प्रथमेऽष्टके द्वितीयः प्रश्नः
आग्नेयं काण्डम्
भास्करोक्त-विनियोगः
1 अथाधानमन्त्राः - आग्नेयं काण्डम् । तत्र प्राचीनप्रवणं देवयजनमुद्धन्ति - उद्धन्यमानमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् ।
अप॑ पा॒प्मानय्ँ॒ यज॑मानस्य हन्तु ।
शि॒वा न॑स् सन्तु प्र॒दिश॒श् चत॑स्रः ।
शन् नो॑ मा॒ता पृ॑थि॒वी तोक॑साता ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् ।
अप॑ पा॒प्मानय्ँ॒ यज॑मानस्य हन्तु ।
शि॒वा न॑स् सन्तु प्र॒दिश॒श् चत॑स्रः ।
शन् नो॑ मा॒ता पृ॑थि॒वी तोक॑साता ।
भट्टभास्कर-टीका
अस्याः पृथिव्याः अमेध्यं अमेध्यार्हं रूपं उद्धन्यमानं उत्कृष्य नाश्यमानं यजमानस्य पाप्मानमपहन्तु । अनेनोद्धननेन यजमानस्यैव पाप्माऽपहन्यत इति । ‘ययतोश्चातदर्थे’ इत्यमेध्यशब्दस्योत्तरपदान्तोदात्तत्वम् । नः अस्माकं प्रदिशश्चतस्रः प्रधानदिशः शिवास्सन्तु सामर्थ्याद्विदिशश्च । अथ एवं मेध्या शिवा च भूत्वा पृथिवी नः अस्माकं शं सुखहेतुर्भवतु । माता मातृस्थानीया सर्वेषां तोकसाता तोकैरपत्यभूतैः साता संभक्ता । ‘जनसनखनां सञ्झलो:’ इत्यात्वम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतित्वम् ॥
भास्करोक्त-विनियोगः
2 अद्भिरवोक्षति - शंनो देवीरिति गायत्र्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
शन् नो॑ दे॒वीर् अ॒भिष्ट॑ये ।
आपो॑ भवन्तु पी॒तये॑ ।
शय्ँयोर् अ॒भि स्र॑वन्तु नः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
शन् नो॑ दे॒वीर् अ॒भिष्ट॑ये ।
आपो॑ भवन्तु पी॒तये॑ ।
शय्ँयोर् अ॒भि स्र॑वन्तु नः ।
भट्टभास्कर-टीका
देवीः देव्यः ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । नः अस्माकं आपः शं सुखहेतवो भवन्तु । अभिष्टये आभिमुख्येन देवान् यष्टुम् । यजेरिच्छतेर्वा क्तिन् । अभीष्टफलसिद्धये । पररूपं कतन्तवत् । किञ्च - पीतये पानाय च भवन्तु । किञ्च - उपजीव्याश्च भवन्तु लोकस्य । किञ्च - शं आगतानां रोगभयादीनां शमनम् । शाम्यतेः क्विप् । योः यावयितृता पृथक्करणमनागतानां तेषामुत्पत्तिनिरोधः । यौतेरसुनि गुणे अडभावश्छान्दसः । तदुभयमापः नः अस्माकं अभिस्रवन्तु आभिमुख्येन प्रसृतमुत्पादयन्तु ॥
भास्करोक्त-विनियोगः
3 अत्र सप्तपार्थिवान् सम्भारान् आहरत्येवं वानस्पत्यान् । तत्र सिकताः - वैश्वानरस्येति गायत्र्या पादनिवृता ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वै॒श्वा॒न॒रस्य॑ रू॒पम् ।
पृ॒थि॒व्याम् प॑रि॒स्रसा॑ ।
स्यो॒नम् आ वि॑शन्तु नः ॥1॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
वै॒श्वा॒न॒रस्य॑ रू॒पम् ।
पृ॒थि॒व्याम् प॑रि॒स्रसा॑ ।
स्यो॒नम् आ वि॑शन्तु नः ॥1॥
भट्टभास्कर-टीका
वैश्वानरस्य विश्वेषां नराणां स्वामित्वेन सम्बन्धिनोग्नेः रूपं यत्तत् पृथिव्यां सर्वस्यां परिस्रसा परितस्स्रस्तं व्याप्तं सिकतारूपेण परिणतम् । ब्राह्मणं च - ‘एतद्वा अग्नेर्वैश्वानरस्य रूपम्’ ति । स्रंसेः क्विप् अनुनासिकलोपे ‘सुपां सुलुक्’ इति प्रथमैकवचनस्य ‘स्वमोर्नपुंसकात्’ इति लुगपवाद आकारः । भावे वा क्विप्, इत्थंभूतलक्षणे तृतीया, नित्यसमासत्वाद्द्विभक्त्युदात्तत्वाभावः । तास्तादृश्यः संभ्रियमाणाः सिकताः स्योनं सुखहेतवो भूत्वा नः अस्मान् आविशन्तु प्राप्नुवन्तु ॥
भास्करोक्त-विनियोगः
4 अथोषान् - यदिदमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
स॒ञ्ज॒ज्ञा॒ने रोद॑सी सम्बभू॒वतुः॑ ।
ऊषा॑न् कृ॒ष्णम् अ॑वतु कृ॒ष्णम् ऊषाः॑।
इ॒होभयो॑र् य॒ज्ञिय॒म् आग॑मिष्ठाः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यदि॒दन्दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
स॒ञ्ज॒ज्ञा॒ने रोद॑सी सम्बभू॒वतुः॑ ।
ऊषा॑न् कृ॒ष्णम् अ॑वतु कृ॒ष्णम् ऊषाः॑।
इ॒होभयो॑र् य॒ज्ञिय॒म् आग॑मिष्ठाः ।
भट्टभास्कर-टीका
यत् यस्मात् इदं भूमिष्ठमूषरूपं दिवो द्युलोकस्य संबन्धि पृथिव्यां आगतमभूत् । यच्चादः कृष्णं चन्द्रमसि स्थितं पृथिव्याः सम्बन्धि ऊर्ध्वंगतमभूत् । तस्य कारणमाह - रोदसी द्यावापृथिव्यौ पूर्वं विश्लेषकाले संजज्ञाने सहजानाने समयं कुर्वाणे । ‘अकर्मकाच्च’ इत्यात्मनेपदम् । संबभूवतुः सहभावं गते यज्ञीयेन रूपेण अविश्लिष्टे एवाभवताम् । ब्राह्मणं च भवति - द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् । अस्त्वेव नौ सह यज्ञियमिति । यदमुष्या यज्ञियम्’ इत्यादि च । एवं महाप्रभावान् ऊषान् ततोपि महाप्रभावं कृष्णमवतु रक्षतु । कृष्णं च तदूषाः अवन्तु । कस्मादेवमुच्यत इति चेत् आह - इह अस्मिन् कर्मणि उभयोः द्यावापृथिव्योः यद्यज्ञियं यज्ञार्हरूपं तेऽपि ऊषाः सकृष्णाः आगमिष्ठाः आगन्तृतमाः तस्मात्ताभ्यामेव परस्परस्य तद्रक्ष्यमिति । आगन्तृशब्दात् ‘तुश्छन्दसि’ इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ इति तलोपः । ऊषमन्त्रत्वात्तत्प्राधान्येन निर्दिष्टान् तान्वः सम्भरामीति ॥
भास्करोक्त-विनियोगः
5 अथाखुकरीषं - ऊतीः कुर्वाण इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒तीᳵ कु॑र्वा॒णो यत् पृ॑थि॒वीम् अच॑रः ।
गु॒हा॒कार॑म् आखुरू॒पम् प्र॒तीत्य॑ ।
तत् ते॒ न्य॑कम् इ॒ह स॒म्भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॒स् सवी॑राः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ऊ॒तीᳵ कु॑र्वा॒णो यत् पृ॑थि॒वीम् अच॑रः ।
गु॒हा॒कार॑म् आखुरू॒पम् प्र॒तीत्य॑ ।
तत् ते॒ न्य॑कम् इ॒ह स॒म्भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॒स् सवी॑राः ।
भट्टभास्कर-टीका
हे अग्ने! यत् यदा ऊतीः मार्गान् कुर्वाणः पृथिवीमचरः अनुप्रविष्टवान् कथं भूत्वा गुहाकारं प्रच्छन्नरूपं आखुरूपं प्रतीत्य प्रतिप्राप्य अचरः । यद्वा - आखुरूपं प्रतीत्य यदा ऊतीः कुर्वाण डति आखूत्करान् कुर्वाणो गुहाकारं नीलाकारां पृथिवीमचरः । सर्वत्र छान्दसमुपोत्तमस्योदात्तत्वम् । लिङ्गव्यत्ययः । तत् तदानीं ते तव तत्र न्यक्तं निलीनं उत्करात्मना परिणतं बलं तेजो वा इह अस्मिन् कर्मणि सम्भरन्तो वयं शतं शरदो जीवेम । सवीराः पुत्रपौत्रादिसहिताः शरदो रोगबहुळत्वात्तस्यां जीवनमाशास्ते । संवत्सरंपर्यायो वा शरच्छब्दः । यद्वा - शरदां शतं शतेन वर्षैर्भवति लक्षणया शतं वर्षाणि जीवेमेति प्रार्थितं भवति ॥
भास्करोक्त-विनियोगः
6 अथ वल्मीकवपां - ऊर्जमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ज॑म् पृथि॒व्या रस॑म् आ॒भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॑ᳶ पुरू॒चीः ॥2॥
व॒म्रीभि॒र् अनु॑वित्त॒ङ् गुहा॑सु ।
श्रोत्र॑न् त उ॒र्व्य् अब॑धिरा भवामः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ऊर्ज॑म् पृथि॒व्या रस॑म् आ॒भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॑ᳶ पुरू॒चीः ॥2॥
व॒म्रीभि॒र् अनु॑वित्त॒ङ् गुहा॑सु ।
श्रोत्र॑न् त उ॒र्व्य् अब॑धिरा भवामः ।
भट्टभास्कर-टीका
पृथिव्याः ऊर्जं अन्नं स्वादुभूतं रसं जलं च मृदूदकपरिणामं वल्मीकवपामाहरन्तो वयं शतं शरदो जीवेम पुरूचीः बह्वञ्चनाः बह्वाश्चर्यफलप्रापिणीः । अञ्चेर्ङीपि नकाराकारयोर्लुप्तयोः ‘चौ’ इति पूर्वस्याच्चो दीर्घत्वम् । किञ्च - वम्रीभिस्त्रिभिः गुहासु वल्मीकेषु अनुवित्तं अनुक्रमेण लब्धम् । ‘विदेर्वित्तं च विन्नं च’ इति नत्वाभावः । ते श्रोत्रमिव स्थितां वल्मीकवपामाहरन्तो वयं अबधिरा भवामः । अनुपहतश्रोत्रेन्द्रियाः भूयास्म, हे उर्वि! पृथिवि ॥
भास्करोक्त-विनियोगः
7 अथ सूदम् - प्रजापतिसृष्टानामिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑ति-सृष्टानाम् प्र॒जाना॑म् ।
क्षु॒धो ऽप॑हत्यै सुवि॒तन् नो॑ अस्तु ।
उप॒ प्रभि॑न्न॒म् इष॒म् ऊर्ज॑म् प्र॒जाभ्यः॑।
सूद॑ङ् गृ॒हेभ्यो॒ रस॒म् आभ॑रामि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्र॒जाप॑ति-सृष्टानाम् प्र॒जाना॑म् ।
क्षु॒धो ऽप॑हत्यै सुवि॒तन् नो॑ अस्तु ।
उप॒ प्रभि॑न्न॒म् इष॒म् ऊर्ज॑म् प्र॒जाभ्यः॑।
सूद॑ङ् गृ॒हेभ्यो॒ रस॒म् आभ॑रामि ।
भट्टभास्कर-टीका
प्रजापतिना सृष्टानां प्रजानां क्षुधोपहत्यै अपहननाय अस्तु इदं सुवितं सुष्ठु प्राप्तम् । यद्वा - शोभन उपायः । सुवितं भावे निष्ठा । तन्वादित्वादुवङ् । ‘सूपमानात् क्तः’ इत्युत्तरपदान्तोदात्तत्वम् । किं पुनस्तदित्याह - इषं अन्नं ऊर्जं रसं च उपप्रभिन्नं एकीभूतं सूदात्मकं रसं सारम् । यद्वा - नातिभिन्नं नातिद्रुतं नातिखरं कर्दमत्वात् । प्रजाभ्यः प्रजानां श्रेयसे प्रजानां वा इषमूर्जं च । षष्ठ्यर्थे चतुर्थी । ईदृशं सूदं गृहेभ्यः गार्हपत्याद्यायतनार्थं आभरामि आहरामि । ‘हृग्रहोः’ इति भत्वम् ॥
भास्करोक्त-विनियोगः
8 अथ वराहविहतम् - यस्य रूपमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ रू॒पम् बिभ्र॑द् इ॒माम् अवि॑न्दत् ।
गुहा॒ प्रवि॑ष्टाँ सरि॒रस्य॒ मध्ये॑ ।
तस्ये॒दव्ँ विह॑तम् आ॒भर॑न्तः ।
अछ॑म्बट्कारम् अ॒स्याव्ँ वि॑धेम ॥3॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
यस्य॑ रू॒पम् बिभ्र॑द् इ॒माम् अवि॑न्दत् ।
गुहा॒ प्रवि॑ष्टाँ सरि॒रस्य॒ मध्ये॑ ।
तस्ये॒दव्ँ विह॑तम् आ॒भर॑न्तः ।
अछ॑म्बट्कारम् अ॒स्याव्ँ वि॑धेम ॥3॥
भट्टभास्कर-टीका
अत्र ब्राह्मणम् - ‘तां वराहो भूत्वा हरत्’ इति । तदिदमुच्यते - यस्य वराहस्य रूपं बिभ्रदिमां पृथिवीं अविन्दत् अलभत प्रजापतिः सरिरस्य सलिलस्य महाप्रळयोदकस्य मध्ये । कपिलकादित्वाल्लत्वविकल्पः । गुहा गुहां गुह्यस्थानं पाताळं प्रविष्टाम् । ‘सुपां सुलुक्’ इत्याकारः । तस्य वराहस्य विहतं पोत्रोत्खातं मृद्द्रव्यं आभरन्तो वयं अछम्बट्कारं अविनाशमस्यां पृथिव्यां विधेम । यद्वा - अस्यामिति षष्ठ्यर्थे सप्तमी । अस्याः पृथिव्याः किंचिदपि अपरिहाय सर्वां पृथिवीमविनष्टां परिगृह्य कर्माणि कुर्मः । णमुलन्तेन नञ्समासः ॥
भास्करोक्त-विनियोगः
9 अथ पुष्करपर्णम् - यत्पर्यपश्यदिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प॒र्यप॑श्यत् सरि॒रस्य॒ मध्ये॑ ।
उ॒र्वीम् अप॑श्य॒ज् जग॑तᳶ प्रति॒ष्ठाम् ।
तत् पुष्क॑रस्या॒यत॑ना॒द्-धि जा॒तम् ।
प॒र्णम् पृ॑थि॒व्याᳶ प्रथ॑नँ हरामि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यत् प॒र्यप॑श्यत् सरि॒रस्य॒ मध्ये॑ ।
उ॒र्वीम् अप॑श्य॒ज् जग॑तᳶ प्रति॒ष्ठाम् ।
तत् पुष्क॑रस्या॒यत॑ना॒द्-धि जा॒तम् ।
प॒र्णम् पृ॑थि॒व्याᳶ प्रथ॑नँ हरामि ।
भट्टभास्कर-टीका
यत् पुष्करपर्णं प्रजापतिः पृथिवीमन्विच्छन् सरिरस्य सलिलस्य मध्ये पर्यपश्यत् । यद्वा - यत् यदा प्रजापतिः सरिरस्य मध्ये पर्यपश्यत् परितः इतस्ततः पृथिवीप्रतिलम्भायापश्यत् । तदानीं उर्वीं पृथिवीं यदनुसारेण अपश्यत् । ब्राह्मणं च भवति - ‘सोपश्यत् पुष्करवर्णं तिष्ठत् । सोमन्यत । अस्ति वैतत् । यस्मिन्निदमधितिष्टति’ इति तत् पुष्करस्य पर्णं आयतनात् सलिलस्य स्थानात् पाताळात् जातं पृथिव्याः प्रथनं प्रथनस्थानं हरामि । ब्राह्मणं च - ‘तत्पुष्करपर्णेऽप्रथयत्'4 इति ॥
भास्करोक्त-विनियोगः
10 अथ शर्कराः - याभिरिति त्रिपदया विराजा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॒र् अदृँ॑ह॒ज् जग॑तᳶ प्रति॑ष्ठाम् ।
उ॒र्वीम् इ॒माव्ँ वि॑श्व-ज॒नस्य॑ भ॒र्त्रीम् ।
ता न॑श् शि॒वाश् शर्क॑रास् सन्तु॒ सर्वाः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
याभि॒र् अदृँ॑ह॒ज् जग॑तᳶ प्रति॑ष्ठाम् ।
उ॒र्वीम् इ॒माव्ँ वि॑श्व-ज॒नस्य॑ भ॒र्त्रीम् ।
ता न॑श् शि॒वाश् शर्क॑रास् सन्तु॒ सर्वाः॑ ।
भट्टभास्कर-टीका
जगतो जङ्गमस्य स्थावरस्य च प्रतिष्ठां उर्वीं पृथ्वीं विश्वजनस्य भर्त्रीं धात्रीं इमां प्रजापतिर्धाता अदृंहत् अविचलां स्थापितवान् । ब्राह्मणं च - ‘तां शर्कराभिरदृहंत्’ इति । ताश्शर्कराः नः अस्माकं शिवाः सुखहेतवः सन्तु । सर्वा अपि याश्चायतनात् गृहीता याश्चान्या याभिश्च पूर्वं पृथिवीमदृंहत् ॥
भास्करोक्त-विनियोगः
11 अथ हिरण्यशकलम् - अग्ने रेत इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्ने रेत॑श् च॒न्द्रँ हिर॑ण्यम् ।
अ॒द्भ्यस् सम्भू॑तम् अ॒मृत॑म् प्र॒जासु॑ ।
तत् स॒म्भर॑न्न् उत्तर॒तो नि॒धाय॑ ॥4॥
अ॒ति॒-प्र॒यच्छ॒न् दुरि॑तिन् तरेयम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒ग्ने रेत॑श् च॒न्द्रँ हिर॑ण्यम् ।
अ॒द्भ्यस् सम्भू॑तम् अ॒मृत॑म् प्र॒जासु॑ ।
तत् स॒म्भर॑न्न् उत्तर॒तो नि॒धाय॑ ॥4॥
अ॒ति॒-प्र॒यच्छ॒न् दुरि॑तिन् तरेयम् ।
भट्टभास्कर-टीका
अत्र ब्राह्मणम् - ‘आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यध्यायत् । तास्समभवत् । तस्य रेतः परापतत् । तद्धिरण्यमभवत्'5 इति । तदुच्यते - अग्ने रेतो हिरण्यं चन्द्रं आह्लादनं अद्भ्यस्संभूतं ‘आपो वरुणस्य पत्नयः'5 इति ब्राह्मणप्रसिद्ध्यैवमुक्तम् । अमृतं अमृतत्वहेतुभूतं प्रजासु तत् सम्भरणम् । प्रजानां हितार्थं तत्सम्भरणं कुर्वन् तत् उत्तरतो निधाय उत्तरत उपास्य । ब्राह्मणं च’ अति प्रयच्छति । आर्तिमेवाति प्रयच्छति'5 इति पापतरणार्थं भवति ॥
भास्करोक्त-विनियोगः
12 अथाश्वत्थम् - अश्वो रूपमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वो॑ रू॒पङ् कृ॒त्वा यद् अ॑श्व॒त्थे ऽति॑ष्ठः ।
सव्ँ॒व॒त्स॒रन् दे॒वेभ्यो॑ नि॒लाय॑ ।
तत् ते॒ न्य॑क्तम् इ॒ह स॒म्भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॒स् सवी॑राः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अश्वो॑ रू॒पङ् कृ॒त्वा यद् अ॑श्व॒त्थे ऽति॑ष्ठः ।
सव्ँ॒व॒त्स॒रन् दे॒वेभ्यो॑ नि॒लाय॑ ।
तत् ते॒ न्य॑क्तम् इ॒ह स॒म्भर॑न्तः ।
श॒तञ् जी॑वेम श॒रद॒स् सवी॑राः ।
भट्टभास्कर-टीका
यत् यदा त्वं अश्वो भूत्वा रूपं च तदीयं कृत्वा अश्वत्थे अतिष्ठः देवेभ्यो निलाय निर्गम्य संवत्सरं अश्वत्थे स्थितवान् । तत्ते न्यक्तमित्यादि । गतम् । ब्राह्मणम् - ‘अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा’ । इत्यादि । निलायेति निपूर्वादयतेर्ल्यपि छान्दसो वर्णविकारः । ‘उपसर्गस्यायतौ’ इति लत्वम् । यद्वा - निरर्थे निशब्दः निपूर्वाल्लीयतेर्ल्यपि ‘विभाषा लीयतेः’ इत्यात्वम् ॥
भास्करोक्त-विनियोगः
13 अथोदुम्बरम् - ऊर्जः पृथिव्या इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्जᳶ पृ॑थि॒व्या अध्युत्थि॑तो ऽसि ।
वन॑स्पते श॒तव॑ल्शो॒ विरो॑ह ।
त्वया॑ व॒यम् इष॒म् ऊर्ज॒म् मद॑न्तः ।
रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ऊ॒र्जᳶ पृ॑थि॒व्या अध्युत्थि॑तो ऽसि ।
वन॑स्पते श॒तव॑ल्शो॒ विरो॑ह ।
त्वया॑ व॒यम् इष॒म् ऊर्ज॒म् मद॑न्तः ।
रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
भट्टभास्कर-टीका
हे वनस्पते! ऊर्जः अन्नमर्थाद्धेतोः रसाद्वा । पृथिव्या अधि उत्थितोसि उपरि प्ररूढोसि । स त्वमस्माभिच्छिन्नोपि शतवल्शाः बहुप्ररोहो विरोह । वयं च त्वया हेतुना इषमूर्जं च इषा अन्नेन वा मदन्तः माद्यन्तः । यद्वा - मदन्तः कर्मद्वारेण भजमानाः । मन्दतेर्गतिकर्मणः व्यत्ययेन नुमभावः परस्मैपदं च । रायो धनस्य पुष्ट्या इषा अन्नेन च सम्मदेम सम्यक् मोदेमहि ॥
भास्करोक्त-विनियोगः
14 अथ पर्णम् - गायत्र्येति द्वाभ्यां त्रिष्टुब्भ्याम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत् ते॑ ॥5॥
प॒र्णम् अप॑तत् तृ॒तीय॑स्यै दि॒वो ऽधि॑ ।
सो॑ ऽयम् प॒र्णस् सो॑मप॒र्णाद् धि जा॒तः ।
ततो॑ हरामि सोम-पी॒थस्याव॑रुद्ध्यै ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत् ते॑ ॥5॥
प॒र्णम् अप॑तत् तृ॒तीय॑स्यै दि॒वो ऽधि॑ ।
सो॑ ऽयम् प॒र्णस् सो॑मप॒र्णाद् धि जा॒तः ।
ततो॑ हरामि सोम-पी॒थस्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
ब्राह्मणं च भवति - ‘तं गायत्र्याहरत्'6 इत्यादि । कथमस्य पर्णत्वमित्याह - यत् यस्मात् अयं तव पर्णाज्जातः तस्मात् पर्णस्तव परिणाम डति यावत् तस्मात् पर्णं पलाशं आहरामि सोमपीथस्य सोमपानस्य लाभार्थम् ॥
भास्करोक्त-विनियोगः
15 अथ द्वितीया - देवानामिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वाना॑म् ब्रह्म-वा॒दव्ँ वद॑ताय्ँ॒ यत् ।
उ॒पाशृ॑णोस् सु॒श्रवा॒ वै श्रु॒तो॑ ऽसि ।
ततो॒ माम् आवि॑शतु ब्रह्म-वर्च॒सम् ।
तत् स॒म्भरँ॒ स् तद् अव॑रुन्धीय सा॒क्षात् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
दे॒वाना॑म् ब्रह्म-वा॒दव्ँ वद॑ताय्ँ॒ यत् ।
उ॒पाशृ॑णोस् सु॒श्रवा॒ वै श्रु॒तो॑ ऽसि ।
ततो॒ माम् आवि॑शतु ब्रह्म-वर्च॒सम् ।
तत् स॒म्भरँ॒ स् तद् अव॑रुन्धीय सा॒क्षात् ।
भट्टभास्कर-टीका
अत्र ब्राह्मणम् - ‘देवा वै ब्रह्मन्नवदन्त । तत्पर्ण उपाशृणोत्’ इत्यादि । तदिदानीं आह - देवानां ब्रह्मवादं वदतां यत् यस्मात्त्वं उपाशृणोः समीपे स्थितः श्रुतवानसि तस्माद्धेतोस्त्वं सुश्रवा नाम श्रुतोसि ख्यातोसि तस्मात् ब्रह्मवर्चसं मामाविशतु इति । अनेनाभिप्रायेण तत् पर्णाख्यं साधनं सम्भरन् तत् ब्रह्मवर्चसं साक्षात् अवरुन्धीय अव्यवधानेन वर्धयेय ॥
भास्करोक्त-विनियोगः
16 अथ शमीम् - यया त इत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यया॑ ते सृ॒ष्टस्या॒ग्नेः ।
हे॒तिम् अश॑मयत् प्र॒जाप॑तिः ।
ताम् इ॒माम् अप्र॑दाहाय ॥ 6॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
यया॑ ते सृ॒ष्टस्या॒ग्नेः ।
हे॒तिम् अश॑मयत् प्र॒जाप॑तिः ।
ताम् इ॒माम् अप्र॑दाहाय ॥ 6॥
भट्टभास्कर-टीका
यया शम्या ते तव सृष्टस्याग्नेः सृष्ट्यनन्तरे भासमानस्य हेतिं दाहात्मिकां हिंसां प्रजापतिरशमयत् । तामिमां शमीं अप्रदाहाय तव शान्त्यै च हरामि । यद्वा - ते इति तृतीयास्थाने षष्ठी । यया त्वया प्रजापतिरग्नेः सृष्टस्य दाहमशमयत् तामिमां त्वां शमीमप्रदाहाय प्रजानां शान्त्यै सुखाय च हरामीति । ब्राह्मणं च - ‘सोऽबिभेत् प्रमा धक्ष्यतीति तं शम्याशमयत्'7 इति ॥
भास्करोक्त-विनियोगः
17 अथ विकङ्कतम् - यत्ते सृष्टस्येति त्रिष्टुभा ।
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते॑ सृ॒ष्टस्य॑ य॒तः ।
विक॑ङ्कत॒म् भा आ॑र्च्छज् जातवेदः ।
तया॑ भा॒सा सम्मि॑तः ।
उ॒रुन् नो॑ लो॒कम् अनु॒ प्रभा॑हि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यत् ते॑ सृ॒ष्टस्य॑ य॒तः ।
विक॑ङ्कत॒म् भा आ॑र्च्छज् जातवेदः ।
तया॑ भा॒सा सम्मि॑तः ।
उ॒रुन् नो॑ लो॒कम् अनु॒ प्रभा॑हि ।
भट्टभास्कर-टीका
सतो बृहत्या वा । हे जातवेदः! तव सृष्टस्य यतः प्रजापतिसकाशात् गच्छतः यत् या भाः दीप्तिः । लिङ्गव्यत्ययश्छान्दसः । विकङ्कतं वृक्षं आर्छत् आगच्छत् तया भासा सम्मितः समन्ताद्युक्तः नः अस्माकं उरुं लोकं स्थानं अनु प्रभाहि अनुक्रमेण प्रकाशय ॥
भास्करोक्त-विनियोगः
18 अथाशनिहतस्य वृक्षस्य - यत्त इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते॑ ता॒न्तस्य॒ हृद॑य॒म् आच्छि॑न्दञ् जातवेदः ।
म॒रुतो॒ ऽद्भिस् त॑मयि॒त्वा ।
ए॒तत् ते॒ तद् अ॑श॒नेस् सम्भ॑रामि ।
सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यत् ते॑ ता॒न्तस्य॒ हृद॑य॒म् आच्छि॑न्दञ् जातवेदः ।
म॒रुतो॒ ऽद्भिस् त॑मयि॒त्वा ।
ए॒तत् ते॒ तद् अ॑श॒नेस् सम्भ॑रामि ।
सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह ।
भट्टभास्कर-टीका
प्रथमः पादश्चतुरक्षराभिक्रान्तः । जातवेद इत्यस्य सर्वानुदात्तत्वात् द्वितीयपादादित्वं नेष्यते । हे जातवेदः! तव तान्तस्य अभिपीडितस्य यद्धृदयं मरुत आच्छिन्दन्, तदेवाह । अद्भिस्तमयित्वा अद्भिश्शमयित्वा यत एवमकुर्वन् मरुतः एतत्ते हृदयं अशनेः रूपेण स्थितम् । कर्मणि वा षष्ठी । तत् अशन्यात्मना परिणतं तदीयं सम्भरामि । अशनिहतवृक्षसम्भरणे ब्राह्मणं च – ‘तस्य तान्तस्य हृदयमाच्छिन्दन् । साऽशनिरभवत्'7 इति । तस्माद्धे अग्ने! इह कर्मणि सात्मा सहृदयः च भव ॥
भास्करोक्त-विनियोगः
19 चित्रियस्य अश्वत्थस्य तिस्रस्समिधः आद्यास्सपलाशाः प्रादेशमात्र्यः त्रिभागवत्यो विवर्तर्यति - चित्रियादिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
चित्रि॑याद् अश्व॒त्थात् सम्भृ॑ता बृह॒त्यः ॥7॥
शरी॑रम् अ॒भि सँस्कृ॑तास् स्थ ।
प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑ताः ।
ति॒स्रस् त्रि॒वृद्भि॑र् मिथु॒नाᳶ प्रजा॑त्यै ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
चित्रि॑याद् अश्व॒त्थात् सम्भृ॑ता बृह॒त्यः ॥7॥
शरी॑रम् अ॒भि सँस्कृ॑तास् स्थ ।
प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑ताः ।
ति॒स्रस् त्रि॒वृद्भि॑र् मिथु॒नाᳶ प्रजा॑त्यै ।
भट्टभास्कर-टीका
ग्रामादिचिह्नभूतः प्रसिद्धोऽश्वत्थश्चित्रियः । तस्मात् संभृताः बृहत्यः पूजिताः शरीरं अभि लक्षीकृत्य संस्कृताः परिष्कृताः स्थ संस्कृतशरीरा इत्यर्थः । प्रजापतिना यज्ञमुखेन यज्ञात्मना प्रजापतेः मुखप्रदेशत्वेन प्रशस्ताः ‘सर्वं वा मुखमुच्यते’इति यज्ञ एव यज्ञमुखमित्युच्यते । एताः तिस्रः समिधः प्रजात्यै प्रजननाय भवन्ति प्रजानाम् । कथमित्याह - त्रिवृद्भिः अन्यूनातिरिक्ताभिः अग्निभिः मिथुनीभूताः प्रजात्यै भवन्ति प्रजानामिति ॥
भास्करोक्त-विनियोगः
20 शमीगर्भस्य अश्वत्थस्यारणी अभिमन्त्रयते - अश्वत्थादिति प्रस्तारपङ्क्त्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्व॒त्थाद् ध॑व्यवा॒हाद् धि जा॒ताम् ।
अ॒ग्नेस् त॒नूय्ँ य॒ज्ञियाँ॒ सम्भ॑रामि ।
शा॒न्त-यो॑निँ शमी-ग॒र्भम् ।
अ॒ग्नये॒ प्रज॑नयि॒तवे॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒श्व॒त्थाद् ध॑व्यवा॒हाद् धि जा॒ताम् ।
अ॒ग्नेस् त॒नूय्ँ य॒ज्ञियाँ॒ सम्भ॑रामि ।
शा॒न्त-यो॑निँ शमी-ग॒र्भम् ।
अ॒ग्नये॒ प्रज॑नयि॒तवे॑ ।
भट्टभास्कर-टीका
अश्वत्थात् अश्वत्थस्थितात् हव्यवाहात् अग्नेः । ‘सोश्वत्थे संवत्सरमतिष्ठत्'7 इति ब्राह्मणम् । तस्मात् जातां अग्नेः तनूं शरीरं शरीरस्थानीयामरणिं अरण्यात्मिकां तनूं अग्नेराधारत्वात् । यद्वा - अश्वत्थाद्धव्यवाहाधारभूताज्जातामरण्यात्मिकां अग्नेस्तनूं यज्ञियां यज्ञार्हां सम्भरामि शान्तयोनिं शान्ता योनिरस्यामिति शान्तयोनिः कारणं अनभिव्यक्तकारणरूपां तनूं शमीगर्भं शम्या गर्भस्थानीयं शमीवेष्टिताश्वत्थप्रभवत्वात् । अग्नये प्रजनयितवे प्रजननार्थम् । ‘तुमर्थे सेसेन्’ इति तवेन्प्रत्ययः । ‘तवै चान्तश्च’ इति गतेः प्रत्ययादेश्च युगपदुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
21 तथाविधे अरणी आहरति - यो अश्वत्थ इत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॑श्व॒त्थश् श॑मी-ग॒र्भः ।
आ॒रु॒रोह॒ त्वे सचा॑ ।
तन् ते॑ हरामि॒ ब्रह्म॑णा ॥8॥
य॒ज्ञियैः॑ के॒तुभि॑स् स॒ह ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यो अ॑श्व॒त्थश् श॑मी-ग॒र्भः ।
आ॒रु॒रोह॒ त्वे सचा॑ ।
तन् ते॑ हरामि॒ ब्रह्म॑णा ॥8॥
य॒ज्ञियैः॑ के॒तुभि॑स् स॒ह ।
भट्टभास्कर-टीका
सामर्थ्याच्चेदमाहरणमभिमन्त्रणात् पूर्वं द्रष्टव्यम् । शमीगर्भो योऽश्वत्थः त्वे त्वयि आरुरोह कारणभूतेन त्वयिवर्तते । सचा समवायेन । सचतेः क्विप् ‘सावेकाचः’ इति व्यत्ययेन न प्रवर्तते । यद्वा - सचत इति सचा पचाद्यच् ‘सुपां सुलुक्’ इत्याकारः वृषादिर्द्रष्टव्यः निपातो वा आद्युदात्तः सहार्थे वर्तते योश्वत्थः शम्या सह त्वयि कारणत्वेनारुरोहेति, तं तादृशाश्वत्थविकारं अरण्यात्मकं ते त्वदर्थं आहरामि ब्रह्मणा अनेन मन्त्रेण । अनेनाधेयोग्निरुच्यते यज्ञियैः यज्ञार्हैः केतुभिः दीप्तिभिः सह तादृशदीप्तिहैतुत्वात्तादृशारण्याहरणस्य ॥
भास्करोक्त-विनियोगः
22 सम्भारानेकत्र निदधाति - यं त्वेति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यन् त्वा॑ स॒मभ॑रञ् जातवेदः ।
यथा॒ श॒री॒रम् भू॒तेषु॒ न्य॑क्तम् ।
स सम्भृ॑तस् सीद शि॒वᳶ प्र॒जाभ्यः॑ ।
उ॒रुन् नो॑ लो॒कम् अनु॑नेषि वि॒द्वान् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यन् त्वा॑ स॒मभ॑रञ् जातवेदः ।
यथा॒ श॒री॒रम् भू॒तेषु॒ न्य॑क्तम् ।
स सम्भृ॑तस् सीद शि॒वᳶ प्र॒जाभ्यः॑ ।
उ॒रुन् नो॑ लो॒कम् अनु॑नेषि वि॒द्वान् ।
भट्टभास्कर-टीका
हे जातवेदः! यं त्वा समभरन् सम्भारैः सम्यक् भृतवन्तः ऋत्विगादयः सम्भारिणं त्वां कृतवन्तः भूतेषु भूतजातेषु यथा शरीरं न्यक्तं निक्षिप्तं भवति । भूतानां शरीरवत्त्वमिव तव सम्भारवत्त्वमिति भावः । सः त्वं तथा सम्भृतः सम्भृतसम्भारः प्रजाभ्यः प्रजार्थं शिवः सीद हेतुतया आस्व । नः अस्माकं च उरु विस्तीर्णं लोकं स्थानं अनुनेषि अनुक्रमेण प्रापय विद्वान् कर्तव्यज्ञः ॥
भास्करोक्त-विनियोगः
23 दर्व्या ब्रह्मौदनं जुहोत्यभिमन्त्रयते वा - प्रवेधस इति उपरिष्टाज्ज्योतिषा त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्रवे॒धसे॑ क॒वये॒ मेध्या॑य ।
वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।
यतो॑ भ॒यम् अभ॑य॒न् तन् नो॑ अस्तु ।
अव॑ दे॒वान् य॑जे॒हेड्या॑न् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्रवे॒धसे॑ क॒वये॒ मेध्या॑य ।
वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।
यतो॑ भ॒यम् अभ॑य॒न् तन् नो॑ अस्तु ।
अव॑ दे॒वान् य॑जे॒हेड्या॑न् ।
भट्टभास्कर-टीका
प्रवेधसे विधात्रे प्रकृष्टानां श्रेयसां लोकानां वा धात्रे । प्रशब्दोऽसमस्त एव विशेषणं वा प्रारम्भमाचष्टे । मेध्याय अस्माभिस्संगन्तव्याय कवये विदुषे वृषभाय श्रेष्ठाय वृष्णे कामानां वर्षुकाय ब्रह्मणे वन्दारु वन्दनशीलं वचः प्रारम्भार्हं (इति शेषः) । तस्मात्तमेव वन्दामहे । तेषामस्माकं यतो भयं तत् सर्वमभयहेतुः अस्तु । यतो भयमन्येषां तन्नोऽस्माकं मा भूत् । ये पुनः हेड्याः क्रोधनाः देवा अपि अस्माकं भयहेतवः तान् अवयजे अपनयामि अपनीतक्रोधान् करोमि । ‘कृत्यल्युटो बहुलम्’ इति हेडतेः कर्तरि ण्यत् वृषादिर्द्रष्टव्यः । यद्वा - हेडने साधवो हेड्याः । ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । यद्वा - अव रक्ष अस्मान् देवांश्च ईड्यानिहास्मिन्कर्मणि यज पूजय । ‘ईडवन्दवृशंस’इत्याद्युदात्तत्वम् ॥
भास्करोक्त-विनियोगः
24 चित्रियस्याश्वत्थस्य तिस्रस्समिध आदधाति - समिधाऽग्निं दुवस्यतेति तिसृभिर्गायत्रीभिः ब्राह्मणस्य ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मिधा॒ ऽग्निन् दु॑वस्यत ॥9॥
घृ॒तैर् बो॑धय॒ताति॑थिम् ।
आ ऽस्मि॑न् ह॒व्या जु॑होतन ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒मिधा॒ ऽग्निन् दु॑वस्यत ॥9॥
घृ॒तैर् बो॑धय॒ताति॑थिम् ।
आ ऽस्मि॑न् ह॒व्या जु॑होतन ।
भट्टभास्कर-टीका
तत्र प्रथमा - ‘अन्नपते’ इत्यत्र व्याख्याता । हे ऋत्विग्यजमानाः! समिधाऽग्निं दुवस्यत परिचरत । घृतैः एनं बोधयत दीपयत अतिथिमिव पूजनीयम् । अस्मित् हव्या हव्यानि आजुहोतन इति ॥
-
स॒मिधा॒ग्निन्दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् ।
आ [10] अ॒स्मि॒न्ह॒व्या जु॑होतन ।- कल्पः “समिधाऽग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमादधाति” इति। पाठस्तु— समिधाऽग्निमिति। हे ऋत्विग्यजमाना एतमग्निं समिधा दुवस्यत परिचरत। घृतानुषिक्तयाऽनया परिचरतेत्यर्थः। घृतैरेतस्येष्टेरतिथिमिवैनं बोधयतोद्दीषयत। ततश्चास्मिन्नग्नौ हव्यानि हवींष्याजुहोतन साकल्येन जुहूत।
तमेतं मन्त्रं विनियुङ्क्ते— “समिधाऽग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमा दधाति यथाऽतिथम आगताय सर्पिष्वदातिथ्यं क्रियते तादृगेव तत्” (सं. का. ५ प्र. २ अ. २) इति। अवसिते प्रयाणे समाप्ते सति। सर्पिष्वद्घृतयुक्तमन्नम।
- कल्पः “समिधाऽग्निं दुवस्यतेति घृतानुषिक्तामवसिते समिधमादधाति” इति। पाठस्तु— समिधाऽग्निमिति। हे ऋत्विग्यजमाना एतमग्निं समिधा दुवस्यत परिचरत। घृतानुषिक्तयाऽनया परिचरतेत्यर्थः। घृतैरेतस्येष्टेरतिथिमिवैनं बोधयतोद्दीषयत। ततश्चास्मिन्नग्नौ हव्यानि हवींष्याजुहोतन साकल्येन जुहूत।
भास्करोक्त-विनियोगः
25 अथ द्वितीया - उप त्वेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ त्वा ऽग्ने ह॒विष्म॑तीः ।
घृ॒ताची॑र् यन्तु हर्यत ।
जु॒षस्व॑ स॒मिधो॒ मम॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
उप॑ त्वा ऽग्ने ह॒विष्म॑तीः ।
घृ॒ताची॑र् यन्तु हर्यत ।
जु॒षस्व॑ स॒मिधो॒ मम॑ ।
भट्टभास्कर-टीका
हे अग्ने त्वां हविष्मतीः हविष्मत्यः ब्रह्मौदनसम्पृक्ताः घृताचीः घृताच्यः घृताञ्चनाः घृतसम्पृक्ताः। उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ईदृश्यः समिधः उपयन्तु उपगच्छन्तु । त्वं च ताः हर्यत हर्य प्रतिगृहाण । हर्य गतौ, वचनव्यत्ययः । यद्वा - हे हर्यत! भजनीय! । औणादिकोऽतच्प्रत्ययः । ता मय मदीयाः समिधो जुषस्व सेवस्व प्रीत्या वा स्वीकुरु ॥
भास्करोक्त-विनियोगः
26 अथ तृतीया - तं त्वेति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
तन् त्वा॑ स॒मिद्भि॑र् अङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच् छो॑चा यविष्ठ्य ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
तन् त्वा॑ स॒मिद्भि॑र् अङ्गिरः ।
घृ॒तेन॑ वर्धयामसि ।
बृ॒हच् छो॑चा यविष्ठ्य ।
भट्टभास्कर-टीका
हे अङ्गिरः! अङ्गनादिगुणयुक्त । हे बृहच्छोचाः! बृहद्दीप्ते! । छान्दसं दीर्घत्वम् । यद्वा - भवेत्यध्याह्रियते । हे यविष्ठ्य! युवतम! हविषां वा मिश्रयितृतम! । स्वार्थिक इष्ठन्नन्ताद्यत् । यविष्ठेषु वा भव! । दिगादिर्द्रष्टव्यः । तं तादृशं त्वां समिद्भिर्धृतेन च वर्धयामसि वर्धयामः । ‘इदन्तो मसि’ ॥
भास्करोक्त-विनियोगः
27 राजन्यस्यादधाति - समिध्यमान इति तिसृभिस्त्रिष्टुग्भिः ॥ प्रथमा -
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मि॒ध्यमा॑नᳶ प्रथ॒मो नु धर्मः॒ ।
सम॒क्तुभि॑र् अज्यते वि॒श्व-वा॑रः॥10॥
शो॒चिष्-के॑शो घृ॒त-नि॑र्णिक् पाव॒कः ।
सु॒य॒ज्ञो अ॒ग्निर् य॒जथा॑य दे॒वान् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒मि॒ध्यमा॑नᳶ प्रथ॒मो नु धर्मः॒ ।
सम॒क्तुभि॑र् अज्यते वि॒श्व-वा॑रः॥10॥
शो॒चिष्-के॑शो घृ॒त-नि॑र्णिक् पाव॒कः ।
सु॒य॒ज्ञो अ॒ग्निर् य॒जथा॑य दे॒वान् ।
भट्टभास्कर-टीका
अयं अग्निः समिध्यमानः दीप्यमानः प्रथमः आद्यः प्रथमानो वा नु क्षिप्रं पादपूरणे वा धर्मो धारयिता विश्वस्य विश्ववारः विश्वं वरणीयं यस्य सः सर्ववरिष्ठः विश्वे वाराः काला वा यस्य स विश्ववारः नित्यः । शोचिष्केशः शोचींषि ज्वालाः केशस्थानीया यस्य । घृतनिर्णिक् घृतरूपः घृताधीनरूपसमृद्धिः घृताधीनशुद्धिर्वा । णिजिर् शौचपोषणयोः, भावे क्विप् । पावकः सर्वस्य सुयज्ञः शोभमानो यज्ञो येन । ‘नञ् सुभ्याम्’इत्युत्तरपदान्तोदात्तत्वम् । ईदृशोऽयं देवान् यजथाय देवानां यागाय । कर्मणि षष्ठी व्यत्ययेन न प्रवर्तते । अक्तुभिः व्यक्तिहेतुभिस्स्वतेजोभिः समज्यते सम्यगक्तः क्रियते, महाप्रकाशः क्रियत इति यावत् ॥
भास्करोक्त-विनियोगः
28 द्वितीया - घृतप्रतीक इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒त-प्र॑तीको घृ॒त-यो॑निर् अ॒ग्निः ।
घृ॒तैस् समि॑द्धो घृ॒तम् अ॒स्यान्न॑म् ।
घृ॒त॒-प्रुष॑स् त्वा स॒रितो॑ वहन्ति ।
घृ॒तम् पिब॑न्त् सु॒यजा॑ यक्षि दे॒वान् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
घृ॒त-प्र॑तीको घृ॒त-यो॑निर् अ॒ग्निः ।
घृ॒तैस् समि॑द्धो घृ॒तम् अ॒स्यान्न॑म् ।
घृ॒त॒-प्रुष॑स् त्वा स॒रितो॑ वहन्ति ।
घृ॒तम् पिब॑न्त् सु॒यजा॑ यक्षि दे॒वान् ।
भट्टभास्कर-टीका
अयं अग्निः घृतप्रतीको धृतोपक्रमः घृतयोनिः घृतकारणः घृतैस्समिद्धः संदीपितः ईदृशोऽयं अस्यान्नमपि घृतम् । इदानीं प्रत्यक्षवदुच्यते - हे अग्रे! धृतप्रुषः घृतस्य पोषयित्र्यः सेक्त्र्यः घृतवाहिन्यो वा सरितः सद्यः त्वां वहन्ति धारयन्ति । यद्वा - त्वां प्रवहन्ति । तस्मात् घृतमस्माभिर्दत्तं पिबन् सुयजा शोभनयजमानेन यागेन देवान्यक्षि यज पूजय ‘बहुलं छन्दसि’इति शपो लुक् ॥
भास्करोक्त-विनियोगः
29 तृतीया - आयुर्दा इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः ।
घृ॒त-प्र॑तीको घृ॒त-यो॑निर् एधि ।
घृ॒तम् पी॒त्वा मधु॒ चारु॒ गव्य॑म् ।
पि॒तेव॑ पु॒त्रम् अ॒भि-र॑क्षताद् इ॒मम् ॥11॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः ।
घृ॒त-प्र॑तीको घृ॒त-यो॑निर् एधि ।
घृ॒तम् पी॒त्वा मधु॒ चारु॒ गव्य॑म् ।
पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ॥11॥
भट्टभास्कर-टीका
व्याख्यातेयम् ‘त्वमग्ने रुद्रः’ इत्यत्र । हे अग्ने! हविषो जुषाणः प्रियमाणः सेवमानो वा घृतमतीको घृतयोनिः त्वमस्मभ्यमायुषो दाता एधि भव । किञ्च - मधु मधुरसं चारु स्वादु चरणशीलं गव्यं गोविकारं घृतं पीत्वा पिता पुत्रमिव इमं यजमानं अभिरक्षतात् आभिमुख्येन रक्षेति ॥
-
12तत्रैव याज्या - आयुर्दा इति त्रिष्टुप् ॥ हे अग्ने आयुर्दाः अस्य यजमानस्य आयुषो दाता एधि भव । ‘अन्येभ्योपि दृश्यते’ इति ददातेर्विचि कृदुत्तरपदप्रकृतिस्वरत्वम् । हविषो जुषाणः हविस्सेवमानः भुञ्जानः । ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदनत्वाच्चतुर्थ्यर्थे षष्ठी । जुषी प्रीतिसेवनयोः तौदादिक अनुदात्तेत्, ताच्छीलिकश्चानश्, हविस्सेवनशीलः, लसार्वधातुकत्वाभावात् ‘चितः’ इत्यन्तोदात्तत्वम्, ‘बहुलं छन्दसि’ इति शपो लुक् । घृतप्रतीकः घृतारम्भः घृतं खल्वग्नेरारम्भः । यद्वा - आघाराभिप्रायमिदं घृतयागारम्भः । घृतयोनिः घृतकारणकः, ईदृशस्त्वमस्यायुर्दाः एधि इदं घृतं पीत्वा । कीदृशं? मधु मधुरं चारु शोभनं निर्मलं गव्यम् । ‘गोपयसोर्यत्’, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । कि बहुनेत्याह - पिता पुत्रमिवेमं यजमानं अभिरक्षतात् आभिमुख्येन रक्षतु ॥
-
1अवभृथमवैष्यन् आयुर्दा इति जुहोति त्रिष्टुभा ॥ व्याख्याता चेयं ‘त्वमग्ने रुद्रः’ इत्यत्र । हे अग्ने त्वमायुर्दाः, त्वमस्य हविषः जुषाणः सेवमानः घृतप्रतीकः घृतारम्भः घृतस्योदकस्य योनिः कारणं भव । किं च - मधुरं गव्यं चारु घृतमिदं पीत्वा पितेव पुत्रमिमं यजमानं अभिरक्षतादिति ॥
-
2तत्रैव याज्या - आयुर्दा अग्ने हविष इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे अग्ने अन्नस्य हविषो जुषाणः सेवमानः घृतारम्भः घृतस्योदकस्य योनिः त्वमस्यायुर्दा भवेति । किञ्च - घृतं मधुरसं चारु गव्यं पीत्वा इमं यजमानं पिता पुत्रमिवाभिरक्षत्विति ॥
-
भास्करोक्त-विनियोगः
30 वैश्यस्यादधाति - त्वामग्ने इति जगतीभिस्तिसृभिः ॥ तत्र प्रथमा -
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम् अ॑ग्ने समिधा॒नय्ँ य॑विष्ठ ।
दे॒वा दू॒तञ् च॑क्रिरे हव्य॒-वाह॑म् ।
उ॒रु॒-ज्रय॑सङ् घृ॒त-यो॑नि॒म् आहु॑तम् ।
त्वे॒षञ् चक्षु॑र् दधिरे चोद॒यन्व॑ति ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्वाम् अ॑ग्ने समिधा॒नय्ँ य॑विष्ठ ।
दे॒वा दू॒तञ् च॑क्रिरे हव्य॒-वाह॑म् ।
उ॒रु॒-ज्रय॑सङ् घृ॒त-यो॑नि॒म् आहु॑तम् ।
त्वे॒षञ् चक्षु॑र् दधिरे चोद॒यन्व॑ति ।
भट्टभास्कर-टीका
हे अग्ने! त्वां समिधानं संदीप्यमानम् । ‘बहुलं छन्दसि’इति शपो लुक् । हे ‘यविष्ठ! युवतम! मिश्रयितृतम! वा हविषां देवैः । देवा द्युलोकनिवासिनः ऋत्विजो वा दूतं कार्याणां निर्वोढारं हव्यवाहं हविषो वोढारं चक्रिरे । उरुज्रयसं उरूणां महतामप्यभिभवितारं उरूणि वा ज्रयांसि अभिभवनानि यस्य । जृ अभिभवे, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । घृतयोनिं घृतयोनिकं उदकस्य कारणं वा त्वेषं दीप्यमानं, कदा आहुतं आहुत्याराधितं ईदृशं त्वां चक्षुर्दधिरे देवाः चक्षुस्स्थानीयं कृतवन्तः, क्व चोदयन्वति चोदकः विधिः तद्वति चोदिते कर्मणि । चोदयद्वतीति वक्तव्ये नकारश्छान्दसः, लुप्तायामपि वा विभक्तौ ‘उगिदचाम्’इति सुप् प्रवर्तते । यद्वा - चोदयतेरौणादिकेऽप्रत्यये चोदयशब्दान्मतुपि नलोपे ‘अनो नुट्’इति नुट् । यद्बा - पचाद्यजन्ताच्चोदयशब्दात् मतुपि नकारोपजनः । यद्वा - देवास्त्वां दूतं चक्रिरे चक्षुस्स्थानीयं दधिरे च, क्व उदयन्वति उदयवति फलवति कर्मणि । पर्वूवन्नकारोपजनः ॥
भास्करोक्त-विनियोगः
31 द्वितीया - त्वामग्ने प्रदिव इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम् अ॑ग्ने प्र॒दिव॒ आहु॑तङ् घृ॒तेन॑ ।
सु॒म्ना॒यव॑स् सुष॒मिधा॒ समी॑धिरे ।
स वा॑वृधा॒न ओष॑धीभिर् उक्षि॒तः ।
उ॒रु ज्रयाँ॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
त्वाम् अ॑ग्ने प्र॒दिव॒ आहु॑तङ् घृ॒तेन॑ ।
सु॒म्ना॒यव॑स् सुष॒मिधा॒ समी॑धिरे ।
स वा॑वृधा॒न ओष॑धीभिर् उक्षि॒तः ।
उ॒रु ज्रयाँ॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे ।
भट्टभास्कर-टीका
हे अग्ने! प्रदिवः प्राचीने काले । प्रदिव इत्यकारान्त इत्येके । यद्वा - प्रगतं द्यौः प्रदिवं तत्र प्रदिवे काले । ‘अच्’इति योगविभागादचि समासान्ते ‘परादिश्छन्दसि’इत्युत्तरपदान्तोदात्तत्वम् । सर्वया पुराणमर्थमाचष्टे । घृतेन सुषमिधा सुसमिन्धनेन आहुतं आहवनेन तर्पितं समीधिरे संदीपयन्ति । के सुम्नायवः सुम्नं सुखं धनं वा आत्मन इच्छन्तः । ‘क्याच्छन्दसि’इत्युप्रत्ययः, ‘देवसुम्नयोर्यजुषि’इति दीर्घत्वम् । स त्वं ओषधीभिर्वावृधानः वर्धमानः ‘बहुलं छन्दसि’इति शपः श्लुः; ‘तुजादीनाम्’इत्यभ्यासस्य दीर्घत्वम् । उक्षितः आहुत्यादिभिस्सिक्तः तर्पितो वा । उरुज्रयांसि महाभिभवशक्तीनि पार्थिवानि पृथिव्यां भवानि रक्षांसि वितिष्ठसे वितिष्ठस्व अधितिष्ठ विशिष्टानि वा स्थापय । ‘समवप्रविभ्यस्स्थः’इत्यात्मनेपदम् । अथ स्वरानुरोधादन्यथा व्याख्यायते - ज्रयांसि बाधकानि पार्थिवानि उरूणि महान्ति वितिष्ठस्व । ‘सुपां सुलुक्’इति विभक्तेर्लुक् क्रियाविशेषणं वा ॥
भास्करोक्त-विनियोगः
32 अथ तृतीया - घृतप्रतीकमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒त-प्र॑तीकव्ँ व ऋ॒तस्य॑ धूर्षद॑म् ।
अ॒ग्निम् मि॒त्रन् न स॑मिधा॒न ऋ॑ञ्जते ॥12॥
इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् ।
छु॒क्र-व॑र्णा॒म् उदु॑ नो यँसते॒ धिय॑म् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
घृ॒त-प्र॑तीकव्ँ व ऋ॒तस्य॑ धूर्षद॑म् ।
अ॒ग्निम् मि॒त्रन् न स॑मिधा॒न ऋ॑ञ्जते ॥12॥
इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् ।
छु॒क्र-व॑र्णा॒म् उदु॑ नो यँसते॒ धिय॑म् ।
भट्टभास्कर-टीका
घृतप्रतीकं घृतारम्भं ऋतस्य वज्रस्य यज्ञस्य सत्यस्य वा धूर्षदं धुरि सीदन्तं निर्वोढृतया अग्निं मित्रंन मित्रमिव समिधानः संदीपयन् ऋञ्जते अलङ्करोति । ऋज भर्जने भौवादिकः । व इति ऋत्विग्यजमानावुच्येते युष्माकमृतस्येति, युष्माकं वा मध्ये कश्चित् समिधान इति । स चाग्निः इन्धानः अस्माकं धियं दीपयन् अक्रः कैश्चिदप्यनपक्रान्तः । क्रमेः कर्मणि छान्दसो डः, उञ्छादिर्द्रष्टव्यः । विदथेषु यज्ञेषु दीद्यत् दीप्यमानः । दीद्यतिर्दीप्तिकर्मा । शुक्रवर्णो शुक्लवर्णां निर्मलरूपां धियं प्रजां कर्म वा नः अस्माकं उद्यसते उद्यच्छते । ‘समुदाञ्भ्यः’इत्यात्मनेपदं ‘सिब्बहुलं लेटि’इति सिप् । उकारोऽवधारणार्थः शुक्रवर्णमेवेति ॥
भास्करोक्त-विनियोगः
33 उतरेण गार्हपत्यायतनं कल्माषमजं बध्नाति । सोऽग्निरूपेण स्तूयते - प्रजा अग्ने संवासयेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जा अ॑ग्ने॒ सव्ँवा॑सय ।
आशा॑श्च प॒शुभि॑स् स॒ह ।
रा॒ष्ट्राण्य् अ॑स्मा॒ आधे॑हि ।
यान्य् आस॑न्त् सवि॒तुस् स॒वे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्र॒जा अ॑ग्ने॒ सव्ँवा॑सय ।
आशा॑श्च प॒शुभि॑स् स॒ह ।
रा॒ष्ट्राण्य् अ॑स्मा॒ आधे॑हि ।
यान्य् आस॑न्त् सवि॒तुस् स॒वे ।
भट्टभास्कर-टीका
हे अग्ने! अजात्मन् अस्माकं प्रजाः संवासय सम्यक्सुखिताः आवासय आशाः देशः दिग्वासिनश्च संवासयेत्येव । पशुभिस्सह पशूंश्चास्माकं संवासय । राष्ट्राणि जनपदांश्च अस्मै यजमानाय आधेहि विधेयानि कुरु यानि चान्यानि सवितुर्देवस्य सवे प्रेरणायां आसन् सन्ति प्रेरणीयत्वेन वर्तन्ते तानि चास्मा आधेहि । छान्दसो लुङ् ‘सवजवौ छन्दसि’ हति सदशब्दोऽन्तोदात्तः ॥
भास्करोक्त-विनियोगः
34 अरणी अध्वर्युणा दीयमाने यजमानः प्रतीक्षते - मही विश्पत्नी इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ ।
अ॒र्वाची॒ एत॑न् धरुणे रयी॒णाम् ।
अ॒न्तर्व॑त्नी॒ जन्य॑ञ् जा॒तवे॑दसम् ।
अ॒ध्व॒राणा॑ञ् जनयथᳶ पुरो॒गाम् ॥13॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ ।
अ॒र्वाची॒ एत॑न् धरुणे रयी॒णाम् ।
अ॒न्तर्व॑त्नी॒ जन्य॑ञ् जा॒तवे॑दसम् ।
अ॒ध्व॒राणा॑ञ् जनयथᳶ पुरो॒गाम् ॥13॥
भट्टभास्कर-टीका
मही महत्यौ महनीये । ‘वा छन्दसि’इति पूर्वसवर्णदीर्घत्वम् । विश्पत्नी विश्पत्न्यौ विशां प्रजानां पालयित्र्यौ । अयस्मयादित्वेन भत्वाज्जश्च्त्वाभावः । यद्वा - विश्वस्य पालयित्र्यौ (?) अन्तर्वत्नी गर्भिण्यौ ‘अन्तर्वत्पतिवतोर्नुक्’इति नुगोकारौ, जन्यं जनयितव्यं गर्भस्थं जातवेदसं जातानां वेदितारं अध्वराणां यज्ञानां पुरोगां अग्रगामिनीं जनयथः जनयतम् । पञ्चमो लकारः, जनसनखनाम्’इति विट् ‘विड्वनोः’ इत्यात्वम् ॥
भास्करोक्त-विनियोगः
35 अरणी प्रतिगृह्णाति यजमानः - आरोहतमिति जगत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
आरो॑हतन् द॒शतँ॒ शक्व॑री॒र् मम॑ ।
ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह ।
ज्योग् जीव॑न्त॒ उत्त॑राम् उत्तराँ॒ समा॑म् ।
दर्श॑म॒हम् पू॒र्ण-मा॑सय्ँ य॒ज्ञय्ँ यथा॒ यजै॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
आरो॑हतन् द॒शतँ॒ शक्व॑री॒र् मम॑ ।
ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह ।
ज्योग् जीव॑न्त॒ उत्त॑राम् उत्तराँ॒ समा॑म् ।
दर्श॑म॒हम् पू॒र्ण-मा॑सय्ँ य॒ज्ञय्ँ यथा॒ यजै॑ ।
भट्टभास्कर-टीका
हे अरणी! मम दशतं दशवर्गात्मिकाः । ‘पञ्चद्दशतौ वर्गे वा’इति निपात्यते, शक्वरीः शक्तिविशेषशालिनीः अङ्गुलीः आरोहतम् । शकेः क्वनिपि ‘वनोरच’इति ङीब्रेफौ । हे अग्ने! त्वमपि ममाङ्गुलीरारोह, ऋतेन यज्ञेन आयुषी वर्चसा बलेन चास्मभ्यं देयेन सह आरोह । किञ्च - तथा त्वमारोह यथा अहं वयं ज्योक् दीर्घकालं जीवन्तः उत्तरामुत्तरां समां उत्तरस्मिन्नुत्तरस्मिन्वत्सरे अविच्छेदेन दर्शपूर्णमासं यज्ञं चान्यं पशुचातुर्मास्यज्योतिष्टोमादिलक्षणं यजै यजेमहि । उभयत्रापि वचनव्यत्ययः । यद्वा - जीवन्त इति वचनव्यत्ययः, जीवन् । औणादिको वा जवितेर्वसन्तादिवत् अच्प्रत्ययः, वृषादिर्द्वष्टव्यः । यजेर्लेटि ‘वैतोन्यत्र’इत्यैकारः, ‘अदुपदेशात् ‘इति लसार्वधातुकानुदात्तत्वे धातुस्वरः ॥
भास्करोक्त-विनियोगः
36-37 प्रतिगृह्यारणिमभिमन्त्रयते यजमानः - ऋत्वियवती इति द्वाभ्याम् ॥ प्रथमा जगती विस्तृतपदा , द्वितीया विषमपदा, अतिजगती बृहती वा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ऋत्वि॑यवती स्थो अ॒ग्नि-रे॑तसौ ।
गर्भ॑न् दधाथा॒न् ते वा॑म॒हन् द॑दे ।
तत् स॒त्यय्ँ यद् वी॒रम् बि॑भृथो वी॒रञ् ज॑नयि॒ष्यथः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ऋत्वि॑यवती स्थो अ॒ग्नि-रे॑तसौ ।
गर्भ॑न् दधाथा॒न् ते वा॑म॒हन् द॑दे ।
तत् स॒त्यय्ँ यद् वी॒रम् बि॑भृथो वी॒रञ् ज॑नयि॒ष्यथः॑ ।
भट्टभास्कर-टीका
हे ऋत्वियवती! अरणी! ऋतुः प्राप्तोऽस्य ऋत्वियोऽग्निः ‘छन्दसि’इति घसिः, तद्वत्यौ प्रजननाभिमुखगर्भवत्यौ आमन्त्रिताद्युदात्तत्वम् । युवां अग्निरेतसौ स्थः अग्निर्गर्भस्थरेतस्स्थानीयो ययोस्ते युवां गर्भं दधाथां ते तादृश्यौ गर्भवत्यौ वां युवां अहं ददे गृह्नामि, तत्सत्यं न मित्थ्या यद्वीरं पुत्रं गर्भे बिभृथः धारयतः यच्च वीरं एव जनयिष्यथः
विश्वास-प्रस्तुतिः ...{Loading}...
ते मत् प्रा॒तᳶ प्रज॑निष्येथे ।
ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥14॥
प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑ सुव॒र्गे लो॒के ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ते मत् प्रा॒तᳶ प्रज॑निष्येथे ।
ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥14॥
प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑ सुव॒र्गे लो॒के ।
भट्टभास्कर-टीका
ते तादृश्यौ युवां प्रातः प्रजनिष्येथे अग्निना वीरेण प्रजावत्यो भविष्यथः । मत् मदर्थं ‘सुपां सुलुक्’इति चतुर्थ्या लुक्, हेतौ वा पञ्चमी, मत्तो हेतोः ते प्रजाते अग्निना वीरेण प्रजावत्यौ मा मामपि प्रजादिभिः प्रजनयिष्यथः, स्वर्गे च लोके भागित्वेन ॥
भास्करोक्त-विनियोगः
38 अथ यजमानो व्रतमुपैति, वाचं च यच्छति - अनृतादिति । गायत्रीप्रकारोऽयं, यजुरित्येके ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अनृ॑तात् स॒त्यम् उपै॑मि ।
मा॒नु॒षाद् देव्य॒म् उपै॑मि ।
दैवीव्ँ॒ वाचय्ँ॑ यच्छामि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अनृ॑तात् स॒त्यम् उपै॑मि ।
मा॒नु॒षाद् देव्य॒म् उपै॑मि ।
दैवीव्ँ॒ वाचय्ँ॑ यच्छामि ।
भट्टभास्कर-टीका
अनृतात् अव्रतत्वादनग्नित्वाद्वा, सत्यं व्रतित्वं अग्निमत्त्वं वा उपैमि मानुषात् मनुष्यमात्रत्वात् दैव्यं देवार्हत्वं उपैमि दैवीं संस्कृतां वाचं यच्छामि मयि दैवीमेव वाचं वदामि, ततोऽवगम्यते सर्वकर्मकाले ब्राह्मणेन नापभाषितव्यमिति ॥
भास्करोक्त-विनियोगः
39 शल्कैरेतां रात्रिं एतमग्निमिन्धान आस्ते - शल्कैरित्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
शल्कै॑र् अ॒ग्निम् इ॑न्धा॒नः ।
उ॒भौ लो॒कौ स॑नेम॒हम् ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒ध्वा ।
अति॑ मृ॒त्युन् त॑राम्य् अ॒हम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
शल्कै॑र् अ॒ग्निम् इ॑न्धा॒नः ।
उ॒भौ लो॒कौ स॑नेम॒हम् ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒ध्वा ।
अति॑ मृ॒त्युन् त॑राम्य् अ॒हम् ।
भट्टभास्कर-टीका
शल्कैः शकलैः एतां रात्रिं अग्निमिन्धानः दीपयन् उभौ लोको इमं चामुं च अहं सनें सनेयं सम्भजेयम् ‘अमो मश्’। ततः उभयोर्लोकयोः ऋद्ध्वा भूत्वा अहं मृत्युमतितरामि ॥
भास्करोक्त-विनियोगः
40 तस्मिन्नुपव्युषमरणी निष्टपति - जातवेद इति त्रिष्टुभा अयं ते योनिरित्यनुष्टुभा च ॥ तत्र प्रथमा -
विश्वास-प्रस्तुतिः ...{Loading}...
जात॑वेदो॒ भुव॑नस्य॒ रेतः॑।
इ॒ह सि॑ञ्च॒ तप॑सो॒ यज् ज॑नि॒ष्यते॑ ॥15॥
अ॒ग्निम् अ॑श्व॒त्थाद् अधि॑ हव्य॒वाह॑म् ।
श॒मी-॒ग॒र्भाज् ज॒नय॒न् यो म॑यो॒भूः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
जात॑वेदो॒ भुव॑नस्य॒ रेतः॑।
इ॒ह सि॑ञ्च॒ तप॑सो॒ यज् ज॑नि॒ष्यते॑ ॥15॥
अ॒ग्निम् अ॑श्व॒त्थाद् अधि॑ हव्य॒वाह॑म् ।
श॒मी-॒ग॒र्भाज् ज॒नय॒न् यो म॑यो॒भूः ।
भट्टभास्कर-टीका
हे जातवेदः! जातानां वेदितः! अग्ने! ब्रह्मौदनिक! भुवनस्य भूतजातस्य यत् रेतः कारणं तत् इह अनयोररण्योः सिञ्च निषिंञ्च यत् रेतः तपसां तपनात् परिरम्भणस्थानीयात् जनिष्यते प्रादुर्भविष्यति तदनयोस्सिञ्च । पुनश्च रेतो विशेष्यते - यदा अस्मा अग्निः शमीगर्भात् अश्वत्थात् हव्यवाहं हविषां वोढारं अग्निं अधिजनयन् सर्वस्य भूतजातस्य मयोभूः मयसः सुखस्य भावयिता भवति । अधिरनर्थकः । यद्वा - ईदृशमग्निं जनयन् अत एव मयोभूः भुवनस्य भूतजातस्य अधि आधिपत्ये यो भवति अनेन समस्तोपकारकेणात्मना यो जनिष्यते तस्य कारणं रेतः एतयोस्सिञ्चेति ॥
भास्करोक्त-विनियोगः
41 अथ द्वितीया - अयं ते योनिरिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ [28]
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ [28]
भट्टभास्कर-टीका
एषा च ‘उप प्रयन्तः’ इत्यत्र व्याख्याता । हे अग्ने! अयं ते तव ऋत्वियः ऋतुप्रायप्राप्तो योनिः कारणं यतो जातः त्वं अरोचथाः तं जानन् आत्माधिकारं विद्वान् आरोह अथ आरुह्य च नः अस्माकं रयिं वर्धय इति ॥
सायण-टीका
हेऽग्ने योऽयमिष्टकाचितिरूपप्रदेशस्ते तव योनिः स्थानं, यतो यस्या इष्टकाचितेर्जात उत्पन्नस्त्वमरोचथा दीप्तो भवति, तं योनिं जानन्स्वकीयत्वेनावगच्छन्नारोह। अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
-
अथ द्वितीयामाह— अयं ते योनिरिति। हेऽग्नेऽयमिष्टाकारूपः पदार्थस्ते तव योनिरुत्पत्तिहेतुः, ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति। यतो योनेरिष्टकारूपाज्जात उत्पन्नसत्व-मरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह प्राप्नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
-
6अथ षष्ठी - अयं त इत्यनुष्टुप् ॥ हे अग्ने अयं ते तव योनिः कारणं गार्हपत्य उच्यते नात्रारणिः । ऋत्वियः ऋतुः प्राप्तोस्येति । ‘छन्दसि घस्’ इति घस् । ऋतावृताविज्यत इत्यर्थः । यतस्त्वं जातोऽरोचथाः दीप्यसे । छान्दसो लङ् । तं योनिं जानन् त्वं ममायं योनिरित्यवगच्छन् आरोह । आश्रय मा कदाचिदपि मुचः । अथ नोस्माकं रयिं धनं वर्धय । सांहितिकं दीर्घत्वं छान्दसं । ‘निपातस्य च’ इत्यथशब्दस्य ॥
-
41 अथ द्वितीया - अयं ते योनिरिति ॥ एषा च ‘उप प्रयन्तः’ इत्यत्र व्याख्याता । हे अग्ने! अयं ते तव ऋत्वियः ऋतुप्रायप्राप्तो योनिः कारणं यतो जातः त्वं अरोचथाः तं जानन् आत्माधिकारं विद्वान् आरोह अथ आरुह्य च नः अस्माकं रयिं वर्धय इति ॥
भास्करोक्त-विनियोगः
42 गार्हपत्यादीनामायतनमुद्घन्ति - अपेतेति त्रिष्टुभा ॥ इयं चाग्निकाण्डे व्याख्याता ।
विश्वास-प्रस्तुतिः ...{Loading}...
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ ।
ये ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दय्ँ य॒मो॑ ऽव॒सान॑म् पृथि॒व्याः ।
अक्र॑न्न् इ॒मम् पि॒तरो॑ लो॒कम् अ॑स्मै ॥16॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ ।
ये ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दय्ँ य॒मो॑ ऽव॒सान॑म् पृथि॒व्याः ।
अक्र॑न्न् इ॒मम् पि॒तरो॑ लो॒कम् अ॑स्मै ॥16॥
भट्टभास्कर-टीका
अपेत इतस्स्थानादपगछत वीत विदूरं गच्छत’ विसर्पत च परस्परं विश्लिष्टा गच्छथ । ये यूयं अत्र स्थाने पुराणाः पुरातनाः ये च नूतनाः इदानींतनाः यस्मात् इदमवसानं स्थानं पृथिव्यास्संबन्धि पृथिवीमात्राद्वा विकृष्य अस्मै यजमानाय अदात् दत्तवान् यमः नियन्ता विश्वस्य । पितरः च इमं लोकं अवकाशं अस्मै यजमानाय अग्न्याधारत्वेन अक्रन् कृतवन्त इति ॥
- तृतीयेऽनुवाके वह्नेरुख्यस्य चयनदशं प्रति नयनमुक्तम्। अथ चतुर्थे गार्हपत्यचयनमुच्यते।
कल्पः—“अपवृत्ते दीक्षापरिमाणेऽपेत वीतोति गार्हपत्यचितेरायतनं *व्याम मात्रं चतुरस्रं परिमण्डलं बोद्धत्य” इति। पाठस्तु— अपेत वीतेति। यमस्य सर्वभूम्यधिपतित्वात्तद्भूत्याः पृथिव्यां सर्वत्र वर्तन्ते। १८८५ हे यमभृत्या अत्र देवयजनस्थाने पुरातना ये यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यपे-तास्मात्स्थानादपनच्छत। वीतात्यन्तं विदूरं गच्छत। विसर्पत चातोऽस्मात्स्थाना-दपेत्य सानिध्यं परित्यज्य विविधं गच्छत। पृथिव्या इदमवसानं स्थानमस्मभ्यं यमोऽदात्। पितरश्चास्मै यजमानायेमं ल्लोकमक्रन्नेतच्चयनस्थानं कृतवन्तः। तमेतं मन्त्रं विनियुङ्क्ते— “यावती वै पृथिवी तस्यै यम आधिपत्यं परीयाय यो वै यमं देवयजनमस्या अनिर्याच्छाग्निं चिनुते यमायैनँस चिनुतेपेतेत्यध्यवसायपति यममेव देवयजनमस्यै निर्याच्याऽऽत्मनेऽग्निं चिनुत” (सं. का. ५ प्र. २ अ. ३) इति।
सर्वस्याः पृथिव्या आधिपत्ये यमेन प्राप्ते सति यो यजमानो यमं प्रत्यस्याः पृथिव्याः संबन्धि देवयजनमयाचित्वा तत्राग्निं चिनुते, तच्चयनं यमार्थमेव भवति न तु स्वयं तत्फलभाग्भवति। अतो यमं याचितुमपेतेति मन्त्रेणाध्यवसाययति देवयजनं निश्चिनुयात् । अतो याचितत्वात्स्वार्थमेव तच्चयनं भवति। तमिमं मन्त्रं प्रशंसति— “इष्वग्रेण वा अस्या अनामृतमिच्छन्तो नाविन्दन्ते देवा एतद्यजुरपश्यन्नपेतेति यदेतेनाघ्यवसाययत्यनामृत एवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ३) इति।
मृतैः प्राणिभिराक्रान्तमामृतंतथा न भवतीत्यनामृतं, तादृशमस्याः पृथिव्याः संबन्धि स्थानमिच्छन्तोऽपेक्षमाणा देवा बाणाग्रेण परिमितमषिदपि नाविन्दन्नालभन्त, सर्वमपि भूमिस्थानं प्रेतैराक्रान्तमेवेत्यर्थः। यद्यत्स्थानमन्विष्यते तत्र तत्र विचा-रणायां बहवः प्रेता अतीता भवन्ति।
एतदेवाभिप्रेत्य महाभारते स्मरन्ति— “अत्र भीष्मशतं दग्धं द्रोणानां च शतत्रयम्” इति। एवं सति देवास्तत्परिहारोपायं विचार्यैतद्यजुर्यजुर्वेदस्थमपेत वीतेत्येतं मन्त्रम- १८८६ पश्यन्। तस्मादनेन मन्त्रेण प्रेतानां निःसारितत्वात्तैरनाक्रान्त एव स्थानेऽग्निं चिनुते। गार्हपत्यचितिस्थानस्योद्धननं विधत्ते— “उद्धन्ति यदेवास्या अमेध्यं तदप हन्ति” [सं. का. ५ प्र. २ अ. ३ ] इति। अस्याः पृथिव्या उपरि निष्ठीवनादिना यत्स्थानममेध्यं जातं तदुद्धननेन विनिवार्यते। उद्धते प्रदेशे जलेनावोक्षणं विधत्ते— “अपोऽवोक्षति शान्त्यै” (सं. का. ५ प्र. २ अ. ३ ) इति। उद्धननेन निष्पन्ना भूमिर्जलेन शान्ता भवति।
भास्करोक्त-विनियोगः
43 सिकता निवपति - अग्नेर्भस्मासीति यजुषा ॥
विश्वास-प्रस्तुतिः
अ॒ग्नेर् भस्मा॑सि ।
अ॒ग्नेᳶ पुरी॑षम् असि ।
मूलम्
अ॒ग्नेर् भस्मा॑सि ।
अ॒ग्नेᳶ पुरी॑षम् असि ।
(अ॒ग्नेर् भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि ।)
भट्टभास्कर-टीका
इदमपि तत्रैव व्याख्यातं ‘अपेत वीत'13इत्यत्रैव । अग्नेर्भस्म दीप्तिहेतुस्त्वं असि । तथा अग्नेः पुरीषं पूरणं पालनं वा त्वं असि इति ॥
- कल्पः—“अग्नेर्भस्मासीति सिकता निवपति” इति। पाठस्तु— अग्नेर्भस्मेति। हे सिकतास्वरूप त्वमग्नेर्भस्म भासकमसि। सिकताधारो ह्यग्निरतितीक्ष्णो भवति।
- अ॒ग्नेᳶ पुरी॑षमसि ।
- तथा त्वमग्नेरवस्थानाय पुरीषमसि पांसुरूपमसि।
एतन्मन्त्रसाध्यं सिकतावापं विधत्ते— “सिकता नि वपत्येतद्वा अग्नेर्कैश्वानरस्य रूपँरूपेणैव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. २ अ. ३) इति।
आधाना प्रकरणे “वैश्वानरस्य रूपम्। पृथिव्यां परिस्त्रसा” इत्याम्नातत्वात्सि-कताशरीरं वैश्वानरस्याग्नेः स्वरूपम्।
भास्करोक्त-विनियोगः
44 अथोषा निवपति - संज्ञानमिति यजुषा ॥ इदमपि तत्रैव व्याख्यातम्13 ।
विश्वास-प्रस्तुतिः
सं॒ज्ञान॑म् असि काम॒-धर॑णम् ।
मयि॑ ते काम॒-धर॑णम् भूयात् ।
मूलम्
सं॒ज्ञान॑म् असि काम॒-धर॑णम् ।
मयि॑ ते काम॒-धर॑णम् भूयात् ।
भट्टभास्कर-टीका
संज्ञानं सम्यक् ज्ञानहेतुः कामधरणं कामानां धारकं च असि, ते तव यत् कामधरणं कामधारणसामर्थ्यं तत् मयि अपि भूयात् इति ॥
-
सं॒ज्ञान॑मसि +++(निवपति)+++।
- कल्पः—“संज्ञानमित्यूपान्” इति । निवपतीत्यनुवर्तते। पाठस्तु— संज्ञानमसीति। हे ऊषस्वरूप त्वं संज्ञानं पशुसंबन्धि सम्यग्ज्ञानमसि। पशवो ह्याघ्राणेन सम्यग्ज्ञात्वा तमूषप्रदेशं लिहन्ति।
-
का॒म॒-धर॑णम् +++(असि)+++ ।
-
मयि॑ ते काम॒-धर॑णम् भूयात् ।
- तथा कामधरणमसि यज्ञियांशत्वेन ब्राह्मणे वक्ष्यमाणत्वाद्यज्ञद्वारा कामाना धारकमसि। अतस्ते यत्कामधरणसामर्थ्यं तन्मयि भूयात्। एतन्मन्त्रसाध्यमूषनिवपनं विधत्ते— “ऊषान्नि वपति पुष्टिर्वा एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चि नुतेऽथो संज्ञान एव संज्ञानँ ह्येतत्पशूनां यदूषाः” [सं. का. ५ प्र. २ अ. ३] इति। पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा द्रष्टव्यम् । तस्मादूषनिवापे सति पुष्टिहेतौ प्रजननहेतौ च देशेऽग्निश्चितो भवति। किंच संज्ञानहेतावेव देशेऽ– १८८७ ग्निश्चितो भवति। ऊषाणां पशुज्ञानहेतुत्वं लोके प्रसिद्धम। पशवो ह्यूषरप्रदेशं ज्ञात्वा तत्रत्यं लवणोदकमेव पातुं गच्छन्ति। पीत्वा च पुष्टिं प्राप्नुवन्ति । अतः संज्ञानत्वं पुष्टिहेतुत्वं च।
यदुक्तं सूत्रकोरण— ‘तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति’ इति। तदेतद्विधत्ते—
“द्यावापृथिवी सहाऽस्तां ते वियती अब्रूतामस्त्वेव नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा अभवन्यदस्या यज्ञियमासीत्तदमुष्याम दधात्तददश्चन्द्रमसि कृष्णमूषान्निवपन्नदो ध्यादेद्द्यावापृथिव्योरेव यज्ञियेऽग्निं चिनुते” [सं. का. ५ प्र. २ अ. ३] इति।
पुरा सृष्टिकाले प्रजापतिना सृष्टे द्यावापृथिव्यौ जतुकाष्ठवत्संश्लिष्टे तिष्ठतः। ते यदा प्रजापत्यनुज्ञया वियुज्येते तदानीं परस्परानुरागेणैवं भागं कृतवत्यौ नावावयोर्यद्यज्ञयोग्यं सारं तत्सहैवास्त्विति। ततोऽमुष्या दिवो यद्यज्ञयोग्यं सारमासीत्तदस्यां पृथिव्यां सा द्यौः स्थापितवती। तच्च सारं भूमाविदानीं दृश्यमानास्ते प्रसिद्धा ऊषा आसन्। यच्चास्याः पृथिव्या यज्ञयोग्यं सारमासीत्तत्सारममुष्यां दिवि सा पृथिवी स्थापितवती। तत्स्थापितं चन्द्रमसि दृश्यमानं कृष्णरूपमभूत् । अत उभयोः सारयोरेकीभावायोषान्निवपन्नदश्चन्द्रमसि कृष्णरूपं ध्यायेत् । तेन ध्यानेन द्यावापृथिव्योः संबन्धिनि यज्ञयोग्ये सारेऽग्निं चितवान्भवति ।
- तथा कामधरणमसि यज्ञियांशत्वेन ब्राह्मणे वक्ष्यमाणत्वाद्यज्ञद्वारा कामाना धारकमसि। अतस्ते यत्कामधरणसामर्थ्यं तन्मयि भूयात्। एतन्मन्त्रसाध्यमूषनिवपनं विधत्ते— “ऊषान्नि वपति पुष्टिर्वा एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चि नुतेऽथो संज्ञान एव संज्ञानँ ह्येतत्पशूनां यदूषाः” [सं. का. ५ प्र. २ अ. ३] इति। पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा द्रष्टव्यम् । तस्मादूषनिवापे सति पुष्टिहेतौ प्रजननहेतौ च देशेऽग्निश्चितो भवति। किंच संज्ञानहेतावेव देशेऽ– १८८७ ग्निश्चितो भवति। ऊषाणां पशुज्ञानहेतुत्वं लोके प्रसिद्धम। पशवो ह्यूषरप्रदेशं ज्ञात्वा तत्रत्यं लवणोदकमेव पातुं गच्छन्ति। पीत्वा च पुष्टिं प्राप्नुवन्ति । अतः संज्ञानत्वं पुष्टिहेतुत्वं च।
भास्करोक्त-विनियोगः
45 अथ वानस्पत्यान् संसृजति - सं व इति द्वाभ्यां गायत्र्यनुष्टुब्भ्याम् । तत्र प्रथमा -
विश्वास-प्रस्तुतिः ...{Loading}...
सव्ँव॑स् सृजामि॒ हृद॑यानि ।
सँसृ॑ष्ट॒म् मनो॑ अस्तु वः ।
संँसृ॑ष्टᳶ प्रा॒णो अ॑स्तु वः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सव्ँव॑स् सृजामि॒ हृद॑यानि ।
सँसृ॑ष्ट॒म् मनो॑ अस्तु वः ।
संँसृ॑ष्टᳶ प्रा॒णो अ॑स्तु वः ।
भट्टभास्कर-टीका
वः युष्माकं हृदयानि संसृजामि परस्परमुपरक्तानि करोमि । मनः च वः युष्माकं संसृष्टमस्तु । प्राणः च वः युष्माकं संसृष्टोऽस्तु परस्परोपकारस्वभावोऽस्तु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सय्ँया व॑ᳶ प्रि॒यास् त॒नुवः॑।
सम्प्रि॒या हृद॑यानि वः ।
आ॒त्मा वो॑ अस्तु॒ सम्प्रि॑यः ।
सम्प्रि॑यास् त॒नुवो॒ मम॑ ॥17 ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
सय्ँया व॑ᳶ प्रि॒यास् त॒नुवः॑।
सम्प्रि॒या हृद॑यानि वः ।
आ॒त्मा वो॑ अस्तु॒ सम्प्रि॑यः ।
सम्प्रि॑यास् त॒नुवो॒ मम॑ ॥17 ॥
भट्टभास्कर-टीका
46 द्वितीया - सं या व इति ॥ व्याख्यातेयं तत्रैव13 । वः युष्माकं याः प्रियाः तनुवः ताः संसृज्यन्ताम् । हृदयानि च प्रिया प्रियाणि वः युष्माकं संमृज्यन्ताम् । वः युष्माकं आत्मा च सम्प्रियोऽस्तु । मम अपि च तमुवः तनवः सं प्रियाः सन्त्विति ॥
- कल्पः—“सं या वः प्रियास्तनुव इत्यूषान्सिकताश्चसँ सृज्य” इति। पाठस्तु — सं या व इति। हे सिकतोषा वो युष्माकं याः प्रियास्तनुवः स्युस्ताः परस्परं संसृ-ज्यन्ताम्। वो युष्मांकं प्रिया प्रियाणि हृदयान्यपि संसृज्यन्ताम् । तथा वो युष्माकमा-त्माऽपि संप्रियोऽस्तु। अपि च ममापि तनुवः संप्रियाः सन्तु।
भास्करोक्त-विनियोगः
47 कॢप्तिसामनसीभ्यामग्नीन् यजमान उपतिष्ठते - कल्पेतामिति द्वाभ्यामनुष्टुबस्तारपङ्क्तिभ्याम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
कल्पे॑ता॒न् द्यावा॑-पृथि॒वी ।
कल्प॑न्ता॒म् आप॒ ओष॑धीः ।
कल्प॑न्ताम् अ॒ग्नय॒ᳶ पृथ॑क् ।
मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
कल्पे॑ता॒न् द्यावा॑-पृथि॒वी ।
कल्प॑न्ता॒म् आप॒ ओष॑धीः ।
कल्प॑न्ताम् अ॒ग्नय॒ᳶ पृथ॑क् ।
मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ।
भट्टभास्कर-टीका
व्याख्याते चैते अग्निकण्डे ‘मधुश्च’ इत्यत्र । तत्र प्रथमा - कल्पेतां कल्पयेतां द्यावापृथिव्यौ । आपश्च ओषधयश्च कल्पन्तां अग्नयश्च पृथक्कल्पन्तां सव्रताः समानकर्माणः मम ज्यैष्ठ्यार्थमिति ॥
- यथा कुड्यस्यान्तर्दार्ढ्यार्थं काष्ठपाशाणादयः श्लिष्यन्ते तद्वान्मप्राग्निं चिन्वतो यजमानस्य ज्यैष्ठ्यायोत्कर्षार्थमिमे द्यावापृथिव्यौ कल्पेतां स्वोचितमुपकारं संपादयताम् । समानं व्रतं कर्म येषां ते सव्रता एकस्मिकर्मण्यवस्थिता आवहनीयाद्यग्नयोऽपि पृथक्कल्पतां स्वस्वोचितव्यापारं संपादयन्तु ।
भास्करोक्त-विनियोगः
48 द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
ये॑ ऽग्नय॒स् सम॑नसः ।
अ॒न्त॒रा द्यावा॑पृथि॒वी ।
वास॑न्तिकाव् ऋ॒तू अ॒भि कल्प॑मानाः ।
इन्द्र॑म् इव दे॒वा अ॒भि-सव्ँवि॑शन्तु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ये॑ ऽग्नय॒स् सम॑नसः ।
अ॒न्त॒रा द्यावा॑पृथि॒वी ।
वास॑न्तिकाव् ऋ॒तू अ॒भि कल्प॑मानाः ।
इन्द्र॑म् इव दे॒वा अ॒भि-सव्ँवि॑शन्तु ।
भट्टभास्कर-टीका
ये अग्नयः समनसः समानमनस्काः द्यावापृथिवी द्यावापृथिव्योः अन्तरा मध्ये सन्ति वासन्तिकावृतू अभितः कल्पयन्तः ते त्वामभितस्संविशन्तु इन्द्रं देवा इवेति ॥
-
ये॑ऽग्नय॒स्सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सव्ँवि॑शन्तु ।
- किंच द्यावापृथिवी अन्तरा द्यावा पृथिव्योर्मध्ये वर्तमानाः समनस एकमनस्का येऽग्नयस्ते सर्वेऽपि शिशिरसंबन्धि नावृत्ववयवावभिकल्पमानाः सर्वतः संपादयन्तु एतत्कर्माभिसंविशन्तु । इन्द्रमिब देवा यथाऽन्ये सर्वे देवा इन्द्रमभितः सेवन्ते तद्वत् । हे इष्टके ईदृगृतुस्वरूपां त्वामुपदधामीति तात्पर्यार्थः । यदा वसन्ताद्यृतुमन्त्र* शेषत्वेनायं पठ्यते तदानीं शैशिरावृतू शैशिरसमानौ वासन्तिकावृवू इत्याद्यर्थो व्याख्येयः ।
एतन्मन्त्रसाध्यमुपधानं विधत्ते–
“ऋतव्या उप दधात्यृतूनां क्लृप्त्यै द्वंद्वमुप दधाति तस्माद्द्वंद्वभृतवः” (सं. का. ५ प्र. ४ अ. २) इति।
यस्मादिष्टकयोद्वंर्द्वंमुपधीयते तस्मान्मासयोर्द्वयमृतुस्वरूपं भवति । मध्यमचितौ चतुष्टयोपधानं विधत्ते– “अधृतेव वा एषा यन्मध्यामा चितिरन्तरिक्षामिव वा एषा द्वंद्वमन्यासु चि तीषूप दधाति चतस्रो मध्ये धृत्यै” (सं. का. ५ प्र. ४ अ. २) इति।
यैषा मध्यमा चित्तिः सेयं भूमिं न स्पृशति, नापि दिवं, तस्मादियमघृते वाऽऽधाररहितेव तिष्ठति । अत एवान्तरिक्षसमाना । तस्मादन्यासु चिप्तीषु द्वंद्व मात्रोपधानेऽप्यस्यां चितौ धारणार्थं चतस्र उपध्यात् ।
अथ सर्वर्तव्याः सामान्येन प्रशंसति— “अन्तःश्लेषणं वा एताश्चितीनां यदृतव्या यदृतव्या उपदधाति चितीनां विधृत्यै” [सं. का. ५ प्र. ४ अ. २] इति। २०९७ यथा कुड्यादेर्दृढधारणाय पाषाणाद्यन्तःश्लेषणं तथा चितीनां दृडधारणाय ऋतव्या उपदध्यात् । एतासामृतव्यानामुपरि शैवालस्योपधानं विधत्ते— “अवकामनूप दधात्येषा वा अग्नेर्योनि सयोनिमेवाग्निः चिनुते” [सं. का. ५ प्र. ४ अ. २] इति।
उदकजन्मां शैवालापरपर्यायामवकामुपर्युपदध्यात् । आपो ह्यग्रेः स्थानं, “स निलायत सोऽपः प्राविशत्’ इति श्रुत्यन्तरात् । अवका च जलस्य कार्यत्वाज्ज लवदग्नेर्योनिः । अतस्तदुपधानेन सयोनिमेवाग्निं चितवान्भवति ।
प्रकारान्तरेणावकासहिता ऋतव्यास्तद्वेदनं च प्रशंसति– “उवाच ह विश्वामित्रोऽददित्स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेददिति” (सं. का. ५ प्र. ४ अ. २) इति।
यस्य यजमानस्यावकायुक्ता ऋतव्या उप धीयन्ते, योऽप्येता जानाति स उपधाता च ब्रह्मणा मुख्यया ब्राह्मणवृत्त्याऽन्नमददित्सर्वथाऽप्यन्नं भक्षयत्येवेति विश्वामित्रः स हायमुवाच । तस्मादेताः स्तुत्या इत्यर्थः ।
- किंच द्यावापृथिवी अन्तरा द्यावा पृथिव्योर्मध्ये वर्तमानाः समनस एकमनस्का येऽग्नयस्ते सर्वेऽपि शिशिरसंबन्धि नावृत्ववयवावभिकल्पमानाः सर्वतः संपादयन्तु एतत्कर्माभिसंविशन्तु । इन्द्रमिब देवा यथाऽन्ये सर्वे देवा इन्द्रमभितः सेवन्ते तद्वत् । हे इष्टके ईदृगृतुस्वरूपां त्वामुपदधामीति तात्पर्यार्थः । यदा वसन्ताद्यृतुमन्त्र* शेषत्वेनायं पठ्यते तदानीं शैशिरावृतू शैशिरसमानौ वासन्तिकावृवू इत्याद्यर्थो व्याख्येयः ।
भास्करोक्त-विनियोगः
49 गार्हपत्यमादधाति - दिवस्त्वेत्यनुष्टुभा उष्णिहा वा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वस् त्वा॑ वी॒र्ये॑ण ।
पृ॒थि॒व्यै म॑हि॒म्ना ॥18॥
अ॒न्तरि॑क्षस्य॒ पोषे॑ण ।
स॒र्वप॑शु॒म् आद॑धे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
दि॒वस् त्वा॑ वी॒र्ये॑ण ।
पृ॒थि॒व्यै म॑हि॒म्ना ॥18॥
अ॒न्तरि॑क्षस्य॒ पोषे॑ण ।
स॒र्वप॑शु॒म् आद॑धे ।
भट्टभास्कर-टीका
दिवो वीर्येण बलविशेषेण वृष्ट्यादिसम्पादनरूपेण पृथिव्या महिम्ना माहात्म्येन सस्यादिकारणत्वलक्षणेन अन्तरिक्षस्य पोषेण पुष्टिहेतुत्वेन सहितं अत एव सर्वपशुं सर्वषां पशूनां स्वामित्वेन सम्बन्धिनं आदधे ॥
भास्करोक्त-विनियोगः
50 जातमग्निमञ्जलिनाऽभिगृह्णाति - अजीजनन्निति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अजी॑जनन्न् अ॒मृत॒म् मर्त्या॑सः ।
अ॒स्रे॒माण॑न् त॒रणिव्ँ॑ वी॒डु-ज॑म्भम् ।
दश॒ स्वसा॑रो अ॒ग्रुव॑स् समी॒चीः ।
पुमाँ॑सञ् जा॒तम् अ॒भि सँर॑भन्ताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अजी॑जनन्न् अ॒मृत॒म् मर्त्या॑सः ।
अ॒स्रे॒माण॑न् त॒रणिव्ँ॑ वी॒डु-ज॑म्भम् ।
दश॒ स्वसा॑रो अ॒ग्रुव॑स् समी॒चीः ।
पुमाँ॑सञ् जा॒तम् अ॒भि सँर॑भन्ताम् ।
भट्टभास्कर-टीका
अजीजनन् अजनयत् अमृतं अमरणं मर्त्यासः मरणधर्माणो मनुष्याः ऋत्विजः । ‘आज्जसेरसुक्’। अस्रेमाणं अस्रवणशीलम् । सृ गतिशोषणयोः । अगम्यमशोषणीयं वा । तरणिं तारकं दुःखेभ्यः । वीडुजम्भं दृढजम्भनं दश स्वसारः सहोत्पन्नत्वेन स्वसृकल्पाः अग्रुवः । अङ्गे’कुप्रत्यये नकारलोपे च अग्रुवः । तत एव उलिप्रत्यये अङ्गुलिः । समीचीः समीच्यः सहाञ्चन्त्यः पुमांसं पावनमग्निं जातं अभि संरभन्तां अभितस्संगृह्णन्तु ॥
भास्करोक्त-विनियोगः
51 जातं यजमानोऽभिप्रणिति - प्रजापतेस्त्वेति जगतीप्रकारेण पञ्चपादेन ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जाप॑तेस् त्वा प्रा॒णेनाभि॒ प्राणि॑मि ।
पू॒ष्णᳶ पोषे॑ण॒ मह्य॑म् ।
दी॒र्घा॒यु॒त्वाय॑ श॒त-शा॑रदाय ।
श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥19॥
जी॒वात्वै पुण्या॑य ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्र॒जाप॑तेस् त्वा प्रा॒णेनाभि॒ प्राणि॑मि ।
पू॒ष्णᳶ पोषे॑ण॒ मह्य॑म् ।
दी॒र्घा॒यु॒त्वाय॑ श॒त-शा॑रदाय ।
श॒तँ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥19॥
जी॒वात्वै पुण्या॑य ।
भट्टभास्कर-टीका
आयुष इति चतुर्थपादान्तः । प्रजापतेः प्राणेन त्वां अभिप्राणिमि न मदीयेन । उपरिश्वासकरणमभिप्राणनम् । एवं पूष्ण एव पोषेण पुष्ट्या त्वामभिप्राणिमि । व्यत्ययेन प्रथमा । वर्चसे बलाय जीवात्वै जीवनौषधाय पुण्याय च त्वामभिप्राणिमीति ॥
भास्करोक्त-विनियोगः
52 आहवनीयमाधीयमानमभिमन्त्रयते यजमानः - अहं त्वदस्मीति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒हन् त्वद॑स्मि॒ मद॑सि॒ त्वम् ए॒तत् ।
ममा॑सि॒ योनि॒स् तव॒ योनि॑र् अस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य् अ॑ग्ने ।
पुत्रᳶ पि॒त्रे लो॑क॒कृज् जा॑तवेदः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒हन् त्वद॑स्मि॒ मद॑सि॒ त्वम् ए॒तत् ।
ममा॑सि॒ योनि॒स् तव॒ योनि॑र् अस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य् अ॑ग्ने ।
पुत्रᳶ पि॒त्रे लो॑क॒कृज् जा॑तवेदः ।
भट्टभास्कर-टीका
हे अग्ने! अहं त्वत् त्वत्तो हेतोः अस्मि यदा त्वमासीः तदाऽस्म्यहं यदा त्वं नासीः तदा अहं अजातकल्पो नास्म्येव । त्वं च मदसि मत्तो हेतोर्जायसे । एतत्प्रसिद्धमेवेति दर्शयितुं एतत् इत्युक्तम् । एवमुक्तेन प्रकारेण मम योनिः कारणं त्वं असि तव अपि योनिः अहं अस्मि । यस्मादेवं तस्मात् ममैव बन्धुः सन् मदीयानि हव्यानि वह यथा पुत्रः पित्रे इष्टमाचरति लोककृत् स्थानकृत् पुण्येषु लोकेषु । यद्वा - सत्पुत्रः पित्रे लोककृद्भवति एवं पितुः पालयितुर्ममैव फलमावेक्ष्य हव्यानि वह । हे जातवेदः! जातानां वेदितः! जातधनादि वा ॥
संयुक्त-मूलम्
प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तार॒ङ्गुप्त्यै॑ ।
विश्वास-प्रस्तुतिः
प्रा॒णे त्वा॒ ऽमृत॒म् आद॑धाम्य् अन्ना॒दम् अ॒न्नाद्या॑य गो॒प्तार॒ङ् गुप्त्यै॑ ।
मूलम्
प्रा॒णे त्वा॒ ऽमृत॒म् आद॑धाम्य् अन्ना॒दम् अ॒न्नाद्या॑य गो॒प्तार॒ङ् गुप्त्यै॑ ।
भास्करोक्त-विनियोगः
53 गार्हपत्यमाधीयमानमनुमन्त्रयते यजमानः - सुगार्हपत्य इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒गा॒र्ह॒प॒त्यो वि॒दह॒न्न् अरा॑तीः ।
उ॒षस॒श् श्रेय॑सीश् श्रेयसी॒र् दध॑त् ॥20॥
अग्ने॑ स॒पत्नाँ॑ अप॒ बाध॑मानः ।
रा॒यस्पोष॒म् इष॒म् ऊर्ज॑म् अ॒स्मासु॑ धेहि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सु॒गा॒र्ह॒प॒त्यो वि॒दह॒न्न् अरा॑तीः ।
उ॒षस॒श् श्रेय॑सीश् श्रेयसी॒र् दध॑त् ॥20॥
अग्ने॑ स॒पत्नाँ॑ अप॒ बाध॑मानः ।
रा॒यस्पोष॒म् इष॒म् ऊर्ज॑म् अ॒स्मासु॑ धेहि ।
भट्टभास्कर-टीका
हे अग्ने! सुगार्हपत्यः । ‘गृहपतिना संयुक्ते ञ्यः’। शोभनं गृहपतिसंयुक्तत्वं यस्य शोभनगृहपतिलाभात् । ‘नञ् सुभ्याम्’इत्युत्तरपदान्तोदात्तत्वम् । अरातीः अदात्रीः शत्रुजातीः विदहन् विविधं दहन् उषसः उदयान् अहोरात्रा लक्ष्यन्ते श्रेयसीश्श्रेयसीः उत्तरोत्तरश्रेयसीः सर्वप्रकारप्रशस्यतराः दधत् धारयन् उत्पादयन् सपत्नान् भ्रातृव्यान् पापात्मकांश्च अपबाधमानः अपनुदन् रायो धनस्य पोषं पुष्टिं इषमूर्जं रसं च क्षीरादि अस्मासु धेहि स्थापय भोगाय ॥
भास्करोक्त-विनियोगः
54 आहवनीयाधानार्थं व्रजन्ति - इमा इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मा उ॒ माम् उप॑-तिष्ठन्तु॒ रायः॑ ।
आ॒भिᳶ प्र॒जाभि॑र् इ॒ह सव्ँव॑सेय ।
इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी ।
मध्ये॒ वसो॑र् दीदिहि जातवेदः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒मा उ॒ माम् उप॑-तिष्ठन्तु॒ रायः॑ ।
आ॒भिᳶ प्र॒जाभि॑र् इ॒ह सव्ँव॑सेय ।
इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी ।
मध्ये॒ वसो॑र् दीदिहि जातवेदः ।
भट्टभास्कर-टीका
हे जातवेदः! इमा रायो धनानि प्रजादिलक्षणास्सर्वा अपि मामुपतिष्ठन्तु । उ इति पादपूरणे अवधारणे वा । आभिः प्रजाभिः आत्मीयभूताभिः इहैव जन्मनि त्वत्प्रसादात् संवसेय सह वसेयं व्यत्यतेनात्मनेपदम् । किञ्च - इह उ इहैव एवमाभिः संवसति मयि इडा गौर्वाग्यशो वा पशवो वा तिष्ठतु विश्वरूपी नानाप्रकाररूपा सर्वात्मना मयि तिष्ठतु । गौरादिर्द्रष्टव्यः । त्वमपि तादृशस्य अस्मदीयस्थ वसोः धनसमूहस्य मध्ये दीदिहि दीप्यस्व स्वामित्वेन वर्तस्व ॥
भास्करोक्त-विनियोगः
55 आहवनीयमुद्यच्छति - ओजेस इत्यादिभिः । प्रथमा ककुप् । उष्णिक् द्वितीया । त्रिष्टुप्तृतीया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे ।
वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।
स॒प॒त्न॒तूर॑सि वृत्र॒तूः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे ।
वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।
स॒प॒त्न॒तूर॑सि वृत्र॒तूः ।
भट्टभास्कर-टीका
हे अङ्गे! ओजसे तेजसे बलाय दूषणे वर्षित्रे शुष्माय शक्तये आयुषे वर्चसे दीप्तये च त्वां उद्यच्छे उद्गृह्णामि । ‘समुदाञ्भ्यः’इत्यात्मनेपदम् । त्वं मे खलु सपत्नानां भ्रातृव्याणां तुर्विता हिंसिताऽसि वृत्राणां वारकाणां च पापानां तुर्विताऽसि । तुर्वि हिंसायां, क्विब्वलोपदीर्घत्वानि ॥
भास्करोक्त-विनियोगः
56 द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥21॥
यस् त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
पुष्टि॒र् या ते॑ मनु॒ष्ये॑षु पप्र॒थे ।
तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यस् ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥21॥
यस् त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
पुष्टि॒र् या ते॑ मनु॒ष्ये॑षु पप्र॒थे ।
तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
भट्टभास्कर-टीका
हे अग्ने! यस्ते तव देवेषु महिमा माहात्म्यं स्वर्गात्मकं यश्च तव आत्मा बलं पशुषु सर्वेषु तिर्यगादिष्वपि प्रविष्टः या च तव पुष्टिः यागात्मिका मनुष्येषु ब्राह्मणादिषु पप्रथे प्रथिताऽभूत्, तया पुष्ट्या उपलक्षणत्वात् तेन चात्मना तेन च महिम्ना सहितस्सन्नास्मान् एहि आगच्छ जुषमाणः प्रीयमाणः यद्वा - ताभिर्महिमात्मपुष्टिभिः । वचनव्यत्ययः ‘सुपां सुलुक्’इति वा भिसो यादेशः ॥
भास्करोक्त-विनियोगः
57 तृतीया -
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षात् ।
वाता॑त् प॒शुभ्यो॒ अध्योष॑धीभ्यः ।
यत्र॑-यत्र जातवेदस् सम्ब॒भूथ॑ ।
ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षात् ।
वाता॑त् प॒शुभ्यो॒ अध्योष॑धीभ्यः ।
यत्र॑-यत्र जातवेदस् सम्ब॒भूथ॑ ।
ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ।
भट्टभास्कर-टीका
हे जातवेदः! अग्ने! दिवो वा अन्तरिक्षात् वा पृथिव्या वा वातात् वा पशुभ्यो वा ओषधीभ्यो वा यत्रयत्र यतोयतोन्यस्मादपि परिसंबभूव परितः समुत्पन्नोसि । सार्वविभक्तिकस्तल् । ततस्ततः सवस्मात् नः अस्मान् जुषमाणः प्रीयमाणः एहि आगच्छ अस्मत्पार्श्वे वर्तस्व ॥
भास्करोक्त-विनियोगः
58 अथ गमनमन्त्राः - प्राचीमिति त्रिष्टुभौ । विक्रमस्वेति च गायत्री । प्रथमा - प्राचीमिति । अग्निकाण्डे व्याख्याता ।
विश्वास-प्रस्तुतिः ...{Loading}...
प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ॥22॥
ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ॥22॥
ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
भट्टभास्कर-टीका
प्राचीं प्रदिशं प्रधानदिशं अनुप्रेहि अनुक्रमेण विद्वान् स्वाधिकारज्ञः । हे अग्ने! अग्नेस्तवायतनस्याहवनीयस्य पुरः अग्निः पुरस्तात् गन्ता भव इह अस्माकं कर्मणि विश्वा आशाः सर्वा दिशः दीद्यानः दीपयन् विभाहि विविधं भाहि दीप्यस्व । तथा कुर्वंश्च त्वं नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च ऊर्जं धेहि देहीति ॥
- कल्पः — “प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य” इति। तत्र प्रथमामाह— प्राचीमनु प्रदिशमिति। अग्न इदानीमानीत हे वह्ने प्राचीं (प्र) दिशं प्रागाख्यां प्रकृष्टां दिशं विद्वांस्त्वमनुप्रेहि, अनुक्रमेण प्रकर्षो यथा भवति तथा गच्छ। त्वमग्नेरिष्टकानिष्पादितस्य चितिरूपस्य वह्नेरिहास्मिन्कर्मणि पुरो अग्निर्भव पूर्वभागवर्ती वह्निर्भव। यद्वा पुरोगन्ता मुख्योऽग्निर्भवेत्यर्थः विश्वा आशाः सर्वा अपि दिशो दीद्यानाः प्रकाशयन्विमाहि त्वमपि विशेषेण प्रकाशस्व। ततो नोऽस्मदीयाय द्विपदे चतुष्पदे चोर्जमन्नं धेहि संप्रादय।
भास्करोक्त-विनियोगः
59 द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
अन्व् अ॒ग्निर् उ॒षसा॒म् अग्र॑म् अख्यत् ।
अन्व् अहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् ।
अनु॒ द्यावा॑-पृथि॒वी आत॑तान ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अन्व् अ॒ग्निर् उ॒षसा॒म् अग्र॑म् अख्यत् ।
अन्व् अहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् ।
अनु॒ द्यावा॑-पृथि॒वी आत॑तान ।
भट्टभास्कर-टीका
अग्निरुषसामग्रमनु अग्रे अख्यत् प्रकाशते अहानि चान्वख्यत् प्रथमः प्रधानः जातवेदाः, तं सूर्यस्य पुरुत्रा सर्वान् रश्मीन् अन्वख्यत् । एवं अनुक्रमेण द्यावापृथिवी द्यावापृथिव्यौ आतनान व्याप्तवान् तेजसेति ॥
भास्करोक्त-विनियोगः
60 तृतीया -
विश्वास-प्रस्तुतिः ...{Loading}...
विक्र॑मस्व म॒हाँ अ॑सि ।
वेदि॒षन् मानु॑षेभ्यः ।
त्रि॒षु लो॒केषु॑ जागृहि ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
विक्र॑मस्व म॒हाँ अ॑सि ।
वेदि॒षन् मानु॑षेभ्यः ।
त्रि॒षु लो॒केषु॑ जागृहि ।
भट्टभास्कर-टीका
हे अग्ने! विक्रमस्व त्रिषु लोकेषु अप्रतिहतगतिर्वर्तस्व ‘वृत्तिसर्गतायनेषु क्रमः’इत्यात्मनेपदम् । महान् खलु असि त्वत्समोऽन्यो महान्नास्तीत्यर्थः । ‘आतोटि नित्यम्’इति रुत्वम् । वेदिषत् वेद्यां सीदतीति ‘सत्सूद्विष’इति क्विप् । मानुषेभ्यो यजमानेभ्यः यजमानार्थं जागृहि त्रिषु अपि लोकेषु अवहितो भव ॥
भास्करोक्त-विनियोगः
61 अभिमन्त्र्याहवनीयमादधाति - यदिदमिति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॒दन् दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
सव्ँ॒वि॒दा॒ने रोद॑सी सम्बभू॒वतुः॑ ॥23॥
तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः ।
श॒म्भूᳶ प्र॒जाभ्य॑स् त॒नुवे॑ स्यो॒नः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यदि॒दन् दि॒वो यद॒दᳶ पृ॑थि॒व्याः ।
सव्ँ॒वि॒दा॒ने रोद॑सी सम्बभू॒वतुः॑ ॥23॥
तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः ।
श॒म्भूᳶ प्र॒जाभ्य॑स् त॒नुवे॑ स्यो॒नः ।
भट्टभास्कर-टीका
यदिदं उषाख्यं दिवो यज्ञियं पृथिव्यां वर्तते यस्माद्धेतोः यस्माच्च अदः कृष्णाख्यं पृथिव्या यज्ञियं दिवि चन्द्रमसि च स्थितमभूत् संविदाने पूर्वविश्लेषकाले समयं कुर्वाणे रोदसी द्यावापृथिव्यौ संबभूवतुः । तयोः रोदस्योः पृष्ठे पृष्ठभूते मध्यप्रदेशे आहवनीयाख्ये जातवोदाः सीदतु अधितिष्ठतु । कथंभूतः प्रजाभ्यः षष्ठ्यर्थे चतुर्थी । प्रजानां तनुवे शरीरार्थम् स्योनः सुखकरः । शं भावयतीति क्विप् ‘बहुलमन्यत्रापि’इति णिलुक् ॥
मूलम्
प्रा॒णन् त्वा॒ऽमृत॒ आ द॑धामि ।
अ॒न्ना॒दम॒न्नाद्या॑य ।
गो॒प्तार॒ङ्गुप्त्यै॑ ।
भास्करोक्त-विनियोगः
62 आहवनीयमादधाति - प्राणं त्वेति ॥
विश्वास-प्रस्तुतिः
प्रा॒णन् त्वा॒ऽमृत॒ आ द॑धाम्य् अन्ना॒दम् अ॒न्नाद्या॑य गो॒प्तार॒ङ् गुप्त्यै॑ ।
मूलम्
प्रा॒णन् त्वा॒ऽमृत॒ आ द॑धाम्य् अन्ना॒दम् अ॒न्नाद्या॑य गो॒प्तार॒ङ् गुप्त्यै॑ ।
भट्टभास्कर-टीका
व्याख्यातप्रायम् । प्राणात्मानं त्वां अमृते अमृतनिमित्तं आदधामि । गतमन्यत् ।
विश्वास-प्रस्तुतिः
यत् ते॑ शुक्र शु॒क्रव्ँ वर्च॑श् शु॒क्रा त॒नूः ।
शु॒क्रञ् ज्योति॒रज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वा ऽऽद॑धे ।
अ॒ग्निना॑ ऽग्ने॒ ब्रह्म॑णा ।
आ॒न॒शे व्य् आ॑नशे॒ सर्व॒म् आयु॒र् व्या॑नशे ॥ 24॥
मूलम्
यत् ते॑ शुक्र शु॒क्रव्ँ वर्च॑श् शु॒क्रा त॒नूः ।
शु॒क्रञ् ज्योति॒रज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वा ऽऽद॑धे ।
अ॒ग्निना॑ ऽग्ने॒ ब्रह्म॑णा ।
आ॒न॒शे व्य् आ॑नशे॒ सर्व॒म् आयु॒र् व्या॑नशे ॥ 24॥
भट्टभास्कर-टीका
“यत्ते शुक्र” इत्यादिराहवनीयाधानमन्त्रशेषो घर्मशिरस्सु व्याख्यातः ॥
-
अथ पूर्ववत्प्रत्यक्षेणाह - यत्त इति । अजस्रं सन्ततं [अजस्रमित्यन्तं] वा यजुः । हे शुक्र! निर्मल! वीर्यस्य वा कारणभूत! यत् तव शुक्रं तादृशं वर्चः बलं तादृशी च तनूः शरीरं तादृशं च ज्योतिः तेजः अजस्रं नित्यं तेन मे मां दीदिहि दीपय । तेन इत्थंभूतं त्वां आदधे । अग्निना अङ्गनादिगुणेन ब्रह्मणा परिबृढेन तेनोपलक्षितम् । यद्वा - अनेन ब्रह्मणा घर्मशिरस्संज्ञेन मन्त्रोण त्वामादधे हे अग्ने! ॥
-
5आहवनीयमाधीयमानं यजमानोऽभिमन्त्रयते - आनश इति ॥ द्विपदा गायत्रीत्येके । आनशे व्याप्तवान् विश्वम् । व्यानशे विशेषेण व्याप्तवान् । सर्वं च आयुः जीवितं हविर्वा व्यानशे लब्धवान् । छान्दसो लिट् ‘अश्नोतेश्च’ इति नुट् ॥
भास्करोक्त-विनियोगः
63 अथ विराट्क्रमैर्यजमान उपतिष्ठते । तत्र गार्हपत्यम् - नर्य प्रजां मे इत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
नर्य॑ प्र॒जाम् मे॑ गोपाय ।
अ॒मृ॒त॒त्वाय॑ जी॒वसे॑ ।
जा॒ताञ् ज॑नि॒ष्यमा॑णाञ् च ।
अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
नर्य॑ प्र॒जाम् मे॑ गोपाय ।
अ॒मृ॒त॒त्वाय॑ जी॒वसे॑ ।
जा॒ताञ् ज॑नि॒ष्यमा॑णाञ् च ।
अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ।
भट्टभास्कर-टीका
हे अग्ने! नर्य! नरेभ्यो हित! मे मम प्रजां गोपाय, अमृतत्वाय जीवसे जीवनाय च जातां जनिष्यमाणां च सर्वां प्रजां कीदृशीं सतीं अमृते अमृतत्वहतौ सत्ये प्रतिष्ठितां सत्यप्रधानां कृत्वा रक्षेति ॥
भास्करोक्त-विनियोगः
64 अन्वाहर्यपचनमुपतिष्ठते - अथर्वेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अथ॑र्व पि॒तुम् मे॑ गोपाय ।
रस॒म् अन्न॑म् इ॒हायु॑षे ।
अद॑ब्धा॒यो ऽशी॑ततनो ।
अवि॑षन् नᳶ पि॒तुङ् कृ॑णु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अथ॑र्व पि॒तुम् मे॑ गोपाय ।
रस॒म् अन्न॑म् इ॒हायु॑षे ।
अद॑ब्धा॒यो ऽशी॑ततनो ।
अवि॑षन् नᳶ पि॒तुङ् कृ॑णु ।
भट्टभास्कर-टीका
हे अथर्व! अथर्वणा पूर्वं सृष्ट! यथा ‘अथर्वा त्वा प्रथमो निरमन्थत्’ इति । ‘न ङिसंबुद्ध्योः’इति व्यत्ययेन न प्रवर्तते अकारान्तं वा शब्दान्तरं द्रष्टव्यम् । मम पितुं अन्नं गोपाय रक्ष । रसं क्षीरादि अन्नं अदनीयमन्यद्वाऽपि तत्सर्वं गोपाय । इह अस्मिन् शरीरे आयुषे जीवनार्थं एतच्छरीरधारणार्थं हे अदब्धायो! अनुपहिंसितजीवन! अनुपहिंसितान्न! वा । छान्दसोऽन्त्यलोपः । हे अशीततनो उष्णशरीर! । पूर्वस्याविद्यमानत्वादिदं न निहन्यते । अस्माकं पितुं अन्नं अविषं विषरहितं अमृतत्वाय पर्याप्तं कृणु कुरु । यद्वा - अविषं रक्षणपर्याप्तं पितुं कृणु देहि । अवतेष्टिषच् व्यत्ययेनाद्युदात्तत्वम् ॥
भास्करोक्त-विनियोगः
65 आहवनीयमुपतिष्ठते - शंस्य पशून् म इत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
शँस्य॑ प॒शून् मे॑ गोपाय ।
द्वि॒पादो॒ ये चतु॑ष्पदः ॥25॥
अ॒ष्टाश॑फाश् च॒ य इ॒हाग्ने॑ ।
ये चैक॑शफा आशु॒गाः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
शँस्य॑ प॒शून् मे॑ गोपाय ।
द्वि॒पादो॒ ये चतु॑ष्पदः ॥25॥
अ॒ष्टाश॑फाश् च॒ य इ॒हाग्ने॑ ।
ये चैक॑शफा आशु॒गाः ।
भट्टभास्कर-टीका
हे शंस्य! स्तुत्य! मे मम पशून् गोपाय रक्ष । द्विपादो मनुष्यादयः ये च चतुष्पदो गवादयः । छान्दसः पद्भावः ‘पादस्य लोपः’इति लोपः समासान्तः । द्विपाद इत्यत्र ‘द्वित्रिभ्यां पद्दन्’इते उत्तरपदान्तोदात्तत्वम् । चतुष्पदो विशेष्यन्ते - ये अष्टाशफाः अष्टखुरादयो गवादयः ये चैकशफाः अश्वादयः आशुगाः श्रीघ्रगतयः तान् सर्वान् गोपाय हे अग्ने! ॥
भास्करोक्त-विनियोगः
66 सभ्यमुपतिष्ठते - सप्रथेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या॑स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या॑स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।
भट्टभास्कर-टीका
हे सप्रथ! सविस्तार! मे मम समां बन्धुसंघातं गोपाय रक्ष सर्वदा सभां प्रवर्तय । ये च सभ्याः सभार्हाः सभायां साधवः सन्तः मत्सभासदो भवन्ति सभां सीदन्तीति तान् सर्वान् इन्द्रियावतः वीर्यवतः कुरु । ‘मन्त्रे सोमाश्वेन्द्रिय’इति दीर्घत्वम् । किञ्च - ते सभासदः सर्वमायुः पुरुषायुषं उपासतां उपसम्प्राप्नुवन्तु ॥
भास्करोक्त-विनियोगः
67 आवस्थ्यमुपतिष्ठते - अहे बुध्नियेत्यनुष्टुभा अभिक्रान्ताक्षरया पुरस्ताद्बृहत्या वा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अहे॑ बुध्निय॒ मन्त्र॑म् मे गोपाय ।
यम् ऋष॑यस् त्रैवि॒दा वि॒दुः ।
ऋच॒स् सामा॑नि॒ यजूँ॑षि ।
सा हि श्रीर् अ॒मृता॑ स॒ताम् ॥26॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
अहे॑ बुध्निय॒ मन्त्र॑म् मे गोपाय ।
यम् ऋष॑यस् त्रैवि॒दा वि॒दुः ।
ऋच॒स् सामा॑नि॒ यजूँ॑षि ।
सा हि श्रीर् अ॒मृता॑ स॒ताम् ॥26॥
भट्टभास्कर-टीका
हे अहे! अभिगन्तव्य! बुध्निय! बुध्नमन्तरिक्षं बुद्धिर्वागेव वा तत्राविर्भूत! । ‘नामन्त्रिते समानाधिकरणे’इति पूर्वस्याविद्यमानवत्त्वनिषेधाद्द्वितीयं निहन्यते । मे मम मन्त्रं वेदात्मकं गोपाय कार्यसमर्थं कुरु । जातावेकवचनम् । यमृषयो द्रष्टारो मन्त्रदृश्वानः त्रैविदाः विदुः जानन्ति । त्रीन्वेदान्विदन्ति जानन्तीति त्रिविदः त एव त्रैविदाः । यद्वा - तिस्रो विद्यास्त्रिवित् तदधीयते त्रैविदाः । केपुनस्ते मन्त्रा इत्याह - ऋचस्सामानि यजूषि ष । सा खलु सतां कर्मिणां श्रीः श्रयणीया अमृता अमृतत्वहेतुः । ‘शतुरनुमः’इत्याम उदात्तत्वम् ॥
भास्करोक्त-विनियोगः
68 वेदिं संसृज्यमानामनुमन्त्रयते - चतुश्शिखण्डेति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
चतु॑श् शिखण्डा युव॒तिस् सु॒पेशाः॑ ।
घृ॒त-प्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न् धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
चतु॑श् शिखण्डा युव॒तिस् सु॒पेशाः॑ ।
घृ॒त-प्र॑तीका॒ भुव॑नस्य॒ मध्ये॑ ।
म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑न् धुक्ष्व॒ यज॑मानाय॒ कामा॑न् ।
भट्टभास्कर-टीका
चत्वारश्शिखण्डाः शिखण्डस्थानीथाः उन्नतत्वसामान्यात् । द्वावंसौ द्वे श्रोण्यौ यस्याः सा चतुश्शिखण्डा युवतिः मिश्रयित्री हविषां हविर्भिर्वा मिश्रिता । सुपेशाः शोभनरूपा । ‘सोर्मनसी अलोमोषसी’इत्युत्तरपदाद्युदात्तत्वम् । घृतप्रतीका घृतोपक्रमा वेद्यां हि प्रथमं घृतान्यासाद्यन्ते । भुवनस्य भूतजातस्य मध्ये मर्मृज्यमाना भृशं शोघयन्ती भुवनानि भृशमलंक्रियमाणा वा । मृजूष् शौचालङ्कारयोः । ईदृशी त्वं मह्यं यजमानाय कामान् अभिमतानि धुक्ष्व कामान् संपादय । तव सौभगाय सुभगत्वाय तव सुभगत्वं यथा स्यात् । अन्यथा यजमानस्य कामालाभे तव दौर्भाग्यं लोकस्सम्भावयेत् ॥
भास्करोक्त-विनियोगः
69 अथ यद्यनुपस्थाय प्रवसेत् प्रमादादिना तदा पत्नय उपतिष्ठेरन् सर्वान् - इहैवेति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒म् आयु॒र् मा प्रहा॑सीत् ।
ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒म् आयु॒र् मा प्रहा॑सीत् ।
ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे ।
भट्टभास्कर-टीका
इहैव देशे सन् वसन् तत्र गृहे सतो वो युष्मान् हे अग्नयः! प्राणेन सर्वेणापि जीवितेन च वाचा मनसा च बिभर्मि धारयामि । ततस्तथावर्तमानं सन्तं अपि मां तिरोभूय परोक्षे देशे सन्तमपि आयुर्मा प्रहासीत् मा त्याक्षीत् । अहमपि वैश्वानरेण विश्वेषां नराणां हितेन ज्योतिषा तेजसा इत्थंभूतान्युष्मान् उपतिष्ठे ॥
भास्करोक्त-विनियोगः
70 विराट्क्रमानन्तरं यजमानः यज्ञविराट्क्रमेणानेन सर्वानुपतिष्ठते पञ्चधेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प॒ञ्च॒धा ऽग्नीन् व्य॑क्रामत् ।
वि॒राट्त् सृ॒ष्टा प्र॒जाप॑तेः ।
ऊ॒र्ध्वा ऽऽरो॑हद् रोहि॒णी ।
योनि॑र् अ॒ग्नेᳶ प्रति॑ष्ठितिः ॥27॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
प॒ञ्च॒धा ऽग्नीन् व्य॑क्रामत् ।
वि॒राट्त् सृ॒ष्टा प्र॒जाप॑तेः ।
ऊ॒र्ध्वा ऽऽरो॑हद् रोहि॒णी ।
योनि॑र् अ॒ग्नेᳶ प्रति॑ष्ठितिः ॥27॥
भट्टभास्कर-टीका
पञ्चधा पञ्चप्रकारात् अग्नीन् यथोक्तस्वरूपान् व्यक्रामत् पृथक्पृथक् निजविक्रमेणोदपादयत् । विराट् विविधं राजनशीला प्राजापत्यतपःपरिणामात्मिका अग्नेस्तनूः । ब्राह्मणं च - ‘अग्नीन् वाव सा तान्व्यक्रमत्’ इति । विराड्विशेष्यते - प्रजापतेस्सृष्टा ऊर्ध्वा ऊर्ध्वमुत्पतिता ‘सहसोर्ध्वमसृजत'23 इति ब्राह्मणम् । अथ सा विराट् एतत् कृत्वा ऊर्ध्वा ऊर्ध्वमुखी आरोहत् उपरिगता रोहिणी भूत्वा सा हि अग्नेर्योनिः कारणं तया अग्नीनामुत्पादितत्वात् प्रतिष्ठितिः योनित्वादेव प्रतिष्ठितत्वे हेतुः, यथा ‘स्वयैवैनं योनौ प्रतिष्ठितमाधत्ते’* इति । रोहिण्यामाधानस्य प्रतिष्ठाहेतुत्वमृद्धिहेतुत्वख्यापनार्थम् । प्रतितिष्ठत्यस्यामिति प्रतिष्ठितिः, ‘तादौ च’इति गतेः प्रकृतिस्वरत्वम् ॥
इति द्वितीये प्रथमोऽनुवाकः ॥