विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ ऽमन्यत ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ ऽमन्यत ।
भट्टभास्कर-टीका
1प्रजापतिरित्यादि ॥ प्रजास्सृष्टवान् प्रजापतिः रिरिचानः रिक्तो भवन् वीर्येण हीनमात्मानं अमन्यत । लिटः कानच् ।
विश्वास-प्रस्तुतिः
स तपो॑ ऽतप्यत ।
मूलम्
स तपो॑ ऽतप्यत ।
भट्टभास्कर-टीका
अथ तथा मन्यमानः स प्रजापतिः वीर्यार्थं तपोऽतप्यत ।
विश्वास-प्रस्तुतिः
स आ॒त्मन् वी॒र्य॑म् अपश्यत् ।
मूलम्
स आ॒त्मन् वी॒र्य॑म् अपश्यत् ।
भट्टभास्कर-टीका
अथ तपस्तप्यमानः प्रजापतिरात्मनि वीर्यं पुनरूपचितं सृष्टिसामर्थ्यं अपश्यत् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् । ‘नञ्सम्बुद्ध्योः’ इति नलोपप्रतिषेधः ।
विश्वास-प्रस्तुतिः
तद् अ॑वर्धत ।
तद् अ॑स्मा॒त् सह॑सो॒र्ध्वम् अ॑सृज्यत ।
मूलम्
तद् अ॑वर्धत ।
तद् अ॑स्मा॒त् सह॑सो॒र्ध्वम् अ॑सृज्यत ।
भट्टभास्कर-टीका
अथ तत् वीर्यं अस्मात् प्रजापतेः सहसा प्रसह्य ऊर्ध्वमसृज्यत निरगच्छत् । ‘सृज विसर्गे’ दैवादिकः अनुदात्तेत् ।
विश्वास-प्रस्तुतिः
सा वि॒राड् अ॑भवत् ।
मूलम्
सा वि॒राड् अ॑भवत् ।
भट्टभास्कर-टीका
सा विराट् या अग्नेस्तनूः अभवत् ।
विश्वास-प्रस्तुतिः
तान् दे॑वासु॒रा व्य॑गृह्णत ।
मूलम्
तान् दे॑वासु॒रा व्य॑गृह्णत ।
भट्टभास्कर-टीका
अथ देवासुरास्तां व्यगृह्णत विविधं गृहीतवन्तः अस्माकमियमस्माकमियमिति ।
मूलम्
सो॑ऽब्रवीत्प्र॒जाप॑तिः ।
मम॒ वा ए॒षा ॥75॥
दोहा॑ ए॒व यु॒ष्माक॒मिति॑ ।
विश्वास-प्रस्तुतिः
सो॑ ऽब्रवीत् प्र॒जाप॑ति॒र् - “मम॒ वा ए॒षा, दोहा॑ ए॒व यु॒ष्माक॒मि"ति॑ ।
मूलम्
सो॑ ऽब्रवीत् प्र॒जाप॑ति॒र् - “मम॒ वा ए॒षा, दोहा॑ ए॒व यु॒ष्माक॒मि"ति॑ ।
भट्टभास्कर-टीका
अथ तैर्विगृह्यमाणां तां पश्यन् प्रजापतिरब्रवीत् ममैषा विराट् युष्माकं अस्या ये दोहाः विकारभूता अग्नयः त एव युष्माकं न त्वेषेति ॥
विश्वास-प्रस्तुतिः
सा तत॒ᳶ प्राच्य् उद॑क्रामत् ।
मूलम्
सा तत॒ᳶ प्राच्य् उद॑क्रामत् ।
मूलम्
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्ण॒ात् । अथ॑र्व पि॒तुम्मे॑ गोपा॒येति॑ ।
विश्वास-प्रस्तुतिः
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द् “अथ॑र्व पि॒तुम् मे॑ गोपा॒ये"ति॑ ।
मूलम्
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द् “अथ॑र्व पि॒तुम् मे॑ गोपा॒ये"ति॑ ।
भट्टभास्कर-टीका
2अथ तां दर्शयति - सा तत इत्यादि ॥ सा विराट् प्राची भूत्वा ऊर्ध्वं पदविक्षेपं कृतवती ।’ अथ तां प्रजापति ‘अथर्वपितुं मे गोपाय’ इति पर्यगृह्णात् ।
विश्वास-प्रस्तुतिः
सा द्वि॒तीय॒म् उद॑क्रामत् ।
मूलम्
सा द्वि॒तीय॒म् उद॑क्रामत् ।
मूलम्
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् । नर्य॑ प्र॒जाम्मे॑ गोपा॒येति॑ ।
विश्वास-प्रस्तुतिः
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒न् - “नर्य॑ प्र॒जाम् मे॑ गोपा॒ये"ति॑ ।
मूलम्
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒न् - “नर्य॑ प्र॒जाम् मे॑ गोपा॒ये"ति॑ ।
भट्टभास्कर-टीका
‘नर्य प्रजां मे’ इति द्वितीयम् ।
विश्वास-प्रस्तुतिः
सा तृ॒तीय॒म् उद॑क्रामत् ।
मूलम्
सा तृ॒तीय॒म् उद॑क्रामत् ।
मूलम्
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् । शँस्य॑ प॒शून्मे॑ गोपा॒येति॑ ॥76॥
विश्वास-प्रस्तुतिः
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒च् “छँस्य॑ प॒शून् मे॑ गोपा॒ये"ति॑ । ॥76॥
मूलम्
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒च् “छँस्य॑ प॒शून् मे॑ गोपा॒ये"ति॑ । ॥76॥
भट्टभास्कर-टीका
‘शंस्य पशून्मे गोपाय’ इति तृतीयम् ।
विश्वास-प्रस्तुतिः
सा च॑तु॒र्थम् उद॑क्रामत् ।
मूलम्
सा च॑तु॒र्थम् उद॑क्रामत् ।
मूलम्
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् । सप्र॑थ स॒भाम्मे॑ गोपा॒येति॑ ।
विश्वास-प्रस्तुतिः
तत् प्र॒जाप॑ति॒ᳶ पर्य॑ गृह्णा॒त्त् “सप्र॑थ स॒भाम् मे॑ गोपा॒ये"ति॑ ।
मूलम्
तत् प्र॒जाप॑ति॒ᳶ पर्य॑ गृह्णा॒त्त् “सप्र॑थ स॒भाम् मे॑ गोपा॒ये"ति॑ ।
भट्टभास्कर-टीका
‘सप्रथ सभां मे’ इति चतुर्थम् ।
विश्वास-प्रस्तुतिः
सा प॑ञ्च॒मम् उद॑क्रामत् ।
मूलम्
सा प॑ञ्च॒मम् उद॑क्रामत् ।
मूलम्
तत्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् । अहे॑ बुध्निय॒ मन्त्र॑म्मे गोपा॒येति॑ ।
विश्वास-प्रस्तुतिः
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द् “अहे॑ बुध्निय॒ मन्त्र॑म् मे गोपा॒ये"ति॑ ।
मूलम्
तत् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द् “अहे॑ बुध्निय॒ मन्त्र॑म् मे गोपा॒ये"ति॑ ।
भट्टभास्कर-टीका
‘अहे बुध्निय’ इति पञ्चमम् ।
विश्वास-प्रस्तुतिः
अ॒ग्नीन् वाव सा तान् व्य॑क्रमत ।
मूलम्
अ॒ग्नीन् वाव सा तान् व्य॑क्रमत ।
भट्टभास्कर-टीका
सा खलु विराट् तान् इमान् अग्नीन् व्यक्रमत अन्वाहार्यपचनान्तान् पञ्चाग्नीन् विविधेन पदविहारेण उत्पादितवती । ‘पञ्चाधाऽग्नीन्व्यक्रामत्’ इति मन्त्रपदम् । ‘वेः पादविहरणे’ इत्यात्मने - पदम् । मन्त्रे तु व्यत्ययेन न प्रवर्तते ।
मूलम्
तान्प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णात् । अथो॑ प॒ङ्क्तिमे॒व ।
विश्वास-प्रस्तुतिः
तान् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द्, अथो॑ प॒ङ्क्तिम् ए॒व ।
मूलम्
तान् प्र॒जाप॑ति॒ᳶ पर्य॑गृह्णा॒द्, अथो॑ प॒ङ्क्तिम् ए॒व ।
भट्टभास्कर-टीका
तान् अग्नीन् प्रजापतिः परिगृह्यात्मनि स्थापितवान् । अथो अपिच खलु पङ्क्तिमेव छन्दः पञ्चत्वान्वयात् आत्मनि स्थापितवान् ।
विश्वास-प्रस्तुतिः
प॒ङ्क्तिर् वा ए॒षा ब्रा॑ह्म॒णे प्रवि॑ष्टा ॥77॥
मूलम्
प॒ङ्क्तिर् वा ए॒षा ब्रा॑ह्म॒णे प्रवि॑ष्टा ॥77॥
भट्टभास्कर-टीका
यस्मादेवं तस्मात् एषा खलु प्रजापतिपरिगृहीता पद्भिः अग्निपञ्चकलक्षणा ब्राह्मणे ब्रह्मणः पुत्रेऽपि प्रविष्टा पितृद्वारेण उत्पत्तेः प्रभृति स्थिता ।
विश्वास-प्रस्तुतिः
ताम् आ॒त्मनो ऽधि॒ निर्मि॑मीते ।
मूलम्
ताम् आ॒त्मनो ऽधि॒ निर्मि॑मीते ।
भट्टभास्कर-टीका
तां इदानीमयमाधानेन अधिनिर्मिमीते बहिरुत्पादयति ॥
मूलम्
यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते ।
विश्वास-प्रस्तुतिः
यद् अ॒ग्निर् आ॑धी॒यते॒ तस्मा॑द् ए॒ताव॑न्तो॒ ऽग्नय॒ आधी॑यन्ते ।
मूलम्
यद् अ॒ग्निर् आ॑धी॒यते॒ तस्मा॑द् ए॒ताव॑न्तो॒ ऽग्नय॒ आधी॑यन्ते ।
भट्टभास्कर-टीका
3यदिति ॥ अग्निरिति जातावेकवचनम् । यस्मादेवं प्रजापतिः पञ्चैव पर्यगृह्णात्तस्मात् एतावन्तः एव पञ्चैव अग्नय आधीयन्ते न न्यूनाः नाधिका ।
विश्वास-प्रस्तुतिः
पाङ्क्तव्ँ॒ वा इ॒दँ सर्व॑म् ।
पाङ्क्ते॑न+ ए॒व पाङ्क्तँ॑ स्पृणोति ।
मूलम्
पाङ्क्तव्ँ॒ वा इ॒दँ सर्व॑म् ।
पाङ्क्ते॑न+ ए॒व पाङ्क्तँ॑ स्पृणोति ।
भट्टभास्कर-टीका
इदं विश्वं पाङ्क्तं पञ्चकादागतम् । ‘पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः’ इत्यनुवाकेन आधिभौतिकाध्यात्मिकाधिदैविकपङ्क्तिप्रभवत्वं विश्वस्य द्रष्टव्यम् ।
तस्मात् पाङ्क्तेन अग्निपञ्चकप्रभवेनाधानेन पाङ्क्तं अधिभूतादिपञ्चकप्रभवं विश्वं स्पृणोति प्रीणयति रक्षति । स्पृ प्रीतौ प्राप्तिकर्मा वा - पाङ्क्तं विश्वं प्राप्नोति विधेयीकरोति ॥
विश्वास-प्रस्तुतिः
“अथ॑र्व पि॒तुम् मे॑ गोपा॒ये"त्य् आ॑ह ।
मूलम्
“अथ॑र्व पि॒तुम् मे॑ गोपा॒ये"त्य् आ॑ह ।
भट्टभास्कर-टीका
4इदानीं ‘अथर्व पितुं मे गोपाय” इत्यादिभिर्मन्त्रैरुपस्थानस्यान्नादिसाधनत्वेन स्तुतिः क्रियते । अथ ‘प्रवसथमेष्यन्नेवमुपतिष्ठेत’ इत्यतिदेशं वक्ष्यति । अतोऽवगम्यते एभिरत्रोपस्थानं कर्तव्यमिति ।
विश्वास-प्रस्तुतिः
अन्न॑म् ए॒वैतेन॑ स्पृणोति ।
“नर्य॑ प्र॒जाम् मे॑ गोपा॒ये"त्य् आ॑ह ।
प्र॒जाम् ए॒वैतेन॑ स्पृणोति ।
“शँस्य॑ प॒शून् मे॑ गोपा॒ये"त्य् आ॑ह ॥ 78॥
प॒शून् ए॒वैतेन॑ स्पृणोति ।
मूलम्
अन्न॑म् ए॒वैतेन॑ स्पृणोति ।
“नर्य॑ प्र॒जाम् मे॑ गोपा॒ये"त्य् आ॑ह ।
प्र॒जाम् ए॒वैतेन॑ स्पृणोति ।
“शँस्य॑ प॒शून् मे॑ गोपा॒ये"त्य् आ॑ह ॥ 78॥
प॒शून् ए॒वैतेन॑ स्पृणोति ।
भट्टभास्कर-टीका
अन्नमेवेति । पितुशब्दस्यार्थमाचष्टे ।
मूलम्
सप्र॑थ स॒भाम्मे॑ गोपा॒येत्या॑ह । स॒भामे॒वैतेने॑न्द्रि॒यँ स्पृ॑णोति ।
विश्वास-प्रस्तुतिः
“सप्र॑थ स॒भाम् मे॑ गोपा॒ये"त्य् आ॑ह, स॒भाम् ए॒वैतेने॑न्द्रि॒यँ स्पृ॑णोति ।
मूलम्
“सप्र॑थ स॒भाम् मे॑ गोपा॒ये"त्य् आ॑ह, स॒भाम् ए॒वैतेने॑न्द्रि॒यँ स्पृ॑णोति ।
भट्टभास्कर-टीका
इन्द्रियमिति । वीर्यवत्तया हि सभामधितिष्ठति ।
विश्वास-प्रस्तुतिः
मन्त्र॑म् ए॒वैतेन॒ श्रियँ॑ स्पृणोति ।
मूलम्
मन्त्र॑म् ए॒वैतेन॒ श्रियँ॑ स्पृणोति ।
भट्टभास्कर-टीका
श्रियमिति । श्रिया हि मन्त्री भवति ॥
मूलम्
यदा॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्य॑म्पच॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
विश्वास-प्रस्तुतिः
यद् अ॑न्वाहार्य॒-पच॑ने ऽन्वाहा॒र्य॑म् पच॑न्ति॒ , तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यद् अ॑न्वाहार्य॒-पच॑ने ऽन्वाहा॒र्य॑म् पच॑न्ति॒ , तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
भट्टभास्कर-टीका
5इदानीमेवमाहितानां अग्नीनां सर्वात्मनोपकारकत्वं प्रतिपादयति - यदित्यादि ॥ अन्वाहार्यः ओदनः पच्यते अस्मिन्निति अन्वाहार्यपचनो दक्षिणाग्निः । तत्र यदन्वाहार्यं पचन्ति तेन अन्वाहार्यपाकेन सः अग्निः अस्य यजमानस्य एवंनाम अभीष्टः सुहृद्भूतः यदाराध्यः पाकाधिकारः क्रियते । किञ्च - प्रीत एव भवति यजमानविनयैः । प्रदर्शनं चैतत्, फलीकरणहोमादीनां कर्मणाम् । एवं गार्हपत्य आज्याधिश्रयणं हविश्श्रपणादीनां प्रदशर्नम् ।
मूलम्
यद्गार्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ सम्पत्नी॑र्या॒जय॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
विश्वास-प्रस्तुतिः
यद् गार्ह॑पत्य॒ आज्य॑म् अधि॒-श्रय॑न्ति॒ सम्पत्नी॑र् या॒जय॑न्ति॒ , तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यद् गार्ह॑पत्य॒ आज्य॑म् अधि॒-श्रय॑न्ति॒ सम्पत्नी॑र् या॒जय॑न्ति॒ , तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यदा॑हव॒नीये॒ जुह्व॑ति ॥ 79॥
तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
विश्वास-प्रस्तुतिः
यद् आ॑हव॒नीये॒ जुह्व॑ति॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यद् आ॑हव॒नीये॒ जुह्व॑ति॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
भट्टभास्कर-टीका
यदाहवनीये जुह्वति । इन्द्रादिभ्योपि । अत्रापि होमग्रहणं प्रदर्शनमिध्मसन्नहनादीनां प्रक्षेपस्य ।
मूलम्
यत्स॒भायाव्ँ॑वि॒जय॑न्ते । तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
विश्वास-प्रस्तुतिः
यत् स॒भायाव्ँ॑ वि॒जय॑न्ते॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यत् स॒भायाव्ँ॑ वि॒जय॑न्ते॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
भट्टभास्कर-टीका
विजयन्ते क्रीडन्ति अक्षैर्दीव्यन्ति ।
मूलम्
यदा॑वस॒थेऽन्नँ॒ हर॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
विश्वास-प्रस्तुतिः
यद् आ॑वस॒थे ऽन्नँ॒ हर॑न्ति॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
मूलम्
यद् आ॑वस॒थे ऽन्नँ॒ हर॑न्ति॒ तेन॒ सो॑ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
भट्टभास्कर-टीका
आवसथेऽन्नं हरन्ति भुञ्जते ।
विश्वास-प्रस्तुतिः
तथा॑ ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते ।
मूलम्
तथा॑ ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते ।
भट्टभास्कर-टीका
तथेत्यादि । यथोक्तंअन्वाहार्यादिकमेषु क्रियत इति तथा यजमानस्य सर्वेऽप्यग्नय इष्टाः प्रीता आधीयन्ते आधानेन तादृशाः क्रियन्ते ॥
विश्वास-प्रस्तुतिः
प्र॒व॒स॒थम् ए॒ष्यन्न् ए॒वम् उप॑तिष्ठे॒तैक॑म् एकम् ।
मूलम्
प्र॒व॒स॒थम् ए॒ष्यन्न् ए॒वम् उप॑तिष्ठे॒तैक॑म् एकम् ।
मूलम्
यथा॑ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत् ।
विश्वास-प्रस्तुतिः
यथा॑ ब्राह्म॒णाय॑ गृहे-वा॒सिने॑ परि॒दाय॑ गृ॒हान् एति॑ त॒ादृग् ए॒व तत् ।
मूलम्
यथा॑ ब्राह्म॒णाय॑ गृहे-वा॒सिने॑ परि॒दाय॑ गृ॒हान् एति॑ त॒ादृग् ए॒व तत् ।
भट्टभास्कर-टीका
6अथ प्रवसथं प्रवासं उपैष्यन् एवं ‘अथर्वपितुं मे’ इत्यादिभिः एकैकं अग्निं उपतिष्ठेत । ‘क्रियासमभिहारे सर्वनाम्नो द्वे भवतः’ इति द्वित्वम् । ‘समासवच्च बहुलम्’ यदा न समासवत्तदा पूर्वपदस्य अम्भावः । यथा गृहेवासिने ब्राह्मणाय विलक्षणाय गृहान् परिदाय एति गच्छति एतान् रक्षेति निक्षिप्य प्रतिष्ठते । तादृगेव तत् उपस्थानम् । गृहे वसतीति गृहेवासी । ‘सुप्यजातौ’ इति णिनिः, ‘शयवासवासिष्वकालात्’ इति सप्तम्या अलुक् ॥
मूलम्
पुन॑रा॒गत्योप॑तिष्ठते । सा भा॑गेयमे॒वैषा॒न्तत् ।
विश्वास-प्रस्तुतिः
पुन॑र् आ॒गत्योप॑तिष्ठते॒ सा भा॑गेयम् ए॒वैषा॒न् तत् ।
मूलम्
पुन॑र् आ॒गत्योप॑तिष्ठते॒ सा भा॑गेयम् ए॒वैषा॒न् तत् ।
भट्टभास्कर-टीका
7अथ प्रवासादागत्य पुनरनेनैव उपतिष्ठेत । तदेषामग्नीनां साभागेयं ऐश्वयातिशयवत्तया आविष्करणम् । भगः श्रीः, ऐश्वर्यादिषट्कं वा । तत्सहितः सभगः तस्य भावः साभागेयं भावे छान्दसो ढक् ‘हृद्भगसिन्ध्वन्ते’ इति पूर्वोत्तरपदयोर्वृद्धिः । यद्वा - सभागः पूज्यभागार्हः, तस्य भावः साभागेयम् । तस्याविष्करणं तदुपस्थानमिति । समानभागत्वं समानयोगक्षेमत्वं साभागेयमिति केचित् ॥
विश्वास-प्रस्तुतिः
सा तत॑ ऊ॒र्ध्वारो॑हत् ।
मूलम्
सा तत॑ ऊ॒र्ध्वारो॑हत् ।
भट्टभास्कर-टीका
8अथ सा विराट् तत ऊर्ध्वारोहत् ।
मूलम्
सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
विश्वास-प्रस्तुतिः
सा रो॑हि॒ण्य् अ॑भव॒त् , तद् रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
मूलम्
सा रो॑हि॒ण्य् अ॑भव॒त् , तद् रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।
भट्टभास्कर-टीका
ततः प्रभृति सा रोहिणी अविपन्ना ।
विश्वास-प्रस्तुतिः
रो॒हि॒ण्याम् अ॒ग्निम् आद॑धीत ।
स्व ए॒वैनय्ँ॒ योनौ॒ प्रति॑ष्ठित॒म् आध॑त्ते ।
ऋ॒ध्नोत्य् ए॑नेन ॥80॥
मूलम्
रो॒हि॒ण्याम् अ॒ग्निम् आद॑धीत ।
स्व ए॒वैनय्ँ॒ योनौ॒ प्रति॑ष्ठित॒म् आध॑त्ते ।
ऋ॒ध्नोत्य् ए॑नेन ॥80॥
भट्टभास्कर-टीका
तस्माद्रोहणाद्रोहिणी विराडग्नेर्योनिः तत्राधानं प्रतिष्ठित्यै भवति । ततः एनेन रोहिण्यां क्रियमाणेनाधानेन अयं ऋध्नोति समृद्धो रोहवान् भवति । एनादेशः सर्वानुदात्तः ॥
इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमेऽष्टके प्रथमप्रपाठके दशमोऽनुवाकः ॥ प्रथमप्रपाठकस्समाप्तः ॥