑ , वा॒ज्य् ए॑वैन॑म् पी॒त्वा भ॑वति ।
आ ऽस्य॑ वा॒जी जा॑यते ।
मूलम्
यो वै सोमव्ँ॑ वाज॒पेयव्ँ॒ वेद॑ , वा॒ज्य् ए॑वैन॑म् पी॒त्वा भ॑वति ।
आ ऽस्य॑ वा॒जी जा॑यते ।
भट्टभास्कर-टीका
4 सोमो वा इत्यादि ॥ सोम ओषधिराजः स्वयं वाजपेयः सर्वान्नपुष्टिहेतुत्वात्, तस्माद्वाजाप्य इति य एवं सोमात्मानं वाजपेयं वेद स एनं सोमं पीत्वा वाजी अन्नवान् भवत्येव अस्य वाजपेययाजिनः वाजी वाजवान् पुत्र आजायते सर्वतो जायते ।
मूलम्
अन्नव्ँ॒ वै वा॑ज॒पेयः॑ । य ए॒वव्ँ वेद॑ । अत्यन्न॑म् ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै वा॑ज॒पेयो॒ , य ए॒वव्ँ वेदा॒त्यन्न॑म् ।
मूलम्
अन्नव्ँ॒ वै वा॑ज॒पेयो॒ , य ए॒वव्ँ वेदा॒त्यन्न॑म् ।
भट्टभास्कर-टीका
किञ्च - अन्नं अन्नहेतुः अन्नादनसामर्थ्यकारी वाजपेयः, एवं वेदिता अन्नमत्ति अन्नादनसामर्थ्यवान्भवति ।
विश्वास-प्रस्तुतिः
आ ऽस्या॑न्ना॒दो जा॑यते ।
मूलम्
आ ऽस्या॑न्ना॒दो जा॑यते ।
भट्टभास्कर-टीका
अस्य च अन्नादः पुत्र आजायते ।
मूलम्
ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वव्ँ वेद॑ ।
विश्वास-प्रस्तुतिः
ब्रह्म॒ वै वा॑ज॒पेयो॒, य ए॒वव्ँ वेद॑ ।
मूलम्
ब्रह्म॒ वै वा॑ज॒पेयो॒, य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
अपि च - ब्रह्म त्रयी सैव वाजपेयः प्राधान्येन प्रतिपाद्यत्वात् ।
मूलम्
अत्ति॒ ब्रह्म॒णाऽन्न॑म् । आऽस्य॑ ब्र॒ह्मा जा॑यते ॥11॥
विश्वास-प्रस्तुतिः
अत्ति॒ ब्रह्म॒णा ऽन्न॒म् आऽस्य॑ ब्र॒ह्मा जा॑यते ॥11॥
मूलम्
अत्ति॒ ब्रह्म॒णा ऽन्न॒म् आऽस्य॑ ब्र॒ह्मा जा॑यते ॥11॥
भट्टभास्कर-टीका
एवं त्रय्या विद्यया निमित्तभूतया इत्थंभूतः अन्नमत्ति न शूद्रकल्पः । अस्य पुत्रो ब्रह्म त्रयीवित् आजायते ॥
विश्वास-प्रस्तुतिः
वाग् वै वाज॑स्य प्रस॒वः ।
मूलम्
वाग् वै वाज॑स्य प्रस॒वः ।
मूलम्
य ए॒वव्ँ वेद॑ । क॒रोति॑ वा॒चा वी॒र्य॑म् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॑ क॒रोति॑ वा॒चा वी॒र्य॑म् ।
मूलम्
य ए॒वव्ँ वेद॑ क॒रोति॑ वा॒चा वी॒र्य॑म् ।
भट्टभास्कर-टीका
5 वाग्वा इत्यादि ॥ वाजस्य प्रसवः उत्पत्तिकारणं वाजपेयः स्वयं वाक् वाचो हेतुत्वात् । एवं वेदिता वाचा वीर्यं आत्मनः करोति श्रद्धेयवचनः सर्वस्य भवति ।
विश्वास-प्रस्तुतिः
ऐनव्ँ॑ वा॒चा ग॑च्छति ।
मूलम्
ऐनव्ँ॑ वा॒चा ग॑च्छति ।
भट्टभास्कर-टीका
किञ्च – एनं वाजपेययाजिनं वेदितारं च वाचा स्तुतिरूपया सर्वो जन आगच्छति स्तौतीत्यर्थः ।
विश्वास-प्रस्तुतिः
अपि॑वतीव्ँ॒ वाचव्ँ॑ वदति ।
मूलम्
अपि॑वतीव्ँ॒ वाचव्ँ॑ वदति ।
भट्टभास्कर-टीका
अपिच - अयं वाजपेययाजी वेदिता च अपिवतीं सम्भावनावंती वाचं वदति । यद्वा - अपिवती सरसा पुनरपि स्तोतव्यत्वमस्यास्तीति अपिनामेयमस्माकं स्तुतिपथे स्यादिति यस्यां भवति सा अपिवती ॥
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स आ॒त्मन् वा॑ज॒पेय॑म् अधत्त ।
तन् दे॒वा अ॑ब्रुवन् ।
मूलम्
प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स आ॒त्मन् वा॑ज॒पेय॑म् अधत्त ।
तन् दे॒वा अ॑ब्रुवन् ।
भट्टभास्कर-टीका
6 प्रजापतिर्देवेभ्य इत्यादि ॥ व्यादिशत् पृथक्पृथक् दत्तवान् ।
मूलम्
ए॒ष वाव य॒ज्ञः । यद्वा॑ज॒पेयः॑ ॥12॥
विश्वास-प्रस्तुतिः
“ए॒ष वाव य॒ज्ञो यद् वा॑ज॒पेयः॑ ॥12॥
अप्य् ए॒व नो ऽत्रा॒स्त्व्” इति॑ ।
तेभ्य॑ ए॒ता उज्जि॑ती॒ᳶ प्राय॑च्छत् ।
मूलम्
“ए॒ष वाव य॒ज्ञो यद् वा॑ज॒पेयः॑ ॥12॥
अप्य् ए॒व नो ऽत्रा॒स्त्व्” इति॑ ।
तेभ्य॑ ए॒ता उज्जि॑ती॒ᳶ प्राय॑च्छत् ।
भट्टभास्कर-टीका
एष वाव इति । एष खलु यज्ञः । तस्मात् अत्रापि यज्ञे अस्माकं किञ्चिदपि अस्त्वेवेत्युक्तवद्भ्यो देवेभ्य एता उज्जितीः ‘अग्निरेकाक्षरेण’ इत्याद्याः प्रायच्छत् ।
मूलम्
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒मनि॑र्भागाय ।
विश्वास-प्रस्तुतिः
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते य॒ज्ञस्य॑ सर्व॒त्वाय॑ , दे॒वता॑ना॒म् अनि॑र्भागाय ।
मूलम्
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते य॒ज्ञस्य॑ सर्व॒त्वाय॑ , दे॒वता॑ना॒म् अनि॑र्भागाय ।
भट्टभास्कर-टीका
तस्मात् एता उज्जितयो व्याख्यायन्ते विशेषेणोच्यन्ते । उज्जयहेतुत्वादुज्जितथः ता एता व्याख्यायमाना यज्ञस्य सर्वत्वाय भवन्ति सर्वाङ्गसहितत्वाय सर्वदेवताकत्वाय । अपिच देवतानां च अनिर्भागाय निर्भागत्वं मा भूदिति ॥
विश्वास-प्रस्तुतिः
दे॒वा वै ब्रह्म॑ण॒श् चान्न॑स्य च॒ शम॑ल॒म् अपा॑घ्नन् ।
मूलम्
दे॒वा वै ब्रह्म॑ण॒श् चान्न॑स्य च॒ शम॑ल॒म् अपा॑घ्नन् ।
भट्टभास्कर-टीका
7 देवा वा इत्यादि ॥ ब्रह्मणो मन्त्रस्यर्गादेः अन्नस्य च शमलं मलरूपं शान्तशक्तिकं देवा अपाघ्नन् पृथक् स्थापितवन्तः ।
मूलम्
यद्ब्रह्म॑ण॒श्शम॑ल॒मासी॑त् । सा गाथा॑ नाराशँ॒स्य॑भवत् ।
विश्वास-प्रस्तुतिः
यद् ब्रह्म॑ण॒श् शम॑ल॒म् आसी॒त्त् सा गाथा॑ नाराशँ॒स्य् अ॑भवत् ।
मूलम्
यद् ब्रह्म॑ण॒श् शम॑ल॒म् आसी॒त्त् सा गाथा॑ नाराशँ॒स्य् अ॑भवत् ।
भट्टभास्कर-टीका
तत्र ब्रह्मणश्शमलं नाराशंसी गाधाऽभवत् । गीत्यर्था गाथा नराणां शंसनार्था नाराशंसी नरप्रधाना ।
मूलम्
यदन्न॑स्य । सा सुरा॑ ॥13॥
विश्वास-प्रस्तुतिः
यद् अन्न॑स्य +++(शम॑ल॒म् )+++ सा सुरा॑ +++(अभवत्)+++ ॥13॥
तस्मा॒द् गाय॑तश् च म॒त्तस्य॑ च॒ न प्र॑ति॒-गृह्य॑म् ।
मूलम्
यद् अन्न॑स्य +++(शम॑ल॒म् )+++ सा सुरा॑ +++(अभवत्)+++ ॥13॥
तस्मा॒द् गाय॑तश् च म॒त्तस्य॑ च॒ न प्र॑ति॒-गृह्य॑म् ।
भट्टभास्कर-टीका
अन्नस्य शमलं सुरा अभवत् । तस्मात् गायतो मत्तस्य च यदन्नं तावन्तं कालं न प्रतिगृह्णीयात् ।
मूलम्
यत्प्र॑तिगृह्णी॒यात् । शम॑ल॒म्प्रति॑गृह्णीयात् ।
विश्वास-प्रस्तुतिः
यत् प्र॑ति-गृह्णी॒याच् छम॑ल॒म् प्रति॑-गृह्णीयात् ।
मूलम्
यत् प्र॑ति-गृह्णी॒याच् छम॑ल॒म् प्रति॑-गृह्णीयात् ।
भट्टभास्कर-टीका
शमलं प्रतिगृह्णीयात् शमलपरिणामत्वात् प्रतिग्रहे शमलमेव प्रतिगृहीतवान् स्यात् ॥
मूलम्
सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः । यो वा॑जपेयया॒जी ।
या पृ॑थि॒व्याय्ँयाऽग्नौ या र॑थन्त॒रे । याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽप्सु यौष॑धीषु॒ या वन॒स्पति॑षु । तस्मा॑द्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ॥14॥
विश्वास-प्रस्तुतिः
सर्वा॒ वा ए॒तस्य॒ वाचो ऽव॑रुद्धाः, यो वा॑जपेय-या॒जी ।
या पृ॑थि॒व्याय्ँ याऽग्नौ या र॑थन्त॒रे , या ऽन्तरि॑क्षे॒, या वा॒यौ, या वा॑मदे॒व्ये , या दि॒वि , या ऽऽदि॒त्ये, या बृ॑ह॒ति , या ऽप्सु॒ यौष॑धीषु॒, या वन॒स्पति॑षु॒ , तस्मा॑द् वाजपेयया॒ज्यार्त्वि॑जीन॒स् , सर्वा॒ ह्य् अ॑स्य॒ वाचो ऽव॑रुद्धाः ॥14॥
मूलम्
सर्वा॒ वा ए॒तस्य॒ वाचो ऽव॑रुद्धाः, यो वा॑जपेय-या॒जी ।
या पृ॑थि॒व्याय्ँ याऽग्नौ या र॑थन्त॒रे , या ऽन्तरि॑क्षे॒, या वा॒यौ, या वा॑मदे॒व्ये , या दि॒वि , या ऽऽदि॒त्ये, या बृ॑ह॒ति , या ऽप्सु॒ यौष॑धीषु॒, या वन॒स्पति॑षु॒ , तस्मा॑द् वाजपेयया॒ज्यार्त्वि॑जीन॒स् , सर्वा॒ ह्य् अ॑स्य॒ वाचो ऽव॑रुद्धाः ॥14॥
भट्टभास्कर-टीका
8 सर्वा वा इत्यादि ॥ गतम् । ऋत्विजोऽर्हन्ति आर्त्विजीनो यजमानः । ‘यज्ञर्त्विग्भ्यां घखञौ’इति खञ् । ऋत्विक्कर्मार्हतीति वा आर्त्विजीनः ‘यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसङ्ख्यानम्’इति खञ् । यस्मात् अस्य सर्वा वाचोऽवरुद्धाः अनेन लब्धाः सर्वेषु पृथिव्यादिषु लोकेषु या वाचः सर्वेषु वाऽग्न्यादिषु योग्या या वाचः सर्वेषु च रथन्तरादिषु सामसु गीतिरूपा या वाचः याश्चाद्भिरोषधीभिः वनस्पतिभिश्च जन्या वाचः तासां सर्वासामवरुद्धत्वादार्त्विजीन इति ॥
इति तृतीये द्वितीयोऽनुवाकः ॥