विश्वास-प्रस्तुतिः
ए॒क॒-विँ॒श ए॒ष भ॑वति ।
मूलम्
ए॒क॒-विँ॒श ए॒ष भ॑वति ।
भट्टभास्कर-टीका
1 एकविंश इत्यादि ॥ एष वक्ष्यमाणो विषुवान् एकविंशः । एकविंशस्तोमकः ।
मूलम्
ए॒तेन॒ वै दे॒वा ए॑कविँ॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒मँ सु॑व॒र्गल्ँ लो॒कमारो॑हयन् ।
विश्वास-प्रस्तुतिः
ए॒तेन॒ वै दे॒वा ए॑क-विँ॒शेना॑दि॒त्यम् इ॒त उ॑त्त॒मँ सु॑व॒र्गल्ँ लो॒कम् आरो॑हयन् ।
मूलम्
ए॒तेन॒ वै दे॒वा ए॑क-विँ॒शेना॑दि॒त्यम् इ॒त उ॑त्त॒मँ सु॑व॒र्गल्ँ लो॒कम् आरो॑हयन् ।
भट्टभास्कर-टीका
एतेन वा इत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
स वा ए॒ष इ॒त ए॑क-विँ॒शः ।
मूलम्
स वा ए॒ष इ॒त ए॑क-विँ॒शः ।
मूलम्
तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्ता॑त् ।
विश्वास-प्रस्तुतिः
तस्य॒ दशा॒वस्ता॒द् अहा॑नि॒ दश॑ प॒रस्ता॑त् ।
मूलम्
तस्य॒ दशा॒वस्ता॒द् अहा॑नि॒ दश॑ प॒रस्ता॑त् ।
भट्टभास्कर-टीका
स वा इत्यादि । स एष वक्ष्यमाण इतोपि हेतोः एकविंशः, तस्य दशावस्तादहानि परस्ताच्च दश अहानि ।
विश्वास-प्रस्तुतिः
स वा ए॒ष वि॒-राज्य् उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
मूलम्
स वा ए॒ष वि॒-राज्य् उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
भट्टभास्कर-टीका
सः अयं मध्ये पृष्ठवंशस्थानीय उभयतः अवस्तात् परस्ताच्च विराजि प्रतिष्ठितः । कथं ? पृष्ठ्यः षडहः, विश्वजित्, त्रयः परस्सामानः विषुवान्, परतो व्यावृत्तास्त्रयः परस्सामानः, अभिजित्, पृष्ठ्यः पडह आवृत्त इति ॥
विश्वास-प्रस्तुतिः
वि॒राजि॒ हि वा ए॒ष उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
मूलम्
वि॒राजि॒ हि वा ए॒ष उ॑भ॒यत॒ᳶ प्रति॑ष्ठितः ।
भट्टभास्कर-टीका
2 विराजि हीत्यादि ॥ एष खल्वादित्योपि हि विराज्युभयतः प्रतिष्ठितः अवस्तात् पञ्चशतानि रश्मयः परस्ताच्च पञ्चशतानि मध्ये विराजि प्रतिष्ठितो भवति । यद्वा - प्रधानभूतैर्दशभिः रश्मिभिः अवस्तात्परस्ताच्च उभयतः प्रतितिष्ठतीति ।
विश्वास-प्रस्तुतिः
तस्मा॑द् अन्त॒रेमौ लो॒कौ यन् ।
सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व् अ॑भि॒-तप॑न् नेति ॥37॥
मूलम्
तस्मा॑द् अन्त॒रेमौ लो॒कौ यन् ।
सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व् अ॑भि॒-तप॑न् नेति ॥37॥
मूलम्
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽतिपा॒दाद॑बिभयुः ।
विश्वास-प्रस्तुतिः
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॒ परा॑चो ऽति-पा॒दाद् अ॑बिभयुः ।
मूलम्
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॒ परा॑चो ऽति-पा॒दाद् अ॑बिभयुः ।
भट्टभास्कर-टीका
तस्मादित्यादि । ऊर्ध्वमतिगमनात् देवा अबिभयुः ।
मूलम्
तञ्छन्दो॑भिरदृँह॒न्धृत्यै॑ ।
विश्वास-प्रस्तुतिः
तञ् छन्दो॑भिर् अदृँहन् ,
धृत्यै॑ +++(भवन्ति)+++।
मूलम्
तञ् छन्दो॑भिर् अदृँहन् ,
धृत्यै॑ +++(भवन्ति)+++।
भट्टभास्कर-टीका
तत्परिहाराय तं आदित्यं छन्दोभिः गायत्र्यादिभिः सावनैः अदृंहन् स्तम्भितवन्तः रज्जुभिर्बद्धमिवाकुर्वन् । तस्माद्धृत्यै भवन्ति छन्दांसि ॥
मूलम्
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः ।
विश्वास-प्रस्तुतिः
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्यावा॑चो ऽवपा॒दाद् अ॑बिभयुः ।
तम् प॒ञ्चभी॑ र॒श्मिभि॒र् उद॑वयन् ।
मूलम्
दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्यावा॑चो ऽवपा॒दाद् अ॑बिभयुः ।
तम् प॒ञ्चभी॑ र॒श्मिभि॒र् उद॑वयन् ।
भट्टभास्कर-टीका
3 देवा वा इत्याति ॥ अवाचोऽवपादात् अधस्तात् न्यक्पतनात् अबिभयुः । तत्परिहाराय पञ्चभी रश्मिभिरादित्यं उदवयन् ऊर्ध्वमुत्तम्भितवन्तः ऊर्ध्वमिवाकुर्वन् ।
विश्वास-प्रस्तुतिः
तस्मा॑द् एकविँ॒शे ऽह॒न् पञ्च॑ दिवा-की॒र्त्या॑नि क्रियन्ते ।
र॒श्मयो॒ वै दि॑वा-की॒र्त्या॑नि ।
मूलम्
तस्मा॑द् एकविँ॒शे ऽह॒न् पञ्च॑ दिवा-की॒र्त्या॑नि क्रियन्ते ।
र॒श्मयो॒ वै दि॑वा-की॒र्त्या॑नि ।
भट्टभास्कर-टीका
तस्मादेकविंशेऽह्नि विषुवति पञ्च दिवाकीर्त्यनामानि क्रियन्ते । रश्मिस्थानीयानि हि दिवाकीर्त्यानि सामानि ।
मूलम्
ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयो॒ᳶ पव॑मानयोः ॥38॥
विश्वास-प्रस्तुतिः
ये गा॑य॒त्रे ते गा॑य॒त्रीषु+ उत्त॑रयो॒ᳶ पव॑मानयोः ॥38॥
मूलम्
ये गा॑य॒त्रे ते गा॑य॒त्रीषु+ उत्त॑रयो॒ᳶ पव॑मानयोः ॥38॥
भट्टभास्कर-टीका
तत्र ये भ्राजाभ्राजे नाम दिवाकीर्त्ये गायत्रे प्रातस्सवने ते एव उत्तरयोः पवमानयोः मध्यन्दिने आर्भवे च कार्ये । विशेषस्तु सावनच्छन्दो हित्वा गायत्रीष्वेव कार्ये ।
मूलम्
म॒हादि॑वाकीर्त्यँ॒ होतु॑ᳶ पृ॒ष्ठम् । वि॒क॒र्णम्ब्र॑ह्मसा॒मम् ।
विश्वास-प्रस्तुतिः
म॒हा-दि॑वा-कीर्त्यँ॒ होतु॑ᳶ पृ॒ष्ठव्ँ , विक॒र्णम् ब्र॑ह्म-सा॒मम् , भा॒सो॑ ऽग्निष्टो॒मः ।
मूलम्
म॒हा-दि॑वा-कीर्त्यँ॒ होतु॑ᳶ पृ॒ष्ठव्ँ , विक॒र्णम् ब्र॑ह्म-सा॒मम् , भा॒सो॑ ऽग्निष्टो॒मः ।
भट्टभास्कर-टीका
अय माध्यन्दिनं महादिवाकीर्त्यं नाम होतुः पृष्ठं पृष्ठानां प्रथमम् । तत्रेव विकर्णं नाम ब्रह्मसामं कार्यं पृष्ठानां तृतीयं ब्रह्मणः साम ब्रह्मसामम् । ‘अनसन्तान्नपुंसकात्’इत्यच् समासान्तः । अथ तृतीयसवने भासो नाम अग्निष्टोमसाम कार्यः ॥
विश्वास-प्रस्तुतिः
अथै॒तानि॒ परा॑णि ।
परै॒र् वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम् अ॑पारयन् ।
मूलम्
अथै॒तानि॒ परा॑णि ।
परै॒र् वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम् अ॑पारयन् ।
भट्टभास्कर-टीका
4 एवं विषुवत्तं विधाय तमभितः स्थितानां परस्साम्नां पुनस्तुतिर्नाम च क्रियते - अथेत्यादि ॥ अपारयन् स्वर्गलोकस्थानीयमादित्यं पूर्तिमगमयन् । पृ पालनपूरणयोः । यद्वा - पृ प्रीतौ । आदित्यमप्रीणयन् ।
मूलम्
यदपा॑रयन् । तत्परा॑णाम्पर॒त्वम् ।
विश्वास-प्रस्तुतिः
यद् अपा॑रय॒न्न् तत् परा॑णाम् पर॒त्वम् ।
मूलम्
यद् अपा॑रय॒न्न् तत् परा॑णाम् पर॒त्वम् ।
भट्टभास्कर-टीका
तस्मात् पराणां परस्साम्नां परत्वम् । ऋदोरप्, पचाद्यच् वा । वृषादिर्द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
पा॒रय॑न्त्य् एन॒म् परा॑णि ।
य ए॒वव्ँ वेद॑ ।
मूलम्
पा॒रय॑न्त्य् एन॒म् परा॑णि ।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
पराणि आदित्यं पारयन्ति पूरयन्ति प्रीणयन्ति वा । तैस्तं पारयन्ति देवाः । अथ य एवं वेद पराणां परत्वं एनं वेदितारं पराणि पारयन्ति प्रतिष्ठितैश्वर्यं कुर्वन्ति । परैरिति कर्तरि तृतीया न हेतौ, पारयन्त्येनं पराणीति कर्तृत्वदर्शनात् ॥
मूलम्
अथै॒तानि॒ स्परा॑णि ।
विश्वास-प्रस्तुतिः
अथ॑+ ए॒तानि॒ स्परा॑णि ।
स्परै॒र् वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम् अ॑स्पारयन् ।
मूलम्
अथ॑+ ए॒तानि॒ स्परा॑णि ।
स्परै॒र् वै दे॒वा आ॑दि॒त्यँ सु॑व॒र्गल्ँ लो॒कम् अ॑स्पारयन् ।
मूलम्
यदस्पा॑रयन् । तत्स्परा॑णाँ स्पर॒त्वम् ।
विश्वास-प्रस्तुतिः
यद् अस्पा॑रय॒न्न् तत् स्परा॑णाँ स्पर॒त्वम् ।
स्पा॒रय॑न्त्य् एनँ॒ स्परा॑णि ।
य ए॒वव्ँ वेद॑ ॥39॥
मूलम्
यद् अस्पा॑रय॒न्न् तत् स्परा॑णाँ स्पर॒त्वम् ।
स्पा॒रय॑न्त्य् एनँ॒ स्परा॑णि ।
य ए॒वव्ँ वेद॑ ॥39॥
भट्टभास्कर-टीका
5 अथेत्यादि ॥ स्पृ प्रीतिचलनयोः । समानमन्यत् । एवं परस्परात्मकं नामद्वयं परस्साम्नां दर्शितम् ॥ इति द्वितीये चतुर्थोऽनुवाकः॥