०५ पशवः वैष्णवाद्या नव

मूलम्

अप्र॑तिष्ठाव्ँ॒वा ए॒ते ग॑च्छन्ति । येषाँ॑ सव्ँवत्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते॑ ।

विश्वास-प्रस्तुतिः

अप्र॑तिष्ठाव्ँ॒ वा ए॒ते ग॑च्छन्ति॒ येषाँ॑ सव्ँवत्स॒रे ऽना॒प्ते ऽथै॒काद॒शिन्य् आ॒प्यते॑ ।

वै॒ष्ण॒वव्ँ वा॑म॒नम् आल॑भन्ते । य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञम् ए॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै ।

मूलम्

अप्र॑तिष्ठाव्ँ॒ वा ए॒ते ग॑च्छन्ति॒ येषाँ॑ सव्ँवत्स॒रे ऽना॒प्ते ऽथै॒काद॒शिन्य् आ॒प्यते॑ ।

वै॒ष्ण॒वव्ँ वा॑म॒नम् आल॑भन्ते । य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञम् ए॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

1 अप्रतिष्ठां वा इत्यादि ॥ प्रतिष्ठां एते न गच्छन्ति येषां संवत्सरे अनाप्ते असमाप्ते एकादशिनी आप्यते । तथा हि - प्रत्यहमेकैकस्मिन् पशावालभ्यमाने एकषष्ट्यधिकशतत्रयप्रमितेष्वहस्सु द्वात्रिंशदेकादशिन्यो लभ्यन्ते, अथ नवाहानि परिशिष्टानि लभ्यन्ते । स यः [तद्यः] साधनत्वेन स्वीकरोति स [तस्य तद] प्रतिष्ठित्यै भवति ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रा॒ग्नम् आल॑भन्ते ।

मूलम्

ऐ॒न्द्रा॒ग्नम् आल॑भन्ते ।

भट्टभास्कर-टीका

ऐन्द्राग्नेन द्वितीयेन अगतसारदेवतालाभः ।

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्नी वै दे॒वाना॒म् अया॑तयामानौ ।

मूलम्

इ॒न्द्रा॒ग्नी वै दे॒वाना॒म् अया॑तयामानौ ।

भट्टभास्कर-टीका

इन्द्राग्निशब्दे ‘देवताद्वन्द्वे च’इति प्राप्तस्य पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वस्य ‘नोत्तरपदेऽनुदात्तादौ’इति निषेधे समासान्तोदात्तत्वमेव ।

मूलम्

ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते ॥ 40॥

विश्वास-प्रस्तुतिः

ये ए॒व दे॒वते॒ अया॑तयाम्नी॒ ते ए॒वाल॑भन्ते ॥ 40॥

मूलम्

ये ए॒व दे॒वते॒ अया॑तयाम्नी॒ ते ए॒वाल॑भन्ते ॥ 40॥

भट्टभास्कर-टीका

अयातयाम्नी इति । ‘अन उपधालोपिनः’इहि ङीप् । ‘वा छन्दसि’इति पूर्वसवर्णदीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वम् आल॑भन्ते ।
दे॒वता॑ ए॒वाव॑रुन्धते ।

द्या॒वा॒पृ॒थिव्या॑न् धे॒नुम् आल॑भन्ते ।
द्यावा॑पृथि॒व्योर् ए॒व प्रति॑तिष्ठन्ति ।

वा॒य॒व्यव्ँ॑ व॒त्सम् आल॑भन्ते ।
वा॒युर् ए॒वैभ्यो॑ यथा ऽऽयत॒नाद् दे॒वता॒ अव॑रुन्धे ।

2 वैश्वदेवेन तृतीयेन सर्वदेवतालाभः । द्यावापृथिव्यथा चतुर्थ्या द्यावापृथिव्योः प्रतिष्ठितो भवति । वायव्येन पञ्चमेन वायुः स्वयं एवैभ्यो यजमानेभ्यस्सत्रिभ्यः स्वात् आयतनात् देवता आत्मीयत्वेन लभते वशीकरोति ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्याम् अविव्ँ॑ व॒शाम् आल॑भन्ते ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।

मूलम्

आ॒दि॒त्याम् अविव्ँ॑ व॒शाम् आल॑भन्ते ।
इ॒यव्ँ वा अदि॑तिः ।
अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।

भट्टभास्कर-टीका

आदित्यया षष्ठ्या पृथिव्यां प्रतिष्ठिता भवन्ति ।

विश्वास-प्रस्तुतिः

मै॒त्रा॒व॒रु॒णीम् आल॑भन्ते ॥41॥

मूलम्

मै॒त्रा॒व॒रु॒णीम् आल॑भन्ते ॥41॥

मूलम्

मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टँ शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् ।

विश्वास-प्रस्तुतिः

मि॒त्रेण॑+ ए॒व य॒ज्ञस्य॒ स्व्-इ॑ष्टँ शमयन्ति॒ , वरु॑णेन॒ दुर्-इ॑ष्टम् +++(शमयन्ति )+++ ।

मूलम्

मि॒त्रेण॑+ ए॒व य॒ज्ञस्य॒ स्व्-इ॑ष्टँ शमयन्ति॒ , वरु॑णेन॒ दुर्-इ॑ष्टम् +++(शमयन्ति )+++ ।

भट्टभास्कर-टीका

मैत्रावरुण्या सप्तम्या यज्ञस्य स्विष्टं शोभनमिष्टं शमयन्ति सुखहेतुमेव कुर्वन्ति । दुरिष्टं च शमयन्ति निवृत्तोपप्लवं कुर्वन्ति ।

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यन् तू॑प॒रम् म॑हा-व्र॒त आल॑भन्ते ।
प्रा॒जा॒प॒त्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते ।

मूलम्

प्रा॒जा॒प॒त्यन् तू॑प॒रम् म॑हा-व्र॒त आल॑भन्ते ।
प्रा॒जा॒प॒त्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते ।

भट्टभास्कर-टीका

प्राजापत्येनाष्टमेन तूपरेण शृङ्गरहितेन प्राजापत्येन चातिग्राह्येण ।

विश्वास-प्रस्तुतिः

अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।

मूलम्

अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

ऐन्द्रं महाव्रतं अहः रूपसमृद्धं कुर्वन्ति ‘यो ह खलु वाव प्रजापतिः । स उ वेवेन्द्रः’ इति ।

विश्वास-प्रस्तुतिः

अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।
आ॒ग्ने॒यम् आल॑भन्ते॒ प्रति॒ प्रज्ञा॑त्यै ।

मूलम्

अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।
आ॒ग्ने॒यम् आल॑भन्ते॒ प्रति॒ प्रज्ञा॑त्यै ।

भट्टभास्कर-टीका

अथो अपिच अह्नोऽयं बलिः पूजा यदत्र प्राजापत्ययोरनयोः प्रयोग इति । आग्नेयेन नवमेन प्रतिप्रज्ञानं प्रत्येकं सर्वार्थविषयं प्रज्ञानं प्रकृष्टं ज्ञानं प्रकाशो भवति ॥

विश्वास-प्रस्तुतिः

अ॒ज॒-पे॒त्वान् वा ए॒ते पूर्वै॒र् मासै॒र् अव॑रुन्धते ।

मूलम्

अ॒ज॒-पे॒त्वान् वा ए॒ते पूर्वै॒र् मासै॒र् अव॑रुन्धते ।

भट्टभास्कर-टीका

3 अजपेत्वानित्यादि ॥ अजाश्च पेत्वाश्च अजपेत्वाः । गालितमुष्काः पेत्वाः । एते सत्रिणः पूर्वैः एकादशिनैः मासैः अजपेत्वानेवालभन्ते, न गवादीन् ।

मूलम्

यदे॒ते ग॒व्याᳶ प॒शव॑ आल॒भ्यन्ते॑ । उ॒भये॑षाम्पशू॒नामव॑रुद्ध्यै

विश्वास-प्रस्तुतिः

यद् ए॒ते ग॒व्याᳶ प॒शव॑ आल॒भ्यन्त॑ उ॒भये॑षाम् पशू॒नाम् अव॑रुद्ध्यै ॥42॥

मूलम्

यद् ए॒ते ग॒व्याᳶ प॒शव॑ आल॒भ्यन्त॑ उ॒भये॑षाम् पशू॒नाम् अव॑रुद्ध्यै ॥42॥

भट्टभास्कर-टीका

अथ यदेते अनन्तरोक्ता गव्याः गोभिर्धेनुवत्समैत्रावरूणीभिः सहिताः पशव आलभ्यन्ते तत् उभयेषां गवादीनामजादीनां च पशूनां लाभाय भवति । तस्मादेतेषु नवस्वहस्सु एतानालभेरन्निति ॥

मूलम्

यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन् । अप्रि॑य॒म्भ्रातृ॑व्यम॒भ्यति॑रिच्येत ।

विश्वास-प्रस्तुतिः

यद् अति॑रिक्ताम् एकाद॒शिनी॑म् आ॒लभे॑र॒न्न् , अप्रि॑य॒म् भ्रातृ॑व्यम् अ॒भ्य्-अति॑-रिच्येत ।

मूलम्

यद् अति॑रिक्ताम् एकाद॒शिनी॑म् आ॒लभे॑र॒न्न् , अप्रि॑य॒म् भ्रातृ॑व्यम् अ॒भ्य्-अति॑-रिच्येत ।

भट्टभास्कर-टीका

4 यदतिरिक्तामित्यादि ॥ इदानीं ब्राह्मणवतां पशूनां प्रकारान्तरेण स्तुतिः क्रियते - संवत्सरमतीत्यावस्थानमतिरेकः त्र्यहातिक्रमः । तत्र यद्येकादशिनीं तामेव त्रिभिरहोभिः अतिरिक्तां नवाहार्थं पुनः आलभेरन् तथा सति दिनातिरेकेण अप्रियस्य भ्रातृव्यस्याभिवृद्धिः स्यात् ।

मूलम्

यद्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयु॑ᳵ कुर्वीरन् ।

विश्वास-प्रस्तुतिः

यद् द्वौ द्वौ॑ प॒शू स॒मस्ये॑यु॒ᳵ कनी॑य॒ आयु॑ᳵ कुर्वीरन् ।

मूलम्

यद् द्वौ द्वौ॑ प॒शू स॒मस्ये॑यु॒ᳵ कनी॑य॒ आयु॑ᳵ कुर्वीरन् ।

भट्टभास्कर-टीका

यदि द्वयोर्दिनयोः द्वौद्वौ पशू समस्येयुः तदा कनीयः अल्पतरमात्मीयं अयुः कुर्वीरन् ।

मूलम्

यदे॒ते ब्राह्म॑णवन्तᳶ प॒शव॑ आल॒भ्यन्ते॑ । नाप्रि॑य॒म्भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते ।

विश्वास-प्रस्तुतिः

यद् ए॒ते ब्राह्म॑णवन्तᳶ प॒शव॑ आल॒भ्यन्ते॒, नाप्रि॑य॒म् भ्रातृ॑व्यम् अ॒भ्य्-अ॑ति॒रिच्य॑ते ।
न कनी॑य॒ आयु॑ᳵ कुर्वते ॥43॥

मूलम्

यद् ए॒ते ब्राह्म॑णवन्तᳶ प॒शव॑ आल॒भ्यन्ते॒, नाप्रि॑य॒म् भ्रातृ॑व्यम् अ॒भ्य्-अ॑ति॒रिच्य॑ते ।
न कनी॑य॒ आयु॑ᳵ कुर्वते ॥43॥

भट्टभास्कर-टीका

तस्मादुभयदोषपरिहारार्थं एतान् ब्राह्मणवतः अनन्तरब्राह्मणोक्तान् नवैव पशूनालभेरन्निति विधिः ॥

इति पञ्चमोऽनुवाकः ॥