आधानमन्त्रः
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् वा॒चस् स॒त्यम् अ॑पश्यत् ।
तेना॒ग्निम् आध॑त्त ।
तेन॒ वै स आ॑र्ध्नोत् ।
मूलम्
प्र॒जाप॑तिर् वा॒चस् स॒त्यम् अ॑पश्यत् ।
तेना॒ग्निम् आध॑त्त ।
तेन॒ वै स आ॑र्ध्नोत् ।
भट्टभास्कर-टीका
1प्रजापतिर्वाच इत्यादि ॥ वाचस्सम्बन्धि यत् सत्यं सति साधु अभिमतसाधनसमर्थं रूपं तेनाग्निमाधाय स प्रजापतिः आर्ध्नोत् कल्याणभाजनमभूत् ।
विश्वास-प्रस्तुतिः
“भूर् भुव॒स् सुव॒र्” इत्य् आ॑ह ।
ए॒तद् वै वा॒चस् स॒त्यम् ।
मूलम्
“भूर् भुव॒स् सुव॒र्” इत्य् आ॑ह ।
ए॒तद् वै वा॒चस् स॒त्यम् ।
विश्वास-प्रस्तुतिः
य ए॒तेना॒ग्निम् आ॑ध॒त्त ऋ॒ध्नोत्य् ए॒व ।
मूलम्
य ए॒तेना॒ग्निमा॑ध॒त्ते ।
ऋ॒ध्नोत्ये॒व ।
भट्टभास्कर-टीका
भूर्भुवस्सुवरित्याहेत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
अथो॑ स॒त्य-प्रा॑शूर्+++(←अश्)+++ ए॒व भ॑वति ।
मूलम्
अथो॑ स॒त्य-प्रा॑शूर् ए॒व भ॑वति ।
भट्टभास्कर-टीका
अथो अपिच सत्यप्राशूः सत्यपराक्रमो भवति । प्रकर्षेण अश्यते व्याप्यते अभिमतमनेनेति प्राशूः पराक्रमः । ‘कृपावाञि’ इत्युण्प्रत्ययः, वर्णविकारश्छान्दसः । यद्वा - सत्यप्राशूः सत्येन प्रकृष्टं समन्ताच्च वर्धमानो भवति । श्वयतेः प्राङुपसृष्टात् क्विपि सम्प्रसारणे दीर्घत्वे च रूपम् । छान्दसं पूर्वपदान्तोदात्तत्वम् ।
अभिचारे योगः
विश्वास-प्रस्तुतिः
अथो॒ य ए॒वव्ँ वि॒द्वान् अ॑भि॒-चर॑ति, स्तृणु॒त+++(=हिनस्ति)+++ ए॒वैन॑म् +++(अभिचर्यमाणम्)+++ ॥35॥
मूलम्
अथो॒ य ए॒वव्ँवि॒द्वान॑भि॒चर॑ति ।
स्तृ॒णु॒त ए॒वैन॑म् ॥35॥
भट्टभास्कर-टीका
अथो अपिच य एवं विद्वानभिचरति यदा तु मारयितुमिच्छति स एनं अभिचर्यमाणं स्तृणुत एव हिनस्त्येव सर्वाभिमतसिद्धिहेतुत्वाद्वाचस्सत्यवेदनस्य ॥
सिद्ध्यन्तरम्
विश्वास-प्रस्तुतिः
“भूर्” इत्य् आ॑ह ।
प्र॒जा ए॒व तद् यज॑मानस् सृजते ।
“भुव॒” इत्य् आ॑ह।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑-तिष्ठति ।
“सुव॒र्” इत्य् आ॑ह ।
सु॒व॒र्ग ए॒व लो॒के प्रति॑-तिष्ठति ।
मूलम्
“भूर्” इत्य् आ॑ह ।
प्र॒जा ए॒व तद् यज॑मानस् सृजते ।
“भुव॒” इत्य् आ॑ह।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑-तिष्ठति ।
“सुव॒र्” इत्य् आ॑ह ।
सु॒व॒र्ग ए॒व लो॒के प्रति॑-तिष्ठति ।
भट्टभास्कर-टीका
2भूरित्याहेत्यादि ॥ अवयवादेव समुदायस्तुतिः । उक्तेन क्रमेण भूरादीनां गार्हपत्यात्मनां जनादिलाभहेतुत्वात् ।
गार्हपत्याहवनीययोर् विनियोगः
विश्वास-प्रस्तुतिः
+++(भूर्भुवः इति)+++ त्रि॒भिर् अ॒क्षरै॒र् गार्ह॑पत्य॒म् आद॑धाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्व् ए॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒म् आध॑त्ते ।
मूलम्
त्रि॒भिर् अ॒क्षरै॒र् गार्ह॑पत्य॒म् आद॑धाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्व् ए॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒म् आध॑त्ते ।
भट्टभास्कर-टीका
त्रिभिरिति । भूर्भुवस्सुवरिति त्रित्वान्वयात्त्रिष्वपि लोकेषु सर्वं वाचस्सत्यमाप्नोति यजमानमापयति । यद्वा - स्वर्गे लोके निमित्ते स्वर्गलोकार्थं सर्वं वाचस्सत्यं सर्वं व्याहृतिसाध्यं फलमाप्नोति ।
मूलम्
विश्वास-प्रस्तुतिः
+++(भूर् भुवः सुवर् इति)+++ सर्वै॑ᳶ प॒ञ्चभि॑र् आहव॒नीय॑म् ॥36॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते॒ यद् आ॑हव॒नीयः॑।
सुव॒र्ग ए॒वास्मै॑ लो॒के वा॒चस् स॒त्यँ सर्व॑म् आप्नोति ।
मूलम्
सर्वै॑ᳶ प॒ञ्चभि॑र् आहव॒नीय॑म् ॥36॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते ।
यदा॑हव॒नीयः॑ ।
सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चस्स॒त्यँ सर्व॑माप्नोति ।
भट्टभास्कर-टीका
आहवनीयस्य वाचस्सत्येन अशेषेणाधानात् सर्वार्थत्वेऽपि प्राधान्यात् स्वर्गायेत्युक्तम् ॥
विश्वास-प्रस्तुतिः
त्रि॒भिर् गार्ह॑पत्य॒म् आ द॑धाति, प॒ञ्चभि॑र् आहव॒नीय॑म्।
अ॒ष्टौ सम्प॑द्यन्ते ।
मूलम्
त्रि॒भिर् गार्ह॑पत्य॒म् आ द॑धाति ।
प॒ञ्चभि॑र् आहव॒नीय॑म् +++(आदधाति)+++।
अ॒ष्टौ सम्प॑द्यन्ते ।
भट्टभास्कर-टीका
3त्रिभिरित्यादि ॥ पञ्चसु [अष्टसु] हि द्वौ वर्गौ । आद्यस्त्रिकः अन्यः पञ्चकः तत्र द्वयोर्वर्गयोरष्टौ वर्गिणः ।
विश्वास-प्रस्तुतिः
अ॒ष्टाक्ष॑रा गाय॒त्री, गा॑य॒त्रो॑ ऽग्निः।
यावा॑न् ए॒वाग्निस् तम् आध॑त्ते ॥37॥
मूलम्
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रो॑ऽग्निः ।
यावा॑ने॒वाग्निः ।
तमाध॑त्ते ॥37॥
भट्टभास्कर-टीका
ततोऽष्टत्वान्वयात् अष्टाक्षरगायत्र्यात्मा अग्निर्यावान् यावत्फलसाधनः सर्वं आहितो भवति ॥
अग्नेः प्रणयनय् उच्चता
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ता अ॑स्मात् सृ॒ष्टाᳶ परा॑चीर् आयन् ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ता अ॑स्मात् सृ॒ष्टाᳶ परा॑चीर् आयन् ।
भट्टभास्कर-टीका
4प्रजापतिः प्रजा इत्यादि ॥ प्रजापतिना सृष्टाः प्रजाः पराचीः पराच्यः अपुनरावृत्तौ अस्मात्प्रजापतेः आयन् आगच्छन्, ‘वा छन्दसि’ इति पर्वूसवर्णदीर्घः ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
ताभ्यो॒+++(→तदर्थम्)+++ ज्योति॒र्+++(→अग्निम्)+++ उद्-अ॑गृह्णात् ।
मूलम्
ताभ्यो॒ ज्योति॒र् उद्-अ॑गृह्णात् ।
भट्टभास्कर-टीका
अथ प्रजापतिः ताभ्यः तदागमनाय ज्योतिः अग्निं उद्गृह्णात् दीप्तज्वालमूर्ध्वं अधारयत् ।
विश्वास-प्रस्तुतिः
तञ् ज्योति॒ᳶ पश्य॑न्तीᳶ प्र॒जा अ॒भि-स॒माव॑र्तन्त ।
मूलम्
तञ् ज्योति॒ᳶ पश्य॑न्तीᳶ प्र॒जा अ॒भि-स॒माव॑र्तन्त ।
भट्टभास्कर-टीका
अथ ज्योतिः द्योतमानं ज्वलन्तमग्निं पश्यन्तीः पश्यन्त्यः प्रजाः तं प्रजापतिं अभिसमावर्तन्त तदाभिमुख्येन सम्भूय आवृत्ताः निवृत्ताः अभवन् ।
विश्वास-प्रस्तुतिः
उ॒परी॑वा॒ग्निम् उद् गृ॑ह्णीयाद् उ॒द्धर॑न् +++(प्रणयनार्थं कुण्डात् कुण्डम् अग्निहोत्रादौ)+++ ।
मूलम्
उ॒परी॑वा॒ग्निम् उद् गृ॑ह्णीयाद् उ॒द्धर॑न् ।
भट्टभास्कर-टीका
तस्मात् उद्धरन् उद्धरणार्थं प्रणयनार्थं अग्निमुपरि गृह्णीयान् यथा सर्वाः प्रजाः पश्येयुः नात्युच्चमिति प्रतिपादनार्थमिवेतीत्युक्तम् ।
विश्वास-प्रस्तुतिः
ज्योति॑र् ए॒व पश्य॑न्तीᳶ प्र॒जा यज॑मानम् अ॒भि स॒माव॑र्तन्ते ।
मूलम्
ज्योति॑र् ए॒व पश्य॑न्तीᳶ प्र॒जा यज॑मानम् अ॒भि स॒माव॑र्तन्ते ।
भट्टभास्कर-टीका
ज्योतिरेवेत्यादि । यथा कश्चिद्दर्शनीयपदार्थपाणिः निबिडितनिकटः प्रजाभिर्भवति एवं ज्योतिर्दर्शनलम्पटा एव सत्यः प्रजा यजमानमभिसमागम्य वर्तन्ते ॥
अश्वनयनम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒र् अक्ष्य् अ॑श्वयत्+++(=बृहद् अभवत्)+++ ।
मूलम्
प्र॒जाप॑ते॒र् अक्ष्य् अ॑श्वयत् ।
भट्टभास्कर-टीका
5प्रजापतेरक्षीत्यादि ॥ अश्वयत् उच्छूनमभवत् ।
विश्वास-प्रस्तुतिः
तत् परा॑ ऽपतत् । तद् अश्वो॑ ऽभवत् ।
तद्+++(→श्वयनाज् जन्म)+++ अश्व॑स्याश्व॒त्वम् ॥38॥
मूलम्
तत् परा॑ ऽपतत् ।
तद् अश्वो॑ ऽभवत् ।
तद् अश्व॑स्याश्व॒त्वम् ॥38॥
भट्टभास्कर-टीका
तत् तत एव पराऽपतत् ततः अश्वः समजनि, तस्मात् अश्वत्वमश्वस्य । अश्वयदित्यश्वः, श्वयतेरौणादिको डः, आदावकारोपजनः । भूतत्व द्योतको वा निपातः ।
विश्वास-प्रस्तुतिः
ए॒ष वै प्र॒जाप॑ति॒र् यद् अ॒ग्निः +++(सर्वदेवतात्मकत्वात्)+++ ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
मूलम्
ए॒ष वै प्र॒जाप॑तिः ।
यद॒ग्निः ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
भट्टभास्कर-टीका
अग्निः प्रजापतिः सर्वदेवतात्मकत्वात् । प्राजापत्योऽश्वः, तदक्षिपरिणामत्वात्, ।
विश्वास-प्रस्तुतिः
यद् अश्व॑म् पु॒रस्ता॒न् नय॑ति॒, स्वम् ए॒व चक्षु॒ᳶ पश्य॑न् प्र॒जाप॑ति॒र् अनूदे॑ति ।
मूलम्
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
स्वमे॒व चक्षु॒ᳶ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति ।
भट्टभास्कर-टीका
तस्मादश्वस्य पुरस्तान्नयनेन स्वीयमेव चक्षुः आत्मीयचक्षुर्भूतमश्चं पश्यन् प्रजापत्यात्मना अग्निः अनूदेति अनूद्गच्छति ।
विश्वास-प्रस्तुतिः
व॒ज्री वा ए॒ष यद् अश्वः॑ ।
मूलम्
व॒ज्री वा ए॒षः ।
यदश्वः॑ ।
भट्टभास्कर-टीका
वज्री वा इत्यादि । अश्वो वज्रीव वज्रपाणिरिव महाबलः । ‘वज्री वा एष यदश्वो दद्विरन्यतोदद्भ्यो भूयान् लोमभिरुभयादद्भ्यः’ इत्यश्वस्य वज्रित्वं प्रतिपादितम् ।
विश्वास-प्रस्तुतिः
यद् अश्व॑म् पु॒रस्ता॒न् नय॑ति, जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्रणु॑दते ।
मूलम्
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते ।
भट्टभास्कर-टीका
तस्मादश्वस्य पुरस्तान्नयनं जातानां शत्रूणां प्रणोदाय विनाशाय च भवति ।
विश्वास-प्रस्तुतिः
+++(यद् अश्व॑म्)+++ पुन॒र् आव॑र्तयति॒ , जनि॒ष्यमा॑णान् ए॒व +++(भ्रातृ॑व्या॒न्)+++ प्रति॑-नुदते ।
मूलम्
पुन॒राव॑र्तयति ॥ 39॥
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ।
भट्टभास्कर-टीका
अथ तेनैव पथा अश्वस्य पुनरावर्तनया जनिष्यमाणानां प्रतिनोदः उत्पत्तिनिरोधो भवति ॥
अग्निविभागार्थः
विश्वास-प्रस्तुतिः
न्य् आ॑हव॒नीयो॒ गार्ह॑पत्यम् +++(महिमानम्)+++ अकामयत ।
नि-गार्ह॑पत्य आहव॒नीय॑म् +++(महिमानम् अकामयत)+++ ।
मूलम्
न्य् आ॑हव॒नीयो॒ गार्ह॑पत्यम् अकामयत ।
नि-गार्ह॑पत्य आहव॒नीय॑म् +++(अकामयत)+++ ।
भट्टभास्कर-टीका
6न्याहवनीय इत्यादि ॥ निभृतं चौर्येण भर्तुं कामना निकामना । यथा - ‘तदग्निर्न्यकामयत’ इति । आधारधर्म एव आधेये उपचर्यते यथा गेहं मुषितमिति । गार्हपत्यस्य महिमानं आहवनीयो न्यकामयत आहवनीयस्य च गार्हपत्यः ।
विश्वास-प्रस्तुतिः
तौ वि॒भाज॒न्+++(गम्)+++ न+ अश॑क्नोत् +++(प्रजापतिः)+++।
मूलम्
तौ वि॒भाज॒न् न+ अश॑क्नोत् ।
भट्टभास्कर-टीका
तौ तथा निकामयमानौ सङ्कीर्णमहिमानौ विभाजं विभक्तुं अयमाहवनीयोऽयं गार्हपत्य इति पृथक्त्वेन निश्चेतुं नाशक्नोत् प्रजापतिः ।
विश्वास-प्रस्तुतिः
सो ऽश्व॑ᳶ पूर्व॒-वाड्+++(←वह्+ण्विः)+++ भू॒त्वा प्राञ्च॒म् +++(आहवनीयम् अग्निं)+++ पूर्व॒म् उद॑वहत् ।
मूलम्
सोऽश्व॑ᳶ पूर्व॒वाड्भू॒त्वा ।
प्राञ्च॒म्पूर्व॒मुद॑वहत् ।
भट्टभास्कर-टीका
अथ स प्रजापतिः पूर्ववाट् अश्वो भूत्वा प्राञ्चं अग्निं आहवनीयं पूर्वमुदवहत् । सैव तयोर्विभक्तिः आसीत् ।
विश्वास-प्रस्तुतिः
तत् पू॑र्व॒-वाह॑ᳶ पूर्व-वा॒ट्त्वम् ।
मूलम्
तत् पू॑र्व॒-वाह॑ᳶ पूर्व-वा॒ट्त्वम् ।
भट्टभास्कर-टीका
पूर्ववाट्त्वमिति । पूर्वं वोढुमारब्धवान् पर्वूवाट् ‘वहश्च’ डति ण्विः । स पूर्ववाण्णामाश्वविशेषः यो वोढुं प्रथममारब्धवान् ।
विश्वास-प्रस्तुतिः
यद् अश्व॑म् पु॒रस्ता॒न् नय॑ति॒, विभ॑क्तिर् ए॒वैन॑यो॒स् +++(अग्न्योः)+++ सा ।
मूलम्
यदश्व॑म्पु॒रस्ता॒न्नय॑ति ।
विभ॑क्तिरे॒वैन॑यो॒स्सा ।
भट्टभास्कर-टीका
विभक्तिरिति । अश्वस्य पुरस्तात्प्राञ्चमग्निं प्रति नयनं सैव अनयोः विभक्तिः पृथग्भावः ।
विश्वास-प्रस्तुतिः
अथो॒ नाना॑वीर्याव् ए॒वैनौ॑ कुरुते ॥40॥
मूलम्
अथो॒ नाना॑वीर्याव् ए॒वैनौ॑ कुरुते ॥40॥
भट्टभास्कर-टीका
अथो अपिच एनौ अग्नी नानावीर्यौ पृथक्छक्तिकौ । पुरस्तान्नयनेनानेन कुरुते । नानोपचारत्वात् नानावीर्यत्वम् ॥
अग्नेः प्रणयनय् मध्यमोच्चता
विश्वास-प्रस्तुतिः
यद् उ॒पर्य् उ॑परि॒ शिरो॒ हरे॑त्, प्रा॒णान् विच्छि॑न्द्यात् ।
मूलम्
यदु॒पर्यु॑परि॒ शिरो॒ हरे॑त् ।
प्रा॒णान्विच्छि॑न्द्यात् ।
भट्टभास्कर-टीका
7यदुपर्युपरीत्यादि ॥ यदुक्तम् ‘उपरीवाग्निमुद्गृह्णीयादुद्धरन्’ इति तद्विशेष्यते । यद्युपर्युपरि शिरः शिरसोऽप्युपरि यदि हरेत् यद्युद्गृह्वीयात् प्राणान् अस्य विच्छिन्द्यात् प्राणानतिक्रम्य गतत्वात् ।
विश्वास-प्रस्तुतिः
अ॒धो॑ ऽध॒श् शिरो॑ हरति । +++(‘उपर्यध्यधसः सामीप्ये’ इति द्विर्वचनम्, ‘धिगुपर्यादिषु त्रिषु’ इति द्वितीया ।)+++
मूलम्
अ॒धो॑ ऽध॒श् शिरो॑ हरति ।
भट्टभास्कर-टीका
तस्माच्छिरसोऽधस्तादेव हरति, नोपरि न समम् । तावत्येव यदुद्ग्रहणं तत्कर्तव्यमिति । ‘उपरीवाग्निम्'14 इति चेवशब्देन प्रागेवैतत्प्रतिपादितम् । ‘उपर्यध्यधसः सामीप्ये’ इति द्विर्वचनम्, ‘धिगुपर्यादिषु त्रिषु’ इति द्वितीया । अधश्शब्दोसिप्रत्ययान्तोन्तोदात्तः ।
विश्वास-प्रस्तुतिः
प्रा॒णाना॑ङ् गोपी॒थाये॑य॒त्य् +++(→ग्रीवदघ्न)+++ अग्रे॑ हरति ।
मूलम्
प्रा॒णाना॑ङ्गोपी॒थाय॑ ।
इय॒त्यग्रे॑ हरति ।
विश्वास-प्रस्तुतिः
अथ॑+ इय॒त्य् +++(→नाभिदघ्ने)+++ अथ॑+इय॑ति +++(→जानुदघ्न)+++ ।
मूलम्
अथेय॒त्यथेय॑ति ।
भट्टभास्कर-टीका
गोपीथाय रक्षणाय । गुपेरौणादिकस्थक्प्रत्ययः ईडागमश्च ॥
8इयतीति ॥ इयति प्रमाणे जानुदघ्ने नाभिदघ्ने ग्रीवदघ्न इत्यर्थः ।
त्रेधाधानम्
विश्वास-प्रस्तुतिः
त्रय॑ इ॒मे लो॒काः । ए॒ष्व् ए॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒म् आध॑त्ते ।
मूलम्
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑वैनल्ँ॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते ।
भट्टभास्कर-टीका
त्रय इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्॒ अग्निम् अ॑सृजत ।
मूलम्
प्र॒जाप॑तिर्॒ अग्निम् अ॑सृजत ।
विश्वास-प्रस्तुतिः
सो॑ ऽबिभे॒त् - “प्र मा॑ धक्ष्य॒ती"ति॑ ॥41॥
तस्य॑ त्रे॒धा म॑हि॒मानव्ँ॒ व्यौ॑ह॒च् - छान्त्या॒, अप्र॑दाहाय ।
मूलम्
सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ॥41॥
तस्य॑ त्रे॒धा म॑हि॒मानव्ँ॒ व्यौ॑हत् ।
शान्त्या॒ अप्र॑दाहाय ।
भट्टभास्कर-टीका
9प्रजापतिरग्निमित्यादि ॥ एकधा स्थितात् महिम्नोऽबिभ्यत् त्रेधा तं व्यौहत् महत्त्वोपलक्षितमग्नेश्शरीरं त्रेधा विभागेन अल्पमल्पं स्थापितवान् प्रजापतिः । तच्छान्त्यर्थमग्नेरभवत् आत्मनश्च अप्रदाहाय । ततोस्य प्र मा धक्ष्यतीति भीतिश्च निवृत्ता ।
विश्वास-प्रस्तुतिः
यत् त्रे॒धा ऽग्निर् आ॑धी॒यते॑ महि॒मान॑म् ए॒वास्य॒ तद् व्यू॑हति॒ - शान्त्या॒ अप्र॑दाहाय ।
मूलम्
यत्त्रे॒धाऽग्निरा॑धी॒यते॑ ।
म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति ।
शान्त्या॒ अप्र॑दाहाय ।
भट्टभास्कर-टीका
यत्त्रेधेत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
पुन॒र् +++(आहवनीय-प्रतिष्ठापनम्)+++ आव॑र्तयति ।
म॒हि॒मान॑म् ए॒वास्य॒ +++(आहवनीयस्य)+++ सन्द॑धाति ।
मूलम्
पुन॒र् आव॑र्तयति ।
म॒हि॒मान॑म् ए॒वास्य॒ सन्द॑धाति ।
भट्टभास्कर-टीका
पुनरावर्तयतीत्यादि । त्रेधा विभज्य पुनः आहवनीयसमीपमागच्छति । तेन त्रेधाविभक्तं अस्य महिमानं संदधाति संहतमेकत्र स्थापयति विभक्तं पुनरेकीकरोति । केचित्तु प्रयोजककर्तृव्यापारमुपपादयन्त एवमाहुः - त्रेधा प्रतिष्ठाप्य पुनरावृत्त्य आहवनीयं प्रतिष्ठापयतीति प्रतिष्ठा आवर्त्यत इति ॥
अश्वपदपार्श्वे स्थापनम्
विश्वास-प्रस्तुतिः
प॒शुर् वा ए॒ष यद् अश्वः॑ ।
मूलम्
प॒शुर्वा ए॒षः ।
यदश्वः॑ ।
विश्वास-प्रस्तुतिः
ए॒ष रु॒द्रो यद् अ॒ग्निः ।
मूलम्
ए॒ष रु॒द्रः ॥42॥
यद॒ग्निः ।
भट्टभास्कर-टीका
10पशुर्वा इत्यादि ॥ अश्वोऽयं पशुः । अग्निरयं च रुद्रः ।
विश्वास-प्रस्तुतिः
यद् अश्व॑स्य प॒दे॑ ऽग्निम् आ॑द॒ध्याद् , रु॒द्राय॑ प॒शून् अपि॑-दध्यात् ।
मूलम्
यदश्व॑स्य प॒दे॑ऽग्निमा॑द॒ध्यात् ।
रु॒द्राय॑ प॒शूनपि॑दध्यात् ।
भट्टभास्कर-टीका
तस्मात् अश्वस्य पदे अग्निनिधानेन रुद्राय पशूनपिदध्यात् ।
विश्वास-प्रस्तुतिः
अ॒प॒शुर् यज॑मानस् स्यात् ।
मूलम्
अ॒प॒शुर् यज॑मानस् स्यात् ।
भट्टभास्कर-टीका
ततः पशुहीनो यजमानः स्यात् ।
विश्वास-प्रस्तुतिः
यन् नाक्र॒मये॒द् +++(पदस्य पार्श्वे अग्निं निदध्यात्)+++ - अन॑वरुद्धा अस्य प॒शव॑स् स्युः ।
मूलम्
यन्नाक्र॒मये॑त् ।
अन॑वरुद्धा अस्य प॒शव॑स्स्युः ।
भट्टभास्कर-टीका
अथैतद्दोषपरिजिहीर्षया अश्वस्य पदं अग्निं नाक्रमयेत् पश्ववरोधो न स्यात् तेषामनाक्रान्तत्वात् । ततस्ते जह्युरेनम् । तस्माद्दोषद्वयं मासंजीति पदस्य पार्श्वे अग्निं निदध्यात् । आद्यादिभ्यस्तसिः ।
विश्वास-प्रस्तुतिः
पा॒र्श्व॒त आक्र॑मयेद् यथा ऽऽहि॑तस्य +अ॒ग्नेर् अङ्गा॑रा अभ्य् अव॒वर्ते॑रन् +++(अश्वपदम्)+++।
मूलम्
पा॒र्श्व॒त आक्र॑मयेत् ।
यथा ऽऽहि॑तस्य +अ॒ग्नेर् अङ्गा॑रा अभ्य् अव॒वर्ते॑रन् ।
भट्टभास्कर-टीका
पार्श्वं विशिनष्टि - यथा यावति पार्श्वे आहितस्य ज्वलितस्याग्रेः अङ्गाराः अश्वस्य पदमभ्यववर्तेरन् - आक्रम्य पदस्योपरि तिष्ठन्ति तावति पार्थे निदध्यात् ।
विश्वास-प्रस्तुतिः
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
न रु॒द्रायापि॑-दधाति +++(पशून्)+++ ॥43॥
मूलम्
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
न रु॒द्रायापि॑-दधाति ॥43॥
भट्टभास्कर-टीका
एवं पदस्याङ्गाराभिवर्तनेन पशवोऽवरुद्धा भवन्ति पदे अग्नेरनिधानात् रुद्रायापिहिताश्च न भवन्ति ॥
हविर्निर्वापः
विश्वास-प्रस्तुतिः
त्रीणि॑ ह॒वीँषि॒ निर्व॑पति ।
+++(अग्निविशेषस्य)+++ वि॒राज॑ ए॒व विक्रा॑न्तय्ँ॒ यज॑मा॒नो ऽनु॒-विक्र॑मते ।
+++(ननूक्तम् - सा विराडभवत्। सा ततः प्राच्युदक्रामत्। )+++
मूलम्
त्रीणि॑ ह॒वीँषि॒ निर्व॑पति ।
वि॒राज॑ ए॒व विक्रा॑न्तय्ँ॒ यज॑मा॒नो ऽनु॒-विक्र॑मते ।
विश्वास-प्रस्तुतिः
अ॒ग्नये॒ पव॑मानाय +++(निर्व॑पति)+++।
अ॒ग्नये॑ पाव॒काय॑ +++(निर्व॑पति)+++।
अ॒ग्नये॒ शुच॑ये +++(निर्व॑पति)+++।
+++(भास्करोक्तविकल्पो ऽत्र - अत्राप्य् ऐन्द्राग्नादित्याभ्यां अनुनिर्वाप्याभ्यां सह पञ्च हवींषि भवन्ति ।)+++
मूलम्
अ॒ग्नये॒ पव॑मानाय ।
अ॒ग्नये॑ पाव॒काय॑ ।
अ॒ग्नये॒ शुच॑ये ।
विश्वास-प्रस्तुतिः
यद् अ॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति , पु॒नात्य् ए॒वैन॑म् ।
मूलम्
यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति ।
पु॒नात्ये॒वैन॑म् ।
भट्टभास्कर-टीका
11त्रीणीत्यादि ॥ विराडग्निविशेषः ‘सा विराडभवत्’ इति प्रसिद्धः । तस्य विक्रान्तं अनुविक्रमते यजमानः ।
का पुनस्तस्य विक्रान्तिः ‘सा ततः प्राच्युदक्रामत्'15 इत्यत्र प्रतिपादिता पञ्चधा पुनरग्नेर्विक्रान्तिः । अत्राप्यैन्द्राग्नादित्याभ्यां अनुनिर्वाप्याभ्यां सह पञ्च हवींषि भवन्ति । त्रिग्रहणमुपलक्षणम् । यद्वा - ‘सा ततः प्राच्युदक्रामत्’ इत्यत्र प्रतिपादितं अन्नप्रजापश्वादिसम्पादनसामर्थ्यं विक्रान्तिः । तत्सामर्थ्यवान्भवति यजमानः एतैर्हविर्भिस्त्रिभिरेव ॥
विश्वास-प्रस्तुतिः
यद् अ॒ग्नये॑ पाव॒काय॑ +++(नि॒र्वप॑ति)+++, +++(प्रथमनिर्वापेण)+++ पू॒त ए॒वास्मि॑न्न् +++(जने)+++ अ॒न्नाद्य॑न्+++(=अन्नादनसामर्थ्यं)+++ दधाति ।
मूलम्
यद॒ग्नये॑ पाव॒काय॑ ।
पू॒त ए॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
भट्टभास्कर-टीका
12तामेव विक्रान्तिं दर्शयति - यदग्नय इत्यादि ॥ प्रथमेन तावदेनं पुनाति, द्वितीयेन प्रथमभूतेऽस्मिन्नन्नाद्यमादधाति ।
विश्वास-प्रस्तुतिः
यद् अ॒ग्नये॒ शुच॑ये +++(नि॒र्वप॑ति)+++ ब्रह्म-वर्च॒सम् ए॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति ॥44॥
मूलम्
यद॒ग्नये॒ शुच॑ये ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति ॥44॥
भट्टभास्कर-टीका
तृतीयेन चास्मिन् ब्रह्मवर्चसं दधाति । उपरिष्टात्पूते अन्नाद्यवति च सम्पन्ने तदुपरि ब्रह्मवर्चसं चास्मिन् स्थापयतीत्येके । अन्नस्यादनं अन्नाद्यं अन्नादनसामर्थ्यं, भावे यत् । ब्रह्मणो वर्चो बलं ब्रसवर्चसम्, ‘ब्रह्महस्तिम्याम्’ इत्यच् समासान्तः ॥
इति प्रथमे पञ्चमोऽनुवाकः ॥