विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जास् सृ॒ष्ट्वा वृ॒त्तो॑ ऽशयत् ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जास् सृ॒ष्ट्वा वृ॒त्तो॑ ऽशयत् ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ प्रजासृष्ट्यनन्तरं प्रजापतिर्वृत्तः उपरतव्यापारः श्रान्तः अशयत् अशेत । शेतेर्व्यत्ययेन परस्मैपदम्, विकरणव्यत्ययेन शप् ।
मूलम्
तन्दे॒वा भू॒तानाँ॒ रस॒न्तेज॑स्स॒म्भृत्य॑ । तेनै॑नमभिषज्यन् ।
विश्वास-प्रस्तुतिः
तन् दे॒वा भू॒तानाँ॒ रस॒न् तेज॑स् स॒म्भृत्य॒ तेनै॑नम् अभिषज्यन् ।
मूलम्
तन् दे॒वा भू॒तानाँ॒ रस॒न् तेज॑स् स॒म्भृत्य॒ तेनै॑नम् अभिषज्यन् ।
भट्टभास्कर-टीका
अथ देवास्तं तथाविधं एनं प्रजापतिं भूतानां पृथिव्यादीनां रसं सारभूतं तेजः सम्भृत्य तेनाभिषज्यन् भिषजितवन्तः श्रमनिवृत्तिं कृतवन्तः । भिषज्यतिः कण्ड्वादिः ।
मूलम्
म॒हान॑वव॒र्तीति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
विश्वास-प्रस्तुतिः
“म॒हान् अ॑वव॒र्ती"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
मूलम्
“म॒हान् अ॑वव॒र्ती"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
भट्टभास्कर-टीका
उक्तवन्तश्च तदानीं देवा अयमिदानीं प्रजापतिः महानववर्ति महान् सम्पन्न इति ।
यस्मिन्नह्नि तथाकृतं देवैः तदहर्महाव्रतमिति महान्वृत्तोऽस्मिन् प्रजापतिरिति महाव्रतम् । वृतेः ‘घञर्थे कविधानम्’इति कः, धातोरमागमश्छान्दसः । वर्तयतेः कर्मणि लुङि चिणादेशे छान्दसे द्विर्वचने अववर्तीति भवति ।
मूलम्
म॒हद्व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
विश्वास-प्रस्तुतिः
“म॒हद् व्र॒तमि"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
मूलम्
“म॒हद् व्र॒तमि"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
भट्टभास्कर-टीका
महदिति । प्रजापतेरतिमहत्त्वहेतुत्वात् महत् इदं व्रतं कर्म इति महाव्रतम् ।
मूलम्
म॒ह॒तो व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ।
विश्वास-प्रस्तुतिः
“म॒ह॒तो व्र॒तमि"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
मूलम्
“म॒ह॒तो व्र॒तमि"ति॒ तन् म॑हा-व्र॒तस्य॑ महा-व्रत॒त्वम् ।
भट्टभास्कर-टीका
महत इति । महतः प्रजापतेरभ्युदयसाधनं व्रतं कर्म इति महाव्रतम् । छान्दसमात्वम् ॥
विश्वास-प्रस्तुतिः
प॒ञ्च॒-विँ॒शस् स्तोमो॑ भवति ॥ 44॥
चतु॑र्विँशत्य् अर्धमासस् सव्ँवत्स॒रः ।
मूलम्
प॒ञ्च॒-विँ॒शस् स्तोमो॑ भवति ॥ 44॥
चतु॑र्विँशत्य् अर्धमासस् सव्ँवत्स॒रः ।
भट्टभास्कर-टीका
2 पञ्चविंश इति ॥ सर्वस्तोमः पञ्चविंशो भवति पञ्चविंशतिस्तोत्रीयः पञ्चविंशः । ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’इति डः, ‘तिविंशतेर्ङिति’इति तिलोपः । अथ पञ्चविंशस्य स्तुतिः - संवत्सरस्य चतुर्विंशतिरर्धमासा अवयवाः ।
मूलम्
यद्वा ए॒तस्मि॑न्त्सव्ँवत्स॒रेऽधि॒प्राजा॑यत ।
तदन्न॑म्पञ्चविँ॒शम॑भवत् ।
विश्वास-प्रस्तुतिः
यद् वा ए॒तस्मि॑न्त् सव्ँवत्स॒रे ऽधि॒-प्राजा॑यत॒ , तद् अन्न॑म् पञ्च-विँ॒शम् अ॑भवत् ।
मूलम्
यद् वा ए॒तस्मि॑न्त् सव्ँवत्स॒रे ऽधि॒-प्राजा॑यत॒ , तद् अन्न॑म् पञ्च-विँ॒शम् अ॑भवत् ।
भट्टभास्कर-टीका
यच्चास्मिन् संवत्सरे उपपद्यते उत्पद्यते अन्नं तत्पञ्चविंशम् । पञ्चविंशतेः पूरणं, ‘तस्य पूरणे डट्’। तस्मात् पञ्चविंशेन स्तोमेन संवत्सरस्यान्नस्य च वशीकार इति भावः ।
विश्वास-प्रस्तुतिः
म॒ध्य॒तᳵ क्रि॑यते । म॒ध्य॒तो ह्य् अन्न॑म् अशि॒तन् धि॒नोति॑ ।
मूलम्
म॒ध्य॒तᳵ क्रि॑यते । म॒ध्य॒तो ह्य् अन्न॑म् अशि॒तन् धि॒नोति॑ ।
भट्टभास्कर-टीका
मध्यत इति । अन्तिममहरपेक्ष्य यन्मध्यत्वमस्य तत् स्तूयते - मध्यतो हीति । यत् मध्यतस्साम् प्रतिकं अशितं भक्तमन्नादि बहु नात्यल्पं तदेव धिनोति प्रीणयति’मध्यतः शरीरे प्रविष्टं वा धिनोति । यद्वा मध्यमे वयसि अन्नमेवाशितं धिनोति नार्यपक्षराशिविता । [नान्यः क्षीरादिरशितः?] ‘आद्यादिभ्यस्तसिः’इति तसिप्रत्ययः ।
विश्वास-प्रस्तुतिः
अथो॑ मध्य॒त ए॒व प्र॒जाना॒म् ऊर्ग् धी॑यते ।
मूलम्
अथो॑ मध्य॒त ए॒व प्र॒जाना॒म् ऊर्ग् धी॑यते ।
भट्टभास्कर-टीका
अथो अपिच तस्मादेव कारणात् प्रजानां शरीरे मध्यतः मध्यप्रदेशे एवोर्क् अन्नं धीयते स्थाप्यते न पर्यन्ते ।
मूलम्
अथ॒ यद् वा इ॒दम् अ॑न्त॒तᳵ क्रि॒यते॑ ।
तस्मा॑द् उद॒न्ते प्र॒जास् समे॑धन्ते ।
विश्वास-प्रस्तुतिः
अथ॒ यद् वा इ॒दम् अ॑न्त॒तᳵ क्रि॒यते॒
तस्मा॑द् उद॒न्ते प्र॒जास् समे॑धन्ते ।
मूलम्
अथ॒ यद् वा इ॒दम् अ॑न्त॒तᳵ क्रि॒यते॒
तस्मा॑द् उद॒न्ते प्र॒जास् समे॑धन्ते ।
भट्टभास्कर-टीका
अथेत्यादि । अथ अस्यापरमपि प्रमाणं ब्रूमः, यत् यस्मात् इदं अहः अन्ततः अन्ते कियते । दशरात्रापेक्षमन्तत्वम् ।
तस्मादुदन्ते उदकान्ते उदकमर्यादासु वर्तमानाः प्रजास्समेधन्ते सम्यक्प्रवर्धन्ते । उदकस्य उद्भावश्छान्दसः, शकन्ध्वादित्वात्पररूपत्वम् । यद्वा - उदन्ते वर्षान्ते सति वर्ष इति यावत् उन्दनं उत् वृष्टिः । उन्दी क्लेदने । यद्वा - उद् अन्नं तस्य रेतसो निषेकषिक्तस्यान्ते प्रजास्समेधन्ते ।
विश्वास-प्रस्तुतिः
अ॒न्त॒तᳵ क्रि॑यते प्र॒जन॑नाय+ ए॒व ।
मूलम्
अ॒न्त॒तᳵ क्रि॑यते प्र॒जन॑नाय+ ए॒व ।
भट्टभास्कर-टीका
किञ्च - यस्मात् इदमहः अन्ततः क्रियते तत् प्रजानां प्रजननाय भवति, अस्य समुदायान्तर्गतत्वान् गर्भात् प्रजा निर्गच्छन्ति ॥
विश्वास-प्रस्तुतिः
त्रि॒वृच् छिरो॑ भवति ॥45॥
मूलम्
त्रि॒वृच् छिरो॑ भवति ॥45॥
भट्टभास्कर-टीका
3 त्रिवृदित्यादि ॥ इदार्नी महाव्रतस्तोमस्तुतिः क्रियते । तदर्थमह्नः पक्षित्वेन रूपणा क्रियते ।
मूलम्
त्रे॒धा॒वि॒हि॒तँ हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ ।
विश्वास-प्रस्तुतिः
त्रे॒धा॒-वि॒हि॒तँ हि शिरो॒ लोम॑ छ॒वीर् अस्थि॑ ।
मूलम्
त्रे॒धा॒-वि॒हि॒तँ हि शिरो॒ लोम॑ छ॒वीर् अस्थि॑ ।
भट्टभास्कर-टीका
त्रिवृत् स्तोमोऽस्य शिरो भवति । त्र्यवयवास्तिस्रो वृतयोऽस्यैति त्रिवृत्, त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । त्रेधा विहितं हि त्रिप्रकारं निर्मितं शिरो भवति, कथं? लोमानि केशाः छविस्त्वक् अस्थि चेति त्रिभिरेतैश्शिरो भवति ।
विश्वास-प्रस्तुतिः
परा॑चा स्तुवन्ति ।
मूलम्
परा॑चा स्तुवन्ति ।
भट्टभास्कर-टीका
पराचेति ।तेन त्रिवृता पराचा अनावृत्तेन स्तुवन्ति ।
विश्वास-प्रस्तुतिः
तस्मा॒त् तत् स॒दृग् ए॒व ।
मूलम्
तस्मा॒त् तत् स॒दृग् ए॒व ।
भट्टभास्कर-टीका
तस्मात्तत् शिरः सदृगेव भवति एकप्रकारमनावृत्तस्वभावम् । सकृदेवेति शाखान्तरेऽधीयते । परापूर्वादञ्चतेः ऋत्विगादिना क्विनि ‘अनिगन्तोऽञ्चतावप्रत्यये’इति गतेः प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
न मेद्य॒तो ऽनु॑ मेद्यति ।
मूलम्
न मेद्य॒तो ऽनु॑ मेद्यति ।
भट्टभास्कर-टीका
4 इदानीं त्रिवृतः पराक्त्वमेव समर्थयते - न मेद्यत इत्यादि ॥ तदर्थं च यदुक्तं तस्मात्तत्सदृगेवेति तत्रानावृत्तिमेव द्रढयति । तथा हितच्छिरः अनावृत्तमेव सर्वदा भवति मेद्यतः स्थूलीभवतोपि शरीरस्यानुसारेण स्वयं न अनुमेद्यति न स्थूलीभवति ।
विश्वास-प्रस्तुतिः
न कृश्य॒तो ऽनु॑ कृश्यति ।
मूलम्
न कृश्य॒तो ऽनु॑ कृश्यति ।
भट्टभास्कर-टीका
न च कृश्यतः ह्रसतः शरीरस्यानुसारेण स्वयं कृश्यति ह्रसति सर्वदा एकस्वभावमेव’भवतीति । एवं त्रिवृदपि स्तोत्रीयः न वृद्धिं गच्छति न च हानिं प्राप्नोतीति । ञि मिदा स्नेहने. दैवादिकः ‘मिदेर्गुणः।’। कृश तनूकरणे दैवादिक एव ॥
विश्वास-प्रस्तुतिः
प॒ञ्च॒-द॒शो॑ ऽन्यᳶ प॒क्षो भ॑वति ।
स॒प्त॒-द॒शो॑ ऽन्यः +++(प॒क्षो भ॑वति )+++।
मूलम्
प॒ञ्च॒-द॒शो॑ ऽन्यᳶ प॒क्षो भ॑वति ।
स॒प्त॒-द॒शो॑ ऽन्यः +++(प॒क्षो भ॑वति )+++।
भट्टभास्कर-टीका
5 पञ्चदश इत्यादि ॥ एकः पक्षः पञ्चदशो भवति । सप्तदशोऽन्यः ।
विश्वास-प्रस्तुतिः
तस्मा॒द् वयाँ॑ स्य् अन्यत॒रम् अ॒र्धम् अ॒भि-प॒र्याव॑र्तन्ते ।
मूलम्
तस्मा॒द् वयाँ॑ स्य् अन्यत॒रम् अ॒र्धम् अ॒भि-प॒र्याव॑र्तन्ते ।
भट्टभास्कर-टीका
तस्मात् वयांसि पक्षिणोऽन्यतरदेहार्थं अभिपर्यावर्तन्ते अन्यतरार्थाभिपर्यार्वृत्तशरीरा एव पतन्ति ।
विश्वास-प्रस्तुतिः
अ॒न्य॒त॒रतो॒ हि तद् गरी॑यᳵ क्रि॒यते॑ ॥46॥
मूलम्
अ॒न्य॒त॒रतो॒ हि तद् गरी॑यᳵ क्रि॒यते॑ ॥46॥
भट्टभास्कर-टीका
हेतुमाह – अन्यतरेण हि पक्षेण तत् महाव्रतपक्षिशरीरं गरीयः गुरुतरं क्रियते ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒-विँ॒श आ॒त्मा भ॑वति ।
मूलम्
प॒ञ्च॒-विँ॒श आ॒त्मा भ॑वति ।
भट्टभास्कर-टीका
सप्तदशत्वादेकस्य पञ्चदशत्वच्चेतरस्य पञ्चविंश आत्मा शरीरं भवति ।
मूलम्
तस्मा॑न्मध्य॒तᳶ प॒शवो॒ वरि॑ष्ठाः । ए॒क॒विँ॒शम्पुच्छ॑म् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ।
विश्वास-प्रस्तुतिः
तस्मा॑न् मध्य॒तᳶ प॒शवो॒ वरि॑ष्ठा एक-विँ॒शम् पुच्छ॑न् द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ।
मूलम्
तस्मा॑न् मध्य॒तᳶ प॒शवो॒ वरि॑ष्ठा एक-विँ॒शम् पुच्छ॑न् द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
तस्मात् सर्वेऽपि पशवो मध्यतो वरिष्ठा उरुतमाः । एकविंशं पुच्छं स्तुवन्ति, कथं द्विपदासु ऋक्षु स्तुवन्ति प्रतिष्ठित्यै भवति द्वाभ्यां पद्भ्यां प्रतिष्ठा भवतीति । द्वौ पादावासामिति द्विपदाः ‘सङ्ख्यासुपूर्वस्य’ इति लोपस्समासान्तः, ‘टाबृचि’ इति टाप् ‘पादः पत्’इति पद्भावः ‘द्वित्रिम्याम्’ ‘पद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
सर्वे॑ण स॒ह स्तु॑वन्ति ।
मूलम्
सर्वे॑ण स॒ह स्तु॑वन्ति ।
भट्टभास्कर-टीका
सर्वेणेति सर्वेण त्रिवृदादिना सर्वेऽपि सह स्तुवन्ति न पर्यायेण न चैकैकः ।
विश्वास-प्रस्तुतिः
सर्वे॑ण॒ ह्य् आ॑त्मना॑ ऽऽत्म॒न्वी +++(भवति)+++।
मूलम्
सर्वे॑ण॒ ह्य् आ॑त्मना॑ ऽऽत्म॒न्वी +++(भवति)+++।
भट्टभास्कर-टीका
हेतुमाह - सर्वेण हि अवयवेन सह पुरुष आत्मन्वी आत्मवान् भवति शरीरवान् भवति । बहुलं छन्दसि’इति विनिः । ‘अनो नुट्’।
विश्वास-प्रस्तुतिः
स॒होत्पत॑न्ति ।
मूलम्
स॒होत्पत॑न्ति ।
भट्टभास्कर-टीका
अत एव हेतोः सह एव सर्वे उत्पतन्ति उत्तिष्ठन्ति । यस्याल्पाः स्तोत्रियाः सोपि तावदास्ते यावदितरेषां समाप्तिः । पक्षित्वनिरूपणाभिप्रायेण उत्पतन्तीत्युक्तम् ॥
विश्वास-प्रस्तुतिः
एकै॑का॒म् उच् -छिँ॑षन्ति ।
मूलम्
एकै॑का॒म् उच् -छिँ॑षन्ति ।
भट्टभास्कर-टीका
6 एकैकामिति ॥ सर्वेऽपि एकैकां स्तोत्रियां उच्छिषन्ति अविनियुक्तां स्थापयन्ति ।
विश्वास-प्रस्तुतिः
आ॒त्मन्न् ह्य् अङ्गा॑नि ब॒द्धानि॑ ।
मूलम्
आ॒त्मन्न् ह्य् अङ्गा॑नि ब॒द्धानि॑ ।
भट्टभास्कर-टीका
हेतुमाह - आत्मनि शरीरे हि अङ्गानि बद्धानि सर्वोपयोगे हीनाङ्गतास्यात्तस्मादेकैकोच्छेषणेन यथास्थानस्थिताङ्गं शरीरं भवतीति ।
विश्वास-प्रस्तुतिः
न वा ए॒तेन॒ सर्व॒ᳶ पुरु॑षः +++(भवति)+++॥47॥
मूलम्
न वा ए॒तेन॒ सर्व॒ᳶ पुरु॑षः +++(भवति)+++॥47॥
भट्टभास्कर-टीका
एतद्दूषयति - न वा इत्यादि । न खलु एतेन एतावन्मात्रेण वक्ष्यमाणेन सर्वः परिपूर्णः पुरुषो भवति ।
मूलम्
यदि॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒माद॑ᳵ क्रियन्ते ।
विश्वास-प्रस्तुतिः
यद् इ॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् परि॒माद॑ᳵ क्रियन्ते ।
मूलम्
यद् इ॒तइ॑तो॒ लोमा॑नि द॒तो न॒खान् परि॒माद॑ᳵ क्रियन्ते ।
भट्टभास्कर-टीका
केनेत्याह -यदिति । लोमादिकं इतहतः अर्वाक् तद्वर्जयित्वा यदन्यत् वर्जनार्थो निपातः । यद्वा - इतइतोऽङ्गात् यदाकिञ्चिद्धोमादिकमुक्तिच्छिंषति तस्मादेकैकोच्छेषणेन न परिपूर्णता पुरुषस्येति । केचिदाहुः - न खल्वेतेन उक्तेन शिरःपक्षपुच्छेन सर्वः पुरुषो भवति नैतावता पुरुषस्य समाप्तिः । कुत इत्याह - यस्मादयं लोमान्यपि अध्रुवाणि इतइतः सर्वत्र शरीराङ्गतः प्राप्तवान् तस्मात् सर्वार्थाः परिमादः परिमादनानि क्रियन्ते । परितो मादयन्तीति परिमादः, ण्यन्तात् क्विप् ।
विश्वास-प्रस्तुतिः
तान्य् ए॒व तेन॒ प्रत्य् उ॑प्यन्ते ।
मूलम्
तान्य् ए॒व तेन॒ प्रत्य् उ॑प्यन्ते ।
भट्टभास्कर-टीका
तेन परिमादेन तानि अपि लोमादीनि प्रत्युप्यन्ते पुरुषे उपयुक्तान्यपि पुनर्निरुप्याणि भवन्ति लोमादीन्यपि प्रत्युप्तानि भवन्ति । प्रत्येकं स्वस्थाने उप्तानि भवन्ति । ततस्सर्वः पुरुषो भवति ॥
विश्वास-प्रस्तुतिः
औदु॑म्बर॒स् तल्पो॑ भवति ।
मूलम्
औदु॑म्बर॒स् तल्पो॑ भवति ।
भट्टभास्कर-टीका
7 औदुम्बर इत्यादि ॥ उदुम्बरस्य विकारः औदुम्बरः । ‘अनुदात्तादेश्च’इत्यञ् । तल्पः आसन्दी’तमारुह्योद्गातोद्गायेत् । ऊर्ग्वा इत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
ऊर्ग् वा अन्न॑म् उदु॒म्बरः॑ ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै ।
मूलम्
ऊर्ग् वा अन्न॑म् उदु॒म्बरः॑ ।
ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै ।
मूलम्
यस्य॑ तल्प॒सद्य॒म् अन॑भिजितँ॒ स्यात् । स दे॒वानाँ॒ साम्य॑क्षे । त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् ।
विश्वास-प्रस्तुतिः
यस्य॑ तल्प॒सद्य॒म् अन॑भिजितँ॒ स्या॒त्त् स “दे॒वानाँ॒ साम्य॑क्षे॒ तल्प॒सद्य॑म् अ॒भिज॑या॒नी"ति॒ तल्प॑म् आ॒रुह्योद् -गा॑येत् ।
मूलम्
यस्य॑ तल्प॒सद्य॒म् अन॑भिजितँ॒ स्या॒त्त् स “दे॒वानाँ॒ साम्य॑क्षे॒ तल्प॒सद्य॑म् अ॒भिज॑या॒नी"ति॒ तल्प॑म् आ॒रुह्योद् -गा॑येत् ।
भट्टभास्कर-टीका
यस्येत्यादि । तल्पे सदनं तल्पसद्यं महाव्रते । सदेः भावे छान्दसो यत् । यस्य उद्गातुः तल्पसद्यं अनभिजितं ‘न लोकाव्यय’इति व्यत्ययेन न प्रवर्तते । स इत्थमाशासानः तल्पमारुह्योद्गायेत् कथं? देवानां साम्यक्षे समक्षे तल्पसद्यं तल्पसदनार्हत्वं अभि आभिमुख्येन जयानि लिप्सीयेति ।
विश्वास-प्रस्तुतिः
त॒ल्प॒सद्य॑म् ए॒वाभि-ज॑यति ॥48॥
मूलम्
त॒ल्प॒सद्य॑म् ए॒वाभि-ज॑यति ॥48॥
भट्टभास्कर-टीका
ततोऽयं तल्पसद्यमभिजयत्येव ॥
मूलम्
यस्य॑ तल्प॒सद्य॑म॒भिजि॑तँ॒ स्यात् । स दे॒वानाँ॒ साम्य॑क्षे । त॒ल्प॒सद्य॒म्मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् ।
विश्वास-प्रस्तुतिः
यस्य॑ तल्प॒सद्य॑म् अ॒भिजि॑तँ॒ स्या॒त्त् स “दे॒वानाँ॒ साम्य॑क्षे॒ तल्प॒सद्य॒म् मा परा॑जे॒षी"ति॒ तल्प॑म् आ॒रुह्योद्- गा॑येत् ।
मूलम्
यस्य॑ तल्प॒सद्य॑म् अ॒भिजि॑तँ॒ स्या॒त्त् स “दे॒वानाँ॒ साम्य॑क्षे॒ तल्प॒सद्य॒म् मा परा॑जे॒षी"ति॒ तल्प॑म् आ॒रुह्योद्- गा॑येत् ।
भट्टभास्कर-टीका
8 यस्येत्यादि ॥ गतम् । चातुर्वर्ण्यादित्वात् ष्यञि सामक्ष्यमिति वक्तव्ये व्यत्ययेन मध्ये तद्धितः । यद्वा - सामीत्यर्धस्य नाम, साम्यक्षमपरिपूर्णदृष्टिः कटाक्षलाभः । तस्मिन् सति तल्लाभेन मा पराजेषि तल्पसद्यात् पराजितो माभूवमिति प्रार्थयमान उद्गायेत् ।
विश्वास-प्रस्तुतिः
न त॑ल्प॒सद्य॒म् परा॑-जयते ।
मूलम्
न त॑ल्प॒सद्य॒म् परा॑-जयते ।
भट्टभास्कर-टीका
न कदाचित्तल्पसद्यात् पराजितो भवति । जयतेर्लुङि ‘विपराभ्यां जेः’इत्यात्मनेपदं, ‘पराजेरसोढ’इति अपादानत्वं व्यत्ययेन न प्रवर्तते ॥
विश्वास-प्रस्तुतिः
प्ले॒ङ्खे शँ॑सति ।
मूलम्
प्ले॒ङ्खे शँ॑सति ।
भट्टभास्कर-टीका
9 प्लेङ्ख इति ॥ प्लेङ्खः डोला तामारुह्य होता शंसति ।
विश्वास-प्रस्तुतिः
महो॒ वै प्ले॒ङ्खः, मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
महो॒ वै प्ले॒ङ्खः, मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
महो वा इत्यादि । महः ओजः तद्धेतुत्वाताच्छब्द्यम् ॥
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
त आ॑दि॒त्ये व्याय॑च्छन्त ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
त आ॑दि॒त्ये व्याय॑च्छन्त ।
भट्टभास्कर-टीका
10 देवासुरा इत्यादि ॥ आदित्ये आदित्यनिमित्तं अयमस्माकमस्तु अयमस्माकमिति व्यायच्छन्त व्यायामं कलहमकुर्वत ॥ ‘आङो यमहनः’इत्यात्मनेपदम् ।
विश्वास-प्रस्तुतिः
तन् दे॒वास् सम॑जयन्न् ॥49॥
मूलम्
तन् दे॒वास् सम॑जयन्न् ॥49॥
मूलम्
ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो॑ ब्राह्म॒णः । अ॒सु॒र्य॑श्शू॒द्रः ।
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णश् च॑ शू॒द्रश् च॑ चर्म-क॒र्ते व्याय॑च्छेते॒ , दैव्यो॒ वै वर्णो॑ ब्राह्म॒ण असु॒र्य॑श् शू॒द्रः +++(वर्णः)+++।
मूलम्
ब्रा॒ह्म॒णश् च॑ शू॒द्रश् च॑ चर्म-क॒र्ते व्याय॑च्छेते॒ , दैव्यो॒ वै वर्णो॑ ब्राह्म॒ण असु॒र्य॑श् शू॒द्रः +++(वर्णः)+++।
भट्टभास्कर-टीका
तं देवास्समजयन् जित्वा लब्धवन्तः । तस्मात् ब्राह्मणश्च शूद्रश्च चर्मकर्ते चर्मखण्डनिमित्तं व्यायच्छेते कलहायेते । कृत्यत इति कर्ता । कृती छेदने कर्मणि घञ् देवानां स्वभूतो दैव्यः । ‘देवाद्यञञौ’इति यञ् ।
असुराणां स्व असुर्यः । ‘असुरस्य स्वम्’इति यत् । तस्माद्देवासुरस्थानीयाविमौ व्यायच्छेते इति ।
विश्वास-प्रस्तुतिः
“इ॒मे॑ ऽरात्सुर्” , “इ॒मे सु॑भू॒तम् अ॑क्र॒न्न्” इत्य् अ॑न्यत॒रो ब्रू॑यात् ।
मूलम्
“इ॒मे॑ ऽरात्सुर्” , “इ॒मे सु॑भू॒तम् अ॑क्र॒न्न्” इत्य् अ॑न्यत॒रो ब्रू॑यात् ।
भट्टभास्कर-टीका
इमेऽरात्सुरित्यादि । इमे सत्रिणः अरात्सुः ऋद्धा अभूवन् । यत एव इमे सुभूतं सुभिक्षं शोभनान्नं अक्रन् अकार्षुः अत एव इमेऽरात्सुरिति । अक्रन्निति कृञो लुङि ‘मन्त्रे घस’इति च्लेर्लुक् । इति एवं अन्यतरो ब्राह्मणो ब्रूयात् प्रशंसेत् ।
विश्वास-प्रस्तुतिः
“इ॒म उ॑द्वासी-का॒रिण॑,” “इ॒मे दु॑र्भू॒तम् अ॑क्र॒न्न्” इत्य् अ॑न्यत॒रः +++(ब्रूयात् )+++
मूलम्
“इ॒म उ॑द्वासी-का॒रिण॑,” “इ॒मे दु॑र्भू॒तम् अ॑क्र॒न्न्” इत्य् अ॑न्यत॒रः +++(ब्रूयात् )+++
भट्टभास्कर-टीका
अथ अन्यतरः शूद्रजातीयः इमे उद्वासीकारिणः उद्वासनमुद्वासिः ‘इजादिभ्यः’ इतीन्प्रत्ययः । तस्य कर्तारः प्रजानां स्वदेशादुद्वासयितारः । छान्दसं दीर्घत्वम् । यत एव इमे दुर्भूतं दुर्भिक्षं दुर्लभान्नं अक्रन् तस्मादिमे उद्वासीकारिण इत्यन्यतरः शूद्रो ब्रूयात् आक्रोशेत् । निरुदकादित्वात् सुभूतदुर्भूतयोरुत्तरपदान्तोदात्तत्वम् । यद्वा - गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् ।
मूलम्
यदे॒वैषाँ॑ सुकृ॒तय्ँया राद्धिः॑ । तद॑न्यत॒रो॑ऽभिश्री॑णाति ।
विश्वास-प्रस्तुतिः
यद् ए॒वैषाँ॑ सुकृ॒तय्ँ या राद्धि॒स् तद् अ॑न्यत॒रो॑ ऽभि-श्री॑णाति ।
मूलम्
यद् ए॒वैषाँ॑ सुकृ॒तय्ँ या राद्धि॒स् तद् अ॑न्यत॒रो॑ ऽभि-श्री॑णाति ।
भट्टभास्कर-टीका
यदेवैषामित्यादि । एषां सत्रिणां यत् सुकृतं सुष्ठु कृतं कर्म या च राद्धिः फलसिद्धिः तत् उभयमपि अन्यतरोऽभिश्रीणाति प्रशंसन् ब्राह्मणो लोकप आभिमुख्येन उत्पादयति । श्रीञ् पाके ।
मूलम्
यदे॒वैषा॑न्दुष्कृ॒तय्ँयाऽरा॑द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णस्सञ्ज॑यति ।
विश्वास-प्रस्तुतिः
यद् ए॒वैषा॑न् दुष्कृ॒तय्ँ , या ऽरा॑द्धि॒स् तद् अ॑न्यत॒रो ऽप॑-हन्ति॒ , ब्राह्म॒णस् सञ्ज॑यति ।
मूलम्
यद् ए॒वैषा॑न् दुष्कृ॒तय्ँ , या ऽरा॑द्धि॒स् तद् अ॑न्यत॒रो ऽप॑-हन्ति॒ , ब्राह्म॒णस् सञ्ज॑यति ।
भट्टभास्कर-टीका
अथ यदेषां दुष्कृतं दुष्टं कर्म या च अराद्धिः फलहानिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तत् उभयमपि अन्यतरः आक्रोशन् शूद्रः अपहन्ति नाशयति । तस्मात् सुकृतं परेण कीर्त्यमानं वर्धते । दुष्कृतं तु परेण कीर्त्यमानं विनश्यतीति । यथा - ‘उत मोपवदेयुः। उत मे पान्मानमपहन्युः’ इति । तत्र ब्राह्मणस्सञ्जयति सम्यक् जेता भवति ।
विश्वास-प्रस्तुतिः
अ॒मुम् ए॒वादि॒त्यम् भ्रातृ॑व्यस्य॒ सव्ँवि॑न्दन्ते ॥50॥
मूलम्
अ॒मुम् ए॒वादि॒त्यम् भ्रातृ॑व्यस्य॒ सव्ँवि॑न्दन्ते ॥50॥
भट्टभास्कर-टीका
तयोः एवं कृते सत्रिणः अमुमादित्यं संविन्दन्ते सम्यक् लभन्ते । अपि च भ्रातृव्यस्य अपि सम्बन्धिनं लभन्ते । भ्रातृव्यसम्बन्धमादित्यस्य निवर्तयन्ति । तत आदित्यं संजयन्ति आत्मीयं कुर्वन्तीति ॥
इति श्रभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये तैत्तिरीयब्राह्मागभाष्ये प्रथमेऽष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ द्वितीयप्रपाठकस्समाप्तः ॥