०८ , आधानमन्त्रब्राह्मणम्

आधानब्राह्मणम् । आग्नेयं काण्डम् ।

मूलम्

इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ । ते यदव्या॑वृत्ता आधी॒येर॑न् । शो॒चये॑यु॒र्यज॑मानम् ।

विश्वास-प्रस्तुतिः

इ॒मे वा ए॒ते लो॒का अ॒ग्नयो॑ ते यद् अव्या॑वृत्ता आधी॒येर॑न्न् , शो॒चये॑यु॒र् यज॑मानम् ।

“घ॒र्मश् शिर॒” इति॒ गार्ह॑पत्य॒म् आद॑धाति ।

“वात॑ᳶ प्रा॒ण” इत्य् अ॑न्वाहार्य॒-पच॑नम् +++(आदधाति)+++।

“अ॒र्कश् चक्षु॒र्” इत्य् आ॑हव॒नीय॑म् +++(आदधाति)+++।

तेन॑ +ए॒वैना॒न् व्याव॑र्तयति ।
तथा॒ न शो॑चयन्ति॒ यज॑मानम् ।

भट्टभास्कर-टीका

1इमे वा एत इत्यादि ॥ वर्मशिरसां ब्राह्मणम् । अतः प्रभृति त्रयो ऽनुवाकाः आधानब्राह्मणम् । आग्नेयमेव काण्डम् । यज्ञद्वारेण लोकानां स्थितिहेतुत्वादेते अग्नयो यदि अव्यावृत्ताः अविलक्षणाः आधीयेरन् यजमानं शोचयेयुः विलक्षणस्वभावत्वाल्लोकानाम् । विलक्षणतया अग्निलोकवैलक्षण्यात् लोकानां स्थितये अग्नयो न स्युः । तस्मात् ‘घर्मश्शिरः’ इत्यादिमन्त्रभेदेनाग्ननीनां व्यावृत्तिः क्रियते ॥

विश्वास-प्रस्तुतिः

र॒थ॒न्त॒रम् अ॒भि-गा॑यते॒ गार्ह॑पत्य आधी॒यमा॑ने ।

मूलम्

र॒थ॒न्त॒रम् अ॒भि-गा॑यते॒ गार्ह॑पत्य आधी॒यमा॑ने ।

भट्टभास्कर-टीका

2रथन्तरमित्यादि ॥ सम्भारस्य च व्यावृत्तिः क्रियते रथन्तरं साम उद्गाता अभिगायते आभिमुख्येन गायति । व्यत्ययेनान्मनेपदम् ।

विश्वास-प्रस्तुतिः

राथ॑न्तरो॒ वा अ॒यल्ँ लो॒कः ॥59॥
अ॒स्मिन्न् ए॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒म् आध॑त्ते ।

मूलम्

राथ॑न्तरो॒ वा अ॒यल्ँ लो॒कः ॥59॥
अ॒स्मिन्न् ए॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒म् आध॑त्ते ।

भट्टभास्कर-टीका

राथन्तर इति । प्राथम्यात् तत्सम्बन्धी । उत्सादित्वादञ् ।‘अस्य जगतः’ इति लिङ्गाच्च रथन्तरसम्बन्धी अयं लोकः । तस्मात् अस्मिन् लोके प्रतिष्ठितं अविचलितमाधत्ते ।

विश्वास-प्रस्तुतिः

वा॒म॒दे॒व्यम् अ॒भिगा॑यत उद्-ध्रि॒यमा॑णे ।
अ॒न्तरि॑क्षव्ँ॒ वै वा॑मदे॒व्यम् ।
अ॒न्तरि॑क्ष ए॒वैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।

मूलम्

वा॒म॒दे॒व्यम् अ॒भिगा॑यत उद्-ध्रि॒यमा॑णे ।
अ॒न्तरि॑क्षव्ँ॒ वै वा॑मदे॒व्यम् ।
अ॒न्तरि॑क्ष ए॒वैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।

भट्टभास्कर-टीका

वामदेव्यमित्यादि । क्रमात्ताच्छब्द्यम् - रथन्तरं वामदेव्यं बृहदिति । ‘कया, कस्त्वा’ इति चानिर्ज्ञातत्वलिङ्गादन्तरिक्षस्य च तादृक्स्वरूपत्वात् ।

मूलम्

अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शा॒न्तमे॒वैन॑म्पश॒व्य॑मुद्ध॑रते ।

विश्वास-प्रस्तुतिः

अथो॒ शान्ति॒र् वै वा॑मदे॒व्यम् , शा॒न्तम् ए॒वैन॑म् पश॒व्य॑म् उद्-ध॑रते ।

मूलम्

अथो॒ शान्ति॒र् वै वा॑मदे॒व्यम् , शा॒न्तम् ए॒वैन॑म् पश॒व्य॑म् उद्-ध॑रते ।

भट्टभास्कर-टीका

अथो अपिच शान्तिहेतुर्वामदेव्यं, अग्नेस्मखित्वादिसङ्कीर्तनलिङ्गात् । पशव्यं पशुभ्यो हितम् ।

विश्वास-प्रस्तुतिः

बृ॒हद् अ॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने ।
बार्ह॑तो॒ वा अ॒सौ लो॒कः ।
अ॒मुष्मि॑न्न् ए॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒म् आध॑त्ते ।

मूलम्

बृ॒हद् अ॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने ।
बार्ह॑तो॒ वा अ॒सौ लो॒कः ।
अ॒मुष्मि॑न्न् ए॒वैनल्ँ॑ लो॒के प्रति॑ष्ठित॒म् आध॑त्ते ।

भट्टभास्कर-टीका

बृहदित्यादि । बार्हतत्वं क्रमाद्द्युलोकस्य सूर्यतासंस्तवाच्च ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ॥60॥
सो ऽश्वो॒ ऽवारो॑ भू॒त्वा परा॑ङैत् ।

मूलम्

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ॥60॥
सो ऽश्वो॒ ऽवारो॑ भू॒त्वा परा॑ङैत् ।

भट्टभास्कर-टीका

3प्रजापतिरित्यदि ॥ सः अग्निः अश्वो भूत्वा पराङैत् प्रजापतिसकाशादपुनरावृत्तो ऽगच्छत् । कीदृशः अवारः वारयितुमशक्यः अन्येनोपायेनैव । तत्पुरुषे अव्ययपर्वूपदप्रकृतिस्वरत्वं प्राप्नोति, बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । तस्मात् वारणीयो ऽश्वविशेषो वारः कर्मणि घञ् । गुणविशेषो वा; यथा ‘अश्वं नत्वा वारवन्तम्’ इति । यो महावेगतया निवर्तयितुं न शक्यते तादृशो ऽश्वो भूत्वा पराङैत् ।

विश्वास-प्रस्तुतिः

तव्ँ वा॑रव॒न्तीये॑नावारयत ।

मूलम्

तव्ँ वा॑रव॒न्तीये॑नावारयत ।

भट्टभास्कर-टीका

वारवन्तीयेन साम्ना अवारयत न्यवर्तयत ।

विश्वास-प्रस्तुतिः

तद् वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।

मूलम्

तद् वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।

भट्टभास्कर-टीका

तत्तस्मात् वारवन्तीयत्वं साम्नः । वारयित्वा वननं सम्भजनमश्वस्य कृतमनेनेति वारवन्तीयम् । पृषोदरादिः । अनुप्रवचनादित्वात् प्रयोजने छः । यद्यपि वारवन्तमिति शब्दोऽस्मिन्सामन्यस्तीति ‘मतौ छस्सूक्तसाग्नोः’ इति छः क्रियते । तथाऽपि व्युत्पत्त्यन्तरमिदं दर्शितमिति वेदितव्यम् ।

विश्वास-प्रस्तुतिः

श्यै॒तेन॑ श्ये॒ती अ॑कुरुत ।
तच् छ्यै॒तस्य॑ श्यैत॒त्वम् ।

मूलम्

श्यै॒तेन॑ श्ये॒ती अ॑कुरुत ।
तच् छ्यै॒तस्य॑ श्यैत॒त्वम् ।

भट्टभास्कर-टीका

श्यैतेन साम्ना अश्वं श्येतीकृतवान् । तस्मात् साम्नः श्यैतत्वम् । श्येतश्शितः शातः औणादिकस्तत्प्रत्ययः । अश्येतं श्येतं कुरुते इति अभूततद्भावे च्विः । ईषा अक्षादित्वात् संहिता ऽभावः । तस्माच्छ्येतीकरणसाधनत्वेन श्येतसम्बन्धाच्छ्येतत्वम् । श्यैतेन दृष्टमिति व्युत्पत्त्यन्तरम् ।

मूलम्

यद्वा॑रव॒न्तीय॑मभि॒गाय॑ते । वा॒र॒यि॒त्वैवैन॒म्प्रति॑ष्ठित॒माध॑त्ते ।

विश्वास-प्रस्तुतिः

यद् वा॑रव॒न्तीय॑म् अभि॒गाय॑ते, वारयि॒त्वैवैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।
श्यै॒तेन॑ श्ये॒ती कु॑रुते ।

मूलम्

यद् वा॑रव॒न्तीय॑म् अभि॒गाय॑ते, वारयि॒त्वैवैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।
श्यै॒तेन॑ श्ये॒ती कु॑रुते ।

भट्टभास्कर-टीका

यदित्यादि । गतम् ॥

मन्त्रावयवस्तुतिः

विश्वास-प्रस्तुतिः

“घ॒र्मश् शिर॒” इति॒ गार्ह॑पत्य॒म् आद॑धाति ।
सशी॑र्षाणम् ए॒वैन॒म् आध॑त्ते ॥61॥

मूलम्

“घ॒र्मश् शिर॒” इति॒ गार्ह॑पत्य॒म् आद॑धाति ।
सशी॑र्षाणम् ए॒वैन॒म् आध॑त्ते ॥61॥

भट्टभास्कर-टीका

4घर्मश्शिर इत्यादि ॥ मन्त्रावयवस्तुतिः ।

विश्वास-प्रस्तुतिः

उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मति ।

मूलम्

उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मति ।

भट्टभास्कर-टीका

उपैनमिति । एवं ह्ययमग्निश्शिरोयुक्तो भवति । इतरथा देहमात्रवानिव स्यात् ।

मूलम्

रु॒द्रो वा ए॒षः । यद॒ग्निः ।

विश्वास-प्रस्तुतिः

रु॒द्रो वा ए॒ष यद् अ॒ग्निः ।

मूलम्

रु॒द्रो वा ए॒ष यद् अ॒ग्निः ।

भट्टभास्कर-टीका

रुद्रो वा इत्यादि । ‘सम्प्रियः पशुभिर्भुवत्’ इति मन्त्रावयवस्तुतिर्गता ।

विश्वास-प्रस्तुतिः

स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिँसि॑तोः ।

मूलम्

स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिँसि॑तोः ।

भट्टभास्कर-टीका

हिंसितोः । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् ।

विश्वास-प्रस्तुतिः

ु “सम्प्रि॑यᳶ प॒शुभि॑र् भुव॒दि"त्य् आ॑ह ।

मूलम्

ु “सम्प्रि॑यᳶ प॒शुभि॑र् भुव॒दि"त्य् आ॑ह ।

मूलम्

प॒शुभि॑रे॒वैनँ॒ सम्प्रि॑यङ्करोति । प॒शू॒नामहिँ॑सायै ।

विश्वास-प्रस्तुतिः

प॒शुभि॑र् ए॒वैनँ॒ सम्प्रि॑यङ् करोति पशू॒नाम् अहिँ॑सायै ।

मूलम्

प॒शुभि॑र् ए॒वैनँ॒ सम्प्रि॑यङ् करोति पशू॒नाम् अहिँ॑सायै ।

भट्टभास्कर-टीका

सम्प्रियं सङ्गतं प्रियं करोति ।

विश्वास-प्रस्तुतिः

“छ॒र्दिस्-तो॒काय॒ तन॑याय य॒च्छे"त्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“छ॒र्दिस्-तो॒काय॒ तन॑याय य॒च्छे"त्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

भट्टभास्कर-टीका

छर्दिस्तोकायेत्यादि । गतम् ।

मूलम्

वात॑ᳶ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ॥62॥
सप्रा॑णमे॒वैन॒माध॑त्ते ।

विश्वास-प्रस्तुतिः

“वात॑ᳶ प्रा॒ण” इत्य् अ॑न्वाहार्य॒-पच॑नं॒ सप्रा॑णम् ए॒वैन॒म् आध॑त्ते ।

“स्व॒दि॒तन् तो॒काय॒ तन॑याय पि॒तुम् प॒चे"त्य् आ॑ह ।
अन्न॑म् ए॒वास्मै॑ स्वदयति ।

मूलम्

“वात॑ᳶ प्रा॒ण” इत्य् अ॑न्वाहार्य॒-पच॑नं॒ सप्रा॑णम् ए॒वैन॒म् आध॑त्ते ।

“स्व॒दि॒तन् तो॒काय॒ तन॑याय पि॒तुम् प॒चे"त्य् आ॑ह ।
अन्न॑म् ए॒वास्मै॑ स्वदयति ।

भट्टभास्कर-टीका

सप्राणं सबलम् । अन्नमेवेति पितुशब्दस्यार्थ उक्तो भवति ।

मूलम्

प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑यो॒स्सा ।

विश्वास-प्रस्तुतिः

“प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान्” इत्य् आ॑ह॒ विभ॑क्तिर् ए॒वैन॑यो॒स् सा ।

मूलम्

“प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान्” इत्य् आ॑ह॒ विभ॑क्तिर् ए॒वैन॑यो॒स् सा ।

भट्टभास्कर-टीका

विभक्तिरेवेत्यादि । ‘प्राचीमनु प्रदिशं प्रेहि’ इति प्राञ्चो ऽश्वप्रथमा अभिव्रजन्ति । सा गतिः एनयोः गार्हपत्याहवनीययोः विभक्तिः विभागः कृतः

विश्वास-प्रस्तुतिः

अथो॒ नाना॑वीर्याव् ए॒वैनौ॑ कुरुते ।

मूलम्

अथो॒ नाना॑वीर्याव् ए॒वैनौ॑ कुरुते ।

भट्टभास्कर-टीका

आहवनीयो गार्हपत्यमित्यादिना प्रतिपादितमर्थं मन्त्रे ऽपि प्रदर्शयति - अथो इत्यादि । व्याख्यातमेव ।

विश्वास-प्रस्तुतिः

“ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒” इत्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“ऊर्ज॑न् नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒” इत्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

भट्टभास्कर-टीका

ऊर्जं न इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अ॒र्कश् चक्षु॒र् इत्य् आ॑हव॒नीय॑म् ।

मूलम्

अ॒र्कश् चक्षु॒र् इत्य् आ॑हव॒नीय॑म् ।

मूलम्

अ॒र्को वै दे॒वाना॒मन्न॑म् ॥63॥
अन्न॑मे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

अ॒र्को वै दे॒वाना॒म् अन्न॒म् , अन्न॑म् ए॒वाव॑रुन्धे ।

मूलम्

अ॒र्को वै दे॒वाना॒म् अन्न॒म् , अन्न॑म् ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

5अर्को वा इति ॥ अन्नस्थानीयः अर्कः आदित्यस्सर्वैरर्चनीयत्वात् ।

विश्वास-प्रस्तुतिः

“तेन॑ मे दीदि॒ही"त्य् आ॑ह ।
समि॑न्ध ए॒वैन॑म् ।

मूलम्

“तेन॑ मे दीदि॒ही"त्य् आ॑ह ।
समि॑न्ध ए॒वैन॑म् ।

भट्टभास्कर-टीका

तेन इत्यादि । गतम् । त्रिरुदिङ्गयति त्रिरुद्गमयति । ऊर्ध्वं क्रमेण त्रिरुद्गमयति । इगि गतौ इदित्त्वान्नुम् ।

विश्वास-प्रस्तुतिः

“आ॒न॒शे व्या॑नश॒” इति॒ त्रिर् उदि॑ङ्गयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्व् ए॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒म् आध॑त्ते ।

मूलम्

“आ॒न॒शे व्या॑नश॒” इति॒ त्रिर् उदि॑ङ्गयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्व् ए॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒म् आध॑त्ते ।

भट्टभास्कर-टीका

लोकत्रये ऊर्ध्वं क्रमेणावीस्थते प्रतिष्ठितो भवति ।

विश्वास-प्रस्तुतिः

तत् तथा॒ न का॒र्य॑म् ।

मूलम्

तत् तथा॒ न का॒र्य॑म् ।

भट्टभास्कर-टीका

एतद्दूषयति - तदित्यादि । तत् त्रिरुदिङ्गनं तथा न कार्यम् । कथं? उद्धृत्य आधाय समिध्य पश्चान्न कर्तव्यमित्यर्थः ।

विश्वास-प्रस्तुतिः

वीङ्गि॑त॒म् अप्र॑तिष्ठित॒म् आद॑धीत ।

मूलम्

वीङ्गि॑त॒म् अप्र॑तिष्ठित॒म् आद॑धीत ।

भट्टभास्कर-टीका

तथा करणे दोषमाह - वीङ्गितं विविधं कम्पितं विचलितमुत्पादितमत एव अप्रतिष्ठितमादधीत आहितवान् स्यात् । आधायोच्चलनादप्रतिष्ठितो लोकेषु स्यात् । तस्मात्तथा न कार्यमिति ।

विश्वास-प्रस्तुतिः

उ॒द्धृत्य् ए॒वाधाया॑भि॒-मन्त्रियः॑ ।
अवी॑ङ्गितम् ए॒वैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।

मूलम्

उ॒द्धृत्य् ए॒वाधाया॑भि॒-मन्त्रियः॑ ।
अवी॑ङ्गितम् ए॒वैन॒म् प्रति॑ष्ठित॒म् आध॑त्ते ।

भट्टभास्कर-टीका

कथं तर्हि उदिङ्गनं कर्तव्यं किं वा न कर्तव्यमेव? तत्राह - उद्धृत्यैवेति । न ब्रूमः न कर्तव्यमुदिङ्गनमिति; अपि तु उद्धृत्यैव उद्धरणानन्तरमेव त्रिरुद्गमयितव्यः । आधानात्प्रागेव ‘आनशे व्यानशे’ इत्यनेन किं तदानीमुदिङ्गनं? नैव, तूष्णीमुदिङ्ग्य आधायाभिमन्त्र्यः अग्निरनेन मन्त्रेण । एवं हि क्रियमाणे अवीङ्गितं स्थापयित्वा अनुत्पादितं एवैनं अविचालनीयं प्रतिष्ठितमाधत्ते आहितवान् भवति ॥

विश्वास-प्रस्तुतिः

वि॒राट् च॑ स्व॒राट् च॒ “यास् ते॑ अग्ने शि॒वास् त॒नुव॒स् ताभि॒स् त्वा ऽऽद॑ध॒” इत्य् आ॑ह ।

मूलम्

वि॒राट् च॑ स्व॒राट् च॒ “यास् ते॑ अग्ने शि॒वास् त॒नुव॒स् ताभि॒स् त्वा ऽऽद॑ध॒” इत्य् आ॑ह ।

मूलम्

ए॒ता वा अ॒ग्नेश्शि॒वास्त॒नुवः॑ । ताभि॑रे॒वैनँ॒ सम॑र्धयति ।

विश्वास-प्रस्तुतिः

ए॒ता वा अ॒ग्नेश् शि॒वास् त॒नुव॒स् ताभि॑र् ए॒वैनँ॒ सम॑र्धयति ।

मूलम्

ए॒ता वा अ॒ग्नेश् शि॒वास् त॒नुव॒स् ताभि॑र् ए॒वैनँ॒ सम॑र्धयति ।

मूलम्

यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुङ्ग॒च्छेति॑ ब्रूया॒द्यन्द्वि॒ष्यात् । ताभि॑रे॒वैन॒म्परा॑भावयति ॥64॥

विश्वास-प्रस्तुतिः

“यास् ते॑ अग्ने घो॒रास् त॒नुव॒स् ताभि॑र् अ॒मुङ् ग॒च्छे"ति॑ ब्रूया॒द् , यन् द्वि॒ष्यात् ताभि॑र् ए॒वैन॒म् परा॑-भावयति ॥64॥

मूलम्

“यास् ते॑ अग्ने घो॒रास् त॒नुव॒स् ताभि॑र् अ॒मुङ् ग॒च्छे"ति॑ ब्रूया॒द् , यन् द्वि॒ष्यात् ताभि॑र् ए॒वैन॒म् परा॑-भावयति ॥64॥

भट्टभास्कर-टीका

6अथ शिवानां ब्राह्मणम् - विराट्चेति ॥ गतम्27 ॥

इत्यष्टमोऽनुवाकः ॥