ग्रहप्रामुख्यम्
विश्वास-प्रस्तुतिः
+++(संवत्सर-पक्षयोस्)+++ सन्त॑ति॒र् वा ए॒ते +++(विषूवति गृह्यमाणा)+++ ग्रहा॒
यत् पर॑स्-सामानः ।
+++(कुत इति चेत् -)+++ वि॒षू॒वान्+++(=पक्षद्वयवान्)+++ दि॑वा-की॒र्त्य॑म् +++(दिनम्)+++।
मूलम्
सन्त॑ति॒र् वा ए॒ते ग्रहा॒ यत् पर॑स्-सामानः ।
वि॒षू॒वान् दि॑वा-की॒र्त्य॑म् ।
भट्टभास्कर-टीका
1 सन्ततिर्वा इत्यादि ॥
सन्ततिः सन्तननम् । तादर्थ्यात्ताच्छब्द्यम् ।
पूर्वोत्तरयोः पक्षयोर् विषुवति सन्तानार्था एते ग्रहाः ये परस्सामानः,
तात्स्थ्यात् ताच्छब्द्यं ‘मञ्चाः क्रोशन्ति’इतिवत् ।
परस् सामदिवसेषु गृह्यमाणा अतिग्राह्याः ग्रहाः ते सन्तननार्थाः सन्ततरज्जुस्थानीया इति ।
ग्रह-रूपत्वात् दिवाकीर्त्यं यद् अहः
तत् विषूवान् -
विष्वङ् नाना पक्ष-द्वयावलम्बिनी स्थितिर् अस्येति विषुवान्
वंश-काष्ठ-स्थानीयो दिवसो मध्यमः, एतेन सन्तत्य्-अपेक्षा दर्शिता ।
मूलम्
यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येर॑न् । विषू॑ची सव्ँवत्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रँसेयाताम् ।
विश्वास-प्रस्तुतिः
यथा॒ शाला॑यै॒ पक्ष॑स्य्,
ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी ।
मूलम्
यथा॒ शाला॑यै॒ पक्ष॑स्य् ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी ।
भट्टभास्कर-टीका
इदानीं तामेव सन्ततिं दर्शयितुं सन्तन्यमानं दर्शयति - यथेति । शालायाः पक्षाविव पक्षस्थानीयौ संवत्सरस्य पक्षौ ।
विश्वास-प्रस्तुतिः
यद् ए॒ते न गृ॒ह्येर॒न्न्
विषू॑ची+++(=विष्वग्-गमने)+++ सव्ँवत्स॒रस्य॒ पक्ष॑सी॒ व्य्-अव॑स्रँसेयाताम् ।
मूलम्
यद् ए॒ते न गृ॒ह्येर॒न्न् विषू॑ची सव्ँवत्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रँसेयाताम्।
भट्टभास्कर-टीका
तत्र यद्य् अतिग्राह्याः सन्तनन-रज्जु-स्थानीया न गृह्येरन्
ततो विषूची विष्वग्गमने संवत्सरस्य पक्षसी व्यवस्रंसेयातां भिन्नदिक्के पतिते स्याताम् ।
विश्वास-प्रस्तुतिः
आर्ति॒म् आर्च्छे॑युः ।
मूलम्
आर्ति॒मार्च्छे॑युः ।
भट्टभास्कर-टीका
ततश्च आर्तिं गच्छेयुः यजमानाः कर्मनाशात् ।
विश्वास-प्रस्तुतिः
यद् ए॒ते गृ॒ह्यन्ते॒ ,
यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मव्ँ वँ॒शम् अ॒भि-स॑मा॒यच्छ॑त्य्
ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी दिवा-की॒र्त्य॑म् अ॒भि-सन्त॑न्वन्ति ।
मूलम्
यद् ए॒ते गृ॒ह्यन्ते॑ -
यथा॒ शाला॑यै॒ प॑क्षसी मध्य॒मव्ँ वँ॒शम् अ॒भिस॑मा॒यच्छ॑ति ॥33॥
ए॒वँ सव्ँ॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म् अ॒भिसन्त॑न्वन्ति ।
भट्टभास्कर-टीका
एषां तु ग्रहणे शालायाः पक्षौ मध्यमं वंशमभिसमायच्छति लौकिक इव । संवत्सरस्य पक्षसी दिवाकीर्त्यमभिसन्तन्वन्ति आभिम्रुख्येनानीय आबध्नन्ति वंश इव दिवाकीर्त्ये सत्रिणः ।
विश्वास-प्रस्तुतिः
नार्ति॒म् आर्च्छ॑न्ति ।
मूलम्
नार्ति॒म् आर्च्छ॑न्ति ।
भट्टभास्कर-टीका
ततो नार्तिं गच्छन्ति ॥
स्तोमाः
विश्वास-प्रस्तुतिः
+++(स्तोमसङ्ख्यया)+++ ए॒क॒-विँ॒शम् अह॑र् भवति ।
मूलम्
ए॒क॒-विँ॒शम् अह॑र् भवति ।
भट्टभास्कर-टीका
2 एतच्च अहर् एकविंशं एकविंशस्तोमकं भवति ।
ग्रहा ऽतिग्राह्याश् च
मूलम् (संयुक्तम्)
शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।
विश्वास-प्रस्तुतिः
शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते॒ - प्रत्य् उत्त॑ब्ध्यै, सय॒त्वाय॑+++(←षिङ् बन्धने)+++ ।
मूलम्
शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते॒ प्रत्य्-उत्त॑ब्ध्यै सय॒त्वाय॑ ।
भट्टभास्कर-टीका
प्रत्युत्तब्ध्यै प्रत्युत्तम्भनाय वंशकाष्ठस्थानीयस्य उच्छ्रितावस्थानाय प्रतिष्ठात्वाद् एकविंशस्य ।
शुक्राग्रा ग्रहा गृह्यन्ते।
सयत्वाय संश्लिष्यमाणत्वाय स्थाने शुक्रप्राधान्यात् संजज्ञानेरबन्धता(??) यथा स्यादिति । उत्तानास्यः सयः; षिङ् बन्धने पचाद्यजन्तात् भावप्रत्ययः ।
सौर्योऽतिग्राह्यः
विश्वास-प्रस्तुतिः
सौ॒र्य॑ ए॒तद्-अह॑ᳶ प॒शुर् आल॑भ्यते ।
सौ॒र्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते +++(सप्तमः)+++ ।
अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।
मूलम्
सौ॒र्य॑ ए॒तद्-अह॑ᳶ प॒शुर् आल॑भ्यते ।
सौ॒र्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते ।
अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।
भट्टभास्कर-टीका
सौर्य इत्यादि । पश्वतिग्राह्ययोस्सौर्यत्वेन सूर्यसम्बन्धादह्नो रूपसमृद्धिर्भवति । दिवाकीर्त्यत्वं समृद्धं भवति । उभयत्रापि छन्दसमन्तस्वरितत्वम् ॥
विश्वास-प्रस्तुतिः
अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।
मूलम्
अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।
भट्टभास्कर-टीका
अथो अपिच एषोऽह्नो बलिर्ह्रियते पूजा क्रियते, योऽयं सप्तमः सौर्योऽतिग्राह्यः ॥
सप्तत्वम्
विश्वास-प्रस्तुतिः
स॒प्त+ एतद्-अह॑र् अति-ग्रा॒ह्या॑ गृह्यन्ते ॥34॥
मूलम्
स॒प्त+ एतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ॥34॥
भट्टभास्कर-टीका
3 अस्मिन् अह्नि सप्तातिग्राह्या गृह्यन्ते ये परस्सामसम्बन्धिनः त्रयः पूर्वे त्रय उत्तरे तेपां मध्ये सौर्य इति सप्तास्मिन्नह्नि गृह्यन्ते ।
विश्वास-प्रस्तुतिः
+++(चक्षुःश्रोत्र-नासिकास्य-सङ्ख्यया)+++ स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
अ॒साव् आ॑दि॒त्यश् शिर॑ᳶ प्र॒जाना॑म् ।
मूलम्
स॒प्त वै शी॑र्ष॒ण्या॑ᳶ प्रा॒णाः ।
अ॒सावा॑दि॒त्यश्शिर॑ᳶ प्र॒जाना॑म्।
भट्टभास्कर-टीका
सप्त वा इत्यादि । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके एकमास्यमिति ।+++(5)+++
आदित्यश् शिरस्-स्थानीयः प्रजानाम् उच्छ्रितत्वात्,
एकविंशश् च ज्योतिः तेषां स्तोमानाम् उच्छ्रितः ।
विश्वास-प्रस्तुतिः
शी॒र्षन्न्+++(=शिरसि)+++ ए॒व प्र॒जाना॑म् प्रा॒णान् द॑धाति ।
तस्मा॑थ् +++(सप्तातिग्राह्य-ग्रहणात्)+++ स॒प्त शी॒र्षन्+++(=शिरसि)+++ प्रा॒णाः ।
मूलम्
शी॒र्षन्ने॒व प्र॒जाना॑म्प्रा॒णान्द॑धाति ।
तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णाः ।
भट्टभास्कर-टीका
तस्माद् एकविंशे दिवाकीर्त्ये सप्तातिग्राह्य-ग्रहणात्
प्रजानां शिरसि सप्त प्राणान् दधाति स्थापयति
अत एव शिरसि सप्त प्राणाः ॥
उत्तर-पक्ष-ग्रहाः
विश्वकर्मणो ग्रहः
मूलम्
इन्द्रो॑ वृ॒त्रँ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माल्ँ लो॒कान॒भ्य॑जयत् ।
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रँ ह॒त्वाऽसु॑रान् परा॒भाव्य॒ स इ॒माल्ँ लो॒कान् अ॒भ्य॑जयत् ।
मूलम्
इन्द्रो॑ वृ॒त्रँ ह॒त्वाऽसु॑रान् परा॒भाव्य॒ स इ॒माल्ँ लो॒कान् अ॒भ्य॑जयत् ।
भट्टभास्कर-टीका
4 इन्द्रो वृत्रं हत्वेत्यादि ॥ गतम् । पराभाव्य पराभूतान् जितान् कृत्वा ।
विश्वास-प्रस्तुतिः
तस्या॒सौ लो॒को ऽन॑भिजित आसीत् ।
तव्ँ वि॒श्वक॑र्मा भू॒त्वा ऽभ्य॑जयत् ।
मूलम्
तस्या॒सौ लो॒को ऽन॑भिजित आसीत् ।
तव्ँ वि॒श्वक॑र्मा भू॒त्वा ऽभ्य॑जयत् ।
भट्टभास्कर-टीका
असौ लोको द्युलोकः ।
मूलम्
यद्वै॑श्वकर्म॒णो गृ॒ह्यते॑ ॥35॥
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
विश्वास-प्रस्तुतिः
यद् वै॑श्वकर्म॒णो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
मूलम्
यद् वै॑श्वकर्म॒णो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
भट्टभास्कर-टीका
अस्मिन्नह्नि वैश्वकर्मणस्य ग्रहणं स्वर्गस्याभिजित्यै भवति ॥
मूलम्
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते । ये वै॑श्वकर्म॒णङ्गृ॒ह्णते॑ ।
आदित्य-ग्रहः
विश्वास-प्रस्तुतिः
प्र वा ए॒ते॑ ऽस्माल् लो॒काच् च्य॑वन्ते॒ ये वै॑श्वकर्म॒णङ् गृ॒ह्णते॑ ।
आ॒दि॒त्यश् श्वो गृ॑ह्यते ।
मूलम्
प्र वा ए॒ते॑ ऽस्माल् लो॒काच् च्य॑वन्ते॒ ये वै॑श्वकर्म॒णङ् गृ॒ह्णते॑ ।
आ॒दि॒त्यश् श्वो गृ॑ह्यते ।
मूलम्
इ॒यव्ँ वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा अदि॑तिर् - अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।
मूलम्
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।
भट्टभास्कर-टीका
5 प्रवा इत्यादि ॥ अस्माल्लोकात् भूलोकात् । उत्तरेद्युरदितिदेवत्यस्य ग्रहणात् पुनरस्यां प्रतिष्ठा भवति ।
ग्रहणक्रमः
विश्वास-प्रस्तुतिः
अ॒न्यो॑ऽन्यो +++(=पृथक्)+++ गृह्येते ।
विश्वा॑न्य् ए॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति ।
मूलम्
अ॒न्यो॑न्यो गृह्येते ।
विश्वा॑न्य् ए॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति ।
भट्टभास्कर-टीका
अन्योन्य इत्यादि । अन्यो वा कदाचिद्वैश्वकर्मणादित्यौ पृथक् गृह्येते न सह ।
तत्र अन्येन वैश्वकर्मणेन विश्वानि कर्माणि स्वर्गाद्यभिजयसाधनानि कुर्वाणा यन्ति कर्मसमाप्तिं गच्छन्ति ।
विश्वास-प्रस्तुतिः
+++(आदित्यग्रहेण)+++ अ॒स्याम् अ॒न्येन॒ प्रति॑-तिष्ठन्ति ।
मूलम्
अ॒स्याम् अ॒न्येन॒ प्रति॑-तिष्ठन्ति ।
भट्टभास्कर-टीका
अन्येन आदित्येन अस्यां प्रतितिष्ठन्ति । ‘क्रियासमभिहारे सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्’इति द्विर्वचनं समासश्च । ‘अनुदत्तं च’इति द्वितीयं निहन्यते ॥
विश्वास-प्रस्तुतिः
ताव् आऽप॑रा॒र्धात् सव्ँ॑वत्स॒रस्य +++(प्रत्यहं)+++
+अ॒न्यो॑न्यो गृह्येते ।
ताव् उ॒भौ स॒ह म॑हा-व्र॒ते गृ॑ह्येते ।
मूलम्
तावाप॑रा॒र्धात्सव्ँ॑वत्स॒रस्या॒न्यो॑न्यो गृह्येते ।
तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते ।
भट्टभास्कर-टीका
6 ताविरयादि ॥ तौ वैश्वकर्मणादित्यौ संवत्सरस्य आपरार्धात्
आ अपरपक्षसमाप्तेः प्रत्यहं अन्योन्यः एकैको गृह्यते । अथ महाव्रते उपांत्येऽह्नि तौ सह गृह्येते ।
मूलम् (संयुक्तम्)
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । उ॒भयो॑र्लो॒कयो॒ᳶ प्रति॑तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
य॒ज्ञस्य+ ए॒वान्त॑ङ् गत्वो॒भयो॑र् लो॒कयो॒ᳶ प्रति॑-तिष्ठन्ति ।
मूलम्
य॒ज्ञस्य+ ए॒वान्त॑ङ् गत्वो॒भयो॑र् लो॒कयो॒ᳶ प्रति॑-तिष्ठन्ति ।
भट्टभास्कर-टीका
अन्तं गत्वेति । समाप्तप्रायत्वात् । उभयोरिति । उत्तरयोर्वैश्वकर्मणादित्ययोः सहग्रहणात् ।
उक्थ्यम्
मूलम् (संयुक्तम्)
अ॒र्क्य॑मु॒क्थम्भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥
विश्वास-प्रस्तुतिः
अ॒र्क्य॑म् उ॒क्थम् भ॑वत्य्
अ॒न्नाद्य॒स्याव॑रुध्यै +++(‘अर्को वै देवानाम् अन्नम्’ इति हेतुना)+++॥ 36॥
मूलम्
अ॒र्क्य॑मु॒क्थम्भ॑वत्य॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥
भट्टभास्कर-टीका
अर्क्यम् इति शस्त्रविशेषः ।
अन्नाद्यस्येति ।
‘अर्को वै देवानाम् अन्नम्’ इति तद्धेतुत्वाच्च ॥
इति द्वितीये तृतीयोऽनुवाकः ॥