उद्धननम्, अवोक्षणम्
विश्वास-प्रस्तुतिः
उद्-ध॑न्ति ।
मूलम्
उद्-ध॑न्ति ।
विश्वास-प्रस्तुतिः
यद् ए॒वास्या॑ अमे॒ध्यन् तद् अप॑हन्ति ।
अ॒पो ऽवो॑क्षति॒ शान्त्यै॑ ।
मूलम्
यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति ।
भट्टभास्कर-टीका
1उद्धन्तीत्यादि ॥ गतम् । अमेध्यमिति । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । वैश्वानरस्य रूपमिति तद्धेतुत्वात् ।
सिकताः
विश्वास-प्रस्तुतिः
सिक॑ता॒ निव॑पति ।
ए॒तद् वा अ॒ग्नेर् वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रम् अव॑रुन्धे ।
मूलम्
सिक॑ता॒ निव॑पति ।
ए॒तद् वा अ॒ग्नेर् वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रम् अव॑रुन्धे ।
ऊषाः
विश्वास-प्रस्तुतिः
ऊषा॒न्+++(=क्षारमृत्तिका)+++ निव॑पति ।
मूलम्
ऊषा॒न् निव॑पति ।
विश्वास-प्रस्तुतिः
पुष्टि॒र् वा ए॒षा प्र॒जन॑नय्ँ यद् ऊषाः॑ ॥14॥
मूलम्
पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् । यदूषाः॑ ॥14॥
भट्टभास्कर-टीका
पुष्टिर्वा इति । पुष्टिहेतवः प्रजननहेतवश्चोक्ताः ।
विश्वास-प्रस्तुतिः
पुष्ट्या॑म् ए॒व प्र॒जन॑ने॒ ऽग्निम् आध॑त्ते ।
मूलम्
पुष्ट्या॑म् ए॒व प्र॒जन॑ने॒ ऽग्निम् आध॑त्ते ।
भट्टभास्कर-टीका
पुष्टिप्रजननहेतौ तत्सिद्विं कुर्वन्नेवाग्निराहितो भवति ।
विश्वास-प्रस्तुतिः
अथो॑ सं॒ज्ञान॑ ए॒व ।
मूलम्
अथो॑ सं॒ज्ञान॑ ए॒व ।
विश्वास-प्रस्तुतिः
सं॒ज्ञानँ॒ ह्य् ए॑तत् प॑शू॒नाय्ँ यद् ऊषाः॑ ।
मूलम्
सं॒ज्ञानँ॒ ह्ये॑तत्प॑शू॒नाम् । यदूषाः॑ ।
भट्टभास्कर-टीका
अथो अपि च सम्यक् जायन्ते परस्परमैकमत्यं गच्छन्ति पशवो येन तत् संज्ञानं प्रदेशः, तस्मिन्नग्निराहितो भवति ॥
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वी स॒हास्ता॑म् ।
मूलम्
द्यावा॑पृथि॒वी स॒हास्ता॑म् ।
भट्टभास्कर-टीका
2द्यावापृथिवी इत्यादि ॥ सहास्तां अविश्लिष्टे अभूताम् ।
मूलम्
ते वि॑य॒ती+++(=विश्लेषं गच्छन्त्यौ)+++ अ॑ब्रूताम् “अस्त्व् ए॒व नौ॑ स॒ह +++(रूपं)+++ य॒ज्ञिय॒म्” इति॑ ।
विश्वास-प्रस्तुतिः
ते वि॑य॒ती अ॑ब्रूता॒म् - “अस्त्व् ए॒व नौ॑ स॒ह य॒ज्ञिय॒मि"ति॑ ।
मूलम्
ते वि॑य॒ती अ॑ब्रूता॒म् - “अस्त्व् ए॒व नौ॑ स॒ह य॒ज्ञिय॒मि"ति॑ ।
भट्टभास्कर-टीका
ते वियती विश्लेषं गच्छन्त्यौ अब्रूताम् । विपूर्वादेतेः शतरि ‘उगितश्च’ इति ञीप्,, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, ‘शतुरनुमः’ इति नद्या उदात्तत्वम् । नौ आवयोस्सम्बन्धि यत् यज्ञियं यज्ञार्हं रूपं तत् सह एवास्तु विश्लिष्टयोरप्यावयोः ।
विश्वास-प्रस्तुतिः
यद् अ॒मुष्या॑ य॒ज्ञिय॒म् आसी॑त् तद् अ॒स्याम् अ॑दधात् ।
त ऊषा॑ अभवन्न् ॥15॥
मूलम्
यद॒मुष्या॑ य॒ज्ञिय॒मासी॑त् । तद॒स्याम॑दधात् ।
विश्वास-प्रस्तुतिः
यद॒स्या य॒ज्ञिय॒मासी॑त् तद् अ॒मुष्या॑म् अदधात् ।
मूलम्
यद॒स्या य॒ज्ञिय॒मासी॑त् । तद॒मुष्या॑मदधात् ।
विश्वास-प्रस्तुतिः
तद् अ॒दश् च॒न्द्रम॑सि कृ॒ष्णम् ऊषा॑न् नि॒वप॑न्न् अ॒दो ध्या॑येत् ।
द्यावा॑पृथि॒व्योर् ए॒व य॒ज्ञिये॒ ऽग्निम् आध॑त्ते ।
मूलम्
तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊषा॑न्नि॒वप॑न्न॒दो ध्या॑येत् ।
भट्टभास्कर-टीका
गतमन्यत् ॥
आखु-करीषम्
विश्वास-प्रस्तुतिः
अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत , +आ॒खू रू॒पङ् कृ॒त्वा ।
मूलम्
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । आ॒खू रू॒पङ्कृ॒त्वा ।
भट्टभास्कर-टीका
3अग्निर्देवेभ्य इत्यादि ॥ निलायत निरगच्छन् । ‘उपसर्गस्यायतौ’ इति लत्वम् । आखुर्भूत्वा निलायत ।
विश्वास-प्रस्तुतिः
स पृ॑थि॒वीम् प्रावि॑शत् ।
स ऊ॒तीᳵ+++(→मार्गान्)+++ कु॑र्वा॒णᳶ पृ॑थि॒वीम् अनु॒ सम॑चरत् ।
मूलम्
स पृ॑थि॒वीम् प्रावि॑शत् ।
स ऊ॒तीᳵ कु॑र्वा॒णᳶ पृ॑थि॒वीम् अनु॒ सम॑चरत् ।
भट्टभास्कर-टीका
रूपं च तदीयं कृत्वा ऊतीः मार्गान् कुर्वाणः पृथिवीमनु क्रमेण सर्वत्रान्तः समचरत् । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । अवतेर्गतिकर्मणः करणे क्तिनि ज्वरत्वरादिना ऊठि ‘ऊतियूति’ इति क्तिन उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
तदा॑खु-करी॒षम्+++(=उत्करो)+++ अ॑भवत् ॥16॥
मूलम्
तद् आ॑खु-करी॒षम् अ॑भवत् ॥16॥
भट्टभास्कर-टीका
तन्मार्गनिर्माणार्थमिदं पुरीषं आखुकरीषं आखूत्करः अभवत्, तत्तासु स्वदन्तदष्टासु ऊतिषु आखूत्कर उत्पन्नोऽभवत् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् ।
विश्वास-प्रस्तुतिः
यद् आ॑खु-करी॒षँ स॑म्भा॒रो भव॑ति, यद् ए॒वास्य॒ तत्र॒ न्य॑क्तन्, तद् ए॒वाव॑रुन्धे ।
मूलम्
यदा॑खुकरी॒षँ स॑म्भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
यदित्यादि । सम्भ्रियते सह निधीयत इति सम्भारः ।
न्यक्तमिति । अस्य अग्नेः यत् तेज ऊतीकरणेन न्यक्तं न्यक् पतितं तत् सर्वं अवरुन्धे । अकर्मणि निष्ठायामपि ‘गतिरनन्तरः’ इति व्यत्ययेन गतेः प्रकृतिस्वरत्वम् ॥
वल्मीकम्
विश्वास-प्रस्तुतिः
ऊर्जव्ँ॒ वा ए॒तँ रस॑म् पृथि॒व्या उ॑प॒दीका॒+++(=termites)+++ उद्-दि॑हन्ति+++(=ऊर्ध्वम् उपचिन्वन्ति)+++ यद् व॒ल्मीक॑म् ।
मूलम्
ऊर्जव्ँ॒वा ए॒तँ रस॑म्पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । यद्व॒ल्मीक॑म् ।
भट्टभास्कर-टीका
4ऊर्जमित्यादि ॥ पृथिव्यास्सम्बन्धिनीं ऊर्जं अन्नं रसं सारं च उपदीकाः वल्मीकाः उद्दिहन्ति ऊर्ध्वमुपचिन्वन्ति । यद्वा …तीत्येव ।
विश्वास-प्रस्तुतिः
यद् व॑ल्मीक-व॒पा स॑म्भा॒रो भव॑ति, ऊर्ज॑म् ए॒व रस॑म् पृथि॒व्या अव॑रुन्धे ।
मूलम्
यद् व॑ल्मीक-व॒पा स॑म्भा॒रो भव॑त्य् ऊर्ज॑म् ए॒व रस॑म् पृथि॒व्या अव॑रुन्धे ।
भट्टभास्कर-टीका
यदित्यादि । वल्मीकवपा वल्मीकमृत् ।
पृथिव्या ऊर्जं रसं च अवरुन्धे ।
विश्वास-प्रस्तुतिः
अथो॒ श्रोत्र॑म् ए॒व +++(अव॑रुन्धे)+++ ।
मूलम्
अथो॒ श्रोत्र॑म् ए॒व +++(अव॑रुन्धे)+++ ।
भट्टभास्कर-टीका
अथो अपि च श्रोत्रमेव अवरुन्ध इत्येवशब्दग्रहणसामर्थ्यातिशयम् ।
विश्वास-प्रस्तुतिः
श्रोत्रँ॒ ह्य् ए॑तत् पृ॑थि॒व्याः , यद् व॒ल्मीकः॑ ॥ 17 ॥
मूलम्
श्रोत्रँ॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ ॥ 17 ॥
भट्टभास्कर-टीका
हेतुमाह - श्रोत्रं हीति । श्रोत्रं ह्येतत्पृथिव्याः वल्मीको नाम ।
विश्वास-प्रस्तुतिः
अब॑धिरो भवति य ए॒वव्ँ वेद॑ ।
मूलम्
अब॑धिरो भवति । य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
एवं वेदिताऽपि अबधिरो भवति ॥
कर्दमम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तासा॒म् अन्न॒म् उपा॑क्षीयत ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तासा॒म् अन्न॒म् उपा॑क्षीयत ।
भट्टभास्कर-टीका
5प्रजापतिरित्यादि ॥ उपाक्षीयत उपक्षीयमाणमभवत् । अनुत्पत्तिरुपक्षयः । ताभ्यस्तदर्थं सूदं सूदयित्वा पृथिवीम्, षूद क्षरणे, आर्द्रां कृत्वा । सूदयतेर्णमुलि प्रत्ययात्पूर्वस्योदात्तत्वम् ।
विश्वास-प्रस्तुतिः
ताभ्य॒स् सूद॒म्+++(=कर्दमम्)+++ उप॒-प्राभि॑नत् ।
मूलम्
ताभ्य॒स् सूद॒म् उप॒-प्राभि॑नत् ।
भट्टभास्कर-टीका
उपप्राभिनत् तत्रतत्र प्रदेशे प्रभेदनं कृतवान् पृथिव्याः ।
विश्वास-प्रस्तुतिः
ततो॒ वै तासा॒म् अन्न॒न् नाक्षी॑यत ।
मूलम्
ततो॒ वै तासा॒म् अन्न॒न् नाक्षी॑यत ।
भट्टभास्कर-टीका
ततः सकर्दमायां पृथिव्यां सस्योत्पत्त्या अन्नं नाक्षीयत ।
[यद्वा] सूदोऽशोष्यजलभूमिस्थितः कर्दम: । तत्सर्वत्र पृथिव्यामुपप्राभिनत् उपप्रावर्तयत् भेदनेन उपसम्प्राप्तमकरोत् ।
विश्वास-प्रस्तुतिः
यस्य॒ सूद॑स् सम्भा॒रो भव॑ति, नास्य॑ गृ॒हे ऽन्न॑ङ् क्षीयते ।
मूलम्
यस्य॒ सूद॑स्सम्भा॒रो भव॑ति । नास्य॑ गृ॒हेऽन्न॑ङ्क्षीयते ।
भट्टभास्कर-टीका
यस्येत्यादि गतम् ॥
वराह-हत-मृत्, शर्कराः
विश्वास-प्रस्तुतिः
आपो॒ वा इ॒दम् अग्रे॑ सलि॒लम् आ॑सीत् ।
मूलम्
आपो॒ वा इ॒दम् अग्रे॑ सलि॒लम् आ॑सीत् ।
भट्टभास्कर-टीका
6आपो वा इदमित्यादि ॥ अपां विकारभूतं इदं सर्वं भूतजातं अग्रे प्रथमं सलिलमेव आसीत् ।
विश्वास-प्रस्तुतिः
तेन॑ प्र॒जाप॑तिर् +++(तपसा)+++ अश्राम्यत् - “क॒थम् इ॒दँ स्या॒द्” इति॑ ।
मूलम्
तेन॑ प्र॒जाप॑तिरश्राम्यत् ॥18॥
क॒थमि॒दँ स्या॒दिति॑ ।
भट्टभास्कर-टीका
तेन भृतजातेन सिसृक्षितेन हेतुना प्रजापतिरश्राम्यत् तपोऽतप्यत ।
कथं मन्यमान इत्याह - कथमिदं भूतजातं स्यादिति कथमेतद्वर्तते एवमुपपद्येतेति ।
विश्वास-प्रस्तुतिः
सो॑ऽपश्यत् पुष्कर-प॒र्णन्+++(=पद्मपत्रं)+++ तिष्ठ॑त् ।
मूलम्
सो॑ ऽपश्यत् पुष्कर-प॒र्णन् तिष्ठ॑त् ।
भट्टभास्कर-टीका
अथ तस्मिन् सलिले तिष्ठत् ऊर्ध्वमूलमवस्थितं पुष्करपर्णं पद्मपत्रं अपश्यत् तपःप्रभावात्तादृशं किंचिदहो सम्पन्नमासीत् । किं पुनस्तत्? इदमेव पुष्करपर्णम् ।
विश्वास-प्रस्तुतिः
सो॑ऽमन्यत + “अस्ति॒ वै तद् +++(मृण्मयं)+++, यस्मि॑न्न् इ॒दम् अधि॒ तिष्ठ॒ती"ति॑ ।
स व॑रा॒हो रू॒पङ् कृ॒त्वोप॒ न्य॑मज्जत् ।
मूलम्
सो॑ऽमन्यत । अस्ति॒ वै तत् । यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑ । स व॑रा॒हो रू॒पङ् कृ॒त्वोप॒ न्य् अ॑मज्जत् ।
भट्टभास्कर-टीका
कीदृशमित्याह - इदं भूतजातं स्थावरजङ्गमात्मकं कथमिदं स्यादिति पूर्वं चिन्तितं यस्मिन्नधितिष्ठति यस्मिन् स्थाने अधिष्ठाय वर्तते तदिदमस्तीति मत्वा अप्सु निलीय अविभागापन्नां पृथिवीमन्वप्सु प्राप्तुकामो वराहो भूत्वा रूपं च तदीयं कृत्वा तस्मिन् सलिले उपन्यमज्जत् पुष्करपर्णसमीपे निमग्नोऽभूत् ।
विश्वास-प्रस्तुतिः
स पृ॑थि॒वीम् अ॒ध आ॑र्च्छत् ।
मूलम्
स पृ॑थि॒वीम् अ॒ध आ॑र्च्छत् ।
भट्टभास्कर-टीका
सः अधस्तात् पृथिवीं तपःप्रभावेन मृदं परिणतां आर्छत् प्राप्नोत् यत्र पुष्करपर्णमुदतिष्ठत् ।
विश्वास-प्रस्तुतिः
तस्या॑ उप॒हत्योद॑मज्जत् ।
मूलम्
तस्या॑ उप॒हत्योद॑मज्जत् ।
भट्टभास्कर-टीका
अथ तस्या मृद एकदेशं उपहत्य हस्ताभ्यां दंष्ट्रया च आदाय उदमज्जत् उत्तिष्ठतिस्म सलिलात् ।
विश्वास-प्रस्तुतिः
तत् पु॑ष्कर-प॒र्णे॑ ऽप्रथयत् ।
मूलम्
तत् पु॑ष्कर-प॒र्णे॑ ऽप्रथयत् ।
मूलम्
यदप्र॑थयत् ॥19॥
तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।
विश्वास-प्रस्तुतिः
यद् अप्र॑थयत् तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वम्।
अभू॒द्वा इ॒दमिति॑ । तद् भूम्यै॑ भूमि॒त्वम् ।
मूलम्
यद् अप्र॑थय॒त् तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।
अभू॒द् वा इ॒दम् इति॑ ।
तद् भूम्यै॑ भूमि॒त्वम् ।
भट्टभास्कर-टीका
कश्चिदाह - पुष्करपर्णं दृष्ट्वा प्रजापतिरमन्यत अतर्कयत् यस्मिन्निदं पुष्करपर्णमधितिष्ठति अस्ति वै तत्स्थलमिति सञ्जातानुमानप्रत्ययो वराहरूपी निमज्ज्याधस्तात्तन्मूले पृथिवीं मृदं लब्ध्वा उन्मज्ज्य तस्मिन्नेव पुष्करपर्णे तां मृदमप्रथयत् विस्तारितवान् । सा पृथिवीत्वेन परिणता । प्रथनात्पृथिवी ।
विश्वास-प्रस्तुतिः
तान् दिशोऽनु॒ वात॒स् सम॑वहत् ।
मूलम्
तान् दिशो ऽनु॒ वात॒स् सम॑वहत् ।
भट्टभास्कर-टीका
तां दिशो लक्षीकृत्य वातस्समवहत् सम्प्रैरयत् ।
विश्वास-प्रस्तुतिः
ताँ शर्क॑राभिर् अदृँहत्+++(=दृढ्य् अकरोत्)+++ - “शव्ँ वै नो॑ऽभू॒द्” इति॑ ।
मूलम्
ताँ शर्क॑राभिरदृँहत् । शव्ँ वै नो॑ऽभू॒दिति॑ ।
भट्टभास्कर-टीका
अथ तां अस्थिरां वातेन दिशोऽनुसमुह्यमानां शर्कराभिरदृंहत् दृढां निश्चलामकरोत् प्रजापतिः यथा वातेन संवोढुं न शक्यते तादृशदार्ढ्यवतीं शर्कराभिरकरोत् । शं वा इति । शं सुखं दार्ढ्यप्रभवं नः अस्माकं अभूदिति ।
विश्वास-प्रस्तुतिः
तच् छर्क॑राणाँ शर्कर॒त्वम् ।
मूलम्
तच्-छर्क॑राणाँ शर्कर॒त्वम् ।
भट्टभास्कर-टीका
शर्करत्वं शर्कराणां शं कुर्वन्तीति शर्कराः । ‘शमिधातोस्संज्ञायाम्’ इत्यच्, पृषोदरादिः, ‘त्वे च’ इति ह्रस्वत्वम् ॥
विश्वास-प्रस्तुतिः
यद् व॑रा॒ह-वि॑हतँ सम्भा॒रो भव॑ति, अ॒स्याम् ए॒वाछ॑म् बट्कारम् अ॒ग्निम् आध॑त्ते ।
मूलम्
यद्व॑रा॒हवि॑हतँ सम्भा॒रो भव॑ति । अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते ।
भट्टभास्कर-टीका
7यदित्यादि ॥ वराहविहतं वराहविकीर्णम् ।
अछम्बट्कारं अविनाशं पृथिव्यां आधत्ते । यद्वा - वडिति सत्यनाम, तस्य छादनं यथा न भवति तथा सत्यप्रतिपाद्यमेवाग्निमाधत्ते ।
विश्वास-प्रस्तुतिः
शर्क॑रा भवन्ति॒ धृत्यै॑ ॥20॥
मूलम्
शर्क॑रा भवन्ति॒ धृत्यै॑ ॥20॥
भट्टभास्कर-टीका
शर्करा भवन्ति सम्भार इत्येव । धृत्यै अविचालितावस्थानाय भवति शर्करासम्भारः ।
विश्वास-प्रस्तुतिः
अथो॑ श॒न्त्वाय॑ +++(भवति)+++।
मूलम्
अथो॑ श॒न्त्वाय॑ +++(भवति)+++।
भट्टभास्कर-टीका
अथो अपिच शन्त्वाय च भवति, शं सुखं अविचलितावस्थानहेतुकं तद्वान् भूतग्रामः शं, मत्वर्थीयो लुप्यते । अभेदोपचारो वा शुक्लादिवत् ॥
हिरण्यम्
विश्वास-प्रस्तुतिः
“सरे॑ता अ॒ग्निर् आ॒धेय॒” इत्य् आ॑हुः ।
मूलम्
“सरे॑ता अ॒ग्निर् आ॒धेय॒” इत्या॑हुः ।
भट्टभास्कर-टीका
8सरेता इति ॥ प्रजननसामर्थ्याय कथं सरेता आहितो भवतीत्याह ।
विश्वास-प्रस्तुतिः
आपो॒ वरु॑णस्य॒ पत्न॑य आसन् ।
मूलम्
आपो॒ वरु॑णस्य॒ पत्न॑य आसन् ।
भट्टभास्कर-टीका
आप इत्यादि । पत्नय इति छान्दसं ह्रस्वत्वम् ।
विश्वास-प्रस्तुतिः
ता अ॒ग्निर् अ॒भ्य॑ध्यायत् ।
मूलम्
ता अ॒ग्निर् अ॒भ्य॑ध्यायत् ।
भट्टभास्कर-टीका
अभिध्यानं कामना ।
विश्वास-प्रस्तुतिः
तास् सम॑भवत् ।
तस्य॒ रेत॒ᳶ परा॑ ऽपतत् ।
तद् +धिर॑ण्यम् अभवत् ।
मूलम्
तास् सम॑भवत् ।
तस्य॒ रेत॒ᳶ परा॑ ऽपतत् ।
तद् +धिर॑ण्यम् अभवत् ।
भट्टभास्कर-टीका
सम्भवो मैथुनम् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
यद् +धिर॑ण्यम् उ॒पास्य॑ति, सरे॑तसम् ए॒वाग्निम् आध॑त्ते ।
मूलम्
यद्धिर॑ण्यमु॒पास्य॑ति । सरे॑तसमे॒वाग्निमाध॑त्ते ।
भट्टभास्कर-टीका
उपास्यति उपक्षिपति ।
विश्वास-प्रस्तुतिः
पुरु॑ष॒ इन् न्वै+++(=नु+वै)+++ स्वाद् रेत॑सो बीभत्सत॒ इत्य् आ॑हुः +++(- एवम् अग्निर् अपि!)+++॥
मूलम्
“पुरु॑ष॒ इन्न् +++(नु - अत्र नु इति स्यात् भाति। इत् + नु = इन्नु वै)+++वै स्वाद् रेत॑सो बीभत्सते॒"त्य् आ॑हुः ॥21 ॥
भट्टभास्कर-टीका
पुरुष इत्यादि । इदित्यवधारणे । नु इति वितर्के । वै इति प्रसिद्धौ । ‘तनुपूर्वः’ इति वकारो लुप्यते । पुरुषो नूनं स्वात् आत्मीयात् रेतसो बीभत्सते जुगुप्सते । लोके खल्वेवं भवति, तस्मादग्निरपि स्वाद्रेतसो हिरण्यादुपास्तात् बीभत्सते नूनं इत्याहुः पुराविदः ।
विश्वास-प्रस्तुतिः
उ॒त्त॒र॒त उपा॑स्य॒त्य् , अबी॑भत्सायै ।
मूलम्
उ॒त्त॒र॒त उपा॑स्य॒त्य् , अबी॑भत्सायै ।
भट्टभास्कर-टीका
इदानीं तत्समाधानार्थमाह - उत्तरत इति । अग्निस्थानं हित्वा तदुत्तरतस्समीपे क्षिपति प्रज्ञातं वा उत्तरत इत्युक्तम् । एवं हि क्रियमाणं अबीभत्सायै भवति ।
रजत-प्रदानम्
विश्वास-प्रस्तुतिः
अति॒-प्रय॑च्छति +++(रजतम् एवेत्य् एके)+++।
मूलम्
अति॒-प्रय॑च्छति ।
भट्टभास्कर-टीका
अतिप्रयच्छतीति हिरण्यमतीत्य अन्यत्किंचिद्ददाति । रजतमेवेत्येके ।
विश्वास-प्रस्तुतिः
आर्ति॑म् ए॒वाति॒-प्रय॑च्छति ।
+++(अतोऽवगम्यते कस्मैचिद्वाऽनिष्टाय दातव्यमिति। यथोक्तं - ’ द्वेष्याय रजतं प्रयच्छति’।)+++
मूलम्
आर्ति॑म् ए॒वाति॒-प्रय॑च्छति ।
भट्टभास्कर-टीका
आर्तिमात्मीयामात्मानमतीत्य अन्यस्मै प्रयछति । अतोऽवगम्यते वृषलाय दातव्यमिति .। यस्मै कस्मैचिद्वाऽनिष्टाय । यथोक्तं - ’ द्वेष्याय रजतं प्रयच्छति” इत्यादि ॥
आश्वत्थम्
विश्वास-प्रस्तुतिः
अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत, अश्वो॑ रू॒पङ् कृ॒त्वा ।
सो॑ ऽश्व॒त्थे सव्ँ॑वत्स॒रम् अ॑तिष्ठत् ।
मूलम्
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पङ्कृ॒त्वा । सो॑ ऽश्व॒त्थे सव्ँ॑वत्स॒रम् अ॑तिष्ठत् ।
भट्टभास्कर-टीका
9अग्निर्देवेभ्य इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
तद् अ॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
मूलम्
तद् अ॑श्व॒त्थस्या॑श्वत्थ॒त्वम् ।
भट्टभास्कर-टीका
अश्वत्थत्वमिति । अश्वस्स्थितोऽस्मिन्निति ‘सुपि स्थः’ इति खः, पृषोदरादिः ।
विश्वास-प्रस्तुतिः
यद् आश्व॑त्थस् सम्भा॒रो भव॑ति,
यद् ए॒वास्य॒ +++(अग्नेस्)+++ तत्र॒ न्य॑क्तम्, तद् ए॒वाव॑रुन्धे ॥22॥
मूलम्
यदाश्व॑त्थस्सम्भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ॥22॥
भट्टभास्कर-टीका
आश्वत्थः अश्वत्थावयवः । ‘अनुदात्तादेश्च’ इत्यञ् ॥
औदुम्बरम्
विश्वास-प्रस्तुतिः
दे॒वा वा ऊर्जव्ँ॒ व्य॑भजन्त ।
तत॑ उदु॒म्बर॒ उद॑तिष्ठत् ।
ऊर्ग् वा उ॑दु॒म्बरः॑ ।
मूलम्
दे॒वा वा ऊर्जव्ँ॒ व्य॑भजन्त ।
तत॑ उदु॒म्बर॒ उद॑तिष्ठत् ।
ऊर्ग् वा उ॑दु॒म्बरः॑ ।
विश्वास-प्रस्तुतिः
यद् औदु॑म्बरस् सम्भा॒रो भव॑ति,
ऊर्ज॑म् ए॒वाव॑रुन्धे ।
मूलम्
यदौदु॑म्बरस्सम्भा॒रो भव॑ति । ऊर्ज॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
10देवा वा ऊर्जमित्यादि ॥ ततः अन्नस्थानात् औदुम्बरः उदुम्बरावयवः । स एवाञ् ॥
पालाशम्
विश्वास-प्रस्तुतिः
तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॑ आसीत् ।
तङ् गा॑य॒त्र्य् आह॑रत् ।
तस्य॑ प॒र्णम् अ॑च्छिद्यत ।
तत् प॒र्णो॑+++(=पलाशः)+++ ऽभवत् ।
मूलम्
तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॑ आसीत् ।
तङ् गा॑य॒त्र्य् आह॑रत् ।
तस्य॑ प॒र्णम् अ॑च्छिद्यत ।
तत् प॒र्णो॑ ऽभवत् ।
भट्टभास्कर-टीका
11तृतीयस्यामिति ॥ तिस्रोपि पृथिव्यादयो दिवः पर्णं पक्षः पर्णः पलाशः ।
विश्वास-प्रस्तुतिः
तत् प॒र्णस्य॑ पर्ण॒त्वम् ॥23॥
मूलम्
तत् प॒र्णस्य॑ पर्ण॒त्वम् ॥23॥
भट्टभास्कर-टीका
पर्णत्वमिति - पर्णपरिणामत्वात् ।
विश्वास-प्रस्तुतिः
यस्य॑ पर्ण॒मय॑स् सम्भा॒रो भव॑ति, सो॒म॒पी॒थम्+++(=सोमपानम्)+++ ए॒वाव॑रुन्धे ।
मूलम्
यस्य॑ पर्ण॒मय॑स्सम्भा॒रो भव॑ति । सो॒म॒पी॒थमे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
पर्णमय इति ॥ पूर्ववत् अवयवे “द्व्यचश्छन्दसि” इति मयट् ।
सोमपीथः सोमपानम् । औणादिकस्थक्प्रत्ययः ॥
विश्वास-प्रस्तुतिः
दे॒वा वै ब्रह्म॑न्न्+++(णि)+++ अवदन्त ।
तत् प॒र्ण उपा॑शृणोथ् - सु॒श्रवा॒ वै नाम॑ ।
यत् प॑र्ण॒मय॑स् सम्भा॒रो भव॑ति, ब्रह्मवर्च॒सम् ए॒वाव॑रुन्धे ।
मूलम्
तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मय॑स्सम्भा॒रो भव॑ति । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
12देवा वै ब्रह्मन्नित्यादि ॥ ब्रह्मणि वेदे देवा अवदन्त भासमाना अर्थविशेषान्वदन्तो वेदार्थं सहासित्वा अध्यवस्यन् ।
शमीमयम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
सो॑ऽबिभे॒त् प्र मा॑ धक्ष्य॒तीति॑ ।
मूलम्
प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
सो॑ ऽबिभे॒त् प्र मा॑ धक्ष्य॒तीति॑ ।
भट्टभास्कर-टीका
प्रजापतिरग्निमित्यादि । स प्रजापतिः अबिभेत् अग्निर्मां प्रधक्ष्यतीति ।
विश्वास-प्रस्तुतिः
तँ श॒म्या॑ ऽशमयत् ॥24॥
मूलम्
तँ श॒म्या॑ ऽशमयत् ॥24॥
भट्टभास्कर-टीका
शम्या तां दाह्यत्वेन दत्त्वा अग्निं अशमयत् ।
विश्वास-प्रस्तुतिः
तच् छ॒म्यै॑ शमि॒त्वम् ।
मूलम्
तच् छ॒म्यै॑ शमि॒त्वम् ।
विश्वास-प्रस्तुतिः
यच् छ॑मी॒मय॑स् सम्भा॒रो भव॑ति शान्त्या॒+++(य्)+++ अप्र॑दाहाय ।
मूलम्
यच्छ॑मी॒मय॑स्सम्भा॒रो भव॑ति । शान्त्या॒ अप्र॑दाहाय ।
भट्टभास्कर-टीका
शमित्वमिति ॥ शाम्यत्यग्निरनयेति शमी । औणादिक इन्प्रत्ययः ‘कृदिकारादक्तिनः’ इति ङीष्, पूर्ववत् ह्रस्वत्वम् ॥
वैकङ्कतम्
विश्वास-प्रस्तुतिः
अ॒ग्नेस् सृ॒ष्टस्य॑ य॒तः विक॑ङ्कत॒म् +++(वृक्षविशेषं)+++ भा आ॑र्च्छत्+++(←वचनव्यत्ययः)+++,
यद् वैक॑ङ्कतस् सम्भा॒रो भव॑ति - भा ए॒वाव॑रुन्धे ।
मूलम्
अ॒ग्नेस्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒म्भा आ॑र्च्छत् । यद्वैक॑ङ्कतस्सम्भा॒रो भव॑ति । भा ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
13अग्नेरित्यादि ॥ प्रजापतिना सृष्टस्य यतः स्वकार्यं प्रतिवा गछतोऽग्नेः भाः तेजो विकङ्कतं वृक्षविशेषं आर्छत् प्रापत् । एतेश्शतरि ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् ।
वैकङ्कत इति । पूर्ववदञ् ।
भाः अवरुन्धे । भातेरसुनि भाः । क्विपि बहुवचनं स्यादिति चेत् तदा भा आर्छदिति कथम्? । वचनव्यत्यं सवर्णदीर्घत्वाभावं वक्ष्यामीति चेत्? बाढम् ॥
अशनि-हत-वृक्ष-सम्भारः
विश्वास-प्रस्तुतिः
“सहृ॑दयो॒ ऽग्निर् आ॒धेय॒” इत्य् आ॑हुः ।
म॒रुतो॒ ऽद्भिर् अ॒ग्निम् अ॑तमयन् ।
मूलम्
“सहृ॑दयो॒ ऽग्निर् आ॒धेय॒” इत्य् आ॑हुः ।
म॒रुतो॒ ऽद्भिर् अ॒ग्निम् अ॑तमयन् ।
भट्टभास्कर-टीका
“सहृदयः इति(हि?) ॥तत्कथं स्यादित्याह - मरुत इति । अतमयन् उत्सन्नज्वालमकुर्वन् ।
विश्वास-प्रस्तुतिः
तस्य॑ ता॒न्तस्य॒+++(5)+++ हृद॑य॒म् आच्छि॑न्दन् ।
सा ऽशनि॑र् अभवत् ।
मूलम्
तस्य॑ ता॒न्तस्य॒ हृद॑य॒म् आच्छि॑न्दन् ।
सा ऽशनि॑र् अभवत् ।
भट्टभास्कर-टीका
तस्य तान्तस्य शान्तज्वालस्य हृदयमाच्छिन्दन् पृथक्कृतवन्तः । साऽशनिरभवदिति। गतम् ।
विश्वास-प्रस्तुतिः
साऽशनि॑र् अभवत् ।
यद् अ॒शनि॑-हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति, सहृ॑दयम् ए॒वाग्निम् आध॑त्ते ॥25॥
मूलम्
यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति । सहृ॑दयमे॒वाग्निमाध॑त्ते ॥25॥
भट्टभास्कर-टीका
अशनिहतस्येति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
प्रथमे तृतीयोऽनुवाकः ॥