०६ , पवमान-हविर्-विस्तारादि

विस्तारः (द्रष्टुं नोद्यम्)

पवमान-हविर्-विस्तारः , हविरन्तराणि, दक्षिणाश्च

अग्नित्रयाय पुरोडाशाः

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

भट्टभास्कर-टीका

1देवासुरा इत्यादि ॥ व्याख्यातम् ॥

विश्वास-प्रस्तुतिः

ते दे॒वा वि॑ज॒यम् उ॑प॒यन्तो॑ अ॒ग्नौ वा॒मव्ँ वसु॒ सन्न्य॑दधत ।

मूलम्

ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ ।
अ॒ग्नौ वा॒मव्ँवसु॒ सन्न्य॑दधत ।

विश्वास-प्रस्तुतिः

“इ॒दम् उ॑ नो भविष्यति॒ , यदि॑ नो जे॒ष्यन्ती"ति॑ ।
तद् अ॒ग्निर् नोत्सह॑म् अशक्नोत् ।

मूलम्

इ॒दमु॑ नो भविष्यति ।
यदि॑ नो जे॒ष्यन्तीति॑ । तद् अ॒ग्निर् नोत्सह॑म् अशक्नोत् ।

भट्टभास्कर-टीका

2तदग्निर्नोत्सहमिति ॥ तत् वामं वसु अग्निः उत्सहं उत्सोढुं उद्वोढुं नाशक्नोत् । ‘शकि णमुल्कमुलौ’ इति कमुल् ।

विश्वास-प्रस्तुतिः

तत् त्रे॒धा विन्य॑दधात् ।
प॒शुषु॒ तृती॑यम् +++( विन्य॑दधात् )+++।
अ॒प्सु तृती॑यम् +++( विन्य॑दधात् )+++।
आ॒दि॒त्ये तृती॑यम् +++( विन्य॑दधात् )+++॥45॥

मूलम्

तत् त्रे॒धा विन्य॑दधात् ।
प॒शुषु॒ तृती॑यम् +++( विन्य॑दधात् )+++।
अ॒प्सु तृती॑यम् +++( विन्य॑दधात् )+++।
आ॒दि॒त्ये तृती॑यम् +++( विन्य॑दधात् )+++॥45॥

भट्टभास्कर-टीका

तत् त्रेधा विभज्य पश्वादिषु एकैकं भागं विनिहितवान् पृथक्स्थापितवान् अग्निः । तृतीयमिति । ‘पूरणाद्भागे तीयादन्’ इति स्वार्थेऽन्प्रत्ययः, तेनाद्युदात्तः ॥

विश्वास-प्रस्तुतिः

तद् दे॒वा वि॒जित्य॒
पुन॒र् अवा॑रुरुत्सन्त ।

मूलम्

तद्दे॒वा वि॒जित्य॑ ।
पुन॒रवा॑रुरुत्सन्त ।

भट्टभास्कर-टीका

3देवा इति ॥ तत् वामं देवा विजित्य असुरान् पुनरवरोद्धुमैच्छन् ।

विश्वास-प्रस्तुतिः

ते॑ ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म् अ॒ष्टा-क॑पाल॒न् निर॑वपन् ।

मूलम्

ते॑ ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म् अ॒ष्टा-क॑पाल॒न् निर॑वपन् ।

भट्टभास्कर-टीका

अथ ते वाममवरुरुत्समाना देवाः पवमानादिभ्यो हविर्निरुप्य पश्वादिषु स्थितं यद्यदग्नेस्तृतीयं तत्तदलभन्त ।

विश्वास-प्रस्तुतिः

प॒शवो॒ वा अ॒ग्निᳶ पव॑मानः ।

मूलम्

प॒शवो॒ वा अ॒ग्निᳶ पव॑मानः ।

विश्वास-प्रस्तुतिः

यद् ए॒व प॒शुष्व् आसी॒त् , तत् तेनावा॑रुन्धत ।

मूलम्

यदे॒व प॒शुष्वासी॑त् ।
तत्तेनावा॑रुन्धत ।

भट्टभास्कर-टीका

पशवो वा इत्यादि । पवमानत्वात्पशुहेतुत्वात् ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

ते॑ ऽग्नये॑ पाव॒काय॑ +++(पुरो॒डाश॑म् अ॒ष्टा-क॑पाल॒न् निर॑वपन्न् )+++ ।

आपो॒ वा अ॒ग्निᳶ पा॑व॒कः ।

मूलम्

ते॑ ऽग्नये॑ पाव॒काय॑ +++(पुरो॒डाश॑म् अ॒ष्टा-क॑पाल॒न् निर॑वपन्न् )+++ ।

आपो॒ वा अ॒ग्निᳶ पा॑व॒कः ।

विश्वास-प्रस्तुतिः

यद् ए॒वाप्स्व् आसी॒त् , तत् तेनावा॑रुन्धत ॥46॥

मूलम्

यद् ए॒वाप्स्व् आसी॒त् , तत् तेनावा॑रुन्धत ॥46॥

भट्टभास्कर-टीका

आपो वा इति । शोधकत्वात्पावकत्वाद्वा ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

ते॑ ऽग्नये॒ शुच॑ये +++(पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपन् । )+++ ।
अ॒सौ वा आ॑दि॒त्यो॑ ऽग्निश् शुचिः॑ ।

मूलम्

ते॑ ऽग्नये॒ शुच॑ये +++(पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर॑वपन् । )+++ ।
अ॒सौ वा आ॑दि॒त्यो॑ ऽग्निश् शुचिः॑ ।

मूलम्

यदे॒वादि॒त्य आसी॑त् ।
तत्तेनावा॑रुन्धत ।

विश्वास-प्रस्तुतिः

यद् ए॒वादि॒त्य आसी॒त् तत् तेनावा॑रुन्धत ।

मूलम्

यद् ए॒वादि॒त्य आसी॒त् तत् तेनावा॑रुन्धत ।

भट्टभास्कर-टीका

असौ वा इति । शुद्धिहेतुत्वाद्दीप्तिहेतुत्वाद्वा ताच्छब्द्यम् ॥

आग्नेयस्याप्य् अष्टाकपालस्यावश्यकता

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति -
“त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टा-क॑पालो ऽग्न्या॒धेय॒म्” इति॑ ।

मूलम्

ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति ।
“त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य ।”
“आ॒ग्ने॒यो वा अ॒ष्टा-क॑पालो ऽग्न्या॒धेय॒मि"ति॑ ।

भट्टभास्कर-टीका

4ब्रह्मवादिन इत्यादि ॥ एतानि पवमानादीनि हवींषि तनुवः अङ्गानि अग्न्याधेयस्य अग्नेः । आग्नेयः खलु अष्टाकपालः स्वयमग्न्याधेय इति ब्रह्मवादिन आहुः ।

विश्वास-प्रस्तुतिः

यत् तन् +++(आग्नेयम् अष्टाकपालम्)+++ नि॒र्वपे॑न् , नै॒तानि॑ +++(पवमान-पावक-शुच्यग्निभ्यो ऽष्टाकपालम् निर्वपेत्)+++ यथा॒ ऽऽत्मा स्या॒न् नाङ्गा॑नि +++(स्युः)+++ , ता॒दृग् ए॒व तत् ।

मूलम्

यत्तन्नि॒र्वपे॑त् ।
नैतानि॑ ।
यथा॒ऽऽत्मा स्यात् ॥47॥
नाङ्गा॑नि ।
ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

भवतु किं नश्छिन्नमित्याह- तत्र यदि तं आग्नेयमेव निर्वपेत् न तु एतानि हवींषि निर्वपेदित्येव ।

भट्टभास्कर-टीका

यथा आत्मा शरीरं स्यात् नाङ्गानि हस्तपादशिरांसि न स्युः । लौकिकोऽनुषङ्गः । तादृक्तत् केवलाग्नेयनिर्वपणम् ।

विश्वास-प्रस्तुतिः

यद् ए॒तानि॑ +++(पवमान-पावक-शुच्यग्निभ्यो ऽष्टाकपालम्)+++ नि॒र्वपे॒न् न तम् +++(आग्नेयम् अष्टाकपालं निर्वपेत्)+++ यथा ऽङ्गा॑नि॒ स्यु॒र्, नात्मा +++(स्यात्)+++ , ता॒दृग् ए॒व तत् ।

मूलम्

यदे॒तानि॑ नि॒र्वपे॑त् ।
न तम् ।
यथाऽङ्गा॑नि॒ स्युः ।
नात्मा ।
ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

अथ यदि एतानि निर्वपेत् न तु तं आग्नेयं निर्वपेदित्येव ।
यथाऽङ्गानि हस्तपादादीनि स्युः नात्मा स्यात् । तत्तुल्यं केवलाङ्गनिर्वपणम् ।

विश्वास-प्रस्तुतिः

उ॒भया॑नि स॒ह नि॒रुप्या॑णि य॒ज्ञस्य॑ सात्म॒त्वाय॑ ।

मूलम्

उ॒भया॑नि स॒ह नि॒रुप्या॑णि ।
य॒ज्ञस्य॑ सात्म॒त्वाय॑ ।

भट्टभास्कर-टीका

तस्मात् उभयानि अङ्गी चाङ्गानि सह निरुप्याणि अविकल्पेन निर्वप्तव्यानि । सहग्रहणेन अन्यतरत्यागो निवार्यते, न युगपद्भावो विधीयते अनिष्टत्वात् । छान्दसः क्यप् । सात्मत्वं सबलत्वं सकलत्वं वा ॥

विश्वास-प्रस्तुतिः

उ॒भयव्ँ॒ वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑म् आप्यते ॥48॥

मूलम्

उ॒भयव्ँ॒ वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑म् आप्यते ॥48॥

भट्टभास्कर-टीका

5उभयं वा इत्यादि ॥ एतस्य आधातुः ।

ऐन्द्राग्नम् एकादश-कपालम्, आदित्यञ्चरु

विश्वास-प्रस्तुतिः

यो॑ ऽग्निम् आ॑ध॒त्त, ऐ॑न्द्रा॒ग्नम् एका॑दश-कपाल॒म् अनु॒ निर्व॑पे॒द्, आदि॒त्यञ् च॒रुम् ।

मूलम्

यो॑ऽग्निमा॑ध॒त्ते ।
ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत् ।
आ॒दि॒त्यञ्च॒रुम् ।

भट्टभास्कर-टीका

अनुनिर्वपेदिति । आग्नेयस्यानुनिर्वाप्यः कार्यः ।
आदित्यमिति । अदितिर्देवता अस्यादित्यम् । ‘दित्यदित्यादित्य’ इति ण्यः ।

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्नी वै दे॒वाना॒म् अया॑तमायामानौ +++(→सारभूतौ)+++ ।

मूलम्

इ॒न्द्रा॒ग्नी वै दे॒वाना॒म् अया॑तमायामानौ ।

भट्टभास्कर-टीका

अयातयामानौ सारभूतौ ।

विश्वास-प्रस्तुतिः

ये ए॒व दे॒वते॒ अया॑तयाम्नी॒ ताभ्या॑म् ए॒वास्मा॑ इन्द्रि॒यव्ँ वी॒र्य॑म् अव॑ रुन्धे ।

मूलम्

ये ए॒व दे॒वते॒ अया॑तयाम्नी ।
ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धे ।

भट्टभास्कर-टीका

अयातयाम्नी । अयातयाम्न्यौ । ‘अन उपधालोपिनः’ इति ङीप्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यो भ॑वति ।
इ॒यव्ँ वा अदि॑तिः +++(भवति)+++।
अ॒स्याम् ए॒व प्रति॑-तिष्ठति ।

मूलम्

आ॒दि॒त्यो भ॑वति ।
इ॒यव्ँ वा अदि॑तिः +++(भवति)+++।
अ॒स्याम् ए॒व प्रति॑-तिष्ठति ।

भट्टभास्कर-टीका

ताभ्यामित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

धे॒न्वै वा ए॒तद् रेतो॒ यद् आज्य॑म् ,अन॒डुह॑स् तण्डु॒ला , मि॑थु॒नम् ए॒वाव॑रुन्धे ।

मूलम्

धे॒न्वै वा ए॒तद्रेतः॑ ॥49॥ यदाज्य॑म् ।
अ॒न॒डुह॑स्तण्डु॒लाः ।
मि॒थु॒नमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

6धेन्वै वा इत्यादि ॥ चरुस्तुतिः । धेन्वा विकारः आज्यम् । अनडुहो विकारः तण्डुलाः, तच्छ्रमप्रभवत्वात् । तस्माद्घृते चरुर्मिथुनलाभाय ।

विश्वास-प्रस्तुतिः

घृ॒ते +++(चरुर्)+++ भ॑वति, य॒ज्ञस्यालू॑क्षान्तत्वाय।

मूलम्

घृ॒ते भ॑वति , य॒ज्ञस्यालू॑क्षान्तत्वाय ।

भट्टभास्कर-टीका

घृते भवतीत्यादि । घृतसम्बन्धेन लूक्षान्तत्वाभावमिश्रितो […भावः । लूक्षः रूक्षः मिश्रितो] वा तादृशोऽन्तः परित्यागो यस्य स तथोक्तः । तद्भावो मा भूदिति घृते चरुः कार्यः ॥

विश्वास-प्रस्तुतिः

+++(प्रतिदिशम् इति)+++ च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।

मूलम्

च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।

भट्टभास्कर-टीका

7चत्वार इति ॥ दिशामधीना श्चत्वारः । आर्षेयाः प्राश्नन्तीति । य आत्मीयान् ऋषीन् जानन्ति त आर्षेयाः ।

विश्वास-प्रस्तुतिः

दि॒शाम् ए॒व ज्योति॑षि जुहोति ।

मूलम्

दि॒शाम् ए॒व ज्योति॑षि जुहोति ।

भट्टभास्कर-टीका

तैः प्राशितं दिशां ज्योतिषि दिशां सम्बन्धिन्यग्नौ हुतमेव भवति ॥

रुद्राय हवींषि

विश्वास-प्रस्तुतिः

प॒शवो॒ वा ए॒तानि॑ ह॒वीँषि॑ ।

मूलम्

प॒शवो॒ वा ए॒तानि॑ ह॒वीँषि॑ ।

भट्टभास्कर-टीका

8पशवो वा इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

ए॒ष रु॒द्रो यद् अ॒ग्निः ॥50॥

मूलम्

ए॒ष रु॒द्रः ।
यद॒ग्निः ॥50॥

विश्वास-प्रस्तुतिः

यत् स॒द्य ए॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑द् , रु॒द्राय॑ प॒शून् अपि॑ दध्या॒त् , अप॒शुर् यज॑मानस् स्यात् ।

मूलम्

यत्स॒द्य ए॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑त् ।
रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।
अ॒प॒शुर्यज॑मानस्स्यात् ।

भट्टभास्कर-टीका

सद्यः समाने एकस्मिन्नहनि यस्मिन्नाग्नेयस्तत्रैवाह्नि यदि एतानि निर्वपेत् ।

रुद्रायेत्यादि । गतम् ।

  • तस्मात् अश्वस्य पदे अग्निनिधानेन रुद्राय पशूनपिदध्यात् ।
  • ततः पशुहीनो यजमानः स्यात् ।
विश्वास-प्रस्तुतिः

यन् नानु॑-नि॒र्वपे॒त् , अन॑वरुद्धा अस्य प॒शव॑स् स्युः ।

मूलम्

यन्नानु॑नि॒र्वपे॑त् ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।

भट्टभास्कर-टीका

अथैतद्दोषपरिजिहीर्षया एतानि हवींषि नानुनिर्वपेत् पशवो वाऽनवरुद्धाः स्युः ।

विश्वास-प्रस्तुतिः

द्वा॒द॒शसु॒ रात्री॒ष्व् अनु॒ निर्व॑पेत् ।
सव्ँ॒व॒त्स॒र-प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः ।

मूलम्

द्वा॒द॒शसु॒ रात्री॒ष्व् अनु॒ निर्व॑पेत् ।
सव्ँ॒व॒त्स॒र-प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः ।

भट्टभास्कर-टीका

द्वादशस्वित्यादि । द्वादशसु रात्रीषु गतासु द्वादशमासात्मकसंवत्सरप्रतिमाः द्वादशरात्रयः । उपमानपूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ +++(यजमानाय)+++ रु॒द्रँ श॑मयि॒त्वा प॒शून् अव॑रुन्धे ।

मूलम्

सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ रु॒द्रँ श॑मयि॒त्वा ।
प॒शूनव॑रुन्धे ।

भट्टभास्कर-टीका

संवत्सरेणेति । अपवर्गे तृतीया । शाखान्तरे - ‘संवत्सरे निरुप्याणि’ इत्युक्तम् । तस्याप्येवमनुग्रहः कृतो भवति ।

हविर्निर्वापक्रमः

विश्वास-प्रस्तुतिः

यद् एक॑म् एकम् +++(पृथक्-तन्त्रेण)+++ ए॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑त् +++(यथा न कश्चिदवकाश एभिः शून्यस् स्यात्)+++॥51॥ -
यथा॒ त्रीण्य् आ॒वप॑नानि +++(उदरैकदेशान् आपूरयेद् अशनादिभिः)+++ पू॒रये॑त् , ता॒दृक् तत् - न प्र॒जन॑न॒म् उच्छिँ॑षेत्+++(=उच्छिष्यात्)+++ ।

मूलम्

यद् एक॑म् एकम् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वपे॑त् ॥51॥
यथा॒ त्रीण्या॒वप॑नानि पू॒रये॑त् ।
ता॒दृक्तत् ।
न प्र॒जन॑न॒म् उच्छिँ॑षेत् ।

भट्टभास्कर-टीका

यदेकमेकमित्यादि । यद्येतानि हवींषि पृथक्तन्त्राण्येव निर्वपेत् न कश्चिदवकाश एभिः शून्यस्स्यात्, ततश्च यथा त्रीण्यावपनानि कोष्ठानि उदरैकदेशानापूरयेदशनादिभिः । ततश्च निरुच्छ्वासो म्रियेत । तत्तुल्यदोषमेषां पृथङ्निर्वपणं स्यात् ।

कथमित्याह - न प्रजननमित्यादि । न हि प्रजननावकाशमुच्छिष्यात् । विकरणव्यत्ययेन श्नमः परः शप् । ततश्च प्रजननाभावात् प्रजापशुहीनस्स्यात् ।

विश्वास-प्रस्तुतिः

+++(ततः)+++ एक॑न् नि॒रुप्योत्त॑रे॒ सम॑स्येत् +++(समानतन्त्रेण)+++ ।

मूलम्

एक॑न्नि॒रुप्य॑ ।
उत्त॑रे॒ सम॑स्येत् ।

भट्टभास्कर-टीका

तस्मात् एकं पवमानाय निरुप्य उत्तरे हविषी समस्येत् समानतन्त्रेण कुर्यात् ।

विश्वास-प्रस्तुतिः

तृ॒तीय॑म् ए॒वास्मै॑ लो॒कम् उच्छिँ॑षति प्र॒जन॑नाय ।

मूलम्

तृ॒तीय॑म् ए॒वास्मै॑ लो॒कम् उच्छिँ॑षति प्र॒जन॑नाय ।

भट्टभास्कर-टीका

एवं हि तृतीयं लोकं अवकाशं प्रजननाय उच्छिनष्टि ।

विश्वास-प्रस्तुतिः

तम् प्र॒जया॑ प॒शुभि॒र् अनु॒-प्रजा॑यते ।

मूलम्

तम् प्र॒जया॑ प॒शुभि॒र् अनु॒-प्रजा॑यते ।

भट्टभास्कर-टीका

ततस्तं लोकमनु तेन लोकेन हेतुना प्रजया पशुभिः प्रजायते यजमानः । लक्षणेऽनोः कर्मप्रवचनीयत्वम् ।

विश्वास-प्रस्तुतिः

अथो॑ य॒ज्ञस्यै॒वैषा ऽभिक्रा॑न्तिः ।

मूलम्

अथो॑ य॒ज्ञस्यै॒वैषा ऽभिक्रा॑न्तिः ।

भट्टभास्कर-टीका

अथो अपिच यज्ञस्याभिक्रान्तिरेषा यदुत्तरयोः समसनं उपर्याक्रमणं अभिक्रमणम् ॥

रथचक्रम्

विश्वास-प्रस्तुतिः

र॒थ॒-च॒क्रम् प्रव॑र्तयति ।

मूलम्

र॒थ॒-च॒क्रम् प्रव॑र्तयति ।

भट्टभास्कर-टीका

8रथचक्रमिति विधिः ॥ गार्हपत्यान्वाहार्यपचनाहवनीयक्रमेण प्रवर्तयति ।

मूलम्

म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थम्प्र॒त्यव॑रोहति ॥52॥

विश्वास-प्रस्तुतिः

म॒नु॒ष्य॒-रथे॑न+ ए॒व दे॑व-र॒थम् प्र॒त्य् अव॑रोहति ॥

मूलम्

म॒नु॒ष्य॒-रथे॑न+ ए॒व दे॑व-र॒थम् प्र॒त्य् अव॑रोहति ॥

भट्टभास्कर-टीका

मनुष्यरथेन अनेन चक्रेण गत्वा देवरथं प्रत्यवरुह्य तमधिष्ठाय देवीभूतो गच्छति, न पद्भ्यां व्रजति ॥

तूष्णीं होमः

मूलम्
विश्वास-प्रस्तुतिः

ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति॒ - “+++(पवमानहविर्भ्यः प्राग्)+++ होत॒व्य॑म् अग्नि-हो॒त्रा३ँ, न हो॑त॒व्या३म्” इति॑ । +++(‘विचार्यमाणानाम्’ इत्युभयत्र प्लुतः ।)+++

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ ।

भट्टभास्कर-टीका

10ब्रह्मवादिन इत्यादि ॥ पवमानहविर्भ्यः प्राग्विचार्यते । ‘विचार्यमाणानाम्’ इत्युभयत्र प्लुतः ।

मूलम्

यद्यजु॑षा जुहु॒यात् ।
अय॑थापूर्व॒माहु॑ती जुहुयात् ।

विश्वास-प्रस्तुतिः

यद् यजु॑षा जुहु॒याद् , अय॑था-पूर्व॒म् आहु॑ती जुहुयात् ।

मूलम्

यद् यजु॑षा जुहु॒याद् , अय॑था-पूर्व॒म् आहु॑ती जुहुयात् ।

भट्टभास्कर-टीका

यदि मन्त्रेण जुहुयात् अयथापूर्वं यथानुपूर्व्यामाहुतिं न जुहुयात् । अग्नेस्संस्कारमसमाप्य मन्त्रानन्तर्गतान् [तन्त्रानन्तर्गतं] पूर्वं येऽग्निहोत्रं जुह्वति तत्प्रतिक्रियाऽ [तत्प्रक्रियाऽ] तिलङ्घनेन आहुती हुते स्याताम् ।

विश्वास-प्रस्तुतिः

यन् न जु॑हु॒याद् - अ॒ग्निᳶ परा॑-भवेत्+++(=नश्येत्)+++ ।

मूलम्

यन्न जु॑हु॒यात् ।
अ॒ग्निᳶ परा॑भवेत् ।

भट्टभास्कर-टीका

अथैतद्दोषो मा प्रसंजीति यदि न जुहुयात् तदा अग्निः पराभवेत् नश्येत् ।

विश्वास-प्रस्तुतिः

तू॒ष्णीम् ए॒व हो॑त॒व्य॑म् ।

मूलम्

तू॒ष्णीम् ए॒व हो॑त॒व्य॑म् ।

भट्टभास्कर-टीका

तस्मात्तूष्णीं होमेनोभयदोषनिवृत्तिः ।

विश्वास-प्रस्तुतिः

य॒था॒-पू॒र्वम् +++(क्रमश)+++ आहु॑ती जु॒होति॑ ।
नाग्निᳶ परा॑-भवति ।

मूलम्

य॒था॒-पू॒र्वम् आहु॑ती जु॒होति॑ ।
नाग्निᳶ परा॑-भवति ।

भट्टभास्कर-टीका

यथापूर्वमिति । न कश्चिदयथापूर्वानुष्ठानशेषः, तूष्णीं होमस्य अकृतप्रायत्वात् । यद्वा यथापूर्वं क्रमानतिक्रमेण । अयमेव क्रमः इदानीमयममन्त्रेण हूयत इति होमस्य च वृक्तत्वात् न पराभवोऽग्नेः ॥

अग्नीधे दानम्

विश्वास-प्रस्तुतिः

अ॒ग्नीधे॑ ददाति ॥53॥
+++(तेन)+++ अ॒ग्नि-मु॑खान् ए॒व +ऋतून् प्री॑णाति ।

मूलम्

अ॒ग्नीधे॑ ददाति ॥53॥
अ॒ग्नि-मु॑खान् ए॒व +ऋतून् प्री॑णाति ।

भट्टभास्कर-टीका

11अग्नीध इत्यादि ॥ अग्निना सह आग्नेयानृतून् प्रजाता वा प्रजाः प्रीणाति । यद्वा - स्वयमग्निरेवाग्नीत् तस्मादग्नीधः पूजया अग्निमुखाः अग्निप्रधानाः सर्वे भृत्यादयः प्रजाः प्रीता भवन्ति ।

विश्वास-प्रस्तुतिः

उ॒प॒-बर्ह॑णन्+++(→सर्वसूत्रोपधानं)+++ ददाति , रू॒पाणा॒म् अव॑रुद्ध्यै ।

मूलम्

उ॒प॒बर्ह॑णन्ददाति ।
रू॒पाणा॒मव॑रुद्ध्यै ।

भट्टभास्कर-टीका

उपबर्हणं सर्वसूत्रोपधानं सर्वरूपलाभाय भवति ।

विश्वास-प्रस्तुतिः

अश्व॑म् ब्र॒ह्मणे॑ +++(ददाति)+++। इ॒न्द्रि॒यम् ए॒वाव॑रुन्धे ।

मूलम्

अश्व॑म्ब्र॒ह्मणे॑ ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

अश्वो ब्रह्मणे दीयमानो’ वीर्यवत्त्वादिन्द्रियलाभहेतुः ।

विश्वास-प्रस्तुतिः

धे॒नुँ होत्रे॑ +++(दधाति)+++।
आ॒शिष॑ ए॒वाव॑रुन्धे ।

मूलम्

धे॒नुँ होत्रे॑ ।
आ॒शिष॑ ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

धेनुर्होत्रे दीयमाना कामप्रदत्वादाशिषां लाभाय ।

विश्वास-प्रस्तुतिः

अ॒न॒ड्+++(=अनस्)+++वाह॑म् अध्व॒र्यवे॑ +++(ददाति)+++।
+++(वाहकत्वाद्)+++ वह्नि॒र् वा अ॑न॒ड्-वान्, +++(कर्मवाहकत्वाद्)+++ वह्नि॑र् अध्व॒र्युर् , वह्नि॑ना+ ए॒व +++(आत्मनो वाहकत्वाद्)+++ वह्नि॑ +++(फलम्)+++ य॒ज्ञस्याव॑रुन्धे ।

मूलम्

अ॒न॒ड्वाह॑मध्व॒र्यवे॑ ।

वह्नि॒र्वा अ॑न॒ड्वान् ।
वह्नि॑रध्व॒र्युः ॥54॥
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे ।

भट्टभास्कर-टीका

अनोवहनसमर्थोऽनड्वान् अध्वर्यवे दीयमानः वहित्वाद्वोढृत्वाच्च तादृशमात्मनो वोढृ यज्ञफलं यजमानो लभते ।

विश्वास-प्रस्तुतिः

मि॒थु॒नौ +++(स्त्रीपुंसौ)+++ गावौ॑ ददाति, +++(पूर्वोक्त-)+++मिथु॒नस्याव॑रुद्ध्यै ।

मूलम्

मि॒थु॒नौ गावौ॑ ददाति ।
मि॒थु॒नस्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

मिथुनौ स्त्रीपुंसौ दीयमानौ गावौ मिथुनलाभाय भवतः । सङ्घथान्तराणामनन्तर्भावात् ।

विश्वास-प्रस्तुतिः

वासो॑ ददाति ।
स॒र्व॒-दे॒व॒त्यव्ँ॑ वै वासः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ।

आ द्वा॑द॒शभ्यो॑ ददाति ।

द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ।

मूलम्

वासो॑ ददाति ।
स॒र्व॒-दे॒व॒त्यव्ँ॑ वै वासः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ।

आ द्वा॑द॒शभ्यो॑ ददाति ।

द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ।

विश्वास-प्रस्तुतिः

काम॑म् ऊ॒र्ध्वन् देय॒म् , अप॑रिमित॒स्याव॑रुद्ध्यै ॥55॥

मूलम्

काम॑म् ऊ॒र्ध्वन् देय॒म् , अप॑रिमित॒स्याव॑रुद्ध्यै ॥55॥

भट्टभास्कर-टीका

द्वादशमासात्मकस्य संवत्सरस्य लाभः ।
द्वादशभ्य ऊर्ध्वं कामं यथेष्टं देयं ययाकयाचित्सङ्ख्यया सङ्ख्येयं देयं अपरिमितमिति यावत् । अपरिमितस्य फलस्य लाभाय भवति ॥

इति प्रथमे षष्ठोऽनुवाकः ॥