०१ , पुनराधेयशेषः, आज्यभागयोर्विशेषः

प्रथमेऽष्टके तृतीयः प्रश्नः

आग्नेयं काण्डम्

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

भट्टभास्कर-टीका

1 देवासुरा इत्यादि ॥ अयमनुवाकः पुनराधेयशेषः आग्नेयं काण्डम् । देवासुराः संयत्ताः युद्धसंरब्धा आसन् ।

मूलम्

ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॒स्विनी॑स्त॒नूस्सन्न्य॑दधत ।

विश्वास-प्रस्तुतिः

ते दे॒वा वि॑ज॒यम् उ॑प॒यन्तो॑ऽग्नीषोम॑योस् तेज॒स्विनी॑स् त॒नूस् सन् न्य् अ॑दधत ।

मूलम्

ते दे॒वा वि॑ज॒यम् उ॑प॒यन्तो॑ऽग्नीषोम॑योस् तेज॒स्विनी॑स् त॒नूस् सन् न्य् अ॑दधत ।

भट्टभास्कर-टीका

अथ ते देवा विजयं उपयन्तः प्राप्नुवन्तः अग्नीषोमयोस्तेजस्विनीस्तनूसं न्यदधत सह निहितवन्तः ।

मूलम्

इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ ।

विश्वास-प्रस्तुतिः

“इ॒दम् उ॑ नो भविष्यति॒ ,यदि॑ नो जे॒ष्यन्ती"ति॑ ।

मूलम्

“इ॒दम् उ॑ नो भविष्यति॒ ,यदि॑ नो जे॒ष्यन्ती"ति॑ ।

भट्टभास्कर-टीका

इदमिति सामान्यविवक्षया नपुंसकत्वम् । यदि अपि नः अस्मानसुरा जेष्यन्ति इमास्तावत्तनव ऊर्जिता अस्माकमेव भविष्यन्तीति मन्यमानास्तं न्यदधत ।

विश्वास-प्रस्तुतिः

तेना॒ग्नीषोमा॒व् अपा॑क्रामताम् ।

मूलम्

तेना॒ग्नीषोमा॒व् अपा॑क्रामताम् ।

भट्टभास्कर-टीका

अथ अग्नीषोमौ तेन शरीरलक्षणेन धनेन सह । लिङ्गवचनयोर्व्यत्ययो वा । ताभिस्तनूभिः सह अपाक्रामतां देवसकाशात् ।

मूलम्

ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै॑च्छन् ।

विश्वास-प्रस्तुतिः

ते दे॒वा वि॒जित्या॒ग्नीषोमा॒व् अन्व् ऐै॑च्छन् ।

मूलम्

ते दे॒वा वि॒जित्या॒ग्नीषोमा॒व् अन्व् ऐै॑च्छन् ।

भट्टभास्कर-टीका

अथ देवाः आत्मीयतनूजिघृक्षया असुरविजयानन्तरं अग्नीषोमावन्वैच्छन् अमार्गन्त ।

विश्वास-प्रस्तुतिः

ते॑ ऽग्निम् अन्व् अ॑विन्दन्न् ऋ॒तुषूत्स॑न्नम् ।
तस्य॒ विभ॑क्तीभिस् तेज॒स्विनी॑स् त॒नूर् अवा॑रुन्धत ॥1॥

मूलम्

ते॑ ऽग्निम् अन्व् अ॑विन्दन्न् ऋ॒तुषूत्स॑न्नम् ।
तस्य॒ विभ॑क्तीभिस् तेज॒स्विनी॑स् त॒नूर् अवा॑रुन्धत ॥1॥

भट्टभास्कर-टीका

अथ ऋतुषूत्सन्नं निलीय स्थितं अग्निमन्वविन्दन् अनुक्रमेण अलभन्त ।

विश्वास-प्रस्तुतिः

ते सोम॒म् अन्व् अ॑विन्दन् ।
तम् अ॑घ्नन् ।
तस्य॑ यथा ऽभि॒ज्ञाय॑न् त॒नूर् व्य॑गृह्णत ।

मूलम्

ते सोम॒म् अन्व् अ॑विन्दन् ।
तम् अ॑घ्नन् ।
तस्य॑ यथा ऽभि॒ज्ञाय॑न् त॒नूर् व्य॑गृह्णत ।

भट्टभास्कर-टीका

अथ तस्य अग्नेस्मकाशादात्मीयाः तनूः यथाऽभिज्ञायं ममेयं ममेयमिति यथाप्रत्यभिज्ञं यथास्वं व्यगृह्णत पृथक्त्वेनागृह्णत ॥

मूलम्

यस्यै॒वव्ँवि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॑ । तस्य॒ त्वे॑व गृ॑ही॒ताः ।

विश्वास-प्रस्तुतिः

ते ग्रहा॑ अभवन् ।
तद् ग्रहा॑णाङ् ग्रह॒त्वम् ।
यस्य॑+ए॒वव्ँ वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॒ तस्य॒ त्व् ए॑व गृ॑ही॒ताः ।

मूलम्

ते ग्रहा॑ अभवन् ।
तद् ग्रहा॑णाङ् ग्रह॒त्वम् ।
यस्य॑+ए॒वव्ँ वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॒ तस्य॒ त्व् ए॑व गृ॑ही॒ताः ।

भट्टभास्कर-टीका

2 ते ग्रहा इत्यादि ॥ गतम् ॥ एवं विदुष एव ग्रहा गृहीता भवन्ति, नान्यस्य गृहीता अपि भवन्ति, दूरे ग्रहकार्यकारित्वम् ॥

विश्वास-प्रस्तुतिः

नाना॑ ऽऽग्नेयम् पुनर् आ॒धेये॑ कुर्यात् ।

मूलम्

नाना॑ ऽऽग्नेयम् पुनर् आ॒धेये॑ कुर्यात् ।

मूलम्

यदना॑ग्नेयम्पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ॥2॥

विश्वास-प्रस्तुतिः

यद् अना॑ग्नेयम् पुनर् आ॒धेये॑ कु॒र्याद् व्य्-ऋ॑द्धम् ए॒व तत् ॥2॥

मूलम्

यद् अना॑ग्नेयम् पुनर् आ॒धेये॑ कु॒र्याद् व्य्-ऋ॑द्धम् ए॒व तत् ॥2॥

भट्टभास्कर-टीका

3 नानाग्नेयमित्यादि ॥ सर्वाग्नेयत्वात् पुनराधेयस्य अनाग्नेयं सर्वमपि व्यृद्धमेव ऋद्धेः प्रतिकूलमेव भवति, न तु ऋद्धेरसाधनत्वमात्रम् । तस्माद्यो नर्ध्नुयात् स पुनरादधीतेति नोपपद्यते ।

मूलम्

अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यते । यत्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्हिर्य॑जति ।

विश्वास-प्रस्तुतिः

अना॑ग्नेयव्ँ॒ वा ए॒तत् क्रि॑यते॒ यत् स॒मिध॒स् तनू॒नपा॑तम् इ॒डो ब॒र्हिर् य॑जति ।

मूलम्

अना॑ग्नेयव्ँ॒ वा ए॒तत् क्रि॑यते॒ यत् स॒मिध॒स् तनू॒नपा॑तम् इ॒डो ब॒र्हिर् य॑जति ।

भट्टभास्कर-टीका

किं पुनरनाग्नेयं क्रियत इत्याह - अनाग्नेयं वा इत्यादि । समिदादयश्चत्वारः प्रयाजाः अनाग्नेयाः क्रियन्ते । तस्माद्विभक्तिभिरेतेषामाग्नेयत्वं क्रियत इति भावः ॥

विश्वास-प्रस्तुतिः

उ॒भाव् आ॑ग्ने॒याव् आज्य॑-भागौ स्याताम् ।

मूलम्

उ॒भाव् आ॑ग्ने॒याव् आज्य॑-भागौ स्याताम् ।

भट्टभास्कर-टीका

4 उभावित्यादि ॥ उभावाज्यभागावाग्नेयौ एव स्याताम् ।

मूलम्

अना॑ज्यभागौ भवत॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒याव॒न्वञ्चा॒विति॑ ।

विश्वास-प्रस्तुतिः

“अना॑ज्यभागौ भवत॒” इत्य् आ॑हु॒र् यद् “उ॒भाव् आ॑ग्ने॒याव् अ॒न्वञ्चावि"ति॑ ।

मूलम्

“अना॑ज्यभागौ भवत॒” इत्य् आ॑हु॒र् यद् “उ॒भाव् आ॑ग्ने॒याव् अ॒न्वञ्चावि"ति॑ ।

भट्टभास्कर-टीका

अत्र केचित् आहुः यत् यदि उभावाज्यभागावन्वञ्चौ अव्यवहितौ आग्नेयो एव स्यातां एतावाज्यभागावेवात्र न भवत इति ।

विश्वास-प्रस्तुतिः

अ॒ग्नये॒ पव॑माना॒योत्त॑रस् स्यात् ।

मूलम्

अ॒ग्नये॒ पव॑माना॒योत्त॑रस् स्यात् ।

मूलम्

यत्पव॑मानाय । तेनाज्य॑भागः । तेन॑ सौ॒म्यः ।

विश्वास-प्रस्तुतिः

यत् पव॑मानाय॒ तेनाज्य॑भाग॒स् तेन॑ सौ॒म्यः ।

मूलम्

यत् पव॑मानाय॒ तेनाज्य॑भाग॒स् तेन॑ सौ॒म्यः ।

भट्टभास्कर-टीका

समाधत्ते - अग्नय इत्यादि । पवमानायाग्नये उत्तर आज्यभागः स्यात् । तत्र ‘अग्न आयूंषि पवसे’ इति पुरोनुवाक्या । ततश्चास्य पवमानसम्बन्धात् सौम्यत्वं. तत एवाज्यभागत्वम् ।

विश्वास-प्रस्तुतिः

बुध॑न्वत्य् आग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ॥3॥

मूलम्

बुध॑न्वत्य् आग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ॥3॥

भट्टभास्कर-टीका

अथ आग्नेयस्य प्रथमस्य आज्यभागस्य बुधन्वती पुरोऽनुवाक्या भवति ‘अग्निं स्तोमेन बोधय’ इति । बुध बोधे, बुधशब्दवती । छान्दसो नकारोपजनः ।

मूलम्

यथा॑ सु॒प्तम्बो॒धय॑ति । ता॒दृगे॒व तत् ।

विश्वास-प्रस्तुतिः

यथा॑ सु॒प्तम् बो॒धय॑ति, ता॒दृगे॒व तत् ।

मूलम्

यथा॑ सु॒प्तम् बो॒धय॑ति, ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

यथेत्यादि । गतम् ॥

मूलम्

अ॒ग्निन्य॑क्ताᳶ पत्नीसय्ँया॒जाना॒मृच॑स्स्युः । तेना॑ग्ने॒यँ सर्व॑म्भवति ।

विश्वास-प्रस्तुतिः

अ॒ग्नि-न्य॑क्ताᳶ पत्नी-सय्ँया॒जाना॒म् ऋच॑स् स्यु॒स् तेना॑ग्ने॒यँ सर्व॑म् भवति ।

मूलम्

अ॒ग्नि-न्य॑क्ताᳶ पत्नी-सय्ँया॒जाना॒म् ऋच॑स् स्यु॒स् तेना॑ग्ने॒यँ सर्व॑म् भवति ।

भट्टभास्कर-टीका

5 अग्निन्यक्ता इत्यादि ॥ अग्निना न्यञ्जिताश्चिह्निताः पत्नीसंयाजानां ऋचः याज्यानुवाक्याः स्युः । अन्या एव ऋचो विधीयन्त इति केचित् । तेन सर्वमाग्नेयं भवति ।

विश्वास-प्रस्तुतिः

“ए॒क॒धा ते॑ज॒स्विनी॑न् दे॒वताम् उपै॒ती"त्य् आ॑हुः । “सैन॑म् ईश्व॒रा प्र॒दह॒” इति॑ ।

मूलम्

“ए॒क॒धा ते॑ज॒स्विनी॑न् दे॒वताम् उपै॒ती"त्य् आ॑हुः । “सैन॑म् ईश्व॒रा प्र॒दह॒” इति॑ ।

भट्टभास्कर-टीका

सर्वाग्नेयत्वमिदानीं दषूयति - एकधेत्यादि । एकधा एकप्रकारेण पदेन पुनः पुनर्निबन्ध्य यदा तेजस्विनीं देवतां उपगच्छति तदा सा एनं निबद्धारं प्रदहः प्रकर्षेण दग्धुं ईश्वरा स्यात् । तस्मात्सर्वाग्नेयत्वमयुक्तमिति केचिदाहुः । ‘ईश्वरे तोसुन्कसुनौ’इति कसुन् प्रत्ययः ।

विश्वास-प्रस्तुतिः

नेति॑ ब्रूयात् ।

मूलम्

नेति॑ ब्रूयात् ।

भट्टभास्कर-टीका

नेतीति । न चायं प्रसङ्ग इति तेभ्य उत्तरं ब्रूयात् ।

मूलम्

प्र॒जन॑नव्ँ॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपै॒तीति॑ ।

विश्वास-प्रस्तुतिः

प्र॒जन॑नव्ँ॒ वा अ॒ग्निᳶ प्र॒जन॑नम् ए॒वोपै॒तीति॑ ।

मूलम्

प्र॒जन॑नव्ँ॒ वा अ॒ग्निᳶ प्र॒जन॑नम् ए॒वोपै॒तीति॑ ।

भट्टभास्कर-टीका

हेतुं चैवं ब्रूयादित्याह - प्रजननं वा इत्यादि । प्रजननहेतुः खल्वयं अग्निः, तस्मात्तस्यैकधोपायेन प्रजापतिमेवोपैतीति ॥

विश्वास-प्रस्तुतिः

“कृ॒त-य॑जु॒स् सम्भृ॑त-सम्भार॒” इत्य् आ॑हुः ॥4॥

मूलम्

“कृ॒त-य॑जु॒स् सम्भृ॑त-सम्भार॒” इत्य् आ॑हुः ॥4॥

भट्टभास्कर-टीका

6 कृतयजुरित्यादि ॥ अग्न्याधेये कृतत्वात् पुनरिह न कर्तव्य इत्याहुः ।

मूलम्

न स॒म्भृत्या॑स्सम्भा॒राः । न यजु॑ᳵ का॒र्य॑मिति॑ ।

अथो॒ खलु॑ । स॒म्भृत्या॑ ए॒व स॑म्भा॒राः ।

का॒र्यय्ँ॑यजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

“न स॒म्भृत्या॑स् सम्भा॒राः” ,“न यजु॑ᳵ का॒र्य॑मि"ति॑ ।

अथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः ।

का॒र्यय्ँ॑ यजुᳶ॑ पुनर् आ॒धेय॑स्य॒ समृ॑द्ध्यै ।

मूलम्

“न स॒म्भृत्या॑स् सम्भा॒राः” ,“न यजु॑ᳵ का॒र्य॑मि"ति॑ ।

अथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः ।

का॒र्यय्ँ॑ यजुᳶ॑ पुनर् आ॒धेय॑स्य॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

अथ कार्यमेवोभयं पुनराधेयस्य साद्गुण्यातिशयार्थम् ॥

विश्वास-प्रस्तुतिः

तेनो॑पाँ॒शु प्रच॑रति ।

मूलम्

तेनो॑पाँ॒शु प्रच॑रति ।

भट्टभास्कर-टीका

7 तेनेत्यादि ॥ तेन पुनराधेयेन उपांशु अव्यक्तशब्दं प्रचरति ।

मूलम्

एष्य॑ इव॒ वा ए॒षः । यत्पु॑नरा॒धेयः॑ ।

विश्वास-प्रस्तुतिः

एष्य॑ इव॒ वा ए॒ष यत् पु॑नर् आ॒धेयः॑ । यथो॑पाँ॒शु न॒ष्टम् इ॒च्छति॑ ॥5॥
ता॒दृग् ए॒व तत् ।

मूलम्

एष्य॑ इव॒ वा ए॒ष यत् पु॑नर् आ॒धेयः॑ । यथो॑पाँ॒शु न॒ष्टम् इ॒च्छति॑ ॥5॥
ता॒दृग् ए॒व तत् ।

भट्टभास्कर-टीका

हेतुमाह - एष्य इति । नष्टप्राया ऋद्धिरनेन इष्यते अन्विष्यत इति एष्यः अन्वेषणोपाय इव अयं पुनराधेयः, तस्मादुपांशु प्रचरितव्यमिति । यथा लोके नष्टं रत्नादिकं उपांशु अप्रकाशमन्विच्छति तत्तुल्यमिदमिति ॥

विश्वास-प्रस्तुतिः

उ॒च्चैस् स्वि॑ष्ट॒कृत॒म् उथ्-सृ॑जति ।

मूलम्

उ॒च्चैस् स्वि॑ष्ट॒कृत॒म् उथ्-सृ॑जति ।

मूलम्

यथा॑ न॒ष्टव्ँवि॒त्त्वा प्राहा॒यमिति॑ ।

विश्वास-प्रस्तुतिः

यथा॑ न॒ष्टव्ँ वि॒त्त्वा प्राह॑ - “अ॒यमि"ति॑ । ता॒दृग् ए॒व तत् ।

मूलम्

यथा॑ न॒ष्टव्ँ वि॒त्त्वा प्राह॑ - “अ॒यमि"ति॑ । ता॒दृग् ए॒व तत् ।

भट्टभास्कर-टीका

8 उच्चैरिति ॥ स्विष्टकृद्विषयं मन्त्रं उच्चैरुत्सृजति ऊर्ध्व प्रेरयति, यथा नष्टं वित्वा लब्ध्वा लौकिकः प्राह प्रकाशयति अयं लब्ध इति, तत्तुल्यमेतदिति ॥

मूलम्

ए॒क॒धा ते॑ज॒स्विनी॑न्दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ।

विश्वास-प्रस्तुतिः

“ए॒क॒धा ते॑ज॒स्विनी॑न् दे॒वताम् उपै॒ती"त्य आ॑हु॒स् “सैन॑म् ईश्व॒रा प्र॒दह॒” इति॑ ।
तत् तथा॒ नोपै॑ति ।

मूलम्

“ए॒क॒धा ते॑ज॒स्विनी॑न् दे॒वताम् उपै॒ती"त्य आ॑हु॒स् “सैन॑म् ईश्व॒रा प्र॒दह॒” इति॑ ।
तत् तथा॒ नोपै॑ति ।

भट्टभास्कर-टीका

9 एकधेत्यादि गतम् ॥ तत्तथेति । तत्तथा न कर्तव्यमिति यावत् ।

विश्वास-प्रस्तुतिः

प्र॒या॒जा॒नू॒या॒जेष्व् ए॒व विभ॑क्तीᳵ कुर्यात् ।

मूलम्

प्र॒या॒जा॒नू॒या॒जेष्व् ए॒व विभ॑क्तीᳵ कुर्यात् ।

भट्टभास्कर-टीका

कथं तर्हि कर्तव्यमाग्नेयं च स्यात् प्रजननं च भवेदित्याह - प्रयाजानूयाजेष्वेवेत्यादि ।

विश्वास-प्रस्तुतिः

य॒था॒-पू॒र्वम् आज्य॑भागौ॒ स्याता॑म् । ए॒वम् प॑त्नी-सय्ँया॒जाः ॥6॥

मूलम्

य॒था॒-पू॒र्वम् आज्य॑भागौ॒ स्याता॑म् । ए॒वम् प॑त्नी-सय्ँया॒जाः ॥6॥

भट्टभास्कर-टीका

यथापूर्वं यथाप्रकृति । एवमिति । यथापर्वूमित्यर्थः ।

विश्वास-प्रस्तुतिः

तद् वै॑श्वान॒रव॑त् प्र॒जन॑नवत्तर॒म् उपै॒तीति॑ ।

मूलम्

तद् वै॑श्वान॒रव॑त् प्र॒जन॑नवत्तर॒म् उपै॒तीति॑ ।

भट्टभास्कर-टीका

तत् तथा उपयन् वैश्वानरवत् वैश्वानरोऽग्निः तद्वच्च उपैति आग्नेयमिति यावत् । प्रजननवत्तरं चोपैति, न केवलं प्रजननवदेव । यदुक्तं ‘प्रजननमेवोपैति’इति तस्मादतिशयमातिशायनिकेन द्योतयति । एवमित्यन्तो द्वितीयः पक्षः ।

मूलम्

तदा॑हुः । व्यृ॑द्धव्ँ॒वा ए॒तत् । अना॑ग्नेयव्ँ॒वा ए॒तत्क्रि॑यत॒ इति॑ ।

विश्वास-प्रस्तुतिः

तद् आ॑हु॒र् “व्यृ॑द्धव्ँ॒ वै॒तद् अना॑ग्नेयव्ँ॒ वा ए॒तत् क्रि॑यत॒” इति॑ ।

मूलम्

तद् आ॑हु॒र् “व्यृ॑द्धव्ँ॒ वै॒तद् अना॑ग्नेयव्ँ॒ वा ए॒तत् क्रि॑यत॒” इति॑ ।

भट्टभास्कर-टीका

तदपरे दूषयन्तीत्याह - तदाहुरिति ॥ तत्रापि पक्षे अन्ये दूषणं आहुः व्यृद्धं ऋद्धिहीनमेव तत् क्रियते । कुत इत्याह - अनाग्नेयं आग्नेयं सर्वे न क्रियते । तस्माद्व्यृद्धं, तस्मादयुक्तं यथाप्रकृतिकरणमाज्यभागादीनामिति ॥

विश्वास-प्रस्तुतिः

नेति॑ ब्रूयात् ।

मूलम्

नेति॑ ब्रूयात् ।

भट्टभास्कर-टीका

10 नेतीति ॥ न अयं दोष इति तेभ्य उत्तरं ब्रूयात् ।

विश्वास-प्रस्तुतिः

“अ॒ग्निम् प्र॑थ॒मव्ँ विभ॑क्तीनाय्ँ यजति ।
अ॒ग्निम् उ॑त्त॒मम् +++( यजति )+++।
प॒त्नी॒सय्ँ॒या॒जाना॑म् +++( अ॒ग्निं यजति )+++।

मूलम्

“अ॒ग्निम् प्र॑थ॒मव्ँ विभ॑क्तीनाय्ँ यजति ।
अ॒ग्निम् उ॑त्त॒मम् +++( यजति )+++।
प॒त्नी॒सय्ँ॒या॒जाना॑म् +++( अ॒ग्निं यजति )+++।

भट्टभास्कर-टीका

ननु कथं कस्मिंश्चित्सत्यनाग्नेये सर्वाग्नेयत्वं स्यात्, कथं वा तथा क्रियमाणे सति नेति ब्रूयादित्याह - अग्निं प्रथममित्यादि ॥ प्रथमं तावद्यागादौ अग्निं विभक्तीनां विभक्तिभिः यजति विभक्तिसम्बन्धेनाग्निरिज्यते, उत्तमं यागस्यान्ते भवं च अग्निं यजति, पत्नीसंयाजानां सम्बन्धिनमग्निं गृहपतिं तेन यजति ।

विश्वास-प्रस्तुतिः

तेना॑ग्ने॒यम् +++(भवति)+++।
तेन॒ समृ॑द्धङ् क्रियत॒” इति॑ ॥7॥

मूलम्

तेना॑ग्ने॒यम् +++(भवति)+++।
तेन॒ समृ॑द्धङ् क्रियत॒” इति॑ ॥7॥

भट्टभास्कर-टीका

तेन तदन्तः प्रविष्टं सर्वं आग्नेयं भवति ।

भट्टभास्कर-टीका

तेन एव हेतुना समृद्धं एव क्रियत इति अतो हेतोर्नेति ब्रूयादेवेति ॥

इति तृतीये प्रथमोऽनुवाकः ॥