०७ आधानमन्त्राः

विश्वास-प्रस्तुतिः

घ॒र्मश् शिर॒स् तद् अ॒यम् अ॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।
छ॒र्दिस्-तो॒काय॒ तन॑याय यच्छ ।

मूलम्

घ॒र्मश् शिर॒स् तद् अ॒यम् अ॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।
छ॒र्दिस्-तो॒काय॒ तन॑याय यच्छ ।

भट्टभास्कर-टीका

1अतःपरमाधानमन्त्राः - घर्मशिरांस्याग्नेयमेव काण्डम् । तत्र गार्हपत्यमादधाति - घर्मश्शिर इति परोष्णिहा ॥ घर्मः प्रवर्ग्यः सोऽस्य शिरस्थानीयः प्रधानत्वात् । ब्राह्मणं च भवति - ‘शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः’ इति । स एवाधीयमानो गार्हपत्योऽग्निः । लिङ्गव्यत्ययः । तदिति वा हेतुः । तदात्माऽयमिति शेषः । सोऽयमेवं महानुभावः पशुभिस्सम्प्रियः सह प्रीयमाणो भुवत् भवतु । भवतेर्लेटि शपो लुकि ‘लेटोऽडाटौ’ इत्यडागमे ‘भूसुवोस्तिङि’ इति गुणाभावः । यद्वा - उवङ् ।
छर्दिः दीप्तिः औणादिक इसिप्रत्ययः । तोकाय पुत्राय तनयाय तत्पुत्राय च यच्छ वर्धयतु दीप्तिम् । पुरुषव्यत्ययः । यद्वा - निजगुणकीर्तनेन प्रसन्नां देवतां प्रत्यक्षेण दृष्ट्वा प्रार्थयते ॥

विश्वास-प्रस्तुतिः

वात॑ᳶ प्रा॒णस् तद् अ॒यम् अ॒ग्निः । सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।

मूलम्

वात॑ᳶ प्रा॒णस् तद् अ॒यम् अ॒ग्निः । सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।

भट्टभास्कर-टीका

2अन्वाहार्यपचनमादधाति - वात इति परोऽनुष्टुभा ॥ “तनयाय” इति चतुर्थादिः । वातः प्राणः सर्वेषां प्रधानभूतः ॥ तदयमित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

स्व॒दि॒तन् तो॒काय॒ तन॑याय पि॒तुम् प॑च ।

मूलम्

स्व॒दि॒तन् तो॒काय॒ तन॑याय पि॒तुम् प॑च ।

भट्टभास्कर-टीका

स्वदितं स्वादुरसं पितुं अन्नं तोकाय तनयाय पच सम्यङ्निर्वर्तय ॥

विश्वास-प्रस्तुतिः

प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ।
ऊर्ज॑न् नो धेहि द्वि॒-पदे॒ चतु॑ष्-पदे ॥56॥

मूलम्

प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् ।
अ॒ग्नेर् अ॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ।
ऊर्ज॑न् नो धेहि द्वि॒-पदे॒ चतु॑ष्-पदे ॥56॥

भट्टभास्कर-टीका

3प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति - प्राचीमिति त्रिष्टुभा ॥ व्याख्यातेयमग्निकाण्डे । प्रधानां दिशमनुक्रमेण गच्छ विद्वान् । हे अग्ने! अङ्गनादिगुण! अश्व! अग्नेः पुरोग्निः अग्नेः पुरो गन्ता भव । इह अस्मिन् कर्मणि । विश्वा दिशः दीद्यानः दीपयन् विभाहि विशेषणे दीप्यस्व । ऊर्जं अन्नं रसं वा अस्माकं द्विपदे चतुष्पदे च धेहि इति ॥

विश्वास-प्रस्तुतिः

अ॒र्कश् चक्षु॒स् तद अ॒सौ सूर्य॒स् तद् अ॒यम् अ॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।

मूलम्

अ॒र्कश् चक्षु॒स् तद अ॒सौ सूर्य॒स् तद् अ॒यम् अ॒ग्निः ।
सम्प्रि॑यᳶ प॒शुभि॑र् भुवत् ।

भट्टभास्कर-टीका

4आहवनीयमादधाति - ताभ्यां विराट्बृहस्पतीभ्यां अर्कश्चक्षुरिति ॥ अर्कचक्षुषोरन्योन्यात्मत्वमुच्यते । स्वयं अर्कश्चक्षुः तत् एव चक्षुः असौ सूर्यः सर्वेषां दर्शनस्य तद्भावे हेतुत्वात् ताच्छब्द्यम् । तत् तादृशचक्षुस्स्थानीयोऽयमित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

यत् ते॑ शुक्र शु॒क्रव्ँ वर्च॑श् शु॒क्रा त॒नूः ।
शु॒क्रञ् ज्योति॒र् अज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वा ऽऽद॑धे । अ॒ग्निना॑ ऽग्ने॒ ब्रह्म॑णा ।

मूलम्

यत् ते॑ शुक्र शु॒क्रव्ँ वर्च॑श् शु॒क्रा त॒नूः ।
शु॒क्रञ् ज्योति॒र् अज॑स्रम् ।
तेन॑ मे दीदिहि॒ तेन॒ त्वा ऽऽद॑धे । अ॒ग्निना॑ ऽग्ने॒ ब्रह्म॑णा ।

भट्टभास्कर-टीका

अथ पूर्ववत्प्रत्यक्षेणाह - यत्त इति । अजस्रं सन्ततं [अजस्रमित्यन्तं] वा यजुः । हे शुक्र! निर्मल! वीर्यस्य वा कारणभूत! यत् तव शुक्रं तादृशं वर्चः बलं तादृशी च तनूः शरीरं तादृशं च ज्योतिः तेजः अजस्रं नित्यं तेन मे मां दीदिहि दीपय । तेन इत्थंभूतं त्वां आदधे । अग्निना अङ्गनादिगुणेन ब्रह्मणा परिबृढेन तेनोपलक्षितम् । यद्वा - अनेन ब्रह्मणा घर्मशिरस्संज्ञेन मन्त्रोण त्वामादधे हे अग्ने! ॥

विश्वास-प्रस्तुतिः

आ॒न॒शे व्या॑नशे॒ सर्व॒म् आयु॒र् व्या॑नशे ।

मूलम्

आ॒न॒शे व्या॑नशे॒ सर्व॒म् आयु॒र् व्या॑नशे ।

भट्टभास्कर-टीका

5आहवनीयमाधीयमानं यजमानोऽभिमन्त्रयते - आनश इति ॥ द्विपदा गायत्रीत्येके । आनशे व्याप्तवान् विश्वम् । व्यानशे विशेषेण व्याप्तवान् । सर्वं च आयुः जीवितं हविर्वा व्यानशे लब्धवान् । छान्दसो लिट् ‘अश्नोतेश्च’ इति नुट् ॥

विश्वास-प्रस्तुतिः

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒राट् च॑ स्व॒राट् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ॥57॥

मूलम्

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒राट् च॑ स्व॒राट् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ॥57॥

भट्टभास्कर-टीका

6आहवनीयाधाने यजमानः शिवा जपति - ये ते अग्न इत्याद्याः ॥ एते गायत्रीप्रकाराः । यजूंषीत्येके । हे अग्ने! ये ते तव शिवे तनुवौ शान्ते तनुवौ विराट् तन्नाम्नी स्वराणगाम्नी च विविधं राजतीति विराट् । स्वायत्तं राजतीति स्वराट् । ते मा विशतां प्राप्नुताम् । ते च जिन्वतां प्रीणयताम् । जिवि प्रीणने । इदित्वान्नुम् ॥

विश्वास-प्रस्तुतिः

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
स॒म्राट् चा॑भि॒भूश् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

मूलम्

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
स॒म्राट् चा॑भि॒भूश् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

भट्टभास्कर-टीका

7ये इत्यादि ॥ गतम् । +++( हे अग्ने! ये ते तव शिवे तनुवौ शान्ते तनुवौ)+++संराट् सङ्गतं राजतीति ‘सत्सूद्विष’ इत्यादिना क्विप्, ‘मोराजिसमः क्वौ’ इति मस्य मः । अभिभवति सपत्नानिति अभिभूः । ‘क्विप्च’ इति क्विप् । विविधं भावयति विश्वं व्याप्नोतीति अभिभूः । +++(ते मा विशतां प्राप्नुताम् । ते च जिन्वतां प्रीणयताम् । जिवि प्रीणने । इदित्वान्नुम् ॥)+++

विश्वास-प्रस्तुतिः

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒भूश् च॑ परि॒भूश् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

मूलम्

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
वि॒भूश् च॑ परि॒भूश् च॑ ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

भट्टभास्कर-टीका

+++( हे अग्ने! ये ते तव शिवे तनुवौ शान्ते तनुवौ)+++परितो भवति विश्वमधितिष्ठतीति परिभूः ।+++(- ते मा विशतां प्राप्नुताम् । ते च जिन्वतां प्रीणयताम् । जिवि प्रीणने । इदित्वान्नुम् ॥)+++

विश्वास-प्रस्तुतिः

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
प्र॒भ्वी च॒ प्रभू॑तिश् च ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

मूलम्

ये ते॑ अग्ने शि॒वे त॒नुवौ॑ ।
प्र॒भ्वी च॒ प्रभू॑तिश् च ।
ते मा वि॑शता॒न् ते मा॑ जिन्वताम् ।

भट्टभास्कर-टीका

+++( हे अग्ने! ये ते तव शिवे तनुवौ शान्ते तनुवौ)+++प्रभ्वी प्रकर्षेण भवतीति “विप्रसम्भ्यः” इति डुः; “ओतो गुणवचनात्” इति ङीप् । प्रभूतिः प्रभूयते विश्वमनयेति करणे क्तिन् । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । +++(- ते मा विशतां प्राप्नुताम् । ते च जिन्वतां प्रीणयताम् । जिवि प्रीणने । इदित्वान्नुम् ॥)+++

विश्वास-प्रस्तुतिः

यास् ते॑ अग्ने शि॒वास् त॒नुवः॑ ।
ताभि॒स् त्वा ऽऽद॑धे ।
यास् ते॑ अग्ने घो॒रास् त॒नुवः॑ ।
ताभि॑र् अ॒मुङ् ग॑च्छ ॥58॥

मूलम्

यास् ते॑ अग्ने शि॒वास् त॒नुवः॑ ।
ताभि॒स् त्वा ऽऽद॑धे ।
यास् ते॑ अग्ने घो॒रास् त॒नुवः॑ ।
ताभि॑र् अ॒मुङ् ग॑च्छ ॥58॥

भट्टभास्कर-टीका

+++( हे अग्ने! ये ते तव ) +++याश्शिवाः ताभिः सहितं त्वां आदधे । याः पुनः घोराः अश्रुतापादिव्यसनहेतवः ताभिः सह त्वं अमुं अस्मद्द्वेष्यं गच्छ । इति द्वेष्याय अग्निं प्रहिणोति । स पराभूतो भवति । अमुमिति द्वेष्यार्थं सर्वनामपदम् ॥

इति सप्तमोऽनुवाकः ॥