०४ सम्भारसंयुक्तायतनेषु अग्न्याधानम्

आधानावकाशः

विश्वास-प्रस्तुतिः

+++(गार्हपत्याद्)+++ द्वा॒द॒शसु॑ विक्रा॒मेष्व्+++(=प्रक्रम इति केचित्, पद इत्य् अन्ये)+++ अ॒ग्निम् आ द॑धीत ।
+++(प्रक्रमः = द्विपदस्त्रिपदो वा यत्र पञ्चदशाङ्गुलं पदम्।)+++

मूलम्

द्वा॒द॒शसु॑ विक्रा॒मेष्व् अ॒ग्निम् आ द॑धीत ।

भट्टभास्कर-टीका

1द्वादशस्विति ॥ विक्रामः प्रक्रमः । स च द्विपदः । यथोक्तम् - ‘प्रक्रमो द्विपदस्त्रिपदो वो’ इति । क्रमेर्घञ्, “नोदात्तोपदेशस्य” इति वृद्धिप्रतिषेधो व्यत्ययेन न प्रवर्तते । पञ्चदशाङ्गुलं पदम् । गार्हपत्यात् द्वादशसु विक्रामेष्वग्निमादधीत । तत्समाप्तावाहवनीयायतनं कुर्यात् । केचिदाहुः - पदमेव विक्रम इति आहुश्चाग्न्याधेये पदं प्रतीयादिति ।

विश्वास-प्रस्तुतिः

द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒राद् ए॒वैन॑म् अव॒रुद्ध्याऽऽध॑त्ते ।

मूलम्

द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒राद् ए॒वैन॑म् अव॒रुद्ध्याऽऽध॑त्ते ।

भट्टभास्कर-टीका

द्वादशेत्यादि । द्वौ च दश च द्वादश । ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । द्वादशस्वित्यत्र - ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् । द्वादशत्वान्वयात् द्वादशमासात्मकात् संवत्सरादेनमग्निं लब्ध्वा आहितवान् भवति ॥

विश्वास-प्रस्तुतिः

यद् द्वा॑द॒शसु॑ विक्रा॒मेष्व् आ॒दधी॑त परि॑मित॒म् अव॑रुन्धीत ।

मूलम्

यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒दधी॑त । परि॑मित॒मव॑रुन्धीत ।

भट्टभास्कर-टीका

2विकल्पयति यदित्यादि ॥ परिमितं फलं अवरुन्धीत वेदिपरिग्रहस्य परिमितत्वात् । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

चक्षु॑र्-निमित॒+++(स्थानय्)+++ आद॑धीत - “इय॒द् द्वाद॑श विक्रा॒मा (३)” इति॑ +++(प्रायिकमानम् अवलम्ब्य)+++।
+++(‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।)+++

मूलम्

चक्षु॑र्निमित॒ आद॑धीत । इय॒द्द्वाद॑श विक्रा॒मा (३) इति॑ ।

भट्टभास्कर-टीका

तस्मात् चक्षुर्निमिते चक्षुषा परिच्छिन्ने आदधीत । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
चक्षुषा परिच्छिन्ने विशेषं दर्शयति - इयदिति । इयत् एतावत् द्वादशविक्रामाः एषोऽवकाशः द्वादशविक्रमपर्याप्तः इति सम्भवतो निश्चित्य चक्षुषा तत्र अभ्युपगमे प्लुतः ।

विश्वास-प्रस्तुतिः

परि॑मितञ् चै॒व +++(प्रक्रमादिना प्रमाणेनापरिमितत्वात्)+++ +अ-प॑रिमित॒ञ् चाव॑रुन्धे ।

मूलम्

परि॑मितञ् चै॒व +अप॑रिमित॒ञ् चाव॑रुन्धे ।

भट्टभास्कर-टीका

परिमितं चेति । इत्थं चक्षुर्निमितं तत् परिमितं च भवति सम्भवतः परिमितत्वात् । अपरिमितं च प्रक्रमादिना प्रमाणेनापरिमितत्वात् । तस्मात् परिमितापरिमितसमस्ताभिमतार्थलाभः ॥

विश्वास-प्रस्तुतिः

अनृ॑तव्ँ॒ वै वा॒चा व॑दति । अनृ॑त॒म् मन॑सा ध्यायति ॥26॥

मूलम्

अनृ॑तव्ँ॒ वै वा॒चा व॑दति ।
अनृ॑त॒म् मन॑सा ध्यायति ॥26॥

भट्टभास्कर-टीका

3इदानीं चक्षुर्निमितस्यान्यथा स्तुतिं करोति - अनृतं वा इत्यादि ॥ कदाचित् अनृतं अर्थशून्यमपि पुरुषो वाचा वदति । मनसा च कदाचित् अनृतं ध्यायति ।

विश्वास-प्रस्तुतिः

चक्षु॒र् वै स॒त्यम् +++(यतो न कदाचिदप्यनृतं पश्यति)+++।

मूलम्

चक्षु॒र् वै स॒त्यम् ।

भट्टभास्कर-टीका

चक्षुषा तु न कदाचिदप्यनृतं पश्यति । तस्माच्चक्षुस्सत्यमेव । ननु चक्षुः शुक्तिकां रजतं गृह्णाति, चन्द्रमेकं द्वौ गृह्णाति, शङ्खं शुक्रफलं गृह्णाति । नैतत् । दोषनिबन्धनत्वात् न चक्षुषोऽयमपराधः ।

विश्वास-प्रस्तुतिः

+++(लोके ननु-)+++ “अद्रा(३)क् " इत्या॑ह , “अद॑र्शम्॒” इति॑ +++(आह, न त्व् अज्ञासिषमश्रौषमिति वा)+++ , +++(तेन)+++ तत् स॒त्यम् ।

मूलम्

अद्रा(३)गित्या॑ह । अद॑र्श॒मिति॑ । तत्स॒त्यम् ।

भट्टभास्कर-टीका

इदानीं चक्षुषः सत्यत्वाय लोके चाक्षुषस्य प्रत्ययस्य परिग्रहातिशयं दर्शयति - अद्रागिति किं त्वमिदमद्राक्षीरिति यदा कश्चित्पृच्छति तदा अदर्शमित्युत्तरमाह पृष्टः । तत्र यः पृच्छति यश्चाचष्टे तयोरुभयोरपि चाक्षुषे प्रत्यये सत्यताप्रत्ययो भवति । तस्माच्चक्षुषा दृष्टं सत्यं श्रद्धेयमस्य भवति ।

विश्वास-प्रस्तुतिः

यश् चक्षु॑र्-निमिते॒ ऽग्निम् आ॑ध॒त्ते स॒त्य ए॒वैन॒म् आध॑त्ते ।

मूलम्

यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते । स॒त्य ए॒वैन॒माध॑त्ते ।

भट्टभास्कर-टीका

अथ यद्यन्यथा ब्रवीति अज्ञासिषमश्रौषमिति वा तदस्य सत्यं न भवति न तस्य श्रद्धेयता । अयमभिप्रायः - यदा किमज्ञासीरश्रौषीरिति वा पृष्टोपि सत्यत्वायादर्शमहमिति प्रतिब्रूते तदा किं पुनरद्राक्षीरिति पृष्टोऽदर्शमिति प्रतिब्रूते सत्यत्वायैवेति ।यस्मादेवं चक्षुषः सत्यत्वम् । तस्माच्चक्षुर्निमिते अग्निमादधीत ।
सत्य एवैनमाधत्ते आहितवान् भवति । दृशेर्लुङि ‘न दृशः’ इति क्से प्रतिषिद्धे “स्रजि दृशोः” इमागमे हलन्तलक्षणायां वृद्धौ ‘बहुलं छन्दसि’ इति ईडभावे षत्वकत्वयोर्हल्ङ्यादिसंयोगान्तलोपयोः अद्राक् इति रूपम् । ततः प्रश्ने उदात्तः प्लुतः । तस्यासिद्धत्वादानुदात्तः । कस्यैतस्य पन्नवाः । अदर्शमित्यत्र ‘इरितो वा’ इत्यङ् । “ऋदृशोऽङि गुणः”॥

आहिताग्निधर्मः

विश्वास-प्रस्तुतिः

तस्मा॒द्+++(→सत्य आहितत्वात्)+++ आहि॑ताग्नि॒र् नानृ॑तव्ँ वदेत् ।+++(5)+++

मूलम्

तस्मा॒द् आहि॑ताग्नि॒र् नानृ॑तव्ँ वदेत् ।

भट्टभास्कर-टीका

४तस्मादिति ॥ यस्मादस्य सत्येऽग्निराहितः तस्मादनृतं न वदेत् । सत्यासत्ययोरसमावेशात् । सत्ये ह्यस्याग्निराहित इत्यत्रैव हेतुः ।

विश्वास-प्रस्तुतिः

नास्य॑ ब्राह्म॒णो ऽना॑श्वान् +++(सत्येनान्नेन रहितो)+++ गृ॒हे व॑सेत् ।
स॒त्ये ह्य्॑ अस्या॒ग्निर् आाहि॑तः ।

मूलम्

नास्य॑ ब्राह्म॒णो ऽना॑श्वान् गृ॒हे व॑सेत् ।
स॒त्ये ह्य्॑ अस्या॒ग्निर् आाहि॑तः ।

भट्टभास्कर-टीका

न च अस्य गृहे ब्राह्मणोऽनाश्वान् अनशितवान् वसेत् । “सत्ये ह्यस्येति"अत्रापि हेतुरिति कश्चित् । सत्यं अग्निर्ब्राह्मणः सत्ये आहितत्वात् सत्येनान्नेन रहितो यो ब्राह्मणः अग्निरस्य गृहे वस्तुं नार्हतीति । अश्नोतेर्लिटः क्वसौ ‘उपेयिवाननाश्वान्’ इति निपात्यते ॥

कालः

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यी वै रात्रिः॑ , आ॒ग्ने॒याᳶ प॒शवः॑ , ऐ॒न्द्रम् अहः॑।
नक्त॒ङ् गार्ह॑पत्य॒म् आद॑धाति ।
नक्त॒ङ् गार्ह॑पत्य॒म् आद॑धाति । +++(तेन)+++ प॒शून् ए॒वाव॑-रुन्धे ।

मूलम्

आ॒ग्ने॒यी वै रात्रिः॑ ॥27॥
आ॒ग्ने॒याᳶ प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्त॒ङ्गार्ह॑पत्य॒माद॑धाति ।
प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

5आग्नेयी वा इत्यादि रात्रेः ॥ पशूनां चाग्नेयत्वात् रात्रौ गार्हपत्याधानं पशुलाभहेतुः ।

विश्वास-प्रस्तुतिः

दिवा॑ ऽऽहव॒नीय॑म् +++(आदधाति)+++। इ॒न्द्रि॒यम् ए॒व अव॑रुन्धे ।

मूलम्

दिवा॑ ऽऽहव॒नीय॑म् +++(आदधाति)+++।
इ॒न्द्रि॒यम् ए॒व अव॑रुन्धे ।

भट्टभास्कर-टीका

अह्नः ऐन्द्रत्वादहन्याहवनीयाधानं इन्द्रियलाभहेतुः ।

विश्वास-प्रस्तुतिः

अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒म् आद॑धाति ।
ए॒तस्मि॒न् वै लो॒के प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । प्र॒जा ए॒व तद् यज॑मानस् सृजते ।

मूलम्

अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒म् आद॑धाति ।
ए॒तस्मि॒न् वै लो॒के प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
प्र॒जा ए॒व तद् यज॑मानस् सृजते ।

भट्टभास्कर-टीका

अर्धोदित इति । एतस्मिन् लोके स्थाने अवकाशे अर्धोदयकालस्थानीये नक्तानक्तस्वरूपे काले प्रजापतिः प्रजासृष्टिमकरोत् तस्मादर्धोदयकाले आहवनीयाधानं प्रजालाभहेतुः ।

विश्वास-प्रस्तुतिः

अथो॑ +++(अर्धोदितत्वाद्)+++ भू॒तञ् चै॒व भ॑वि॒ष्यच् चाव॑रुन्धे ॥28॥

मूलम्

अथो॑ भू॒तञ् चै॒व भ॑वि॒ष्यच् चाव॑रुन्धे ॥28॥

भट्टभास्कर-टीका

अथो अपि च भूतभविष्यतोर्लाभहेतुश्च भवति । भूता गता रात्रिः । भविष्यत् आगामि आरब्धमहः । अर्धोदयस्तदुभयात्मा । रात्रिश्च भवति अहश्च भवति । तस्मात्तादृशे काले आधानं तदुभयलाभहेतुः । दिवाऽऽहवनीयमित्यविशिष्टं अर्धोदित इति नियम्यत इत्येके । दिवा वा अर्धोदिते वेत्यन्ये ॥

आधानक्रमः

विश्वास-प्रस्तुतिः

इडा॒ वै मा॑न॒वी य॑ज्ञाऽनूका॒शिन्य् आ॑सीत् ।

मूलम्

इडा॒ वै मा॑न॒वी य॑ज्ञाऽनूका॒शिन्या॑सीत्।

भट्टभास्कर-टीका

6इडा वा इत्यादि ॥ इडा नाम मनोः स्त्र्यपत्यं यज्ञानूकाशिनी यज्ञतत्त्वार्थप्रकाशनसामर्थ्यवती । अनुरूपः प्रकाशोऽनुकाशः । काश्यादित्वादिनिः । ‘इकः काशे’ इति दीर्घत्वम् ।

विश्वास-प्रस्तुतिः

सा ऽशृ॑णोद् - “असु॑रा अ॒ग्निम् आद॑धत॒ " इति॑ ।
+++(मनसा)+++ तद् अ॑गच्छत् ।

मूलम्

साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद् अ॑गच्छत् ।

भट्टभास्कर-टीका

साऽशृणोदित्यादि । सा असुरा अग्निम् आदधत इति श्रुतवती ।
तदगच्छत् मनसा प्राप्तवती । गत्यर्था बुद्ध्यर्थाः । कथमेते कुर्वन्तीति मनसा निरूपितवती च ।

विश्वास-प्रस्तुतिः

त आ॑हव॒नीय॒म् अग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् +++(आदधत)+++ । अथा॑न्वाहार्य॒-पच॑नम् +++(आदधत)+++ ।

मूलम्

त आ॑हव॒नीय॒म् अग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् +++(आद॑धत)+++ , अथा॑न्वाहार्य॒-पच॑नम् +++(आद॑धत)+++ ।

भट्टभास्कर-टीका

ते च आहवनीयाद्यन्वाहार्यपचनान्तं आदधत ।

विश्वास-प्रस्तुतिः

सा ऽब्र॑वीत् - “प्र॒तीच्य् ए॑षाँ॒ श्रीर् अ॑गात् , +++(कंचित्कालं)+++ भ॒द्रा भू॒त्वा परा॑-भविष्य॒न्ती"ति॑ ॥29॥

मूलम्

सा ऽब्र॑वीत् ।
प्र॒तीच्ये॑षाँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ ॥29॥

भट्टभास्कर-टीका

अथ सा तादृशमाधानक्रमं ज्ञातवती मनोः पार्श्वे स्थिता अब्रवीत् । प्रतीची प्रतीचीनगमना एषां एवमादधानानां श्रीः आधानक्रिया अगात् स्वर्गस्थानीयमाहवनीयमाधाय तं त्यक्त्वा प्रत्यग्गमनात् कियन्तं कंचित्कालं भद्राः ऐश्वर्यवन्तो भूत्वा पराभविष्यन्ति विनष्टा भविष्यन्तीति ।

विश्वास-प्रस्तुतिः

यस्यै॒वम् अ॒ग्निर् आ॑धी॒यते॑, प्र॒तीच्य् अ॑स्य॒ श्रीर् ए॑ति, भ॒द्रो भू॒त्वा परा॑भवति ।

मूलम्

यस्यै॒वम॒ग्निरा॑धी॒यते॑ । प्र॒तीच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा परा॑भवति ।

भट्टभास्कर-टीका

यस्यैवमित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

सा ऽशृ॑णोद् - “दे॒वा अ॒ग्निम् आद॑धत॒” इति॑ ।
+++(मनसा)+++ तद् अ॑गच्छत् ।

मूलम्

साऽशृ॑णोत् । दे॒वा अ॒ग्निमाद॑धत॒ इति॑ ।

विश्वास-प्रस्तुतिः

ते॑ ऽन्वाहार्य॒-पच॑न॒म् अग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् +++(आद॑धत )+++। अथा॑हव॒नीय॑म् +++(आद॑धत )+++।

मूलम्

ते॑ऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑हव॒नीय॑म् ।

विश्वास-प्रस्तुतिः

सा ऽब्र॑वीत् , “प्राच्य् ए॑षाँ॒ श्रीर् अ॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गल्ँ लो॒कम् ए॑ष्यन्ति । +++(प्रजासम्पत्तिहेतुं गार्हपत्यं त्यक्त्वा)+++ प्र॒जान् तु न वे॑त्स्यन्त॒+++(←विन्द्)+++ " इति॑ ।

मूलम्

साऽब्र॑वीत् ॥30॥
प्राच्ये॑षाँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गल्ँ लो॒कमै॑ष्यन्ति ।
प्र॒जान् तु न वे॑त्स्यन्त॒” इति॑ ।

भट्टभास्कर-टीका

7सेत्यादि पूर्ववत् ॥ अन्वाहार्यपचनाद्याहवनीयान्तं देवानामाधानं ज्ञात्वा प्राची प्राचीनगमनां आहवनीयान्तत्वात् ।
तस्मात्सर्वदा भद्रा ऐश्वर्यवन्तो भूत्वा त्वर्गमेष्यन्ति । प्रजां तु न वेत्स्यन्ते न लप्स्यन्ते प्रजासम्पत्तिहेतुं गार्हपत्यं त्यक्त्वा अन्यत्र गमनात्तस्य चाप्राथम्यात् । विन्दति स्वरितेत् ।

विश्वास-प्रस्तुतिः

यस्यै॒वम् अ॒ग्निर् आ॑धी॒यते॑, प्राच्य् अ॑स्य॒ श्रीर् ए॑ति , भ॒द्रो भू॒त्वा सु॑व॒र्गल्ँ लो॒कम् ए॑ति । प्र॒जान् तु न वि॑न्दते ।

मूलम्

यस्यै॒वम॒ग्निरा॑धी॒यते॑ । प्राच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा सु॑व॒र्गल्ँ लो॒कमे॑ति ।

विश्वास-प्रस्तुतिः

सा ऽब्र॑वी॒द् इडा॒ मनु॑म् - “तथा॒ वा अ॒हन् तवा॒ग्निम् आधा॑स्यामि ।

मूलम्

साऽब्र॑वी॒दिडा॒ मनु॑म् । तथा॒ वा अ॒हन्तवा॒ग्निमाधा॑स्यामि ।

विश्वास-प्रस्तुतिः

यथा॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् ज॑नि॒ष्यसे॑ ॥ 31 ॥
प्रत्य् अ॒स्मिल्ँ लो॒के स्था॒स्यसि॑ ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ् जे॒ष्यसि” +इति॑ ।

मूलम्

यथा॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् ज॑नि॒ष्यसे॑ ॥ 31 ॥
प्रत्य् अ॒स्मिल्ँ लो॒के स्था॒स्यसि॑ ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ् जे॒ष्यसि” +इति॑ ।

विश्वास-प्रस्तुतिः

गार्ह॑पत्य॒म् अग्र॒ आद॑धात् ।
गार्ह॑पत्यव्ँ॒ वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्रजा॑यन्ते ।
गार्ह॑पत्येन+ ए॒वास्मै॑ प्र॒जाम् प॒शून् प्राज॑नयत् ।

मूलम्

गार्ह॑पत्य॒म् अग्र॒ आद॑धात् ।
गार्ह॑पत्यव्ँ॒ वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्रजा॑यन्ते ।
गार्ह॑पत्येन+ ए॒वास्मै॑ प्र॒जाम् प॒शून् प्राज॑नयत् ।

विश्वास-प्रस्तुतिः

अथा॑न्वाहार्य॒-पच॑नम् +++(आद॑धात् )+++।
ति॒र्यङ्ङ् इ॑व॒ वा अ॒यल्ँ लो॒कः ।
अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् ।

मूलम्

अथा॑न्वाहार्य॒-पच॑नम् +++(आद॑धात् )+++।
ति॒र्यङ्ङ् इ॑व॒ वा अ॒यल्ँ लो॒कः ।
अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् ।

विश्वास-प्रस्तुतिः

अथा॑हव॒नीय॑म् +++(आद॑धात् )+++।
तेन॑+ए॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्य॑जयत् ॥32॥

मूलम्

अथा॑हव॒नीय॑म् +++(आद॑धात् )+++।
तेन॑+ए॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्य॑जयत् ॥32॥

विश्वास-प्रस्तुतिः

यस्यै॒वम् अ॒ग्निर् आ॑धी॒यते॑, प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
प्रत्य् अ॒स्मिल्ँ लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑यति ।

मूलम्

यस्यै॒वम् अ॒ग्निर् आ॑धी॒यते॑, प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
प्रत्य् अ॒स्मिल्ँ लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑यति ।

भट्टभास्कर-टीका

यस्यैवमित्यादि । गतम् ॥

यथादेवतम् आधानम्

विश्वास-प्रस्तुतिः

यस्य॒ वा अय॑था-देवतम् अ॒ग्निर् आ॑धी॒यते॑, आ दे॒वता॑भ्यो वृश्च्यते । पापी॑यान् भवति ।

मूलम्

यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो वृश्च्यते ।

विश्वास-प्रस्तुतिः

यस्य॑ यथा-देव॒तम् +++(अ॒ग्निर् आ॑धी॒यते॑)+++, न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान् भवति ॥33॥

मूलम्

यस्य॑ यथादेव॒तम् । न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।

भट्टभास्कर-टीका

8यस्य वा इत्यादि ॥ या यस्य देवता तद्यथादेवतं आत्मीयया देवतया आधानात् ।

विश्वास-प्रस्तुतिः

“भृगू॑णा॒न् त्वा ऽङ्गि॑रसाव्ँ व्रतपते व्र॒तेनाद॑धामि " +इति॑ भृग्व्-अङ्गि॒रसा॒म् आद॑ध्यात् । +++(एवं सर्वत्र ।)+++

मूलम्

“भृगू॑णा॒न् त्वा ऽङ्गि॑रसाव्ँ व्रतपते व्र॒तेनाद॑धामी"ति॑ भृग्व्-अङ्गि॒रसा॒म् आद॑ध्यात् ।

भट्टभास्कर-टीका

तद्दर्शयति - भृगूणां त्वेत्यादि । हे व्रतपते! त्वां भृगूणामङ्गिरसां च व्रतेन कर्मणा ते येन व्रतविशेषेण आदधत तेन अहं आदधामि इति । एवं सर्वत्र । भृगोरपत्यानि अङ्गिरसोऽपत्यानीति बहुषूत्पन्नस्याणः ‘अत्रिभृगुकुत्स’ इत्यादिना लुक् ॥

विश्वास-प्रस्तुतिः

“आ॒दि॒त्याना॑न् त्वा दे॒वानाव्ँ॑ व्रतपते व्र॒तेनाद॑धामि " +इत्य् अ॒न्यासा॒म् ब्राह्म॑णीनाम् प्र॒जाना॑म् ।

मूलम्

“आ॒दि॒त्याना॑न् त्वा दे॒वानाव्ँ॑ व्रतपते व्र॒तेनाद॑धामी"त्य् अ॒न्यासा॒म् ब्राह्म॑णीनाम् प्र॒जाना॑म् ।

भट्टभास्कर-टीका

9अन्यासामिति ॥ भृग्वङ्गिरोव्यतिरिक्तानां ब्राह्मणीनामिति । शार्ङ्गरवादित्वात् ङीष् ।

विश्वास-प्रस्तुतिः

“वरु॑णस्य त्वा॒ राज्ञो॑ व्रतपते व्र॒तेनाद॑धामि " +इति॒ राज्ञः॑ +++(अभिषिक्तस्य)+++ ।

मूलम्

“वरु॑णस्य त्वा॒ राज्ञो॑ व्रतपते व्र॒तेनाद॑धामी"ति॒ राज्ञः॑ ।

भट्टभास्कर-टीका

राज्ञः अभिषिक्तस्य ।

विश्वास-प्रस्तुतिः

“इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धामि " +इति॑ राज॒न्य॑स्य ।

मूलम्

“इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेना दधामी"ति॑ राज॒न्य॑स्य ।

भट्टभास्कर-टीका

राजन्यः क्षत्रियजातीयः ‘राजश्वशुराद्यत्’ । “राज्ञोऽपत्ये जातिग्रहणम्”।

विश्वास-प्रस्तुतिः

“मनो॑स् त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाद॑धामि " +इति॒ वैश्य॑स्य । +++(ग्रामणी खलु मनुः!)+++

मूलम्

“मनो॑स् त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेना दधामी"ति॒ वैश्य॑स्य ।

भट्टभास्कर-टीका

ग्रामण्य इति । “उदात्तयणः” इति प्राप्तस्य “नोङ्धात्वोः” इति प्रतिषेधे “उदात्तस्वरितयोर्यणः” इति स्वरितत्वम् ।

विश्वास-प्रस्तुतिः

“ऋ॒भू॒णान् त्वा॑ दे॒वानाव्ँ॑ व्रतपते व्र॒तेनाद॑धामि " +इति॑ रथका॒रस्य॑ ।

मूलम्

“ऋ॒भू॒णान् त्वा॑ दे॒वानाव्ँ॑ व्रतपते व्र॒तेना दधामी"ति॑ रथका॒रस्य॑ ।

भट्टभास्कर-टीका

ऋभवो देवविशेषाः । रथकारस्य सौधन्वनस्य । जात्यन्तरस्येत्येके । रथादिकर्ता त्रैवर्णिक एवेत्यन्ये । यथोक्तं ‘ये त्रयाणां वर्णानामेतत्कर्म कुर्युः’ इति ।

विश्वास-प्रस्तुतिः

+++(अनेन)+++ य॒था॒-दे॒व॒तम् अ॒ग्निर् आधी॑यते ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान् भवति ॥34॥

मूलम्

य॒था॒-दे॒व॒तम् अ॒ग्निर् आधी॑यते ।
न दे॒वता॑भ्य॒ आवृ॑श्च्यते ।
वसी॑यान् भवति ॥34॥

भट्टभास्कर-टीका

एवं यथादेवतमग्निराहितो भवति देवताभ्यो नावृश्च्यते वसीयीन् वसुमत्तरश्च भवति ॥

प्रथमे चतुर्थोऽनुवाकः ॥