०२ विषुवन्नामक मुख्यमहः, तदुभयपार्श्ववर्तिनि चत्वार्यहानि

अनुवाकः २

गवामयनब्राह्मणम्, वैश्वदेवं काण्डम्

विश्वास-प्रस्तुतिः

नव+ ए॒तान्य् अहा॑नि भवन्ति ।

मूलम्

नव+ ए॒तान्य् अहा॑नि भवन्ति ।

भट्टभास्कर-टीका

1 अथ गवामयनब्राह्मणम्, वैश्वदेवं काण्डं पञ्चानुवाकाः । नवैतान्यहानीत्यादि ॥ तत्र संवत्सरस्य गर्भभूतानि नवाहानि एतानि वक्ष्यमाणानि भवन्ति, तत्स्वरूपमिदानीं ब्रूम इति ।

विश्वास-प्रस्तुतिः

नव॒ वै सु॑व॒र्गा लो॒काः ।

मूलम्

नव॒ वै सु॑व॒र्गा लो॒काः ।

भट्टभास्कर-टीका

नवधा भिद्यते सः स्वर्गादिभेदेन नवधा भिन्नत्वात् देवानाम् । यद्वा - नवधा भिन्नैश्वर्याः स्वर्गाः पृथिव्यादिप्राजापत्यान्ता लोकाः, भोगभूमयो वा नव प्राणाः नव स्वर्गाः ।

मूलम्

यदे॒तान्यहा॑न्युप॒यन्ति॑ । न॒वस्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ᳶ प्रति॒तिष्ठ॑न्तो यन्ति ।

विश्वास-प्रस्तुतिः

यद् ए॒तान्य् अहा॑न्य् उप॒यन्ति॑ न॒वस्व् ए॒व तत् सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ᳶ प्रति॒-तिष्ठ॑न्तो यन्ति ।

मूलम्

यद् ए॒तान्य् अहा॑न्य् उप॒यन्ति॑ न॒वस्व् ए॒व तत् सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिण॑ᳶ प्रति॒-तिष्ठ॑न्तो यन्ति ।

भट्टभास्कर-टीका

तत् तस्मादेषामह्नां उपायनेन नवसु स्वर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तः प्रत्येकरस्य तद्भोगं भुञ्जाना यन्ति गच्छन्ति अविच्छेदेन वर्तन्ते । यद्वा - नवानामह्नां उपायनमेव नवसु स्वर्गेषु प्रतिष्ठात्वेन रूप्यते ॥

विश्वास-प्रस्तुतिः

“अ॒ग्नि॒ष्टो॒माᳶ पर॑स् सामानᳵ का॒र्या॑” इत्य् आ॑हुः ।

मूलम्

“अ॒ग्नि॒ष्टो॒माᳶ पर॑स् सामानᳵ का॒र्या॑” इत्य् आ॑हुः ।

भट्टभास्कर-टीका

2 एवंभूतानामह्नां इदानीं स्वरूपं दर्शयति - अग्निष्टोमा इत्यादि ॥ अग्निष्टोमसामसंस्थाः अग्निष्टोमाः, द्वादश स्तोमाः, तादृशाः परस्सामानः कार्याः कर्तव्या इत्याहुः ।

विश्वास-प्रस्तुतिः

“अ॒ग्नि॒ष्टो॒म-स॑म्मितस् सुव॒र्गो लो॒क” इति॑ ।

मूलम्

“अ॒ग्नि॒ष्टो॒म-स॑म्मितस् सुव॒र्गो लो॒क” इति॑ ।

भट्टभास्कर-टीका

हेतुं चाहुः - अग्निष्टोमसम्मितः तुल्यः सुवर्गो लोक इति । तुल्यत्वं चेदानीं वक्ष्यते - अत्र स्वर्गशब्देन संवत्सर उच्यते । ‘संवत्सरस्सुवर्गो लोकः’ इति च ब्राह्मणम् । तस्मादग्निष्टोमसंवत्सरयोः साम्यात् संवत्सरात्मनो गर्भस्य नवाहस्य सम्बन्धिनामह्नामग्निष्टोमत्वं न्याय्यमिति तेषामभिप्रायः ।

विश्वास-प्रस्तुतिः

द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।

मूलम्

द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ ।
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।

भट्टभास्कर-टीका

संवत्सराग्निष्टोमयोः साम्ये अन्यत् ब्राह्मणं दर्शयति - द्वादशेति । द्वादशत्वसङ्ख्यान्वयेन द्वयोस्साम्यमिति ॥

विश्वास-प्रस्तुतिः

तत् तन् न सूर्क्ष्य॑म् ।

मूलम्

तत् तन् न सूर्क्ष्य॑म् ।

भट्टभास्कर-टीका

3 एतद्दूषयति - तदित्थादि ॥ तत् तेषां मतं न सूर्क्ष्यं नादृत्यम् । सूर्क्ष आदरे तच्छब्दादामः षष्ठीबहुवचनस्य ‘सुपां सुलुक्’इति लुक् ।

विश्वास-प्रस्तुतिः

उ॒क्थ्या॑ ए॒व स॑प्तद॒शाᳶ पर॑स्-सामानᳵ का॒र्याः॑ ॥28॥

मूलम्

उ॒क्थ्या॑ ए॒व स॑प्तद॒शाᳶ पर॑स्-सामानᳵ का॒र्याः॑ ॥28॥

भट्टभास्कर-टीका

कथं तर्हि कर्तव्याः परस्सामान इत्याह – उक्थ्या एवेत्यादि । सप्तदशाः सर्वसंस्था उक्थ्याः कार्याः दशसामान अग्निष्टोमाः ।

मूलम्

प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑रुद्ध्यै ।

विश्वास-प्रस्तुतिः

प॒शवो॒ वा उ॒क्थानि॑, पशू॒नाम् अव॑रुद्ध्यै ।

मूलम्

प॒शवो॒ वा उ॒क्थानि॑, पशू॒नाम् अव॑रुद्ध्यै ।

भट्टभास्कर-टीका

हेतुं चाह - पशवो वा इत्यादि । तद्धेतुत्वात्ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

वि॒श्व॒जि॒द॒भि॒जिता॑व् अग्निष्टो॒मौ ।
उ॒क्थ्या॑स् सप्तद॒शाᳶ पर॑स्-समानः ।

मूलम्

वि॒श्व॒जि॒द॒भि॒जिता॑व् अग्निष्टो॒मौ ।
उ॒क्थ्या॑स् सप्तद॒शाᳶ पर॑स्-समानः ।

भट्टभास्कर-टीका

किमस्मिन्नवाहे अग्निष्टोमो नास्त्येवेत्याह – विश्वजिदभिजितौ अग्निष्टोमावेव कार्यौ परस्सामान एकोक्थ्या इति ॥

विश्वास-प्रस्तुतिः

ते सँस्तु॑ता वि॒राज॑म् अ॒भि-सम्प॑द्यन्ते ।

मूलम्

ते सँस्तु॑ता वि॒राज॑म् अ॒भि-सम्प॑द्यन्ते ।

भट्टभास्कर-टीका

4 इदानीं ज्येतिर्गौरायुश्चेति ते उक्त्या इति दर्शयितुं तत्प्राशस्त्यमाह - ते संस्तुता इत्यादि ॥ अत्रेयमह्नां कॢप्तिः - नवाहस्य आदावन्ते च विश्वजिदभिजितौ, मध्ये विषुवान् । तमभितस्त्रयः परस्सामान इति । ते सर्वे पूर्वोक्ता इति ज्योतिरादयः सहसंस्तुताः सहपरिगणिताः स्तोत्रीयाभिः विराजं दशहरात्मभिः सम्पद्यन्ते, विराट्सम्पदा परिसमाप्तिं गच्छन्ति ।

विश्वास-प्रस्तुतिः

द्वे चर्चा॒व् अति॑-रिच्येते ।
एक॑या॒ गौर् अति॑रिक्तः ।
एक॒या ऽऽयु॑र् ऊ॒नः ।

मूलम्

द्वे चर्चा॒व् अति॑-रिच्येते ।
एक॑या॒ गौर् अति॑रिक्तः ।
एक॒या ऽऽयु॑र् ऊ॒नः ।

भट्टभास्कर-टीका

गोआयुषोस्तु द्वे च ऋचौ विराट्सङ्ख्यामतिक्रम्य वर्तेते ।
कथं एकया गौरतिरिक्तः एकचत्वारिंशदधिकशतद्वयं स्तोत्रीया इति कृत्वा । आयुस्तु एकया स्तोत्रीयया ऊनो भवति, एकोनषष्ट्यधिकं शतद्वयं स्तोत्रीया इति कृत्वा । एवं विराट्सम्पत्त्या ज्योतिषो गुणवत्त्वात्त्रयाणामपि मध्ये तस्य प्राशस्त्यम् ।

मूलम्

सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग्वि॒राट् ॥29॥
सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गो वै लो॒को ज्योति॒र् , ऊर्ग् वि॒राट् , सु॑व॒र्गम् ए॒व तेन॑ लो॒कम् अ॒भि-ज॑यन्ति ।

मूलम्

सु॒व॒र्गो वै लो॒को ज्योति॒र् , ऊर्ग् वि॒राट् , सु॑व॒र्गम् ए॒व तेन॑ लो॒कम् अ॒भि-ज॑यन्ति ।

भट्टभास्कर-टीका

किञ्च - सुवर्गो वै लोको ज्योतिः तत्साधनत्वात् । विराट् नाम ऊर्क् अन्नम् । तस्माद्विराट्सम्पत्तिद्वारेण स्वर्गमभिजयन्ति ॥

मूलम्

यत्परँ॒ राथ॑न्तरम् । तत्प्र॑थ॒मेऽह॑न्का॒र्य॑म् ।

विश्वास-प्रस्तुतिः

यत् परँ॒ राथ॑न्तर॒न् तत् प्र॑थ॒मे ऽह॑न् का॒र्य॑म् ।

मूलम्

यत् परँ॒ राथ॑न्तर॒न् तत् प्र॑थ॒मे ऽह॑न् का॒र्य॑म् ।

भट्टभास्कर-टीका

5 यत्परमित्यादिना परस्साम्नां प्रतिष्ठा रूपयन् सामानि विदधाति ॥ राथन्तरं रथन्तरभक्तिं पृथिवीं ‘मनसा ध्यायेत् प्रस्तूयमाने सम्मीलयेत्’इत्यादिधर्मयुक्तं यत् परं परस्साम तत् प्रथमेऽह्नि कार्यम् । यदा परस्सामभूतविषुवतः पूर्वेष्वहस्स्वितः पराञ्चो गृह्यन्ते तदा कार्यम् ।

विश्वास-प्रस्तुतिः

बृ॒हद् द्वि॒तीये॑ +++(ऽह॑न् का॒र्य॑म् )+++।
वै॒रू॒पन् तृ॒तीये॑ +++(ऽह॑न् का॒र्य॑म् )+++।
वै॒रा॒जञ् च॑तु॒र्थे +++(ऽह॑न् का॒र्य॑म् )+++।
शा॒क्व॒रम् प॑ञ्च॒मे +++(ऽह॑न् का॒र्य॑म् )+++।
रै॒व॒तँ ष॒ष्ठे +++(ऽह॑न् का॒र्य॑म् )+++।

मूलम्

बृ॒हद् द्वि॒तीये॑ +++(ऽह॑न् का॒र्य॑म् )+++।
वै॒रू॒पन् तृ॒तीये॑ +++(ऽह॑न् का॒र्य॑म् )+++।
वै॒रा॒जञ् च॑तु॒र्थे +++(ऽह॑न् का॒र्य॑म् )+++।
शा॒क्व॒रम् प॑ञ्च॒मे +++(ऽह॑न् का॒र्य॑म् )+++।
रै॒व॒तँ ष॒ष्ठे +++(ऽह॑न् का॒र्य॑म् )+++।

भट्टभास्कर-टीका

एवं बृहद्वैरूपभक्तिके परे द्वितीयतृतीययोरह्नोः कार्ये । अथ उत्तरेष्वहस्सु यदा अमुतोऽर्वाञ्चो गृह्यन्ते तदा वैराजशाक्वररैवतभक्तीनि पराणि चतुर्थपञ्चमषष्ठेष्वहस्सु कार्याणि ।

विश्वास-प्रस्तुतिः

तद् उ॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति ।

मूलम्

तद् उ॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति ।

भट्टभास्कर-टीका

तत् तथा कुर्वन्तः पृष्ठेभ्य एव परान् नयन्ति । पृष्ठ्यैः षडहतां परस्माम्नः प्रापयन्ति सत्रिणः ॥

मूलम्

स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ॥30॥
अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु ।

विश्वास-प्रस्तुतिः

स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ऽति-ग्रा॒ह्या॑ᳶ पर॑स्-सामसु ।
इ॒मान् ए॒वैतैर् लो॒कान्त् सन्त॑न्वन्ति ।

मूलम्

स॒न्तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ऽति-ग्रा॒ह्या॑ᳶ पर॑स्-सामसु ।
इ॒मान् ए॒वैतैर् लो॒कान्त् सन्त॑न्वन्ति ।

भट्टभास्कर-टीका

6 अथात्र ग्रहकॢप्तिः परस्साम्रां - सन्तनय इत्यादि ॥ परस्सामसु दिवसेषु पूर्वेषु एते अतिग्राह्या ग्रहाः ‘अद्भ्यस्त्वौषधीभ्यो गृह्णामि’इति प्रथमः’ ओषधीभ्यस्त्वाप्रजाभ्यो गृह्णामि'27इति द्वितीयः, । ‘प्रजाभ्यस्त्वा प्रजापतये गृह्नामि'27इति तृतीयः, एते सन्तनयः सन्तता पराञ्चो गृह्यन्ते, एतैरेवंक्रियमाणैरिमान् लोकान् संतन्वन्ति क्रमेण स्थापयन्ति ।

मूलम्

मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्या॑ᳶ पर॑स्सामसु ।

विश्वास-प्रस्तुतिः

मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते ऽति-ग्रा॒ह्या॑ᳶ पर॑स्-सामसु ।
मि॒थु॒नम् ए॒व तैर् यज॑माना॒ अव॑-रुन्धते ।

मूलम्

मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते ऽति-ग्रा॒ह्या॑ᳶ पर॑स्-सामसु ।
मि॒थु॒नम् ए॒व तैर् यज॑माना॒ अव॑-रुन्धते ।

भट्टभास्कर-टीका

अथोत्तरेषु परस्सामसु एते अतिग्राह्या ग्रहा मिथुना गृह्यन्ते अमुतोऽर्वाञ्चो गह्यन्ते । तृतीयचतुर्थौ मिथुनं द्वितीयपञ्चमौ प्रथमषष्ठाविति । ‘प्रजाभ्यस्त्वा प्रजापतये गृह्णामि'27इति चतुर्थः । ‘ओषधीभ्यस्त्वा'27इति पञ्चमः, ‘अद्भ्यस्त्वा'27इति षष्ठः । तैः तथाक्रियमाणैः मिथुनमेव यजमाना लभन्ते ॥

विश्वास-प्रस्तुतिः

बृ॒हत् पृ॒ष्ठम् भ॑वति ।

मूलम्

बृ॒हत् पृ॒ष्ठम् भ॑वति ।

मूलम्

बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।

विश्वास-प्रस्तुतिः

बृ॒हद् वै सु॑व॒र्गो लो॒को बृ॑ह॒तैव सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒हद् वै सु॑व॒र्गो लो॒को बृ॑ह॒तैव सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

7 अथ विषुवतो मध्यमस्याह्नो विशेषानाह - बृहदित्यादि ॥ विषुवत्यह्नि अग्निष्टोमे पृष्ठसाम बृहद्भवति । बृहद्वा इति ॥ तद्धेतुत्वात्ताच्छब्द्यम् । उक्तं च - ‘बृहद्वा इमान् लोकान् दाधार’ इति ।

मूलम्

त्र॒य॒स्त्रिँ॒शिनाम॒ साम॑ । माध्य॑न्दिने॒ पव॑माने भवति ॥31॥

विश्वास-प्रस्तुतिः

त्र॒य॒स् -त्रिँ॒शि-नाम॒ साम॒ माध्य॑न्दिने॒ पव॑माने भवति ॥31॥
त्रय॑स् -त्रिँश॒द् वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑-रुन्धते ।

मूलम्

त्र॒य॒स् -त्रिँ॒शि-नाम॒ साम॒ माध्य॑न्दिने॒ पव॑माने भवति ॥31॥
त्रय॑स् -त्रिँश॒द् वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑-रुन्धते ।

भट्टभास्कर-टीका

त्रयस्त्रिशिनाम सामेत्यादि ॥ गतम् ॥

मूलम्

ये वा इ॒तᳶ परा॑ञ्चँ सव्ँवत्स॒रमु॑प॒यन्ति॑ । न है॑न॒न्ते स्व॒स्ति सम॑श्ञुवते ।

विश्वास-प्रस्तुतिः

ये वा इ॒तᳶ परा॑ञ्चँ सव्ँवत्स॒रम् उ॑प॒यन्ति॒ न ह+ ए॑न॒न् ते स्व॒स्ति सम॑श्ञुवते ।

मूलम्

ये वा इ॒तᳶ परा॑ञ्चँ सव्ँवत्स॒रम् उ॑प॒यन्ति॒ न ह+ ए॑न॒न् ते स्व॒स्ति सम॑श्ञुवते ।

भट्टभास्कर-टीका

8 ये वा इत्यादि ॥ इतो विषुवत ऊर्ध्वं ये संवत्सरं पराञ्चं अनावृत्तमेव पूर्वस्मिन् पक्ष इव उपयन्ति ते खलु एनं संवत्सरं संवत्सरफलं स्वस्ति अविनाशेन न समश्नुवत ।

मूलम्

अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒यन्ति॑ । ते है॑नँ स्व॒स्ति सम॑श्ञुवते ।

विश्वास-प्रस्तुतिः

अथ॒ ये॑ ऽमुतो॒ ऽर्वाञ्च॑म् उप॒यन्ति॒ ते ह+ ए॑नँ स्व॒स्ति सम॑श्ञुवते ।

मूलम्

अथ॒ ये॑ ऽमुतो॒ ऽर्वाञ्च॑म् उप॒यन्ति॒ ते ह+ ए॑नँ स्व॒स्ति सम॑श्ञुवते ।

भट्टभास्कर-टीका

अथ ये उत्तरस्मिन् पक्षे अमुतोऽन्त्यादारभ्य अर्वाञ्चं संवत्सरं उपयन्ति एनं संवत्सरमविनाशेन प्राप्नुवन्ति ।

मूलम्

ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑यन्ति । यदे॒वम् ।

विश्वास-प्रस्तुतिः

ए॒तद् वा अ॒मुतो॒ ऽर्वाञ्च॒म् उप॑-यन्ति॒ यद् ए॒वम् ।

मूलम्

ए॒तद् वा अ॒मुतो॒ ऽर्वाञ्च॒म् उप॑-यन्ति॒ यद् ए॒वम् ।

भट्टभास्कर-टीका

एतद्वा इत्यादि ॥ अमुतोऽर्वागुपनयनमिदं यदेवमन्त्यदिवसमारभ्य ग्रहणम् । एवं हि सर्वे दिवसाः विषुवन्तमभिस्सतता भवन्ति । तत्र च त्रयस्त्रिंशिनाम साम भवति ॥

मूलम्

यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑वे॒वेन्द्रः॑ ।

विश्वास-प्रस्तुतिः

यो ह॒ खलु॒ वाव प्र॒जाप॑ति॒स् स उ॑व् ए॒वेन्द्रः॑ ।
तद् उ॑ दे॒वेभ्यो॒ नय॑न्ति ॥32॥

मूलम्

यो ह॒ खलु॒ वाव प्र॒जाप॑ति॒स् स उ॑व् ए॒वेन्द्रः॑ ।
तद् उ॑ दे॒वेभ्यो॒ नय॑न्ति ॥32॥

भट्टभास्कर-टीका

9 यो हेत्वादि ॥ यः खलु अयं संवत्सरात्मा प्रजापतिः स एवेन्द्रः देवेश्वरो भवतिं । तस्मादेव कारणात् देवेभ्यः त्रयस्त्रिंशत्सङ्ख्येभ्यो नयन्ति तेषं प्रीतये यागं कुर्वन्ति ॥

इति द्वितीयोऽनुवाकः ॥