०९ ब्रह्मौदनम्

विश्वास-प्रस्तुतिः

श॒मी॒-ग॒र्भाद् अ॒ग्निम् म॑न्थति ।

मूलम्

श॒मी॒-ग॒र्भाद् अ॒ग्निम् म॑न्थति ।

भट्टभास्कर-टीका

1शमिगर्भादग्निमित्यादि ॥ ‘अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत्’ इति अश्वत्थान्मन्थने कर्तव्ये तत्र विशेषमाह - शमीगर्भादश्वत्थादिति । शम्यावेष्टितत्वात् शम्या गर्भस्थादश्वत्थविकारेणारणिना अग्निं मन्थति ‘यो अश्वत्थश्शमीगर्भः । आरुरोह’ इति च लिङ्गात् ।

मूलम्

ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः । तामे॒वास्मै॑ जनयति ।

विश्वास-प्रस्तुतिः

ए॒षा वा अ॒ग्नेर् य॒ज्ञिया॑ त॒नूस् ताम् ए॒वास्मै॑ जनयति ।

मूलम्

ए॒षा वा अ॒ग्नेर् य॒ज्ञिया॑ त॒नूस् ताम् ए॒वास्मै॑ जनयति ।

भट्टभास्कर-टीका

एषा खलु शमीगर्भा अश्वत्थात्मिका अग्नेर्यज्ञिया यज्ञार्हा तनूः या अश्वरूपेणाश्वत्थं प्रविष्टा । तामेवास्मै अग्नये जनयति शमीगर्भमन्थनेन ॥

ब्रह्मौदनस्तुतिः

मूलम्

अदि॑तिᳶ पु॒त्त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम॑पचत् ।

विश्वास-प्रस्तुतिः

अदि॑तिᳶ पु॒त्त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम् अ॑पचत् ।

मूलम्

अदि॑तिᳶ पु॒त्त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम् अ॑पचत् ।

भट्टभास्कर-टीका

2अदितिः पुत्रकामेत्यादि ॥ ब्रह्मौदनस्तुतिः । साध्या नाम देवविशेषाः । साधयन्तीति ण्यन्तात्कर्तर्यचो यत्, ‘यतो नावः’ इत्याद्युदात्तत्वे उदात्तनिवृत्तिस्वरेण यत एवोदात्तत्वम् । ब्रह्मणे निर्वपणात् ब्रह्मौदनः ।

विश्वास-प्रस्तुतिः

तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्यै॑ धा॒ता चा॑र्य॒मा चा॑जायेताम् ।

सा द्वि॒तीय॑म् अपचत् ॥65॥
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्यै॑ मि॒त्रश् च॒ वरु॑णश् चाजायेताम् ।

सा तृ॒तीय॑म् अपचत् ।
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्या॒ अँश॑श् च॒ भग॑श् चाजायेताम् ।

सा च॑तु॒र्थम् अ॑पचत् ॥66॥
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्या॒ इन्द्र॑श् च॒ विव॑स्वाँश् चाजायेताम् ।

मूलम्

तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्यै॑ धा॒ता चा॑र्य॒मा चा॑जायेताम् ।

सा द्वि॒तीय॑म् अपचत् ॥65॥
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्यै॑ मि॒त्रश् च॒ वरु॑णश् चाजायेताम् ।

सा तृ॒तीय॑म् अपचत् ।
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्या॒ अँश॑श् च॒ भग॑श् चाजायेताम् ।

सा च॑तु॒र्थम् अ॑पचत् ॥66॥
तस्या॑ उ॒च्छेष॑णम् अददुः ।
तत् प्राश्ञा॑त् ।
सा रेतो॑ ऽधत्त ।
तस्या॒ इन्द्र॑श् च॒ विव॑स्वाँश् चाजायेताम् ।

भट्टभास्कर-टीका

तस्या इत्यादि । गतम् । द्वितीयमित्यादि क्रियाविशेषणम् ॥

विश्वास-प्रस्तुतिः

ब्र॒ह्मौ॒द॒नम् प॑चति ।

मूलम्

ब्र॒ह्मौ॒द॒नम् प॑चति ।

भट्टभास्कर-टीका

3ब्रह्मौदनं पचतीति विधिः ॥ एवं नाम प्रशस्तोऽयं यस्योच्छेषणप्राशनेनाप्यदितिः ईदृशान् पुत्रान् जनयामासेति ।

विश्वास-प्रस्तुतिः

रेत॑ ए॒व तद् द॑धाति ।

मूलम्

रेत॑ ए॒व तद् द॑धाति ।

भट्टभास्कर-टीका

रेत एवेति । जनिष्यमाणस्याग्नेर्बीजस्थानीयोऽयमिति ।

विश्वास-प्रस्तुतिः

प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् ।

मूलम्

प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् ।

भट्टभास्कर-टीका

प्राश्नन्तीति विधिः ।

मूलम्

यदाज्य॑मु॒च्छिष्य॑ते । तेन॑ स॒मिधो॒ऽभ्यज्याद॑धाति ।

विश्वास-प्रस्तुतिः

यद् आज्य॑म् उ॒च्छिष्य॑ते॒ तेन॑ स॒मिधो॒ ऽभ्यज्याद॑धाति ।

मूलम्

यद् आज्य॑म् उ॒च्छिष्य॑ते॒ तेन॑ स॒मिधो॒ ऽभ्यज्याद॑धाति ।

भट्टभास्कर-टीका

तस्य प्रभूतेन सर्पिषोपसिक्तस्य यदाज्यमुच्छिष्यते अवशिष्यते अतिरिच्यते तेनाभ्यज्य समिधस्तिस्र आदधाति ।

विश्वास-प्रस्तुतिः

उ॒च्-छेष॑णा॒द् वा अदि॑ती॒ रेतो॑ ऽधत्त ॥67॥
उ॒च्-छेष॑णाद् ए॒व तद् रेतो॑ धत्ते ।

मूलम्

उ॒च्-छेष॑णा॒द् वा अदि॑ती॒ रेतो॑ ऽधत्त ॥67॥
उ॒च्-छेष॑णाद् ए॒व तद् रेतो॑ धत्ते ।

भट्टभास्कर-टीका

उच्छेषणाद्वा इत्यादि उच्छेषणाभ्यञ्जनस्तुतिः ।

मूलम्

अस्थि॒ वा ए॒तत् । यत्स॒मिधः॑ ।

विश्वास-प्रस्तुतिः

अस्थि॒ वा ए॒तद् यत् स॒मिधः॑ ।

मूलम्

अस्थि॒ वा ए॒तद् यत् स॒मिधः॑ ।

मूलम्

ए॒तद्रेतः॑ । यदाज्य॑म् ।

विश्वास-प्रस्तुतिः

ए॒तद् रेतो॑ यद् आज्य॑म् ।

मूलम्

ए॒तद् रेतो॑ यद् आज्य॑म् ।

मूलम्

यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति । अस्थ्ये॒व तद्रेत॑सि दधाति ।

विश्वास-प्रस्तुतिः

यद् आज्ये॑न स॒मिधो॒ ऽभ्यज्या॒दधा॑त्य् , अस्थ्य् ए॒व तद् रेत॑सि दधाति ।

मूलम्

यद् आज्ये॑न स॒मिधो॒ ऽभ्यज्या॒दधा॑त्य् , अस्थ्य् ए॒व तद् रेत॑सि दधाति ।

भट्टभास्कर-टीका

अस्थि वा इत्याद्यभ्यञ्जनस्तुतिः । रेतोविकारे शरीरे अस्थि स्थापयति ॥

विश्वास-प्रस्तुतिः

ति॒स्र आद॑धाति मिथुन॒त्वाय॑ ।

मूलम्

ति॒स्र आद॑धाति मिथुन॒त्वाय॑ ।

भट्टभास्कर-टीका

4तिस्र इति ॥ सङ्ख्यास्तुतिः । मिथुनाधीनत्वात् बीजपरिणामस्य ।

मूलम्

इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः ॥68॥

विश्वास-प्रस्तुतिः

इय॑तीर् भवन्ति प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑ताः ॥68॥

मूलम्

इय॑तीर् भवन्ति प्र॒जाप॑तिना यज्ञ-मु॒खेन॒ सम्मि॑ताः ॥68॥

भट्टभास्कर-टीका

इयतीरिति परिमाणस्तुतिः । इयत्यः प्रादेशमात्र्यः । प्रादेशमुद्रया वेदार्थं दर्शयति इदं परिमाणमासां ‘किमिदंभ्यां बोधः’ इति वतुपो घत्वं च ‘इदंकिमोरीश्की’ इति ईशादेशः, ‘यस्य’ इति लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययादेरुदात्तत्वम्, ‘उगितश्च’ इति ङीप्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।
प्रजापतिनेति । यज्ञात्मनः प्रजापतेर्मुखं यज्ञमुखं तेन सम्मिता भवन्ति यज्ञमुखानां प्रादेशप्रमाणत्वात् प्रजानां पालकत्वात् यज्ञमुखस्यैव प्रजापतित्वेन स्तुतिः, ‘सर्वं वा मुखमतः’ इति मुखस्यैव प्राधान्यात् ॥

मूलम्

इय॑तीर्भवन्ति । य॒ज्ञ॒प॒रुषा॒ सम्मि॑ताः ।

विश्वास-प्रस्तुतिः

इय॑तीर् भवन्ति यज्ञप॒रुषा॒ सम्मि॑ताः ।

मूलम्

इय॑तीर् भवन्ति यज्ञप॒रुषा॒ सम्मि॑ताः ।

भट्टभास्कर-टीका

5एवं प्रशस्तमिदं प्रमाणमिति गुणान्तरप्रदर्शनार्थं पुनर्विधानम् - इयतीरिति ॥ यज्ञात्मनः पुरुषस्य परुः पर्व हस्तादिसन्धिः तेन सम्मिता इति प्राशस्त्यम् ।

मूलम्

इय॑तीर्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् । वी॒र्य॑सम्मिताः ।

विश्वास-प्रस्तुतिः

इय॑तीर् भवन्त्य् ए॒ताव॒द् वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑-सम्मिताः ।

मूलम्

इय॑तीर् भवन्त्य् ए॒ताव॒द् वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑-सम्मिताः ।

भट्टभास्कर-टीका

अथ तृतीयं विदधाति गुणान्तरार्थं - इयतीरिति । एतावत् प्रादेशमात्रं पुरुषे वीर्यं वीर्य आत्मातिदेशः मुखं हृदयं वा तेनैव सम्मिता भवन्ति ॥

मूलम्

आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑स्सि॒च्यते॑ ।

विश्वास-प्रस्तुतिः

आ॒र्द्रा भ॑वन्त्य् आ॒र्द्रम् इ॑व॒ हि रेत॑स् सि॒च्यते॑ ।

मूलम्

आ॒र्द्रा भ॑वन्त्य् आ॒र्द्रम् इ॑व॒ हि रेत॑स् सि॒च्यते॑ ।

भट्टभास्कर-टीका

5आर्द्रा इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

चित्रि॑यस्याश्व॒त्थस्याद॑धाति ।

मूलम्

चित्रि॑यस्याश्व॒त्थस्याद॑धाति ।

भट्टभास्कर-टीका

चित्रियस्येति । ग्रामनगरादिचिह्नभूतोऽश्वत्थश्चित्र्यः चित्रश्चायनीयः ख्यातः स एव चित्र्यः । स्वार्थिको यत् । तस्य सम्बन्धिनीरादधाति ।

विश्वास-प्रस्तुतिः

चि॒त्रम् ए॒व भ॑वति ।

मूलम्

चि॒त्रम् ए॒व भ॑वति ।

भट्टभास्कर-टीका

चित्रमिति । आधातुस्सम्बन्धि सर्वं गृहादिकं चित्रं चायनीयं प्रख्यातं भवति ।

विश्वास-प्रस्तुतिः

घृ॒तव॑तीभिर् आद॑धाति ॥ 69॥

मूलम्

घृ॒तव॑तीभिर् आद॑धाति ॥ 69॥

भट्टभास्कर-टीका

घृतवतीभिरिति । घृतशब्दवतीभिः ऋग्भिः ‘समिधाऽग्निं दुवस्यत’ इत्यादिभिः तिसृभिर्वा ब्राह्मणादीनां त्रयाणामप्यादधाति ।

मूलम्

ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ । यद्घृ॒तम् ।

विश्वास-प्रस्तुतिः

ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॑ यद् घृ॒तम् ।

मूलम्

ए॒तद् वा अ॒ग्नेᳶ प्रि॒यन् धाम॑ यद् घृ॒तम् ।

मूलम्

प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति । अथो॒ तेज॑सा ।

विश्वास-प्रस्तुतिः

प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्य् अथो॒ तेज॑सा +++(समर्धयति)+++।

मूलम्

प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्य् अथो॒ तेज॑सा +++(समर्धयति)+++।

भट्टभास्कर-टीका

धाम स्थानम् । प्रियेण धाम्ना समृद्धं करोति ।
अथो अपिच तेजसा समर्धयतीत्यर्थः ॥

विश्वास-प्रस्तुतिः

गा॒य॒त्रीभि॑र् ब्राह्म॒णस्याद॑ध्यात् ।
गा॒य॒त्र-छ॑न्दा॒ वै ब्रा॑ह्म॒णः ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।

मूलम्

गा॒य॒त्रीभि॑र् ब्राह्म॒णस्याद॑ध्यात् ।
गा॒य॒त्र-छ॑न्दा॒ वै ब्रा॑ह्म॒णः ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।

भट्टभास्कर-टीका

7गायत्रीभिरिति ॥ पूर्वोक्ताभिः । गायत्रछन्दाः ब्राह्मणः उभयोरपि प्रजापतेर्मुखजातत्वेन सहजातत्वात् । स्वस्य आत्मनः छन्दसः प्रत्ययनस्त्वाय । एते: कर्मणि ल्युटि सकारोपजनः ।

विश्वास-प्रस्तुतिः

त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य +++(आदध्यात् )+++ ।
त्रि॒ष्टुप्-छ॑न्दा॒ वै रा॑ज॒न्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ॥70॥

मूलम्

त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य +++(आदध्यात् )+++ ।
त्रि॒ष्टुप्-छ॑न्दा॒ वै रा॑ज॒न्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ॥70॥

भट्टभास्कर-टीका

त्रिष्टुग्भिरिति । ‘समिध्यमानः प्रथमः'30 इत्यादिभिः । त्रिष्टुब्राजन्ययोः उरसो जातत्वात् .सहजातत्वम् ।

विश्वास-प्रस्तुतिः

जग॑तीभि॒र् वैश्य॑स्य +++(आदध्यात्)+++।
जग॑ती-छन्दा॒ वै वैश्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।

मूलम्

जग॑तीभि॒र् वैश्य॑स्य +++(आदध्यात्)+++।
जग॑ती-छन्दा॒ वै वैश्यः॑ ।
स्वस्य॒ छन्द॑सᳶ प्रत्ययन॒स्त्वाय॑ ।

भट्टभास्कर-टीका

जगतीभिः ‘त्वामग्ने समिधानम्’ इत्यादिभिः । जगतीवैश्ययोर्मध्यजातत्वेन सहजातत्वम् ।

विश्वास-प्रस्तुतिः

तँ सव्ँ॑वत्स॒रङ् गो॑पायेत् ।
सव्ँ॒व॒त्स॒रँ हि रेतो॑ हि॒तव्ँ वर्ध॑ते ।

मूलम्

तँ सव्ँ॑वत्स॒रङ् गो॑पायेत् ।
सव्ँ॒व॒त्स॒रँ हि रेतो॑ हि॒तव्ँ वर्ध॑ते ।

भट्टभास्कर-टीका

तमिति । ब्रह्मौदनाग्निं संवत्सरं रक्षेत् । ‘गुपू धूप’ इत्यायप्रत्ययः । निर्मन्थ्यस्याग्नेः बीजभूतं यस्मात् हितं निहितं संवत्सरं वर्धते ॥

मूलम्

यद्ये॑नँ सव्ँवत्स॒रे नोप॒नमे॑त् । स॒मिध॒ᳶ पुन॒राद॑ध्यात् ।

विश्वास-प्रस्तुतिः

यद् ये॑नँ सव्ँवत्स॒रे नोप॒नमे॑त्त् स॒मिध॒ᳶ पुन॒र् आद॑ध्यात् ।
रेत॑ ए॒व तद्-धि॒तव्ँ वर्ध॑मानम् एति ।

मूलम्

यद् ये॑नँ सव्ँवत्स॒रे नोप॒नमे॑त्त् स॒मिध॒ᳶ पुन॒र् आद॑ध्यात् ।
रेत॑ ए॒व तद्-धि॒तव्ँ वर्ध॑मानम् एति ।

भट्टभास्कर-टीका

8यद्येनमित्यादि ॥ अथ संवत्सरादर्वागग्न्याधेयं नोपनमेत् द्रव्यादिवैकल्येनाधातुमसमर्थस्स्यात् पुनस्संवत्सरे पूर्णे समिध आदध्यात् ब्रह्मौदनं पचेदित्यर्थः । ताभिस्तस्य लक्षणतः तद्धि रेतस्थानीयं निहितं यावत् संवत्सरं वर्धमानं पुनरपि एति गच्छति कालोत्कर्षापेक्षया उपचयं भजते गर्भवत् । तस्मात् संवत्सरे ब्रह्मौदनं पचेत् यावदुपनमति । अर्वागपि संवत्सराद्यदैनमुपनमति तदैवादधीतेति ॥

विश्वास-प्रस्तुतिः

न माँ॒सम् अ॑श्ञीयात् ।
न स्त्रिय॒म् उपे॑यात् ॥71॥

मूलम्

न माँ॒सम् अ॑श्ञीयात् ।
न स्त्रिय॒म् उपे॑यात् ॥71॥

भट्टभास्कर-टीका

9न मांसमित्यादि ॥ संवत्सरं व्रतम् ।

मूलम्

यन्माँ॒सम॑श्ञी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यस्स्यात् ।

विश्वास-प्रस्तुतिः

यन् माँ॒सम् अ॑श्ञी॒याद् , यत् स्त्रिय॑म् उपे॑या॒न् ,निर्वी॑र्यस् स्यात् ।
नैन॑म् अ॒ग्निर् उप॑-नमेत् ।

मूलम्

यन् माँ॒सम् अ॑श्ञी॒याद् , यत् स्त्रिय॑म् उपे॑या॒न् ,निर्वी॑र्यस् स्यात् ।
नैन॑म् अ॒ग्निर् उप॑-नमेत् ।

भट्टभास्कर-टीका

निर्वीर्य इति । क्षीणबीजस्स्यायात् अग्न्याधेयं च एनं नोपनमेत् ।

विश्वास-प्रस्तुतिः

श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नम् प॑चति ।

मूलम्

श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नम् प॑चति ।

भट्टभास्कर-टीका

श्व इत्यादि । सर्वेष्वपि पक्षेषु अयं द्वितीयो ब्रह्मौदनविधिरिति केचित् । अन्ये संवत्सरे वा द्वादशाहे वा त्र्यहे वा श्वो वेति ब्रह्मौदनकालविकल्प इति । अनद्यतनेऽपि व्यत्ययेन लुट् न प्रवर्तते ॥

विश्वास-प्रस्तुतिः

आ॒दि॒त्या वा इ॒त उ॑त्त॒मास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।

मूलम्

आ॒दि॒त्या वा इ॒त उ॑त्त॒मास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।

भट्टभास्कर-टीका

10आदित्या वा इत्यादि ॥ उत्तमा अदितेः पुत्रा देवा इतो लोकात् स्वर्गं गताः ।

विश्वास-प्रस्तुतिः

ते वा इ॒तो यन्त॒म् प्रति॑-नुदन्ते ।

मूलम्

ते वा इ॒तो यन्त॒म् प्रति॑-नुदन्ते ।

भट्टभास्कर-टीका

ते इतो यन्तं स्वर्गं गच्छन्तं प्रति नुदन्ते प्रतीपं प्रेरयन्ति प्रत्यापयन्ति । तस्मात् ब्राह्मणान् प्राशयेत्

मूलम्

ए॒ते खलु॒ वावादि॒त्याः । यद्ब्रा॑ह्म॒णाः ।

विश्वास-प्रस्तुतिः

ए॒ते खलु॒ वावादि॒त्या यद् -ब्रा॑ह्म॒णाः ।

मूलम्

ए॒ते खलु॒ वावादि॒त्या यद् -ब्रा॑ह्म॒णाः ।

भट्टभास्कर-टीका

ब्राह्मणाः खलु आदित्याः । वावशब्दः प्रसिद्धौ ‘ब्राह्मणो वै सर्वा देवताः’ इति ।

विश्वास-प्रस्तुतिः

तैर् ए॒व स॒न्त्वङ् ग॑च्छति ॥72॥
नैन॒म् प्रति॑-नुदन्ते ।

मूलम्

तैर् ए॒व स॒न्त्वङ् ग॑च्छति ॥72॥
नैन॒म् प्रति॑-नुदन्ते ।

भट्टभास्कर-टीका

तस्मात् ब्राह्मणसन्तर्पणेन तैरेवादित्यैः संत्वं सङ्गतत्वं संश्लेषं गच्छति । ततस्तैर्न प्रणोद्यो भवति । संशब्दात् ससाधनक्रियावचनात् त्वप्रत्ययः ॥

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।

मूलम्

ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।

मूलम्

क्वा॑ सः । अ॒ग्निᳵ का॒र्यः॑ । यो॑ऽस्मै प्र॒जाम्प॒शून्प्र॑ज॒नय॒तीति॑ ।

विश्वास-प्रस्तुतिः

“क्वा॑ स ऽ॒ग्निᳵ का॒र्यो॑ , यो॑ ऽस्मै प्र॒जाम् प॒शून् प्र॑ज॒नय॒ती"ति॑ ।

मूलम्

“क्वा॑ स ऽ॒ग्निᳵ का॒र्यो॑ , यो॑ ऽस्मै प्र॒जाम् प॒शून् प्र॑ज॒नय॒ती"ति॑ ।

भट्टभास्कर-टीका

11ब्रह्मवादिन इत्यादि ॥ योस्मै यजमानाय प्रजां पशून् प्रजनयति प्रजापशुभावेन संपत्स्यते । तदर्थं रेत एव निधीयते । रेत एव तद्दधातीति । तेन च ब्राह्मौदनिकः अग्निः एष निर्मन्थ्योऽग्निः स क्व कार्यः कस्मिन्नुपाये स एवात्र निर्मन्थ्यस्स्यत् । कः पुनस्स उपाय इत्युपायं पृछन्ति ब्रह्मवादिनः । सांहितिकं दीर्घत्वं छान्दसम् ।

विश्वास-प्रस्तुतिः

शल्कै॒स् ताँ रात्रि॑म् अ॒ग्निम् इ॑न्धीत ।

मूलम्

शल्कै॒स् ताँ रात्रि॑म् अ॒ग्निम् इ॑न्धीत ।

भट्टभास्कर-टीका

इदानीं येनायं सं एव भवति तमुपायं दर्शयति - शल्कैरित्यादिना । श्व आधास्यमानो यस्यां निशायां ब्रह्मौदनं पचति तां सर्वां शल्कैः दारुशकलैः अग्निमिन्धीत संदीपयेत् ।

विश्वास-प्रस्तुतिः

तस्मि॑न्न् उप-व्यु॒षम् अ॒रणी॒ निष्ट॑पेत् ।

मूलम्

तस्मि॑न्न् उप-व्यु॒षम् अ॒रणी॒ निष्ट॑पेत् ।

भट्टभास्कर-टीका

ततः किमित्याह - अथ तस्मिन् अग्नौ उपव्युषं उषस्समीपे काले ‘अव्ययीभावे शरत्प्रभृतिभ्यः’ इत्यच् समासान्तः अव्ययानां भमात्रे टिलोपः । अरणी निष्टपेत् गोस्थानीये अरणी ऋषभस्थानीयेन समिद्धेनाग्निना योजयति निष्टपनच्छलेन । ततश्च एकारणियोनिनिषिक्तवदवतीर्णे निर्मन्थनेन प्रजनिष्यत इति स एवाग्निः उत्पन्नो भवतीत्ययं स उपाय इति उत्तरं ब्रह्मवादिभ्यः ।

विश्वास-प्रस्तुतिः

यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑-विच्छा॒यति॑ ।
ता॒दृग् ए॒व तत् ।

मूलम्

यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑-विच्छा॒यति॑ ।
ता॒दृग् ए॒व तत् ।

भट्टभास्कर-टीका

अत्र निदर्शनमाह - यथेति । वाशिता उपसर्या सा हि शब्दयन्ती गौर्गर्भग्रहणकाले पुंस्कामा गौर्वाशिता सा ऋषभाय यथा न्याविच्छायति नियमेनागच्छति । यद्वा - नियतमात्मानमृषभाय गमयति निभृतं वा आत्मानमर्पयति । विच्छ गतौ, ‘गुपूधूप’ इत्यायप्रत्ययः ‘यद्वृत्तान्नित्यम्’ इत्याख्यातस्य निघाताभावे धातोरन्तोदात्तत्वम् । तादृक्तत् अग्नौ निष्टपनमरण्योः ।

मूलम्

अ॒पो॒दूह्य॒ भस्मा॒ग्निम्म॑न्थति ॥73॥

विश्वास-प्रस्तुतिः

अ॒पो॒दूह्य॒ भस्म॑+ अ॒ग्निम् म॑न्थति ॥73॥

मूलम्

अ॒पो॒दूह्य॒ भस्म॑+ अ॒ग्निम् म॑न्थति ॥73॥

भट्टभास्कर-टीका

तद्भस्म अपोदूह्य अपनीयाग्निं मन्थति ।

विश्वास-प्रस्तुतिः

सैव सा ऽग्नेस् सन्त॑तिः ।
तम् म॑थि॒त्वा प्राञ्च॒म् उद्ध॑रति ।

मूलम्

सैव सा ऽग्नेस् सन्त॑तिः ।
तम् म॑थि॒त्वा प्राञ्च॒म् उद्ध॑रति ।

भट्टभास्कर-टीका

सैषा सैव साऽग्नेस्सन्ततिः । तदेव निहितं रेत एवमेषोग्निर्जायते । तं प्रथमं मथित्वा प्राञ्चं उद्धरति आहवनीयमुद्धरति ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रम् ए॒व तद्-रेतो॑ हि॒तम् प्रज॑नयति ।

मूलम्

सव्ँ॒व॒त्स॒रम् ए॒व तद्-रेतो॑ हि॒तम् प्रज॑नयति ।

भट्टभास्कर-टीका

यद्वा - जघनेन गार्हपत्यं मथित्वा प्राञ्चमुद्धरति गार्हपत्ये एवं क्रियमाणे संवत्सरं गर्भनिहितं रेतो जनयति प्रागुद्धरणस्य जन्मस्थानीयत्वात् ॥

विश्वास-प्रस्तुतिः

“अना॑हित॒स् तस्या॒ग्निर्” इत्य् आ॑हुः ।

मूलम्

“अना॑हित॒स् तस्या॒ग्निर्” इत्य् आ॑हुः ।

मूलम्

यस्स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑ । तास्सव्ँ॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सव्ँ॒व॒त्सरादे॒वैन॑मव॒रुध्याध॑त्ते ।

विश्वास-प्रस्तुतिः

यस् “स॒मिधो ऽना॑धाया॒ग्निम् आ॑ध॒त्त” इति॒ , तास् सव्ँ॑वत्स॒रे पु॒रस्ता॒द् आद॑ध्यात् , सव्ँव॒त्सराद् ए॒व +एन॑म् अव॒रुध्याध॑त्ते ।

मूलम्

यस् “स॒मिधो ऽना॑धाया॒ग्निम् आ॑ध॒त्त” इति॒ , तास् सव्ँ॑वत्स॒रे पु॒रस्ता॒द् आद॑ध्यात् , सव्ँव॒त्सराद् ए॒व +एन॑म् अव॒रुध्याध॑त्ते ।

भट्टभास्कर-टीका

12अनाहित इत्याद्यास्समिदाधानविकल्पाः । संवत्सराधानगर्भतुल्यमग्निं संवत्सरात् परिगृह्य आधत्ते उत्पादयति ।

मूलम्

यदि॑ सव्ँवत्स॒रे+++(ऽनाद॒ध्यात् ।इति जालक्षेत्रपाठे । अत्र अवग्रहः कथमिति विचारणीयम्)+++नाद॒ध्यात् । द्वा॒द॒श्या॑म्पु॒रस्ता॒दाद॑ध्यात् । सव्ँ॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सव्ँ॒व॒त्स॒रमे॒वास्याहि॑ता भवन्ति ।

विश्वास-प्रस्तुतिः

यदि॑ सव्ँवत्स॒रे नाद॒ध्याद् द्वा॑द॒श्या॑म् पु॒रस्ता॒द् आद॑ध्यात् ।
सव्ँ॒व॒त्स॒र-प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यस् सव्ँवत्स॒रम् ए॒वास्याहि॑ता भवन्ति ।

मूलम्

यदि॑ सव्ँवत्स॒रे नाद॒ध्याद् द्वा॑द॒श्या॑म् पु॒रस्ता॒द् आद॑ध्यात् ।
सव्ँ॒व॒त्स॒र-प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यस् सव्ँवत्स॒रम् ए॒वास्याहि॑ता भवन्ति ।

भट्टभास्कर-टीका

अथ यदि कुतश्चित्कारणात् संवत्सरे आधातुं न शक्नुयात् द्वादश्यां पुरस्तादादध्यात् संवत्सरेण तुल्या द्वादशरात्रय इति । संवत्सरं सर्वमस्याग्नय आहिता भवन्ति ।

मूलम्

यदि॑ द्वाद॒श्या॑न्नाद॒ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् ।

विश्वास-प्रस्तुतिः

यदि॑ द्वाद॒श्या॑न्न् आद॒ध्यात् त्र्य॒हे पु॒रस्ता॒द् आद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति ॥74॥

मूलम्

यदि॑ द्वाद॒श्या॑न्न् आद॒ध्यात् त्र्य॒हे पु॒रस्ता॒द् आद॑ध्यात् ।
आहि॑ता ए॒वास्य॑ भवन्ति ॥74॥

भट्टभास्कर-टीका

अथ यदि द्वादश्यामपि आधातुं नाशक्नोत् स खल्वेतं त्र्यहे पुरस्तादादध्यात् । एवमपि आहिता एव अस्य अग्नयो भवन्ति आहिता भवन्त्येव ॥

इति नवमोऽनुवाकः ॥